संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| साधनसमुद्देशः पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - साधनसमुद्देशः संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण साधनसमुद्देशः Translation - भाषांतर स्वाश्रये समवेतानां तद्वद् एवाश्रयान्तरे ।क्रियाणाम् अभिनिष्पत्तौ सामर्थ्यं साधनं विदुः ॥१॥शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः ।सर्वदा सर्वथा भावात् क्व चित् किं चिद् विवक्ष्यते ॥२॥साधनव्यवहारश् च बुद्ध्यवस्थानिबन्धनः ।सन्न् असन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते ॥३॥बुद्ध्या समीहितैकत्वान् पञ्चालान् कुरुभिर् यदा ।पुनर् विभजते वक्ता तदापायः प्रतीयते ॥४॥शब्दोपहितरूपांश् च बुद्धेर् विषयतां गतान् ।प्रत्यक्षम् इव कंसादीन् साधनत्वेन मन्यते ॥५॥बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः ।अर्थेषु शक्तिभेदानां क्रियते परिकल्पना ॥६॥व्यक्तौ पदार्थे शब्दादेर् जन्यमानस्य कर्मणः ।साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥७॥स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम् ।निरीहेष्व् अपि भावेषु कल्पनोपनिबन्धनम् ॥८॥शक्तयः शक्तिमन्तश् च सर्वे संसर्गवादिनाम् ।भावास् तेष्व् अस्वशब्देषु साधनत्वं निरूप्यते ॥९॥घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम् ।रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् ॥१०॥स्वैः सामान्यविशेषैश् च शक्तिमन्तो रसादयः ।नियतग्रहणा लोके शक्तयस् तास् तथाश्रयैः ॥११॥इन्द्रियार्थमनःकर्तृ- संबन्धः साधनं क्व चित् ।यद् यदा यदनुग्राहि तत् तदा तत्र साधनम् ॥१२॥स्वशब्दैर् अभिधाने तु स धर्मो नाभिधीयते ।विभक्त्यादिभिर् एवासाव् उपकारः प्रतीयते ॥१३॥निमित्तभावो भावानाम् उपकारार्थम् आश्रितः ।नतिर् आवर्जनेत्य् एवं सिद्धः साधनम् इष्यते ॥१४॥स तेभ्यो व्यतिरिक्तो वा तेषाम् आत्मैव वा तथा ।व्यतिरेकम् उपाश्रित्य साधनत्वेन कल्प्यते ॥१५॥संदर्शनं प्रार्थनायां व्यवसाये त्व् अनन्तरा ।व्यवसायस् तथारम्भे साधनत्वाय कल्पते ॥१६॥पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता ।संदर्शने तु चैतन्यं विशिष्टं साधनं विदुः ॥१७॥निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके ।व्यापारभेदापेक्षायां करणत्वादिसंभवः ॥१८॥पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वम् उच्यते ।अयम् अस्याम् इयं त्व् अस्माद् इति भेदो विवक्षया ॥१९॥गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः ।न्यक्तायाम् अपि संपूर्णैः स्वैर् व्यापारैः समन्विताः ॥२०॥करणत्वादिभिर् ज्ञाताः क्रियाभेदानुपातिभिः ।स्वातन्त्र्यम् उत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् ॥२१॥यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम् ।तेषु वृत्तौ तु लभते राजा जयपराजयौ ॥२२॥तथा कर्त्रा नियुक्तेषु सर्वेष्व् एकार्थकारिषु ।कर्तृत्वं करणत्वादेर् उत्तरं न विरुध्यते ॥२३॥अनाश्रिते तु व्यापारे निमित्तं हेतुर् इष्यते ।आश्रितावधिभावं तु लक्षणे लक्षणं विदुः ॥२४॥द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् ।कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुर् इष्यते ॥२५॥क्रियायै करणं तस्य दृष्टः प्रतिनिधिस् तथा ।हेत्वर्था तु क्रिया तस्मान् न स प्रतिनिधीयते ॥२६॥प्रातिलोम्यानुलोम्याभ्यां हेतुर् अर्थस्य साधकः ।तादर्थ्यम् आनुलोम्येन हेतुत्वानुगतं तु तत् ॥२७॥सर्वत्र सहजा शक्तिर् यावद्द्रव्यम् अवस्थिता ।क्रियाकाले त्व् अभिव्यक्तेर् आश्रयाद् उपकारिणी ॥२८॥कुड्यस्यावरणे शक्तिर् अस्यादीनां विदारणे ।सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते ॥२९॥स्वा"न्गसंयोगिनः पाशा दैत्यानां वारुणा यथा ।व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस् तथा ॥३०॥तैक्ष्ण्यगौरवकाठिन्य- संस्थानैः स्वैर् असिर् यदा ।छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा ॥३१॥प्रा"न् निमित्तान्तरोद्भूतं क्रियायाः कैश् चिद् इष्यते ।साधनं सहजं कैश् चित् क्रियान्यैः पूर्वम् इष्यते ॥३२॥प्रवृत्तिर् एव प्रथमं क्व चिद् अप्य् अनपाश्रिता ।शक्तीर् एकाधिकरणे स्रोतोवद् अपकर्षति ॥३३॥अपूर्वं कालशक्तिं वा क्रियां वा कालम् एव वा ।तम् एवम्लक्सनम् भावम् के चिद् आहुह् कथम् च न ॥३४॥नित्याः षट् शक्तयो ऽन्येषां भेदाभेदसमन्विताः ।क्रियासंसिद्धये ऽर्थेषु जातिवत् समवस्थिताः ॥३५॥द्रव्याकारादिभेदेन ताश् चापरिमिता इव ।दृश्यन्ते तत्त्वम् आसां तु षट् शक्तीर् नातिवर्तते ॥३६॥निमित्तभेदाद् एकैव भिन्ना शक्तिः प्रतीयते ।षोढा कर्तृत्वम् एवाहुस् तत्प्रवृत्तेर् निबन्धनम् ॥३७॥तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तद् उच्यते ।शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते ॥३८॥परमार्थे तु नैकत्वं पृथक्त्वाद् भिन्नलक्षणम् ।पृथक्त्वैकत्वरूपेण तत्त्वम् एव प्रकाशते ॥३९॥यत् पृथक्त्वम् असंदिग्धं तद् एकत्वान् न भिद्यते ।यद् एकत्वम् असंदिग्धं तत् पृथक्त्वान् न भिद्यते ॥४०॥द्यौः क्षमा वायुर् आदित्यः सागराः सरितो दिशः ।अन्तःकरणतत्त्वस्य भागा बहिर् अवस्थिताः ॥४१॥कालविच्छेदरूपेण तद् एवैकम् अवस्थितम् ।स ह्य् अपूर्वापरो भावः क्रमरूपेण लक्ष्यते ॥४२॥दृष्टो ह्य् अव्यतिरेके ऽपि व्यतिरेको ऽन्वये ऽसति ।वृक्षाद्यर्थान्वयस् तस्माद् विभक्त्यर्थो ऽन्य इष्यते ॥४३॥सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः ।षट् कर्माख्यादिभेदेन शेषभेदस् तु सप्तमी ॥४४॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP