संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| कर्त्रधिकारः पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - कर्त्रधिकारः संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण कर्त्रधिकारः Translation - भाषांतर प्राग् अन्यतः शक्तिलाभान् न्यग्भावापादनाद् अपि ।तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् ॥१०१॥अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात् ।आराद् अप्य् उपकारित्वे स्वातन्त्र्यं कर्तुर् उच्यते ॥१०२॥धर्मैर् अभ्युदितैः शब्दे नियमो न तु वस्तुनि ।कर्तृधर्मविवक्षायां शब्दात् कर्ता प्रतीयते ॥१०३॥एकस्य बुद्ध्यवस्थाभिर् भेदे च परिकल्पिते ।कर्तृत्वं करणत्वं च कर्मत्वं चोपजायते ॥१०४॥उत्पत्तेः प्राग् असद्भावो बुद्ध्यवस्थानिबन्धनः ।अविशिष्टः सतान्येन कर्ता भवति जन्मनः ॥१०॰ ॥कारणं कार्यभावेन यदा वाव्यवतिष्ठते ।कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥१०६॥यथाहेः कुण्डलीभावो व्यग्राणां वा समग्रता ।तथैव जन्मरूपत्वं सताम् एके प्रचक्षते ॥१०७॥विभक्तयोनि यत् कार्यं कारणेभ्यः प्रवर्तते ।स्वा जातिर् व्यक्तिरूपेण तस्यापि व्यवतिष्ठते ॥१०८॥भावेष्व् एव पदन्यासः प्रज्ञाया वाच एव वा ।नास्तीत्य् अप्य् अपदे नास्ति न च सद् भिद्यते ततः ॥१०९॥बुद्धिशब्दौ प्रवर्तेते यथाभूतेषु वस्तुषु ।तेषाम् अन्येन तत्त्वेन व्यवहारो न विद्यते ॥११०॥आकाशस्य यथा भेदश् छायायाश् चलनं यथा ।जन्मनाशाव् अभेदे ऽपि तथा कैश् चित् प्रकल्पितौ ॥१११॥यथैवाकाशनास्तित्वम् असन् मूर्तिनिरूपितम् ।तथैव मूर्तिनास्तित्वम् असदाकाशनिश्रयम् ॥११२॥यथा तदर्थैर् व्यापारैः क्रियात्मा व्यपदिश्यते ।अभेदग्रहणाद् एष कार्यकारणयोः क्रमः ॥११३॥विकारो जन्मनः कर्ता प्रकृतिर् वेति संशये ।भिद्यते प्रतिपत्तृणां दर्शनं लि"न्गदर्शनैः ॥११४॥कॢपि संपद्यमाने या चतुर्थी सा विकारतः ।सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् ॥११५॥वाक्ये संपद्यतेः कर्ता स"न्घश् च्व्यन्तस्य कथ्यते ।वृत्तौ सङ्घीभवन्तीति ब्राह्मणानां स्वतन्त्रता ॥११६॥अत्वं संपद्यते यस् त्वं न तस्मिन् युष्मदाश्रया ।प्रवृत्तिः पुरुषस्यास्ति प्राकृतः स विधीयते ॥११७॥पूर्वावस्थाम् अविजहत् संस्पृशन् धर्मम् उत्तरम् ।संमूर्छित इवार्थात्मा जायमानो ऽभिधीयते ॥११८॥सव्यापारतरः कश् चित् क्व चिद् धर्मः प्रतीयते ।संसृज्यन्ते च भावानां भेदवत्यो ऽपि शक्तयः ॥११९॥विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये ।गम्येत साधनं ह्य् अत्र सव्यापारं प्रतीयते ॥१२०॥त्वम् अन्यो भवसीत्य् एषा तत्र स्यात् परिकल्पना ।राज्ञि भृत्यत्वमापन्ने यथा तद्वद् गतिर् भवेत् ॥१२१॥संभावनात् क्रियासिद्धौ कर्तृत्वेन समाश्रितः ।क्रियायाम् आत्मसाध्यायां साधनानां प्रयोजकः ॥१२२॥प्रयोगमात्रे न्यग्भावं स्वातन्त्र्याद् एव निश्रितः ।अविशिष्टो भवत्य् अन्यैः स्वतन्त्रैर् मुक्तसंशयैः ॥१२३॥निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये ।अभिप्रायानुरोधो ऽपि स्वार्थस्यैव प्रसिद्धये ॥१२४॥[इति कर्त्रधिकारः][अथ हेत्वधिकारः]प्रेषणाध्येषणे कुर्वंस् तत्समर्थानि चाचरन् ।कर्तैव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते ॥१२५॥द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर् लोड् विधीयते ।सक्रियस्य प्रयोगस् तु यदा स विषयो णिचः ॥१२६॥गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः ।नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥१२७॥क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः ।कर्मार्था च क्रियोत्पत्ति- संस्कारप्रतिपत्तिभिः ॥१२८॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP