संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| वृत्तिसमुद्देशः २ पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - वृत्तिसमुद्देशः २ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण वृत्तिसमुद्देशः २ Translation - भाषांतर यथौषधिरसाः सर्वे मधुन्य् आहितशक्तयः ।अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥१०१॥भेदानां वा परित्यागात् संख्यात्मा स तथाविधः ।व्यापाराज् जातिभागस्य भेदापोहेन वर्तते ॥१०२॥अगृहीतविशेषेण यथा रूपेण रूपवान् ।प्रख्यायते न शुक्लादि- भेदरूपस् तु गृह्यते ॥१०३॥भेदरूपसमावेशे तथा सत्य् अविवक्षिते ।भागः प्रकाशितः कश् चिच् छास्त्रे ऽङ्गत्वेन गृह्यते ॥१०४॥संक्ःयासामान्यरूपेण तदा सो ऽम्शः प्रतीयते ।अर्थस्यानेकशक्तित्वे शब्दैर् नियतशक्तिभिः ॥१०५॥अव्ययानां च यो धर्मो यश् च भेदवतां क्रमः ।अभिन्नव्यपदेशार्हम् अन्तरालं तद् एतयोः ॥१०६॥अलुकश् चैकवद्भावस् तस्मिन् सति न शिष्यते ।स च गोषुचरादीनां धर्मो ऽस्ति वचनान्तरे ॥१०७॥जातौ द्विवचनाभावात् तद् वृत्तिषु न विद्यते ।प्रत्याख्याने तु योगस्य द्रव्ये गोषुचरादयः ॥१०८॥आश्रयाद् भेदवत्तायाः सर्वभेदसमन्वयः ।द्रव्याभिधानपक्षो ऽपि जात्याख्यायां न विद्यते ॥१०९॥सर्वद्रव्यगतिश् चैवम् एकशेषश् च नोच्यते ।प्रत्याख्याते ऽन्यथा सूत्रे भिन्नद्रव्यगतिर् भवेत् ॥११०॥वृत्तौ यो युक्तवद्भावो वरणादिषु शिष्यते ।अभेदैकत्वसंख्यायां गोदौ तत्र न सिध्यति ॥१११॥प्राग् वृत्तेर् युक्तवद्भावे षष्ठी भेदाश्रया भवेत् ।वृत्तौ संख्याविशेषाणां त्यागाद् भेदो निवर्तते ॥११२॥विद्यमानासु संख्यासु के चित् संख्यान्तरं विदुः ।अभेदाख्यम् उपग्राहि वृत्तौ तच् चोपजायते ॥११३॥व्यापारं याति भेदाख्यैस् तत् स्वैर् अवयवैः क्व चित् ।आत्मा भेदानपेक्षो ऽस्य क्व चिद् एति निमित्तताम् ॥११४॥दास्याः पतिर् इति व्यक्तो गोदाव् इति च दृश्यते ।व्यापारभेदः संख्यायास् तस्माद् एव व्यवस्थितः ॥११५॥द्व्यादिनां च द्विपुत्रादौ बाह्यो भेदो निवर्तते ।विभक्तिवाच्यः स्वार्थत्वान् निमित्तं त्व् अवतिष्ठते ॥११६॥द्वित्वोपसर्जने सङ्घे द्विशब्दस् तत्र वर्तते ।सो ऽयम् इत्य् अभिसंबन्धाद् उभशब्दे न तत् तथा ॥११७॥उभयस् तत्र तुल्यार्थो वृत्तौ नित्यं प्रयुज्यते ।सूत्रे ऽपि नित्यग्रहणं तदर्थम् अभिधीयते ॥११८॥आपि के चापरार्थत्वान् नाभेद उपजायते ।उभे इति ततः स्वार्थे भेदे वृत्तिः प्रयुज्यते ॥११९॥स्त्रीत्वाभिधानपक्षे ऽपि गुणभावविपर्ययः ।स्वभावाद् अपरार्थत्वात् तत्र भेदो न हीयते ॥१२०॥तस्माद् द्विवचनाट् टापश् चोभयो ऽन्यत्र दृश्यते ।प्रत्ययं तयपं हित्वा नास्त्य् उत्तरपदे पुनः ॥१२१॥प्राप्तिः प्रगृह्यसंज्ञाया न स्यात् प्रत्ययलक्षणात् ।कुमार्यगारे न ह्य् अस्ति समासो वचनान्तरे ॥१२२॥एकद्वयोर् यञादिनां विभाषा लुङ् न कल्पते ।यौष्माकस् तावकश् चेति भेदाभावान् न सिध्यति ॥१२३॥दृष्टो गार्ग्यतरे भेदस् तथा गर्गतरा इति ।युष्मत्पिता त्वत्पितेति तथादेशौ व्यवस्थितौ ॥१२४॥उपाधिभूता या संख्या प्रकृतौ समवस्थिता ।आदेशैः सम्ज्नया वापि विभक्त्या व्यज्यते विना ॥१२५॥शौर्पिके मासजाते च परिमाणं स्वभावतः ।उपाधिभूताम् आश्रित्य संख्यां भेदेन वर्तते ॥१.२६॥वयस्विनि परिच्छेदः क्रीते चापि न गम्यते ।इष्टो ऽभेदाद् ऋते तत्र पतिमाणम् अनर्थकम् ॥१२७॥भिन्नस्याभेदवचनात् प्रस्थादिभ्यः शसो विधिः ।तद्धर्मत्वाद् अभेदात् तु घटादिभ्यो न दृश्यते ॥१२८॥श्रूयते वचनं यत्र भावस् तत्र विशिष्यते ।निवर्तते यद् वचनं तस्य भावो न विद्यते ॥१२९॥कार्यं सत्ताश्रयं शास्त्राद् अप्रवृत्तिर् अदर्शनम् ।वाक्ये दृष्टं यद् अत्यन्तम् अभावस् तस्य वृत्तिषु ॥१३०॥सम्ज्ञाविषयभेदार्थं प्रसक्तादर्शनं स्मृतम् ।श्रूयमानं तु वचनं विशिष्टम् उपलभ्यते ॥१३१॥अभावो वा लुको यत्र रूपवान् वा विधीयते ।व्यभिचारान् निमित्तस्य तत्रासाधुः प्रसज्यते ॥१३२॥भेदः संख्याविशेषो वा व्याख्यातो वृत्तिवाक्ययोः ।सर्वत्रैव विशेषस् तु नावश्यं तादृशो भवेत् ॥१३३॥आतेश् च भेदहेतुत्वान् न लिङ्गेन विशेष्यते ।प्रधानं मृगदुग्धादौ गार्गीपुत्रे न स क्रमः ॥१३४॥अभेदे लिङ्गसंख्याभ्यां योगाच् छुक्लं पटा इति ।प्रसक्ते शास्त्रम् आरब्धं सिद्धये लिङ्गसंख्ययोः ॥१३५॥परार्थं शेषभावं यो वृत्तिषु प्रतिपद्यते ।गुणो विशेषणत्वेन स सूत्रे व्यपदिश्यते ॥१३६॥शब्दान्तरत्वाद् वाक्येषु विशेषा यद्य् अपि श्रुताः ।वृत्तेर् अभिन्नरूपत्वात् तेषु वृत्तिर् न विद्यते ॥१३७॥रूपाच् च शब्दसंस्कारः सामान्यविषयो यतः ।तस्मात् तदाश्रयं लिङ्गं वचनं च प्रसज्यते ॥१३८॥सलिङ्गं च ससंख्यं च ततो द्रव्याभिधायिना ।संबध्यते पदं तत्र तयोर् भिन्ना श्रुतिर् भवेत् ॥१३९॥भाविनो बहिरङ्गस्य वचनाद् आश्रयस्य ये ।लिङ्गसंख्ये गुणानां ते सूत्रेण प्रतिपादिते ॥१४०॥विशेषवृत्तेर् अपि च रूपाभेदाद् अलक्षितः ।यस्माद् विशेषस् तेनात्र भेदकार्यं न कल्पते ॥१४१॥विशेष एव सामान्यं विशेसाद् भिद्यते यतः ।अभेदो हि विशेषाणाम् आश्रितो विनिवर्तकः ॥१४२॥यद् यद् आश्रीयते तत् तद् अन्यस्य विनिवर्तकम् ।भेदाभेदविभागस् तु सामान्ये न निरूप्यते ॥१४३॥अपोद्धारश् च सामान्यम् इति तस्योपकारिनः ।निमित्तावस्थम् एवातस् तत् स्वधर्मेण गृह्यते ॥१४४॥अनिर्धारितधर्मत्वाद् भेदा एव विकल्पिताः ।निमित्तैर् व्यपदिश्यन्ते सामान्याख्याविशेसिताः ॥१४५॥यदा तु व्यपदिश्येते लिङ्गसंख्ये स्वभावतः ।प्रयोगेष्व् एव साधुत्वं वाक्ये प्रक्रम्यते तदा ॥१४६॥तत्र प्रयोगो ऽनियतो गुणानाम् आश्रयैः सह ।सामान्यं यत् तद् अत्यन्तं तत्रैव समवस्थितम् ॥१४७॥न गोत्वं शाबलेयस्य गौर् इति व्यपदिश्यते ।शुक्लत्वं बाहुलेयस्य शुक्ल इत्य् अपदिश्यते ॥१४८॥व्यतिरेके च सत्य् एवं मतुपः श्रवनं भवेत् ।लुग् अन्वाख्यायते तस्माद् रसादिभ्यश् च नास्ति सः ॥१४९॥यत् सो ऽयम् इति संबन्धाद् रूपाभेदेन वर्तते ।शुक्लादिवत् ततो लोपस् तद् रसादौ न विद्यते ॥१५०॥आवेशो लिङ्गसंख्याभ्यां क्व चिन् मञ्चादिवत् स्थितह् ।सो ऽयम् इत्य् अभिसंबन्धे स प्रस्थादौ न विद्यते ॥१५१॥लिङ्गम् लिङ्गपरित्यागे सूत्रं प्रत्ययशासनम् ।सो ऽयम् इत्य् अभिसंबन्धात् पुंशब्दे स्त्र्यभिधायिनि ॥१५२॥आश्रये लिङ्गसंख्याभ्याम् आश्रितं व्यपदिश्यते ।विशेषणानां चाजातेर् इति शास्त्रव्यवस्थया ॥१५३॥निमित्तानुविधायित्वाद् ये धर्मा भेदहेतुषु ।त आश्रये ऽपि विद्यन्त इति बुद्धिर् निवर्त्यते ॥१५४॥आख्यायते च शास्त्रेण लोकरूढा स्वभावतः ।निमित्ततुल्या गोदादौ प्रवृत्तिर् लिङ्गसंख्ययोः ॥१५५॥हरितक्यादिषु व्यक्तिः संख्या खलतिकादिषु ।मनुष्यलुब्विशेषाणाम् अभिधेयाश्रयं द्वयम् ॥१५६॥जातिप्रयोगे जात्या चेत् संबन्धम् उपगच्छति ।विशेषणं ततो धर्माञ् जातेस् तत् प्रतिपद्यते ॥१५७॥लुबन्ते संनिपतितं जातेर् अन्यद् विशेषणम् ।लुबन्तस्य प्रधानत्वात् तद्धर्मैर् व्यपदिश्यते ॥१५८॥नञ्समासबहुव्रीहि- द्वन्द्वस्त्र्यतिशयेषु ये ।भेदा भाष्यानुसारेण वाच्यास् ते लिङ्गसंख्ययोः ॥१५९॥यदि षष्ठीद्वितीयान्तान् निकृष्टात् तमबादयः ।न्यक्कारिणि स्युर् उत्कृष्टे प्रकृतेः स्याद् विलिङ्गता ॥१६०॥काल्यां कालाद् द्वितीयान्तात् काले काल्यास् तरब् भवेत् ।न्यक्कारिणि तथा गार्ग्ये गर्गेभ्यः प्रत्ययो भवेत् ॥१६१॥न्यक्कर्तृषु च गर्गेषु गार्ग्यात् स्यात् तच् च नेष्यते ।कुमार्याः स्वार्थिके ङीप् स्यात् प्रकृत्यर्थो हि नाधिकः ॥१६२॥षष्ठ्यन्ताद् अधिके तस्माद् गुणे स्वाश्रयवर्तिनि ।उत्कृष्टसमवेतायां क्रियायां वा विधीयते ॥१६३॥उपात्तं च प्रकृत्यर्थो द्रव्यम् एवाश्रयस् तयोः ।सो ऽयम् इत्य् अभिसंबन्धाद् अभेदेन प्रतीयते ॥१६४॥रूपाभेदाच् च तद् द्रव्यम् आकाङ्क्षावत् प्रतीयते ।विशेषैर् भिन्नरूपैस् तद् आश्रयैर् इव युज्यते ॥१६५॥भिन्नरूपेसु यल् लिङ्गं विशेषेसु व्यवस्थितम् ।संख्या च ताभ्याम् द्रव्यात्मा सो ऽभिन्नो व्यपदिश्यते ॥१६६॥आश्रयः समवायि च निमित्तं लिङ्गसंख्ययोः ।कर्तृस्थभावकः शेतिर् अतो भाष्य उदाहृतः ॥१६७॥निमित्तम् आश्रयत्वेन गृह्येत यदि साधनम् ।कर्मापदिष्टयोः प्राप्तिस् तत्र स्याल् लिङ्गसंख्ययोः ॥१६८॥शास्त्रे निमित्तभावेन समुदायाद् अपोद्धृतः ।स्त्र्यर्थस् तस्येच्छया योगः प्रकृत्या प्रत्ययेन वा ॥१६९॥स्त्रीशब्दो गुणशब्दत्वात् तुल्यधर्मा सितादिभिः ।गुणमात्रे प्रयुज्येत संस्त्यानवति वाश्रये ॥१७०॥स्त्र्यर्थः संस्त्यानवद् द्रव्यं प्रकृत्यर्थश् च यद्य् असौ ।द्रव्योपलक्षणार्थत्वं संस्त्यानस्य तथा सति ॥१७१॥संस्त्यानेन क्व चिद् द्रव्यं दृष्टं यद्य् उपलक्षितम् ।अनङ्गीकृतसंस्त्यानात् तद्वृत्तेः प्रत्ययो भवेत् ॥१७२॥भूतादयः षडाख्याश् च संस्त्यानेनोपलक्षिते ।ब्राह्मण्यादौ यदा वृत्तास् तेभ्यः स्युः प्रत्ययास् तदा ॥१७३॥तद्वन्तो हि प्रधानत्वात् प्रत्ययाणाम् प्रयोजकाः ।सामानाधिकरैण्ये ऽपि तस्माट् टाबादिसंभवः ॥१७४॥गुणमात्राभिधायित्वं स्त्रीशब्दे वर्ण्यते यदा ।प्रकृत्यर्थश् च संस्त्यानं स्वार्थिकाः प्रत्ययास् तदा ॥१७५॥संस्त्याने केवले वृत्तिः प्रकृतीनाम् न विद्यते ।तदाविष्टे ततो द्रव्ये गृह्यन्ते समवस्थिताः ॥१७६॥उपकारि च संस्त्यानं येषु शब्देष्व् अपेक्षितम् ।तेभ्यष् टाबादयस् तच् च भूतादिष्व् अविवक्षितम् ॥१७७॥संस्त्यानं प्रत्ययस्यार्थः शुद्धम् आश्रीयते यदा ।तदा द्विवचनानेक- प्रत्ययत्वं न सिध्यति ॥१७८॥जातिश् चेत् स्त्रीत्वम् एवासौ भेदो ऽन्यत्राविवक्षितः ।यस्माद् भिन्नैर् अपि द्रव्यैस् तद् एकं सद् विशिष्यते ॥१७९॥मात्राणाम् हि तिरोभावे परिमाणम् न विद्यते ।कुमार्य इति तेन स्यात् कुमार्यां भेदसंभवात् ॥१८०॥जातिसंख्यासमाहारैर् यथैव सहचारिणि ।द्रव्ये क्रियाः प्रवर्तन्त एकात्मत्वे व्यपेक्षिते ॥१८१॥मूर्तिभ्यो मूर्तिधर्माणाम् तथाभेदस्य दर्शनात् ।सामानाधिकरण्यं च क्रियायोगश् च कल्पते ॥१८२॥सामानाधिकरण्ये तु मतुब्लोपाद् अपेक्षिते ।लुक् तद्धितलुकीति स्याल् लुक् तत्राप्य् उपलक्षणम् ॥१८३॥केसां चित् त्यक्तभेदेषु द्रव्येष्व् एव विधीयते ।संस्त्यानवत्सु टाबादिर् अभेदेन समन्वयात् ॥१८४॥सामान्यभूतो द्रव्यात्मा परिच्छिन्नपरिग्रहः ।क्रियाभिर् युज्यते भेदैर् भागशश् चावतिष्ठते ॥१८५॥शुक्लादिष्व् आश्रयद्रव्यं प्राधान्येनाभिधीयते ।स्त्रीत्वं तु प्रत्ययार्थत्वाद् अभिधाविषयो यतः ॥१८६॥सो ऽयम् इत्य् अभिसंबन्धाद् आश्रयं प्रतिपद्यते ।स्त्रीत्वं स्वभावसिद्धो वा गुणभावविपर्ययः ॥१८७॥साकाङ्क्षत्वाद् गुणत्वेन सामान्यं वोपदिश्यते ।व्यक्तीनाम् आत्मधर्मो ऽसाव् एकप्रख्यानिबन्धनः ॥१८८॥एवम्भूता च सावस्था भागभेदपरिग्रहे ।कृते बुद्ध्यैव भेदानाम् आश्रयत्वे च कल्पिते ॥१८९॥निस्कृष्टेष्व् अपि भेदेषु व्यक्तिरूपाश्रये ततः ।लिङ्गप्रत्यवमर्शेन लिङ्गसंख्ये प्रपद्यते ॥१९०॥अन्तरेन चशब्दस्य प्रयोगं द्वन्द्वभाविनाम् ।अविशिष्टार्थवृत्तित्वं रूपाभेदात् प्रतीयते ॥१९१॥विकल्पवति वा वृत्तिर् निवर्त्ये ऽथ समुच्चिते ।तेषाम् अज्ञातशक्तीनां द्योतकेन नियम्यते ॥१९२॥वृत्तौ विशिष्टरूपत्वाच् चशब्दो विनिवर्तते ।अर्थभेदे ऽपि सारूप्यात् तच् चार्थेनापदिश्यते ॥१९३॥चस्य चासत्त्वभूतो ऽर्थः स एवाश्रियते यदि ।तद्धर्मत्वं ततो द्वन्द्वे चादिष्व् अर्थकृतं हि तत् ॥१९४॥चार्थः शब्दे क्व चिद् भेदात् कथं चित् समवस्थितः ।द्योतकाश् चादयस् तस्य वक्ता द्वन्द्वस् तु तद्वताम् ॥१९५॥विकल्पाद्यभिधेयस्य चार्थस्यान्यपदार्थता ।द्योतकत्वान् न कल्पेत तस्मात् सद् उपलक्ष्यते ॥१९६॥तत्र स्वाभाविकं लिङ्गं शब्दधर्मे व्यपेक्षिते ।शब्दः कश् चित् तम् एवार्थं कथं चित् प्रतिपद्यते ॥१९७॥शब्दाद् अर्थाः प्रतायन्ते स भेदानां विधायकः ।अनुमानं विवक्षायाः शब्दाद् अन्यन् न विद्यते ॥१९८॥समुच्चितः स्याद् द्वन्द्वार्थो गुणभूतसमुच्चयः ।समुच्चयो वापि भवेद् गुणभूतसमुच्चितः ॥१९९॥समुच्चितस्य प्राधान्ये लिङ्गसंख्ये स्वभावतः ।समुच्चयस्य प्राधान्ये शास्त्रं स्यात् प्रतिपादकम् ॥२००॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP