संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| क्रियासमुद्देशः पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - क्रियासमुद्देशः संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण क्रियासमुद्देशः Translation - भाषांतर यावत् सिद्धम् असिद्धं वा साध्यत्वेनाभिधीयते ।आश्रितक्रमरूपत्वात् तत् क्रियेति प्रतियते ॥१॥कार्यकारणभावेन ध्वनतीत्य् आश्रितक्रमः ।ध्वनिः क्रमनिवृत्तौ तु ध्वनिर् इत्य् एव कथ्यते ॥२॥श्वेते श्वेतत इत्य् एतच् छ्वेतत्वेन प्रकाशते ।आश्रितक्रमरूपत्वाद् अभिधानं प्रवर्तते ॥३॥गुणभूतैर् अवयवैः समूहः क्रमजन्मनाम् ।बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥४॥समूहः स तत्बाभूतः प्रतिभेदम् समूहिसु ।समाप्यते ततो भेदे कालभेदस्य संभवः ॥५॥क्रमात् सदसतां तेषाम् आत्मानो न समूहिनाम् ।सद्वस्तुविषयैर् यान्ति संबन्धं चक्षुरादिभिः ॥६॥यथा गौर् इति सम्घातः सर्वो नेन्द्रियगोचरः ।भागशस् तूपलब्धस्य बुद्धौ रूपं निरूप्यते ॥७॥इन्द्रियैर् अन्यथाप्राप्तौ भेदाम्शोपनिपातिभिः ।अलातचक्रवद् रूपं क्रियाणां परिकल्प्यते ॥८॥यथा च भागाः पचतेर् उदकासेचनादयः ।उदकासेचनादिनां ज्ञेया भागास् तथापरे ॥९॥यश् चापकर्षपर्यन्तम् अनुप्राप्तः प्रतीयते ।तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते ॥१०॥पूर्वोत्तरैस् तथा भागैः समवस्थापितक्रमः ।एकः सो ऽप्य् असदध्यासाद् आख्यातैर् अभिधीयते ॥११॥कालानुपाति यद् रूपं तद् अस्तीत्य् अनुगम्यते ।परितस् तु परिच्छिन्नं भाव इत्य् एव कथ्यते ॥१२॥व्यवहारस्य सिद्धत्वान् न चेयं गुणकल्पना ।उपचारो हि मुख्यस्य संभवाद् अवतिष्ठते ॥१३॥आहितोत्तरशक्तित्वात् प्रत्येकं वा समूहिनः ।अनेकरूपा लक्ष्यन्ते क्रमवन्त इवाक्रमाः ॥१४॥अनन्तरं फलं यस्याः कल्पते ताम् क्रियाम् विदुः ।प्रधानभूतां तादर्थ्याद् अन्यासां तु तदाख्यता ॥१५॥क्रियाप्रवृत्तौ यो हेतुस् तदर्थं यद् विचेष्टितम् ।अनपेक्ष्य प्रयुञ्जीत गच्छतीत्य् अवधारयन् ॥१६॥सत्सु प्रत्ययरूपो ऽसौ भावो यावन् न जायते ।तावत् परेषां रूपेण साध्यः सन्न् अभिधीयते ॥१७॥सिद्धे तु साधनाकाङ्क्षा कृतार्थत्वान् निवर्तते ।न क्रियावाचिनां तस्मात् प्रयोगस् तत्र विद्यते ॥१८॥स चापूर्वापरिभूत एकत्वाद् अक्रमात्मकः ।पूर्वापराणां धर्मेण तदर्थेनानुगम्यते ॥१९॥असन् निवर्तते तस्माद् यत् सत् तद् उपलभ्यते ।तयोः सदसतोश् चासाव् आत्मैक इव गृह्यते ॥२०॥जातिम् अन्ये क्रियाम् आहुर् अनेकव्यक्तिवर्तिनीम् ।असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते ॥२१॥अन्ते या वा क्रियाभागे जातिः सैव क्रिया स्मृता ।सा व्यक्तेर् अनुनिष्पादे जायमानेव गम्यते ॥२२॥स्वव्यापारविशिष्टानाम् सत्ता वा, कर्तृकर्मनाम् ।क्रिया व्यापारभेदेषु सत्ता वा समवायिनी ॥२३॥अन्त्ये वात्मनि या सत्ता सा क्रिया कैश् चिद् इष्यते ।भाव एव हि धात्वर्थ इत्य् अविच्छिन्न आगमः ॥२४॥बुद्धिं तज्जातिम् अन्ये तु बुद्धिसत्ताम् अथापरे ।प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते ॥२५॥आविर्भावतिरोभावौ जन्मनाशौ तथापरैः ।षट्सु भावविकारेषु कल्पितौ व्यावहारिकौ ॥२६॥ताभ्यां सर्वप्रवृत्तीनाम् अभेदेनोपसम्ग्रहः ।जन्मैवाश्रितसारूप्यं स्थितिर् इत्य् अभिधीयते ॥२७॥जायमानान् न जन्र्नान्यद् विनाशे ऽप्य् अपदार्थता ।अतो भावविकारेषु सत्तैका व्यवतिष्ठते ॥२८॥पूर्वभागस् तु यज् जातात् तज् जन्मेत्य् अपदिश्यते ।आश्रितक्रमरूपेण निमित्तत्वे विवक्षिते ॥२९॥आख्यातशब्दैर् अर्थो ऽसाव् एवंभूतो ऽभिधीयते ।नामशब्दाः प्रवर्तन्ते संहरन्त इव क्रमम् ॥३०॥फलं फलापदेशो वा वस्तु वा तद्विरोधि यत् ।तद् अन्यद् एव पूर्वेषां नाग इत्य् अपदिश्यते ॥३१॥नैवास्ति नैव नास्तीति वस्तुनो ग्रहनाद् विना ।कल्पते पररूपेण वस्त्व् अन्यद् अनुगम्यते ॥३२॥भावाभावौ घटादिनाम् अस्पृशन्न् अपि पाणिना ।कश् चिद् वेदाप्रकाशे ऽपि प्रकाशे तत एव वा ॥३३॥व्यापि सौक्ष्म्यं क्व चिद् याति क्व चित् संहन्यते पुनः ।अकुर्वाणो ऽथ वा किं चित् स्वशक्त्यैवं प्रकाशते ॥३४॥सर्वरूपस्य तत्त्वस्य यत् क्रमेणेव दर्शनम् ।भागैर् इव प्रकॢप्तिश् च तां क्रियाम् अपरे विदुः ॥३५॥सत्ता स्वशक्तियोगेन सर्वरूपा व्यवस्थिता ।साध्या च साधनं चैव फलं भोक्ता फलस्य च ॥३६॥क्रियाम् अन्ये तु मन्यन्ते क्व चिद् अप्य् अनपाश्रिताम् ।साधनैकार्थकारित्वे प्रवृत्तिम् अनपायिनीम् ॥३७॥सामान्यभूता सा पूर्वं भागशः प्रविभज्यते ।ततो व्यापाररूपेण साध्येव व्यवतिष्ठते ॥३८॥प्रकृतिः साधनानां सा प्रथमं तच् च कारकम् ।व्यापाराणां ततो ऽन्यत्वम् अपरैर् उपवर्ण्यते ॥३९॥बहूनां संभवे ऽर्थानां के चिद् एवोपकारिनः ।संसर्गे कश् चिद् एसां तु प्राधान्येन प्रतीयते ॥४०॥साध्यत्वात् तत्र चाख्यातैर् व्यापाराः सिद्धसाधनाः ।प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्तिताः ॥४१॥एकत्वावृत्तिभावाभ्यां भेदाभेदसमन्वये ।संख्यास् तत्रोपलभ्यन्ते संख्येयावयवक्रियाः ॥४२॥सिद्धस्यार्थस्य पाकादेः कथं साधनयोगिता ।साध्यत्वे वा तिङन्तेन कृतां भेदो न कश् चन ॥४३॥तत्र कारकयोगाया यद्य् आख्यातं निबन्धनम् ।षष्ठ्वाः सा लेन संबन्धे व्युदस्ता कर्तृकर्मनोः ॥४४॥एकाभिधान एको ऽर्थो युगपच् च द्विधर्मभाक् ।न संभवति सिद्धत्वे स साध्यः स्यात् कथं पुनः ॥४५॥एतावत् साधनं साध्यम् एतावद् इति कल्पना ।शास्त्र एव न वाक्ये ऽस्ति विभागः परमार्थतः ॥४६॥आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता ।प्रकल्पिता यथा शास्त्रे स घञादिस्व् अपि क्रमः ॥४७॥साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ।सत्त्वभावस् तु यस् तस्याः स घञादिनिबन्धनः ॥४८॥बन्धुताभेदरूपेण बन्धुशब्दे व्यवस्थिता ।समूहो बन्ध्ववस्था तु प्रत्ययेनाभिधीयते ॥४९॥तत्र यम् प्रति साध्यत्वम् असिद्धा तं प्रति क्रिया ।सिद्धा तु यस्मिन् साध्यत्वं न तम् एव पुनः प्रति ॥५०॥राज्ञः पुत्रस्य नप्तेति न राज्ञि व्यतिरिच्यते ।पुत्रस्यार्थः प्रधानत्वं न चास्य विनिवर्तते ॥५१॥मृगो धावति पश्येति साध्यसाधनरूपता ।तथा विषयभेदेन सरणस्योपपद्यते ॥५२॥लकृत्यक्तखलर्थानां तथाव्ययकृताम् अपि ।रूढिनिष्ठाघञादिनाम् धातुः साध्यस्य वाचकः ॥५३॥साध्यस्यापरिनिष्पत्तेः सो ऽयम् इत्य् अनुपग्रहः ।तिङन्तैर् अन्तरेणेवम् उपमानं ततो न तैः ॥५४॥साधनत्वं प्रसिद्धं च तिङ्क्षु संबन्धिनां यतः ।तेनाध्यारोप एव स्याद् उपमा तु न विद्यते ॥५५॥न्यूनेषु च समाप्तार्थम् उपमानं विधीयते ।क्रिया चैवाश्रये सर्वा तत्र तत्र समाप्यते ॥५६॥येनैव हेतुना हंसः पततीत्य् अभिधीयते ।आतौ तस्य समाप्तत्वाद् उपमार्थो न विद्यते ॥५७॥क्रियाणां जातिभिन्नानां सादृश्यं नावधार्यते ।सिद्धेश् च प्रक्रमे साध्यम् उपमातुम् न शक्यते ॥५८॥वनम् वृक्षा इति यथा भेदाभेदव्यपाश्रयात् ।अर्थात्मा भिद्यते भावे स बाह्याभ्यन्तरे क्रमः ॥५९॥सामान्ये भाव इत्य् अत्र यल् लिङ्गम् उपलभ्यते ।भेदानां अनुमेयत्वान् न तत् तेषु विवक्ष्यते ॥६०॥निर्देशे चरितार्थत्वाल् लिङ्गं भावे ऽविवक्सितम् ।उपमानविधित्वाच् च भावाद् अन्यत् पचादिसु ॥६१॥भवतौ यत् पचादिनां तावद् अत्रोपदिश्यते ।न च लिङ्गम् पचादिनां भवतौ समवस्थितम् ॥६२॥एकश् च सो ऽर्थः सत्ताख्यः कथम् चित् कैश् चिद् उच्यते ।लिङ्गानि चास्य भिद्यन्ते पचिरूपादिभेदवत् ॥६३॥आचार्यो मातुलश् चेति यथैको व्यपदिश्यते ।सम्बन्धिभेदाद् अर्थात्मा स विधिः पक्तिभावयोः ॥६४॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP