संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| अधिकरणाधिकारः पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - अधिकरणाधिकारः संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण अधिकरणाधिकारः Translation - भाषांतर कर्तृकर्मव्यवहिताम् असाक्षाद् धारयत् क्रियाम् ।उपकुर्वत् क्रियासिद्धौ शास्त्रे ऽधिकरणं स्मृतम् ॥१४८॥उपश्लेषस्य चाभेदस् तिलाकाशकटादिषु ।उपकारास् तु भिद्यन्ते संयोगिसमवायिनाम् ॥१४९॥अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता ।दिग्विशेषाद् अवच्छेद इत्याद्या भेदहेतवः ॥१५०॥आकाशम् एव केषां चिद् देशभेदप्रकल्पनात् ।आधारशक्तिः प्रथमा सर्वसंयोगिनां मता ॥१५१॥इदम् अत्रेति भावानाम् अभावान् न प्रकल्पते ।व्यपदेशस् तम् आकाश- निमित्तं संप्रचक्षते ॥१५२॥कालात् क्रिया विभज्यन्त आकाशात् सर्वमूर्तयः ।एतावांश् चैव भेदो ऽयम् अभेदोपनिबन्धनः ॥१५३॥यद्य् अप्य् उपवसिर् देश- विशेषम् अनुरुध्यते ।शब्दप्रवृत्तिधर्मात् तु कालम् एवावलम्बते ॥१५४॥वसताव् अप्रयुक्ते ऽपि देशो ऽधिकरणं ततः ।अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् ॥१५५॥[इत्य् अधिकरणाधिकारः] N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP