संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| वृत्तिसमुद्देशः ३ पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - वृत्तिसमुद्देशः ३ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण वृत्तिसमुद्देशः ३ Translation - भाषांतर समुच्चयवतो ऽर्थस्य प्राधान्ये ऽप्य् अपरे विदुः ।निमित्तानुविधायित्वाद् असिद्धिम् लिङ्गसंख्ययोः ॥२०१॥समुच्चयो निमित्तं चेत् स्यान् निमित्तानुवर्तनम् ।अन्वयव्यतिरेकाभ्यां चार्थो द्वन्द्वनिबन्धनः ॥२०२॥समुच्चितनिमित्तत्वे चार्थस्यापगमे ऽपि वा ।स्वभावसिद्धे द्वन्द्वस्य लिङ्गसंख्ये व्यवस्थिते ॥२०३॥पदान्तरस्थस्यार्थस्य द्योतकत्वान् न युज्यते ।निपातो लिङ्गसंख्याभ्यां द्वन्द्वस् त्व् अर्थस्य वाचकः ॥२०४॥निमित्तानुविधाने च द्रव्यधर्मानपेक्षणात् ।गुणप्रधानभावेन क्रियायोगो न कल्पते ॥२०५॥यस्य नास्ति क्रियायोगः स्वतन्त्रो ऽसौ न विद्यते ।अर्थो द्वन्द्वस्य तत्र स्याद् उपादानम् अनर्थकम् ॥२०६॥समुच्चयवतो ऽर्थस्य वाचको नानुवर्तते ।निमित्तम् अपि चास्यार्थः स्वधर्मैर् युज्यते ततः ॥२०७॥बाह्यो नास्त्य् आश्रयो द्वन्द्वे विशेषौ तत्र हि श्रुतौ ।समुच्चयस् तदाधारस् तद्धर्मैर् व्यपदिश्यते ॥२०८॥यो वावयवभेदाभ्यां भेदवद्भ्याम् इवान्वितः ।एकः समूहो धर्मान् स भागयोः प्रतिपद्यते ॥२०९॥एकश् च द्व्यात्मको ऽर्थो ऽसौ भेदाभेदसमन्वितः ।यौ भेदाव् आश्रितस् तत्स्थे लिङ्गसंख्ये प्रपद्यते ॥२१०॥यथा स्वशब्दाभिहिते चैत्रार्थे न प्रयुज्यते ।चैत्रशब्दो बहुव्रिहाव् अप्रयोगस् तथा भवेत् ॥२११॥यथा गौर् इति शुक्लादेर् अभिधानं न विद्यते ।एवं यस्याभिसंबन्धो गोभिस् तावत् प्रतीयते ॥२१२॥संबन्धी नियतो रूढश् चित्राणां न च विद्यते ।गवां यथा वज्रपाणिस् त्र्यक्षे वा ऽपि व्यवस्थितः ॥२१३॥शब्दान्तरत्वाद् वाक्येषु विशेषा यद्य् अपि श्रुताः ।वृत्तिशब्दो ऽन्य एवायं सामान्यस्याभिधायकः ॥२१४॥अगोर् अचित्रगोश् चैव रूपभेदान् निवर्तकः ।न चित्रगुर् विशेषाणां रूपाभेदात् तु वाचकः ॥२१५॥यथा चित्रगुर् इत्य् एतत् प्रयुक्ते न प्रयुज्यते ।एवं यदि स्यात् सामान्यं तस्य न स्यात् प्रतिश्रुतिः ॥२१६॥सर्वादयो विशेषास् तु प्रदेशानां निवर्तकाः ।यथा प्रदेशाः सामान्य- प्रदेशान्तरबाधकाः ॥२१७॥विभक्त्यर्थाभिधानाद् वा षष्ठी नानुप्रयुज्यते ।द्रव्यस्यानभिधानात् तु तच्छब्दो ऽनुप्रयुज्यते ॥२१८॥सामानाधिकरण्यं चेन् मतुब्लोपात् प्रकल्पते ।मतुपो ऽपि तदर्थत्वाद् अनवस्था प्रसज्यते ॥२१९॥संबन्धस्य च संबन्दी संबन्धो ऽन्यः प्रसज्यते ।विभक्त्यर्थप्रधाने च क्रियायोगो न कल्पते ॥२२०॥विभक्त्यर्थप्रधानत्वात् ततस् तत्रेति न क्रिया ।दृश्यादिः कर्मकर्त्रादि- निमित्तत्वाय कल्पते ॥२२१॥अन्तर्भवेच् च संबन्धः प्राधान्याभिहितः कथम् ।स प्रातिपदिकार्थश् च तथाभूतः कथं भत्वेत् ॥२२२॥असंभवात् तु संबन्धे संबन्धसहचारिणि ।जातिसंख्यासमाहार- कार्याणाम् इव संभवः ॥२२३॥सो ऽयम् इत्य् अभिसंबन्धाद् विशिष्टाश्रयवाचिनाम् ।शुक्लादिवल् लिङ्गसंख्ये शास्त्रारम्भाद् भविष्यतः ॥२२४॥भेदेन तु विवक्षायां सामान्ये वा विवक्षिते ।सलिङ्गस्य ससंख्यस्य पदार्थस्यागतिर् भवेत् ॥२२५॥साधुत्वं न विभक्त्यर्थ- मात्रे वृत्तस्य दृश्यते ।कृत्स्नार्थवृत्तेः साधुत्वम् इत्य् अर्थग्रहणं कृतम् ॥२२६॥सो ऽयम् इत्य् अभिसंबन्धाद् द्रव्यवृत्तिर् अयं यदा ।सलिङ्गस्य ससंख्यस्य तदा साधुत्वम् उच्यते ॥२२७॥अन्तर्भूतविभक्त्यर्थे षष्ठी न श्रूयते यथा ।तथाश्रुतिः प्रसज्येत लिङ्गसंख्याभिधायिनाम् ॥२२८॥साधर्म्यम् अव्ययेन स्याद् बहुव्रीहेस् तथा सति ।लिङ्गसंख्यानिमित्तस्य संस्कारस्यापवर्तनात् ॥२२९॥प्रयुक्तेन च संबन्धाच् चैत्रादिश्रवनं भवेत् ।विना विभक्त्या संबन्धो विभक्त्या विद्यते विना ॥२३०॥अभिधाने ऽपि संख्यायाः संख्यात्वं न निवर्तते ।षष्ठ्यर्थस्याभिधाने तु स्यात् प्रातिपदिकार्थता ॥२३१॥अनुप्रयोगसिद्ध्यर्थं न विभक्त्यर्थकल्पना ।वस्त्वन्तरम् उपक्षिप्तम् इति के चित् प्रचक्षते ॥२३२॥संबन्दिभिर् विशिष्टानाम् संबन्धानां निमित्तता ।संबन्धैर् वा विशिष्टानां तद्वतां स्यान् निमित्तता ॥२३३॥के चित् संयोगिनो दण्डाद् विषाणात् समवायिनः ।तद्वति प्रत्ययान् आहुर् बहुव्रीहिं तथैव च ॥२३४॥भिन्नं संबन्धिभेदेन संबन्धम् अपरे विदुः ।निमित्तं स विभक्त्यर्थः समासेनाभिधीयते ॥२३५॥प्रधानम् अन्यार्थतया भिन्नं स्वैर् उपसर्जनैः ।निमित्तम् अब्बिधेयं वा सर्वपश्चाद् अपेक्ष्यते ॥२३६॥स्वामिनि व्यतिरेकश् च वाक्ये यद्य् अपि दृश्यते ।प्राधान्य एव तस्येष्टो बहुव्रीहिर् विवक्षिते ॥२३७॥गवां विशेषणत्वेन यदा तद्वान् प्रवर्तते ।अस्यैता इति तत्रार्थे बहुव्रीहिर् न विद्यते ॥२३८॥यदा प्रत्यवमर्शस् तु तासां स्वामी गवाम् इति ।गोभिस् तदाभिसंबन्धो निमित्तत्वाय कल्पते ॥२३९॥अपेक्षमानः संबन्धं रूढित्वस्य निवृत्तये ।निमित्तानुविधायित्वात् तद्धर्मार्थः प्रसज्यते ॥२४०॥नाना चित्रा इति यथा निमित्तम् अनुरुध्यते ।नानाभूते ऽपि वृत्तः सन् बहुव्रीहिस् तथा भवेत् ॥२४१॥संबन्धिनि निमित्ते तु द्रव्यधर्मो न हीयते ।लिङ्गाभावो हि लिङ्गस्य विरोधित्वेन वर्तते ॥२४२॥संख्वावांल् लिङ्गवाम्श् चार्थो ऽभिन्नधर्मा, निमित्ततः ।आसन्न एव द्रव्यत्वात् तद्धर्मैर् न विरुध्यते ॥२४३॥विभक्त्यर्थेन चाविष्टं शुद्धं चेति द्विधा स्थितम् ।द्रव्यं शुद्धस्य यो धर्मः स न स्याद् अन्यधर्मणः ॥२४४॥द्रव्यमात्रस्य निर्देशे भेदो ऽयम् अविवक्षितः ।ग्रन्थे पूर्वत्र भेदस् तु द्वितीये ऽनुप्रदर्शितः ॥२४५॥द्रव्यस्य ग्रहणं चात्र लिङ्गसंख्याविशेषणम् ।द्रव्याश्रितत्वं हि तयोस् ततो ऽन्यस्य न सिध्यतः ॥२४६॥संबन्धिभिन्नसंबन्ध- परिछिन्ने प्रवर्तते ।समासो द्रव्यसामान्ये विशिष्टार्थानुपातिनि ॥२४७॥द्रव्यधर्मानतिक्रान्तो भेदधर्मेष्व् अवस्थितः ।भविष्यदाश्रयापेक्षे लिङ्गसंख्ये प्रपद्यते ॥२४८॥शास्त्रप्रवृत्तिभेदे ऽपि लौकिको ऽर्थो न भिद्यते ।नञ्समसे यतस् तत्र त्रयः पक्षा विचारिताः ॥२४९॥शब्दान्तरे ऽपि चैकत्वम् आश्रित्यैवं विचारणा ।अब्रह्मणादिषु नञः प्रयोगो न हि विद्यते ॥२५०॥प्राक् समासात् पदार्थानां निवृत्तिर् द्योत्यते नञा ।स्वभावतो निवृत्तानां रूपाभेदाद् अलक्षिता ॥२५१॥ब्राह्मणादिस्थया वाक्येष्व् आख्यातपदवाच्यया ।क्रियया यस्य संबन्धो वृत्तिस् तस्य न विद्यते ॥२५२॥पाचकादिपदस्था चेन् नञा संबध्यते क्रिया ।तत्र सत्तानुपादानात् त्रिपक्षी नोपपद्यते ॥२५३॥सत्तयैवाभिसंबन्धो यदि सर्वत्र कल्प्यते ।असन्न् इति समासे ऽस्मिन् सत्तान्या परिकल्प्यताम् ॥२५४॥क्त्वान्ते च तुमुनन्ते च नञ्समासे न दृश्यते ।विशेषणविशेष्यत्वं नञासत्ताभिधायिना ॥२५५॥क्रियायाः साधनाधार- सामान्ये नञ् व्यवस्थितः ।ततो विशिष्टैर् आधारैर् युज्यते ब्राह्मणादिभिः ॥२५६॥वृत्तौ यथा गताद्यर्थम् उपादाय निरादयः ।युज्यन्ते साधनाधारैर् नञ्समासे ऽपि स क्रमः ॥२५७॥तत्रासति नञो वृत्तेर् ब्राह्मणक्षत्रियादिभिः ।विशेषणविशेष्यत्वं कल्प्यते कुब्जखञ्जवत् ॥२५८॥कामचारे च सत्य् एवम् असतः स्यात् प्रधानता, ।गुणत्वम् इतरेषां च तेषां वा स्यात् प्रधानता ॥२५९॥प्राधान्येनाश्रिताः पूर्वं श्रुतेः सामान्यवृत्तयः ।विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रिवादवः ॥२६०॥यथा गौरादिभिस् तेषाम् अवच्छेदो विधीयते ।असताप्य् अनभिव्यक्तं तादात्म्यं व्यज्यते तथा ॥२६१॥यथा सत्ताभिधानाय सन्न् अर्थः परिकल्प्यते ।तथासत्ताभिधानाय निरुपाख्यो ऽपि कल्पते ॥२६२॥क्षत्रियादौ पदं कृत्वा बुद्धिः सत्तान्तराश्रया ।जात्या भिन्नां ततः सत्तां प्रसक्ताम् अपकर्षति ॥२६३॥अभाव इति भावस्य प्रतिषेधे विवक्षिते ।सोपाख्यत्वम् अनाश्रित्य प्रतिषेधो न कल्पते ॥२६४॥अनेकधर्मवचनाः शब्दाः सङ्घाभिधायिनः ।एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः ॥२६५॥यथैकदेशकरणात् कृत इत्व् अभिधीयते ।अकृतश् चेति संघातः स एवाब्राह्मणे क्रमः ॥२६६॥ब्राह्मणो ऽब्राह्मणस् तस्माद् उपन्यासात् प्रसज्यते ।अकृते वा कृतासङ्गाद् अविशिष्टं कृताकृतात् ॥२६७॥अमुख्यसंभवे तत्र मुख्यस्य विनिवृत्तये ।शास्त्रान्वाख्यानसमये नञ् प्रयुक्तो विशेषकः ॥२६८॥पदार्थानुपघातेन दृश्यते ऽन्यविशेषणम् ।अथ जातिमतो ऽर्थस्य कश् चिद् धर्मो निवर्तितः ॥२६९॥अवश्यं ब्राह्मणे कश् चित् क्व चिद् धर्मो न विद्यते ।विशेषावचनात् तत्र नञः श्रुतिर् अनर्थिका ॥२७०॥अविशिष्टस्य पर्यायो नञ्विशिष्टः प्रसज्यते ।अन्वाख्यानाद् धि साधुत्वम् एवंभूते प्रतीयते ॥२७१॥पदार्थानुपघातेन यद्य् अप्य् अत्र विशेषणम् ।उपचारसतो ऽर्थस्य सावस्था द्योत्यते नञा ॥२७२॥विशेष्येषु यथाभूतः पदार्थः समवस्थितः ।तथाभूते तथाभावो गम्यते भेदहेतुभिः ॥२७३॥निवृत्ते ऽवयवस् तस्मिन् पदार्थे वर्तते कथम् ।नानिमित्ता हि शब्दस्य प्रवृत्तिर् उपपद्यते ॥२७४॥आराच् छब्दवद् एकस्य विरुद्धे ऽर्थे स्वभावतः ।शब्दस्य वृत्तिर् यद्य् अस्ति नञः श्रुतिर् अनर्थिका ॥२७५॥अथ स्वभावो वचनाद् अन्वाख्येयत्वम् अर्हति ।तद् वाच्यम् अप्रसिद्धत्वान् नञार्थो विनिवर्त्यते ॥२७६॥यद्य् अप्य् उभयवृत्तित्वं प्रधानं तु प्रतीयते ।प्रस्थानं गम्यते शुद्धे तदर्थे ऽपि न तिष्ठतौ ॥२७७॥किमर्थम् अतथाभूते ऽसति मुख्यार्थसंभवे ।भेदे ब्राह्मणशब्दस्य वृत्तिर् अभ्युपगम्यते ॥२७८॥अयं पदार्थ एतस्मिन् क्षत्रियादौ न विद्यते ।इति तद्वचनः शब्दः प्रत्ययाय प्रयुज्यते ॥२७९॥बुद्धेर् विषयतां प्राप्ते शब्दाद् अर्थे प्रतीयते ।प्रवृत्तिर् वा निवृत्तिर् वा ग्रुत्या ह्य् अर्थो ऽनुसज्यते ॥२८०॥असम्यगुपदेशाद् वा निमित्तात् संशयस्य वा ।शब्दप्रवृत्तिर् न त्व् अस्ति लोष्टादिषु विपर्ययात् ॥२८१॥अनेकस्माद् अस इति प्राधान्ये सति सिध्यति ।सापेक्षत्वं प्रधानानाम् एवं युक्तं त्वतल्विधौ ॥२८२॥एकस्य च प्रधानत्वात् तद्विशेषणसंनिधौ ।प्रधानधर्माव्यावृत्तिर् अतो न वचनान्तरम् ॥२८३॥प्रधानम् अत्र भेद्यत्वाद् एकार्थो विकृतो नञा ।हित्वा स्वधर्मान् वर्तन्ते द्व्यादयो ऽप्य् एकतां गताः ॥२८४॥ब्राह्मणत्वं यथापन्ना नञ्युक्ताः क्षत्रियादयः ।द्वित्वादिषु तथैकत्वं नञ्योगाद् उपचर्यते ॥२८५॥एकत्वयोगम् आसाद्य स धर्मः प्रतिषिध्यते ।द्व्यादिभ्यस् तेषु तच्छब्दो वर्तते ब्राह्मणादिवत् ॥२८६॥आविष्टसंख्यो वाक्ये ऽसौ यथा द्व्यादौ प्रयुज्यते ।वृत्तौ तस्य प्रधानत्वात् सा संख्या न निवर्तते ॥२८७॥प्रतिषेध्यो यथाभूतस् तथाभूतो ऽनुषज्यते ।वचनान्तरयोगे हि न सो ऽर्थः प्रतिषिध्यते ॥२८८॥अशुक्ल इति कृष्णादिर् यथार्थः संप्रतीयते ।संख्यान्तरं तथानेक इत्य् अत्राप्य् अभिधीयते ॥२८९॥क्रियाप्रसङ्गात् सर्वेषु कर्मस्व् अङ्गीकृतेषु च ।एकस्मिन् प्रतिषिद्धे ऽपि प्राप्तम् अन्यत् प्रतीयते ॥२९०॥क्रियाश्रुतिश् च प्रक्रान्ते प्रसज्यप्रतिषेधने ।पर्युदासे तु नियतं संख्येयान्तरम् उच्यते ॥२९१॥धात्वर्थः कर्मविषयो व्यपदिष्टः स्वसाधनैः ।अर्थात् सर्वाणि कर्माणि प्राग् आक्षिप्यावतिष्ठते ॥२९२॥निर्ज्ञातसाधनाधारे यत्राख्याते प्रयुज्यते ।अनेक इति पश्चाच् च तिष्ठतीत्य् अनुषज्यते ॥२९३॥साध्यत्वात् तत्र सिद्धेन क्रिया द्रव्येण लक्ष्यते ।प्राग् एवाङ्गीकृतं द्रव्यम् अतः पूर्वेण भिद्यते ॥२९४॥संख्यैव प्रतिषेधेन संख्यान्तरम् अपेक्षते ।वाक्ये ऽपि तेन नैकत्व- मात्रम् एव निवर्त्यते ॥२९५॥स्नेहान्तराद् अवच्छेदस् तथासत्तेः प्रतीयते ।तैलेन भोजने ऽप्राप्ते न त्व् अन्यद् उपसेचनम् ॥२९६॥एकार्थे वर्तमानाभ्याम् असता ब्राह्मणेन च ।यदा जात्यन्तरं बाह्यं क्षत्रियाद्य् अपदिश्यते ॥२९७॥श्यामेव शस्त्री कन्येति यथान्यद् व्यपदिश्यते ।असन् ब्राह्मण इत्य् आभ्यां तथान्ये क्षत्रियादयः ॥२९८॥असास्नो गौर् इति यथा, गवयो व्यपदिश्यते ।जात्यन्तरं न गोर् एव सस्नाभावः प्रतीयते ॥२९९॥तुल्यरूपं यथाख्यातं कण्टकैर् भेदहेतुभिः ।खदिरं जातिभेदेन खर्जूरात् प्रतिपद्यते ॥३००॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP