संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| दिक्समुद्देशः पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - दिक्समुद्देशः संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण दिक्समुद्देशः Translation - भाषांतर दिक् साधनम् क्रिया काल इति वस्त्वभिधायिनः ।शक्तिरूपे पदार्थानाम् अत्यन्तम् अनवस्थिताः ॥१॥व्यतिरेकस्य यो हेतुर् अवधिप्रतिपाद्ययोः ।ऋज्व् इत्य् एवम् यतो ऽन्येन विना बुद्धिः प्रवर्तते ॥२॥कर्मनो जातिभेदानाम् अभिव्यक्तिर् यदाश्रया ।सा स्वैर् उपाधिभिर् भिन्ना शक्तिर् दिग् इति कथ्यते ॥३॥परापरत्वे मूर्तिनां देशभेदनिबन्धने ।तत एव प्रकल्पेते क्रमरूपे तु कालतः ॥४॥आकाशस्य प्रदेशेन भागैश् चान्यैः पृथक् पृथक् ।सा संयोगविभागानाम् उपाधित्वाय कल्पते ॥५॥दिशो व्यवस्था देशानां दिग्व्यवस्था न विद्यते ।शक्तयः खलु भावानाम् उपकारप्रभाविताः ॥६॥प्रत्यस्तरूपा भावेषु दिक् पूर्वेत्य् अभिधीयते ।पूर्वबुद्धिर् यतो दिक् सा समाख्यामात्रम् अन्यथा ॥७॥स्वाङ्गाद् व्यवस्था या लोके न तस्याम् नियता दिशः ।प्रत्यङ्मुखस्य यत् पश्चात् तत् पुरस्ताद् विपर्यये ॥८॥देशव्यवस्थानियमो दिक्षु न व्यवतिष्ठते ।रूढम् अप्य् अपरत्वेन पूर्वम् इत्य् अभिधीयते ॥९॥अतो भाषितपुंस्कत्वात् पुंवद्भावो न सिध्यति ।अस्मिन्न् अर्थे न शब्देन प्रसवः क्व चिद् उच्यते ॥१०॥दिक्शक्तेर् अभिधाने तु नियतं दिशि दर्शनम् ।पूर्वादिनां यथा षष्टेर् जीवितस्यावधारणे ॥११॥छायाभाभ्यां नगादीनाम् भागभेदः प्रकल्पते ।अतद्धर्मसु भावेषु भागभेदो न कल्पते ॥१२॥परमाणोर् अभागस्य दिशा भागो विधीयते ।भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते ॥१३॥अदेशाश् चाप्य् अभागाश् च निष्क्रमा निरुपाश्रयाः ।भावाः संसर्गिरूपात् तु शक्तिभेदः प्रकल्पते ॥१४॥निर्भागात्मकता तुल्या परमाणोर् घटस्य च ।भागः शक्त्यन्तरं तत्र परिमाणं च यत् तयोः ॥१५॥यतः प्रकल्पते भेदो भेदस् तत्रापि दृश्यते ।अदृष्टोपरतिं भेदम् अतो ऽयुक्ततरं विदुः ॥१६॥सर्वत्र तस्य कार्यस्य दर्शनाद् विभुर् इष्यते ।विभुत्वम् एतद् एवाहुर् अन्यः कायवतां विधिः ॥१७॥चैतन्यवत् स्थिता लोके दिक्कालपरिकल्पना ।प्रकृतिं प्राणिनां तां हि को ऽन्यथा स्थापयिष्यति ॥१८॥संकरो व्यवहाराणां प्रकृतेः स्याद् विपर्यये ।तस्मात् त्यजन्न् इमान् भावान् पुनर् एवावलम्बते ॥१९॥तस्यास् तु शक्तेः पूर्वादि- भेदो भावान्तराश्रयः ।भिन्ना दिक् तेन भेदेन भेदायैवोपकल्पते ॥२०॥अवधित्वेन चापेक्षा- योगे दिग्लक्षणो विधिः ।पूर्वम् अस्येति षष्ठ्य् एव दृष्टा धर्मान्तराश्रये ॥२१॥पूर्वादिनां विपर्यासो ऽदृष्टश् चावध्यसंकरे ।ऋज्व् एतद् अस्येत्य् एतच् च लिङ्गं न व्यतिकीर्यते ॥२२॥अन्तःकरणधर्मो वा बहिर् एवं प्रकाशते ।अस्यां त्व् अन्तर्बहिर्भावः प्रक्रियायां न विद्यते ॥२३॥एकत्वम् आसां शक्तीनां नानात्वं वेति कल्पने ।अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् ॥२४॥विकल्पातीततत्त्वेषु संकेतोपनिबन्धनाः ।भावेषु व्यवहारा ये लोकस् तत्रानुगम्यते ॥२५॥नैकत्वम् अस्त्य् अनानात्वं विनैकत्वेन नेतरत् ।परमार्थे तयोर् एष भेदो ऽत्यन्तं न विद्यते ॥२६॥न शक्तीनां तथा भेदो यथा शक्तिमताम् स्थितिः ।न च लौकिकम् एकत्वं तासाम् आत्मसु विद्यते ॥२७॥नैकत्वं व्यवतिष्ठेत नानात्वं चेन् न कल्पयेत् ।नानात्वं चावहीयेत यद्य् एकत्वं न कल्पयेत् ॥२८॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP