संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| करणाधिकारः पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - करणाधिकारः संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण करणाधिकारः Translation - भाषांतर क्रियायाः परिनिष्पत्तिर् यद्व्यापाराद् अनन्तरम् ।विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ॥९०॥वस्तुतस् तद् अनिर्देश्यं न हि वस्तु व्यवस्थितम् ।स्थाल्या पच्यत इत्य् एषा विवक्षा दृश्यते यतः ॥९१॥करणेषु तु संस्कारम् आरभन्ते पुनः पुनः ।विनियोगविशेषांश् च प्रधानस्य प्रसिद्धये ॥९२॥स्वकक्ष्यासु प्रकर्षश् च करणानां न विद्यते ।आश्रितातिशयत्वं तु परतस् तत्र लक्षणम् ॥९३॥स्वातन्त्र्ये ऽपि प्रयोक्तार आराद् एवोपकुर्वते ।करणेन हि सर्वेषां व्यापारो व्यवधीयते ॥९४॥क्रियासिद्धौ प्रकर्षो ऽयं न्यग्भावस् त्व् एव कर्तरि ।सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ॥९५॥अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः ।तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वेधात्मा व्यवतिष्ठते ॥९६॥आत्मभेदे ऽपि सत्य् एवम् एको ऽर्थः स तथा स्थितः ।तदाश्रयत्वाद् भेदे ऽपि कर्तृत्वं बाधकं ततः ॥९७॥यथा च संनिधानेन करणत्वं प्रतीयते ।तथैवासंनिधाने ऽपि क्रियासिद्धेः प्रतीयते ॥९८॥स्तोकस्य वाभिनिर्वृत्तेर् अनिर्वृत्तेश् च तस्य वा ।प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते ॥९९॥धर्माणां तद्वता भेदाद् अभेदाच् च विशिष्यते ।क्रियावधेर् अवच्छेद- विशेषाद् भिद्यते यथा ॥१००॥[इति करणाधिकारः] N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP