पदकांड - उपग्रहसमुद्देशः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


य आत्मनेपदाद् भेदः क्व चिद् अर्थस्य गम्यते ।
अन्यतश् चापि लादेशान् मन्यन्ते तम् उपग्रहम् ॥१॥

क्व चित् साधनम् एवासौ क्व चित् तस्य विशेषणम् ।
साधनं तत्र कर्मादि व्यक्तवाचो विशेषणम् ॥२॥

क्रिया विषयभेदेन जीविकादिषु भिद्यते ।
लादेशैः स क्रियाभेदो वाक्येष्व् अपि नियम्यते ॥३॥

धात्वर्थस् तद्विशेषश् चाप्य् उक्तः क्व चिद् उपग्रहः ।
धात्वर्थो गन्धनादिः स्याद् व्यतिहारो विशेषणम् ॥४॥

क्रियाप्रवृत्ताव् आख्याता कैश् चित् स्वार्थपरार्थता ।
असति वा सति वापि विवक्षितनिबन्धना ॥५॥

केसां चित् कर्त्रभिप्राये णिचा सह विकल्पते ।
आत्मनेपदम् अन्येसां तदर्था प्रकृतिर् यथा ॥६॥

क्रीणीष्व वपते धत्ते चिनोति चिनुते ऽपि च ।
आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थो ऽभिधीयते ॥७॥

संविधानं पचादिनां क्व चिद् अर्थः प्रतीयते ।
तन्निमित्ता यथान्यापि क्रियाधिश्रयणादिका ॥८॥

कर्त्रभिप्रायता सूत्रे क्रियाभेदोपलक्षणम् ।
तथाभूता क्रिया या हि तत्कर्ता फलभाग् यतः ॥९॥

यथोपलक्ष्यते कालस् तारकादर्शनादिभिः ।
तथा फलविशेषेण क्रियाभेदो निदर्श्यते ॥१०॥

क्रियाविशेषवचने सामर्थ्यम् उपरुध्यते ।
केसां चिद् अन्ये तु कृताः स्वरितेतो ञितस् तथा ॥११॥

अनुबन्धश् च सिद्धे ऽर्थे स्मृत्यर्थम् अनुषज्यते ।
तुल्यार्थेष्व् अपि चावश्यं न सर्वेष्व् एकधर्मता ॥१२॥

दृशीक्ष्योः सदृशे ऽप्य् अर्थे नाभेदः प्रतिपूर्वयोः ।
ण्यर्थोपादायिनस् तस्मान् न तुल्यार्थाः पचादिभिः ॥१३॥

उम्भ्यर्थे वर्तमानस्य करोतेर् भिन्नधर्मणः ।
ण्यर्थोपादायिता तस्मान् नियताः शब्दशक्तयः ॥१४॥

तथा ह्य् अनुप्रयोगस्य करोतेर् आत्मनेपदे ।
पूर्ववद्ग्रहणं प्राप्ते स्वरितं समुपस्थितम् ॥१५॥

एकत्वे ऽपि क्रियाख्याते साधनाश्रयसंख्यया ।
भिद्यते न तु लिङ्गाख्यो भेदस् तत्र तदाश्रितः ॥१६॥

तस्माद् अवस्थिते ऽप्य् अर्थे कस्य चित् प्रतिबध्यते ।
शब्दस्य शक्तिः स त्व् एष शास्त्रे ऽन्वाख्यायते विधिः ॥१७॥

यस्यार्थस्य प्रसिद्ध्यर्थम् आरभ्यन्ते पचादयः ।
तत् प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥१८॥

यत्रोभौ स्वामिदासौ तु प्रारभेते सह क्रियाम् ।
युगपद् धर्मभेदेन धातुस् तत्र न वर्तते ॥१९॥

यत्र प्रतिविधानार्थः पचिस् तत्रात्मनेपदम् ।
परस्मैपदम् अन्यत्र संस्काराद्यभिधायिनि ॥२०॥

संविधातुश् च सांनिध्याद् दासे धर्मो ऽनुसज्यते ।
प्लक्षशब्दस्य सांनिध्यान् न्यग्रोधे प्लक्षता यथा ॥२१॥

पुरोडाशाभिधानं च धानादिषु यथा स्थितम् ।
छत्त्रिणा चाभिसंबन्धाच् छत्त्रिशब्दाभिधेयता ॥२२॥

अर्थात् प्रतीतम् अन्योन्यं पारार्थ्यम् अविवक्षितम् ।
इत्य् अयं शेषविषयः कैश् चिद् अत्रानुवर्ण्यते ॥२३॥

अथ प्रतिविधाता यो हलैः कृषति पञ्चभिः ।
भाष्ये नोदाहृतं कस्मात् प्राप्तं तत्रात्मनेपदम् ॥२४॥

प्रतीतत्वात् तदर्थस्य शेषत्वं यदि कल्प्यते ।
न स्यात् प्राप्तविभाषासौ स्वरितेतां निवर्तिका ॥२५॥

शुद्धे तु संविधानार्थे कैश् चिद् अत्रेष्यते कृषिः ।
तद्धर्मा यजिर् इत्य् एवं न स्यात् तत्रात्मनेपदम् ॥२६॥

अत्र तूपपदेनायम् अर्थभेदः प्रतीयते ।
प्राप्ते विभाषा क्रियते तस्मान् नात्रात्मनेपदम् ॥२७॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP