संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| वृत्तिसमुद्देशः ५ पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - वृत्तिसमुद्देशः ५ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण वृत्तिसमुद्देशः ५ Translation - भाषांतर जातेर् अभेदे भेदे वा सादृश्यं तत् प्रचक्षते ।कश् चित् कदा चित् अर्थात्मा तथाभूतो ऽपदिश्यते ॥४०१॥यत्रार्थे प्रत्ययाभेदो न कदा चिद् विकल्पते ।अविद्यमानभेदत्वात् स एक इति गम्यते ॥४०२॥यो ऽर्थ आश्रितनानात्वः स एवेत्य् अपदिश्यते ।व्यापारं जातिभागस्य तत्रापि प्रतिजानते ॥४०३॥जातिभागाश्रया प्रख्या तत्राभिन्ना प्रवर्तते ।व्यक्तिभागाश्रया बुद्धिस् तत्र भेदेन जायते ॥४०४॥अन्यत्र वर्तमानं सद् भेदाभेदसमन्वितम् ।निमित्तं पुनर् अन्यत्र नानात्वेनेव गृह्यते ॥४०५॥आधारेषु पदन्यासं कृत्वोपैति तदाश्रयम् ।स सादृश्यस्य विषय इत्य् अन्यैर् अपदिश्यते ॥४०६॥परापेक्षे यथा भावे कारणाख्या प्रवर्तते ।तथान्याधिगमापेक्षम् उपमानं प्रचक्षते ॥४०७॥गुरुगिश्यपितापुत्र- क्रियाकालादयो यथा ।व्यवहारास् तथौपम्यम् अप्य् अपेक्षानिबन्धनम् ॥४०८॥श्यामत्वम् उपमाने चेद् वृत्तं वृत्तौ प्रयुज्यते ।उपमेयं समासेन बाह्यं तत्राभिधीयते ॥४०९॥टाबन्त एव चैत्रादौ श्यामाशब्दस् तथा भवेत् ।सूत्रे च प्रथमाभावान् न श्यामाद्युपसर्जनम् ॥४१०॥अथ त्व् एकविभक्तित्वाद् गुणत्वाद् वोपसर्जनम् ।नैवं तित्तिरिकल्माष्याम् इष्टः स्त्रीप्रत्ययो भवेत् ॥४११॥सतिशिष्टबलीयस्त्वाद् बाह्ये ङिषि च सत्य् अपि ।उपमानस्वरो न स्यात् तस्मात् स्त्र्यन्तः समस्यते ॥४१२॥गुणे न चोपमानस्थे सापेक्षत्वं प्रकल्पते ।प्रधानस्य तथा न स्याद् व्याघ्रादौ लिङ्गदर्शनम् ॥४१३॥तस्मात् सति गुणत्वे ऽपि प्राधान्यं विग्रहान्तरे ।नैवंजातीयकं शास्त्रे संभवत्य् उपसर्जनम् ॥४१४॥उपमेयात्मनि श्यामो वर्तमानो ऽभिधीयते ।उपमानेष्व् अनिर्दिष्टः सामर्थ्यात् स प्रतीयते ॥४१५॥द्रव्यमात्रे ऽपि निर्दिष्टे चन्द्रवक्त्रे ऽनुगम्यते ।विशिष्ट एव चन्द्रस्थो गुणो नोपप्लवादयः ॥४१६॥भेदभावनयैतच् च समासे ऽप्य् उपवर्ण्यते ।विशिष्टगुणभिन्ने ऽर्थे पदम् अन्यत् प्रयुज्यते ॥४१७॥यदि भिन्नाधिकरणो वचनाद् अनुगम्यते ।मृगीव चपलेत्य् अत्र पुंवद्भावो न सिध्यति ॥४१८॥अस्त्रीपूर्वपदत्वात् तु पुंवद्भावो भविष्यति ।यथैव मृगदुग्धादौ न चेत् स्त्र्यर्थो विवक्ष्यते ॥४१९॥शस्त्रीव शस्त्रीश्यामेति देवदत्तैव कथ्यते ।तस्याम् एवोभयं तस्माद् उच्यते शास्त्रविग्रहे ॥४२०॥पुंवद्भावस्य सिद्ध्यर्थं पक्षे स्त्रीप्रत्ययस्य च ।बह्व् अपेक्ष्यम् अतस् तस्याम् उभयप्रतिपादनम् ॥४२१॥श्यामा शस्त्री यथा श्यामा शस्त्रीकल्पेति चोच्यते ।तत्रोपमानेतरयोः श्यामेत्य् एतद् अपेक्ष्यते ॥४२२॥अथ श्यामेव शस्त्रीयं श्यामेत्य् एवं प्रयुज्यते ।शस्त्री यथेयम् श्यामेति तावद् एव प्रतीयते ॥४२३॥उपलक्षणमात्रार्था गुणस्यास्य यदि श्रुतिः ।पृथग् द्वयोः श्रुतो ऽप्य् एष नेष्टस्वार्थस्य वाचकः ॥४२४॥उपमेयं तु यद् वाच्यं तस्य चेत् प्रतिपादने ।सव्यापारा गुणास् तत्र सर्वस्योक्तिः सकृच्छ्रुतौ ॥४२५॥प्रकाराधारभेदेन विशेषे समवस्थितः ।शब्दान्तराभिसंबन्धे सामान्यवचनः कथम् ॥४२६॥सादृश्यमात्रं सामान्यं द्विष्ठं कैश् चित् प्रतीयते ।गुणो भेदे ऽप्य् अभेदेन द्विवृत्तिर् वा विवक्षितः ॥४२७॥व्यापारो जातिभागस्य द्रव्ययोर् वाभिधित्सितः ।रूपात् सामान्यवाचित्वं प्राग् वा वृत्तेर् उदाहृतम् ॥४२८॥व्याघ्रशब्दो यदा शौर्यात् पुरुषार्थे ऽवतिष्ठते ।तदाधिकरणाभेदात् समासस्यास्ति संभवः ॥४२९॥शूरशब्दप्रयोगे तु व्याघ्रशब्दो मृगे स्थितः ।भिन्ने ऽधिकरणे वृत्तेस् तत्र नैवास्ति संभवः ॥४३०॥सामानाधिकरण्ये ऽपि गुणभेदस्य संभवात् ।प्रयोगः शूरशब्दस्य समासे ऽप्य् अनुषज्यते ॥४३१॥पूजोपाधिश् च यो दृष्टः कुत्सनोपाधयश् च ये ।तेषां भिन्ननिमित्तत्वान् नियमार्था पुनः श्रुतिः ॥४३२॥असंभवे ऽपि वा वृत्तेः स्याद् एतल् लिङ्गदर्शनम् ।अच्वेर् इति यथा लिङ्गम् अभावे ऽपि भृशादिषु ॥४३३॥वत्यन्तावयवे वाक्ये यद् औपम्यं प्रतीयते ।तत्प्रत्ययविधौ सूत्रे निर्देशो ऽयं विचार्यते ॥४३४॥क्रियेत्य् उपाधिः प्राथम्यात् प्रकृत्यर्थस्य यद्य् अपि ।न प्रातिपदिकं तत्र क्रियावाच्य् उपपद्यते ॥४३५॥सत्त्ववृत्तस्य शेषे वा तृतीया साधने ऽपि वा ।तिङाम् असत्त्ववाचित्वाद् उभयं तन् न विद्यते ॥४३६॥पाकादयस् तृतीयान्ताः सत्त्वधर्मसमन्वयात् ।न क्रियेत्य् अपदिश्यन्ते कृत्वो ऽर्थप्रत्यये यथा ॥४३७॥ये चाव्ययकृतः के चित् क्रियाधर्मसमन्विताः ।तेषाम् असत्त्ववाचित्वं तिङन्तैर् न विशिष्यते ॥४३८॥कृत्वसुज्विषया यापि शयितव्यादिषु क्रिया ।उपमानोपमेयत्वं तत्रात्यन्तम् असंभवि ॥४३९॥न केवलौ द्रव्यगुणौ तद्वान् वाप्य् उपमीयते ।शयितव्यादिभिस् तेषु नोपमार्थो ऽस्ति कश् चन ॥४४०॥उपमानोपमेयत्वे द्रव्ये चानुक्तधर्मिणि ।निमित्तत्वेन गम्यन्ते रूढयोगाः क्रियागुणाः ॥४४१॥होतव्यसदृशो होतेत्य् अत्राप्य् अर्थो न विद्यते ।विरोधात् क्रियया तस्मात् क्रियावान् नोपमीयते ॥४४२॥क्रिया समानजातिया तद्भावान् नोपमीयते ।जातिभेदे ऽपि पाकेन भिन्नाः पाकादयः क्रियाः ॥४४३॥आधारभेदाद् भिन्नायाम् उपमानस्य संभवः ।अध्येतव्येन विप्राणां तुल्यम् अध्ययनं विशाम् ॥४४४॥अर्थात् प्रकरणाद् वापि यत्रापेक्ष्यं प्रतीयते ।सामर्थ्याद् अनपेक्षस्य तस्य वृत्तिः प्रसज्यते ॥४४५॥तैलपाकेन तुल्ये च घृतपाके विवक्षिते ।क्रियावद् अपि कार्याणां दर्शनात् प्रत्ययो भवेत् ॥४४६॥अतिङ्ग्रहणम् एवं तु समासस्य निवर्तकम् ।गमनं कारकस्येति ण्वुल्य् अन्यस्मिन् न संभवेत् ॥४४७॥सर्वस्य परिहारार्थं समुदायत्वम् आश्रितम् ।शुद्धायाः संभवान् न स्यात् क्रियाया ब्राह्मणादिषु ॥४४८॥उपमानविवक्षायां स्वधर्मश् च निवर्तते ।क्रियाया न श्रुताद् यस्माद् उपमानं समाप्यते ॥४४९॥तृतीयो ऽप्य् आश्रितो भेदो धर्मः साधारणो द्वयोः ।व्यापारवान् न कृत्स्नस्य साम्यं कृत्स्नेन विद्यते ॥४५०॥द्रव्ये वापि क्रियायां वा निमित्तात् तत् प्रकल्पते ।क्रियाणां विद्यमानत्वाद् वृत्तिर् न स्याद् गवादिषु ॥४५१॥अभावात् केवलायास् तु तद्वान् अर्थः प्रतीयते ।प्रधानासंभवे युक्ता लक्षणार्था क्रियाश्रुतिः ॥४५२॥क्रियान्तरेषु सापेक्षाः क्रियाशब्दाः क्रियान्तरे ।उपकाराय गृह्यन्ते यथैव ब्राह्मणादयः ॥४५३॥यथा प्रकर्षः सर्वत्र निमित्तान्तरहेतुकः ।द्रव्यवद् गुणशब्दे ऽपि स निमित्तम् अपेक्षते ॥४५४॥यो य उच्चार्यते शब्दः स स्वरूपनिबन्धनः ।यथा तथोपमानेषु व्यपेक्ष न निवर्तते ॥४५५॥क्रियावृत्तेस् तृतीयान्तस्य्- ऐवं चासंभवे सति ।प्रसिद्धन्यायकरणो भाष्ये युजिर् उदाहृतः ॥४५६॥अन्तर्भूते तु करणे प्रयोगो न पुनर् भवेत् ।न्यायेनायुक्तम् इत्य् अत्र जीवतौ प्राणकर्मवत् ॥४५७॥शास्त्राभ्यासाच् च भेदो ऽयम् अयुक्तम् इति वर्ण्यते ।अशोभनम् असंबद्धम् इति रूढिर् व्यवस्थिता ॥४५८॥विविभक्तिः प्रकृत्यर्थं प्रत्य् उपाधिः कथं भवेत् ।विभक्तिपरिणामे च प्रकल्प्यं विषयान्तरम् ॥४५९॥विभक्त्यन्तरयोगो हि यस्य तद् विषयान्तरे ।विभक्त्यन्तरसंबन्धः सामर्थ्याद् अनुमीयते ॥४६०॥सारूप्यात् तु तद् एवेदम् इति तत्रोपचर्यते ।शब्दान्तरं विभक्त्या तु युक्तं शास्त्रे तद् अश्रुतम् ॥४६१॥प्रकृतिश् चेत् तृतीयान्ता तेनेत्य् अस्मात् प्रतीयते ।क्रियेति प्रथमान्ता सा कथं भवितुम् अर्हति ॥४६२॥क्रिययेति तृतीया च प्रयोगे कस्य कल्प्यताम् ।तेनेत्य् अस्य हि संबन्धः सूत्रस्थेन न विद्यते ॥४६३॥सोपस्कारेषु सूत्रेषु वाक्यशेषः समर्थ्यते ।तेन यत् तत् तृतीयान्तं क्रिया चेत् सेति गम्यते ॥४६४॥उपाधेः कस्य चिद् वाक्ये प्रयोग उपलभ्यते ।प्रतीयमानधर्मान्यो न कदा चित् प्रयुज्यते ॥४६५॥नीलम् उत्पलम् इत्य् अत्र न विशेष्ये न भेदके ।कश् चित् तद्धर्मवचनो वाक्ये शब्दः प्रयुज्यते ॥४६६॥अत्यन्तानुगमात् तत्र न सूत्रे न च विग्रहे ।विभक्तिपरिणामेन किं चिद् अस्ति प्रयोजनम् ॥४६७॥तृतीयान्तं क्रियेत्य् एतद् विग्रहे न प्रयुज्यते ।यथा दण्डः प्रहरणं क्रीडायाम् इति दृश्यते ॥४६८॥घविधौ यच् च संज्ञायाम् इति सूत्र उदाहृतम् ।उपादानं प्रयोगेषु तस्यात्यन्तं न विद्यते ॥४६९॥यैर् अप्रयुक्तैः संस्कारः प्रधानेषु प्रतीयते ।ते भेदे ऽपि विभक्तीनां निर्दिश्यन्त उपाधयः ॥४७०॥समुदायेषु वर्तन्ते भावानां सहचारिणाम् ।शब्दास् तत् त्व् अविवक्षायां समुच्चयविकल्पयोः ॥४७१॥समुच्चयस् तु क्रियते येषु प्रत्यर्थवृत्तिषु ।भेदाधिष्ठानया योगस् तेसां भवति संख्यया ॥४७२॥सर्वैर् विशिष्टास् तैर् अर्थैर् जन्यन्ते सहचारिभिः ।बुद्धयः प्रतिपत्तॄणां शब्दार्थांस् तान् अतो विदुः ॥४७३॥संसृष्टाः प्रत्ययेष्व् अर्थाः सर्व एवोपकारिनः ।तेषां प्रत्ययरूपेण सर्वेषां शब्दवाच्यता ॥४७४॥केवलानां तु भावानां न रूपम् अवधार्यते ।अनिरूपितरूपेषु तेषु शब्दो न वर्तते ॥४७५॥पूर्वशब्दप्रयोगाच् च समूहान् न निवर्तते ।वर्तते ऽवयवे नापि नोपात्तं त्यजते क्व चित् ॥४७६॥समुदायाभिधायि च यदि भेदं विशेषयेत् ।तत्रातुल्यविभक्तित्वं पूर्वकायादिवद् भवेत् ॥४७७॥समूहे च प्रदेशे च पञ्चाला इति दृश्यते ।तथा विशेषणं सर्व इत्य् एतद् उपपद्यते ॥४७८॥तथार्धपिप्पलीत्य् अत्र जात्यन्तरनिवृत्तये ।अर्धं च पिप्पली चेति खन्दे शब्दः प्रतीयते ॥४७९॥पञ्चालानां प्रदेशो ऽपि भिन्नो जनपदान्तरात् ।तत्रान्यस्य निवृत्त्यर्थे शब्दे भेदो न गम्यते ॥४८०॥प्रसिद्धास् तु विशेषेण समुदाये व्यवस्थिताः ।प्रदेशे दर्शनं तेषाम् अर्थप्रकरणादिभिः ॥४८१॥यद् उपव्यञ्जनं जातेः सहचारि च कर्मसु ।तत्र वा रूढसंबन्धं यत् प्रायेणोपलक्षितम् ॥४८२॥समुदायः प्रदेशो वेत्य् एवं तस्मिन्न् अनाश्रिते ।अर्थात्मन्य् अविशेषेण वर्तन्ते ब्राह्मणादयः ॥४८३॥यश् च तुल्यश्रुतिर् दृष्टः समुदाये व्यवस्थितः ।तेनोपचरितैकत्वं प्रदेशे ऽप्य् उपलभ्यते ॥४८४॥संस्काराद् उपघाताद् वा वृत्तो ऽक्तपरिमाणके ।तैलादौ जातिशब्दो ऽत्र सामर्थ्याद् अवसीयते ॥४८५॥न जातिगुणशब्देषु मूर्तिभेदो विवक्षितः ।ते जातिगुणसंबन्ध- भेदमात्रनिबन्धनाः ॥४८६॥कृष्णादिव्यपदेशश् च सर्वावयववृत्तिभिः ।गुणैस् ते ऽप्य् एकदेशस्थाः पटादीनां विशेषकाः ॥४८७॥पटावयववृत्तास् तु यदा तत्र पटादयः ।तदा तैलादिवत् तेषां जातिशब्दत्वम् उच्यते ॥४८८॥निवृत्त्यर्था श्रुतिर् येषां भेदस् तेष्व् अनपेक्षितः ।प्रदेशे समुदाये वा गुणो ऽन्येषां निवर्तकः ॥४८९॥ब्राह्मणाध्ययने तत्र वर्तते ब्राह्मणश्रुतिः ।सादृश्यं तत्र दृष्टं हि क्षत्रियाध्ययनादिभिः ॥४९०॥ब्राह्मणाध्ययने वृत्तिर् यदि स्याद् ब्राह्मणश्रुतेः ।वक्तव्यं केन धर्मेण तुल्यत्वं क्रिययोर् इति ॥४९१॥अध्येतरि यदा वृत्तिर् उच्यते ब्राह्मणश्रुतेः ।निमित्तत्वं तदोपैति क्रियैवाध्येतरि स्थिता ॥४९२॥सिम्हशब्देन संबन्धे गौर्यमात्राभिधायिना ।चैत्रात् षष्ठी प्रसज्येत योगे शत्त्र्यादिभिर् यथा ॥४९३॥ब्राह्मणायेव दातव्यं वैश्यायेत्य् एवमादिषु ।संप्रदानादियोगश् च क्रियामात्रे न कल्पते ॥४९४॥क्रियामात्राभिधायित्वाद् अव्ययेषु वतेर् न च ।पाठः कदा चित् कर्तव्यस् तुल्यौ पक्षाव् उभौ यतः ॥४९५॥जहाति जातिं द्रव्यं वा तस्मान् नावयवे स्थितः ।क्रियायास् तु श्रुतिर् यस्मात् तद्वत्य् अर्थे ऽवतिष्ठते ॥४९६॥अक्रियाणां निवृत्त्यर्था, यतश् चात्र क्रियाश्रुतिः ।क्रियोपलक्षिते तस्मात् क्रियाशब्दः प्रतीयते ॥४९७॥होतव्यादिषु यस्माच् च क्रियान्या ब्राह्मणादिवत् ।अपेक्षणीया शुद्धे ऽर्थे तस्माद् वृत्तिर् न कस्य चित् ॥४९८॥सर्वं वाप्य् एकदेशो वा यस्मिन्न् आश्रियते क्व चित् ।विशेषवृत्तिं तं सर्वम् आहुर् भेदे व्यवस्थितम् ॥४९९॥समुच्चयो विकल्पो वा प्रकाराः सर्व एव वा ।विशेषा इति वर्ण्यन्ते सामान्यं वाविकल्पितम् ॥५००॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP