TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय १८

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय १८
अतीतेनाध्यायद्वयेन  अभ्युदयनिश्श्रेयससाधनभूतं वैदिकं एव यज्ञतपोदानादिकं कर्म, नान्यत्; वैदिकस्य च कर्मणस्सामान्यलक्षणं प्रणवान्वयः; तत्र मोक्षाभ्युदयसाधनयोर्भेदः तत्सच्छब्दनिर्देश्यत्वेन; मोक्षसाधनं च कर्म फलाभिसन्धिरहितं यज्ञादिकम्; तदारम्भश्च सत्त्वोद्रेकाद्भवति; सत्त्ववृद्धिश्च सात्त्विकाहारसेवया इत्युक्तं । अनन्तरं मोक्षसाधनतया निर्दिष्टयोस्त्यागसंन्यासयोरैक्यम्, त्यागस्य च स्वरूपम्, भगवति सर्वेश्वरे च सर्वकर्मणां कर्तृत्वानुसन्धानम्, सत्त्वरजस्तमसां कार्यवर्णनेन सत्त्वगुणस्यावश्योपादेयत्वम्, स्ववर्णोचितानां कर्मणां परमपुरुषाराधनभूतानां परमपुरुषप्राप्तिनिर्वर्तनप्रकारः, कृत्स्नस्य गीताशास्त्रस्य सारार्थो भक्तियोग इत्येते प्रतिपाद्यन्ते । तत्र तावत्त्यागसंन्यासयोर्पृथक्त्वैकत्वनिर्णयाय स्वरूपनिर्णयाय चार्जुनः पृच्छति

अर्जुन उवाच
संन्यासस्य महाबाहो तत्त्वं इच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन  ॥भगवद्गीता १८.१॥

त्यागसंन्यासौ हि मोक्षसाधनतया विहितौ, "न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वं आनशुः  वेदान्तविज्ञानसुनिश्चितार्थास्संन्यासयोगाद्यतयश्शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ॥" इत्यादिषु । अस्य संन्यासस्य त्यागस्य च तत्त्वं याथात्म्यं पृथक्वेदितुं इच्छामि । अयं अभिप्रायः  किं एतौ संन्यासत्यागशब्दौ पृथगर्थौ, उतैकार्थवेव यदा पृथगर्थौ, तदा अनयोः पृथक्त्वेन स्वरूपं वेदितुं इच्छामि; एकत्वेऽपि तस्य स्वरूपं वक्तव्यं इति ॥१८.१॥

अथानयोरेकं एव स्वरूपम्, तच्चेदृशं इति निर्णेतुं वादिविप्रतिपत्तिं दर्शयन्श्रीभगवानुवाच

श्रीभगवानुवाच
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः  ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः  ॥भगवद्गीता १८.२॥

केचन विद्वांसः काम्यानां कर्मणां न्यासं स्वरूपत्यागं संन्यासं विदुः । केचिच्च विचक्षणाः नित्यानां नैमित्तिकानां च काम्यानां सर्वेषां कर्मणां फलत्याग एव मोक्षशास्त्रेषु त्यागशब्दार्थ इति प्राहुः । तत्र शास्त्रीयत्यागः काम्यकर्मस्वरूपविषयः; सर्वकर्मफलविषय इति विवादं प्रदर्शयनेकत्र संन्यासशब्दं इतरत्र त्यागशब्दं प्रयुक्तवान् । अतस्त्यागसंन्यासशब्दयोरेकार्थत्वं अङ्गीकृतं इति ज्ञायते । तथा "निश्चयं शृणु मे तत्र त्यागे भरतसत्तम" इति त्यागशब्देनैव निर्णयवचनात्, "नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागः तामसः परिकीर्तितः ॥१८.", "अनिष्टं इष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ।" इति परस्परपर्यायतादर्शनाच्च तयोरेकार्थत्वं अङ्गीकृतं इति निश्चीयते ॥१८.२॥

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः  ।
यज्ञदानतपःकर्म न त्याज्यं इति चापरे  ॥भगवद्गीता १८.३॥

एके मनीषिणः कापिलाः वैदिकाश्च तन्मतानुसारिणः रागादिदोषवद्बन्धकत्वात्सर्वं यज्ञादिकं कर्म मुमुक्षुणा त्याज्यं इति प्राहुः; अपरे पण्डिताः यज्ञादिकं कर्म न त्याज्यं इति प्राहुः ॥१८.३॥

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम  ।
त्यागो हि पुरुषव्याघ्र त्रिविधस्संप्रकीर्तितः  ॥भगवद्गीता १८.४॥

तत्र एवं वादिविप्रतिपन्ने त्यागे त्यागविषयं निश्चयं मत्तश्शृणु; त्यागः क्रियमाणेष्वेव वैदिकेषु कर्मसु फलविषयतया, कर्मविषयतया, कर्तृत्वविषयतया च पूर्वं एव हि मया त्रिविधस्संप्रकीर्तितः, "मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः" इति । कर्मजन्यं स्वर्गादिकं फलं मम न स्यादिति फलत्यागः; मदीयफलसाधनतया मदीयं इदं कर्मेति कर्मणि ममतायाः परित्यागः कर्मविषयस्त्यागः; सर्वेश्वरे कर्तृत्वानुसंधानेनात्मनः कर्तृतात्यागः कर्तृत्वविषयस्त्यागः ॥१८.४॥

यज्ञदानतपःकर्म न त्याज्यं कार्यं एव तत् ।

यज्ञदानतपःप्रभृति वैदिकं कर्म मुमुक्षुणा न कदाचिदपि त्याज्यम्, अपि तु आ प्रयाणादहरहः कार्यं एव ॥१८.४॥

कुतः ?

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥भगवद्गीता १८.५॥

यज्ञदानतपःप्रभृतीनि वर्णाश्रमसंबन्धीनि कर्माणि मनीषिणां मननशीलानां पावनानि । मननं उपासनम्; मुमुक्षूणां यावज्जीवं उपासनं कुर्वतां उपासननिष्पत्तिविरोधिप्राचीनकर्मविनाशनानीत्यर्थः ॥१८.५॥

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च  ।
कर्तव्यानीति मे पार्थ निश्चितं मतं उत्तमम् ॥भगवद्गीता १८.६॥

यस्मान्मनीषिणां यज्ञदानतपःप्रभृतीनि पावनानि, तस्मादुपासनवदेतान्यपि यज्ञादिकर्माणि मदाराधनरूपाणि, सङ्गम् कर्मणि ममतां फलानि च त्यक्त्वा अहरहराप्रयाणादुपासननिवृत्तये मुमुक्षुणा कर्तव्यानीति मम निश्चितं उत्तमं मतं ॥१८.६॥

नियतस्य तु संन्यासः कर्मणो नोपपद्यते  ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः  ॥भगवद्गीता १८.७॥

नियतस्य नित्यनैमित्तिकस्य महायज्ञादेः कर्मणः संन्यासः त्यागो नोपपद्यते, "शरीरयात्रापि च तेन प्रसिद्ध्येदकर्मणः" इति शरीरयात्राया एवासिद्धेः, शरीरयात्रा हि यज्ञशिष्टाशनेन निर्वर्त्यमाना सम्यग्ज्ञानाय प्रभवति; अन्यथा, "ते त्वघं भुञ्जते पापाः" इत्ययज्ञशिष्टाघरूपाशनाप्यायनं मनसो विपरीतज्ञानाय भवति । "अन्नमयं हि सोम्य मनः" इत्यन्नेन हि मन आप्यायते । "आहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ॥१८." इति ब्रह्मसाक्षात्काररूपं ज्ञानं आहारशुद्ध्यायत्तं श्रूयते  । तस्मान्महायज्ञादिनित्यनैमित्तिकं कर्म आ प्रयाणाद्ब्रह्मज्ञानायैवोपादेयं इति तस्य त्यागो नोपपद्यते । एवं ज्ञानोत्पादिनः कर्मणो बन्धकत्वमोहात्परित्यागस्तामसः परिकीर्तितः । तमोमूलस्त्यागस्तामसः । तमःकार्याज्ञानमूलत्वेन त्यागस्य तमोमूलत्वं । तमो ह्यज्ञानस्य मूलं, "प्रमादमोहौ तमसो भवतोऽज्ञानं एव च" इत्यत्रोक्तं । अज्ञानं तु ज्ञानविरोधि विपरीतज्ञानम्; तथा च वक्ष्यते, "अधर्मं धर्मं इति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी" इति । अतो नित्यनैमित्तिकादेः कर्मणस्त्यागो विपरीतज्ञानमूल एवेत्यर्थः ॥१८.७॥

दुःखं इत्येव यः कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ भगवद्गीता १८.८॥

यद्यपि परंपरया मोक्षसाधनभूतं कर्म, तथापि दुःखात्मकद्रव्यार्जनसाध्यत्वाद्बह्वायासरूपतया कायक्लेशकरत्वाच्च मनसोऽवसादकरं इति तद्भीत्या योगनिष्पत्तये ज्ञानाभ्यास एव यतनीय इति । यो महायज्ञाद्याश्रमकर्म परित्यजेत्, स राजसं रजोमूलं त्यागं कृत्वा तदयथावस्थितशास्त्रार्थरूपं इति ज्ञानोत्पत्तिरूपं त्यागफलं न लभते; "अयथावत्प्रजानाति बुद्धिस्सा पार्थ राजसी" इति हि वक्ष्यते । न हि कर्म दृष्टद्वारेण मनःप्रसादहेतुः, अपि तु भवगत्प्रसादद्वारेण ॥१८.८॥

कार्यं इत्येव यत्कर्म नियतं क्रियतेऽर्जुन  ।
सङ्गं त्यक्त्वा फलं चैव, स त्यागः सात्त्विको मतः  ॥भगवद्गीता १८.९॥

नित्यनैमित्तिकमहायज्ञादिवर्णाश्रमविहितं कर्म मदाराधनरूपतया कार्यं स्वयंप्रयोजनं इति मत्वा सङ्गं कर्मणि ममतां फलं च त्यक्त्वा यत्क्रियते, स त्यागः सात्त्विको मतः, स सत्त्वमूलः, यथावस्थितशास्त्रार्थज्ञानमूल इत्यर्थः । सत्त्वं हि यथावस्थितवस्तुज्ञानं उत्पादयतीत्युक्तम्, "सत्त्वात्संजायते ज्ञानम्" इति । वक्ष्यते च, "प्रवृत्तिं च निवृत्तिं च कार्याकार्यं भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ " इति॥

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते  ।
त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः  ॥भगवद्गीता १८.१०॥

एवं सत्त्वसमाविष्टो मेधावी यथावस्थिततत्त्वज्ञानः, तत एव च्छिन्नसंशयः, कर्मणि सङ्गफलकर्तृत्वत्यागी, न द्वेष्ट्यकुशलं कर्म; शुकले च कर्मणि नानुषज्जते । अकुशलं कर्म अनिष्टफलम्, कुशलं च कर्म इष्टरूपस्वर्गपुत्रपश्वन्नाद्यादिफलं । सर्वस्मिन्कर्मणि ममतारहितत्वात्, त्यक्तब्रह्मव्यतिरिक्तसर्वफलत्वात्, त्यक्तकर्तृत्वाच्च तयोः क्रियमाणयोः प्रीतिद्वेषौ न करोति । अनिष्टफलं पापं कर्मात्र प्रामादिकं अभिप्रेतम्;  "नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनं आप्नुयात् ॥ १८." इति दुश्चरिताविरतेर्ज्ञानोत्पत्तिविरोधित्वश्रवणात् । अतः कर्मणि कर्तृत्वसङ्गफलानां त्यागः शास्त्रीयत्यागः, न कर्मस्वरूपत्यागः ॥१८.१०॥

तदाह

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः  ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते  ॥भगवद्गीता १८.११॥

न हि देहभृता ध्रियमाणशरीरेण कर्माण्यशेषतस्त्यक्तुं शक्यम्; देहधारणार्थानां अशनपानादीनां तदनुबन्धिनां च कर्मणां अवर्जनीयत्वात् । तदर्थं च महायज्ञाद्यनुष्ठानं अवर्जनीयं । यस्तु तेषु महायज्ञादिकर्मसु फलत्यागी स एव, "त्यागेनैके अमृतत्वं आनशुः" इत्यादिशास्त्रेषु त्यागीत्यभिधीयते । फलत्यागीति प्रदर्शनार्थं फलकर्तृत्वकर्मसङ्गानां त्यागीति; "त्रिविधः संप्रकीर्तितः" इति प्रक्रमात् ॥ १८.११॥

ननु कर्माण्यग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादीनि, महायज्ञादीनि च स्वर्गादिफलसंबन्धितया शास्त्रैर्विधीयन्ते; नित्यनैमित्तिकानां अपि "प्राजापत्यं गृहस्थानाम्" इत्यादिफलसंबन्धितयैव हि चोदना । अतः तत्तत्फलसाधनस्वभावतयावगतानां कर्मणां अनुष्ठाने, बीजावापादीनां इव, अनभिसंहितफलस्यापि इष्टानिष्टरूपफलसंबन्धः अवर्जनीयः । अतो मोक्षविरोधिफलत्वेन मुमुक्षुणा न कर्मानुष्ठेयं इत्यत उत्तरं आह

अनिष्टं इष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ भगवद्गीता १८.१२॥

अनिष्टं नरकादिफलम्, इष्टं स्वर्गादि, मिश्रं अनिष्टसंभिन्नं पुत्रपश्वन्नाद्यादि; एतत्त्रिविधं कर्मणः फलम्, अत्यागिनां कर्तृत्वममताफलत्यागरहितानां प्रेत्य भवति । प्रेत्य कर्मानुष्ठानोत्तरकालं इत्यर्थः । न तु संन्यासिनां क्वचित्न तु कर्तृत्वादिपरित्यागिनां क्वचिदपि मोक्षविरोधि फलं भवति । एतदुक्तं भवति  यद्यप्यग्निहोत्रमहायज्ञादीनि तान्येव, तथापि जीवनाधिकारकामाधिकारयोरिव मोक्षाधिकारे च विनियोगपृथक्त्वेन परिह्रियते । मोक्षविनियोगश्च, "तं एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन" इत्यादिभिरिति । तदेवं क्रियमाणेष्वेव कर्मसु
कर्तृत्वादिपरित्यागः शास्त्रसिद्धिः संन्यासः; स एव च त्याग इत्युक्तः ॥१८.१२॥

इदानीं भगवति पुरुषोत्तमे अन्तर्यामिणि कर्तृत्वानुसंधानेन आत्मनि अकर्तृत्वानुसंधानप्रकारं आह, तत एव फलकर्मणोरपि ममतापरित्यागो भवतीति । परमपुरुषो हि स्वकीयेन जीवात्मना स्वकीयैश्च करणकलेवरप्राणैः स्वलीलाप्रयोजनाय कर्माण्यारभते । अतो जीवात्मगतं क्षुन्निवृत्त्यादिकं अपि फलम्, तत्साधनभूतं च कर्म परमपुरुषस्यैव ।

पञ्चैतानि महाबाहो कारणानि निबोधे मे ।
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥भ्ङ्%_१८.

सांख्या बुद्धिः, सांख्ये कृतान्ते यथावस्थिततत्त्वविषयया वैदिक्या बुद्ध्या अनुसंहिते निर्णये सर्वकर्मणां सिद्धये उत्पत्तये, प्रोक्तानि पञ्चैतानि कारणानि निबोधे मे  मम सकाशादनुसंधत्स्व । वैदिकी हि बुद्धिः शरीरेन्द्रियप्राणजीवात्मोपकरणं परमात्मानं एव कर्तारं अवधारयति, "य आत्मनि तिष्ठनात्मनोऽन्तरो यं आत्मा न वेद यस्यात्मा शरीरं य आत्मानं अन्तरो यमयति स त आत्मान्तर्याम्यमृतः", "अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा" इत्यादिषु ॥१८.१३॥

तदिदं आह

अधिष्ठानं तथा कर्ता करणं च पृथग्विधं ।
विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमं॥
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१८.१५॥

न्याय्ये शास्त्रसिद्धे, विपरीते प्रतिषिद्धे वा सर्वस्मिन्कर्मणि शरीरे, वाचिके, मानसे च पञ्चैते हेतवः । अधिष्ठानं शरीरम्; अधिष्ठीयते जीवात्मनेति महाभूतसंघातरूपं शरीरं अधिष्ठानं । तथा कर्ता जीवात्मा; अस्य जीवात्मनो ज्ञातृत्वं कर्तृत्वं च, "ज्ञोऽत एव", "कर्ता शास्त्रार्थवत्त्वात्" इति च सूत्रोपपादितं । करणं च पृथग्विधम् वाक्पाणिपादादिपञ्चकं समनस्कं कर्मेन्द्रियं पृथग्विधं कर्मनिष्पत्तौ पृथग्व्यापारं । विविधा च पृथक्चेष्टा । चेष्टाशब्देन पञ्चात्मा वायुरभिधीयते तद्वृत्तिवाचिना; शरीरेन्द्रियधारणस्य प्राणापानादिभेदभिन्नस्य वायोः पञ्चात्मनो विविधा च चेष्टा विविधा वृत्तिः । दैवं चैवात्र पञ्चमम् अत्र कर्महेतुकलापे दैवं पञ्चमम् परमात्मा अन्तर्यामी कर्मनिष्पत्तौ प्रधानहेतुरित्यर्थः । उक्तं हि, "सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानं अपोहनं च" इति । वक्ष्यति च, "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥" इति । परमात्मायत्तं च जीवात्मनः कर्तृत्वम्, "परात्तु तच्छ्रुतेः" इत्याद्युपपादितं । नन्वेवं परमात्मायत्ते जीवात्मनः कर्तृत्वे जीवात्मा कर्मण्यनियोज्यो भवतीति विधिनिषेधशास्त्राण्यनर्थकानि स्युः ॥इदं अपि चोद्यं सूत्रकारेण परिहृतम्, "कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयार्थ्यादिभ्यः" इति । एतदुक्तं भवति  परमात्मना दत्तैस्तदाधारैश्च करणकलेबरादिभिस्तदाहितशक्तिभिः स्वयं च जीवात्मा तदाधारस्तदाहितशक्तिस्सन्कर्मनिष्पत्तये स्वेच्छया करणाद्यधिष्ठानाकारं
प्रयत्नं चारभते; तदन्तरवस्थितः परमात्मा स्वानुमतिदानेन तं प्रवर्तयतीति जीवस्यापि स्वबुद्ध्यैव प्रवृत्तिहेतुत्वं अस्ति; यथा गुरुतरशिलामहीरुहादिचलनादिफलप्रवृत्तिषु बहुपुरुषसाध्यासु बहूनां हेतुत्वं विधिनिषेधभाक्त्वं चेति ॥१८.१४॥१५ ॥

तत्रैवं सति कर्तारं आत्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥१८.१६॥

एवं वस्तुतः परमात्मानुमतिपूर्वके जीवात्मनः कर्तृत्वे सति, तत्र कर्मणि केवलं आत्मानं एव कर्तारं यः पश्यति, स दुर्मतिः विपरीतमतिः अकृतबुद्धित्वादनिष्पन्नयथावस्थितवस्तुबुद्धित्वान्न पश्यति न यथावस्थितं कर्तारं पश्यति ॥१८.१६॥

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमांल्लोकान्न हन्ति न निबध्यते ॥१८.१७॥

परमपुरुषकर्तृत्वानुसंधानेन यस्य भावः कर्तृत्वविषयो मनोवृत्तिविशेषः नाहंकृतः नाहमभिमानकृतः । अहं करोमीति ज्ञानं यस्य न विद्यत इत्यर्थः । बुद्धिर्यस्य न लिप्यते अस्मिन्कर्मणि मम कर्तृत्वाभावादेतत्फलं न मया संबध्यते, न च मदीयं कर्मेति यस्य बुद्धिर्जायत इत्यर्थः । स इमान्लोकान्युद्धे हत्वापि तान्न निहन्ति; न केवलं भीष्मादीनित्यर्थः । ततस्तेन युद्धाख्येन कर्मणा न निबध्यते । तत्फलं नानुभवतीत्यर्थः ॥१८.१७॥

सर्वं इदं अकर्तृत्वाद्यनुसन्धानं सत्त्वगुणवृद्ध्यैव भवतीति सत्त्वस्योपादेयताज्ञापनाय कर्मणि सत्त्वादिगुणकृतं वैषम्यं प्रपञ्चयिष्यन्कर्मचोदनाप्रकारं तावदाह

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
कारणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८.१८॥

ज्ञानं कर्तव्यकर्मविषयं ज्ञानम्, ज्ञेयं च कर्तव्यं कर्म, परिज्ञाता तस्य बोद्धेति त्रिविधा कर्मचोदना । बोधबोद्धव्यबोद्धृयुक्तो ज्योतिष्टोमादिकर्मविधिरित्यर्थः । तत्र बोद्धव्यरूपं कर्म त्रिविधं संगृह्यते करणं कर्म कर्तेति । करणं साधनभूतं द्रव्यादिकम्; कर्म यागादिकम्; कर्ता अनुष्ठातेति ॥१८.१८॥

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥१८.१९॥

कर्तव्यकर्मविषयं ज्ञानम्, अनुष्ठीयमानं च कर्म, तस्यानुष्ठाता च सत्त्वादिगुणभेदतस्त्रिविधैव प्रोच्यते गुणसंख्याने गुणकार्यगणने । यथावच्छृणु तान्यपि तानि गुणतो भिन्नानि ज्ञानादीनि यथावच्छृणु ॥१८.१९॥

सर्वभूतेषु येनैकं भावं अव्ययं ईक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकं ॥१८.२०॥

ब्राह्मणक्षत्रियब्रह्मचारिगृहस्थादिरूपेण विभक्तेषु सर्वेषु भूतेषु कर्माधिकारिषु येन ज्ञानेनैकं आत्माख्यं भावं, तत्राप्यविभक्तं ब्राह्मणत्वाद्यनेकाकारेष्वपि भूतेषु सितदीर्घादिविभागवत्सु ज्ञानाकारे आत्मनि विभागरहितम्, अव्ययं व्ययस्वभावेष्वपि ब्राह्मणादिशरीरेषु अव्ययं अविकृतं फलादिसङ्गानर्हं च कर्माधिकारवेलायां ईक्षते, तज्ज्ञानं सात्त्विकं विद्धि ॥१८.२०॥

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसं ॥१८.२१॥

सर्वेषु भूतेषु ब्राह्मणादिषु ब्राह्मणाद्याकारपृथक्त्वेनात्माख्यानपि भावान्नानाभूतान्सितदीर्घादिपृथक्त्वेन च पृथग्विधान्फलादिसंयोगयोग्यान्कर्माधिकारवेलायां यज्ज्ञानं वेत्ति, तज्ज्ञानं राजसं विद्धि ॥१८.२१॥

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तं अहेतुकं ।
अतत्त्वार्थवदल्पं च तत्तामसं उदाहृतं ॥१८.२२॥

यत्तु ज्ञानम्, एकस्मिन्कार्ये एकस्मिन्कर्तव्ये कर्मणि प्रेतभूतगणाद्याराधनरूपे अत्यल्पफले कृत्स्नफलवत्सक्तम्, अहेतुकं वस्तुतस्त्वकृत्स्नफलवत्तया तथाविधसङ्गहेतुरहितं अतत्त्वार्थवत्पूर्ववदेवात्मनि पृथक्त्वादियुक्ततया मिथ्याभूतार्थविषयम्, अत्यल्पफलं च प्रेतभूताद्याराधनविषयत्वादल्पं च, तज्ज्ञानं तामसं उदाहृतं ॥१८.२२॥

एवं कर्तव्यकर्मविषयज्ञानस्याधिकारवेलायां अधिकार्यंशेन गुणतस्त्रैविध्यं उक्त्वा अनुष्ठेयस्य कर्मणो गुणतस्त्रैविध्यं आह

नियतं सङ्गरहितं अरागद्वेषतः कृतं ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकं उच्यते ॥१८.२३॥

नियतं स्ववर्णाश्रमोचितम्, सङ्गरहितं कर्तृत्वादिसङ्गरहितम्, अरागद्वेषतः कृतं कीर्तिरागादकीर्तिद्वेषाच्च न कृतम्; अदम्भेन कृतं इत्यर्थः; अफलप्रेप्सुना अफलाभिसन्धिना कार्यं इत्येव कृतं यत्कर्म, तत्सात्त्विकं उच्यते ॥१८.२३॥

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसं उदाहृतं ॥१८.२४॥

यत्तु पुनः कामेप्सुना फलप्रेप्सुना साहंकारेण वा वाशब्दश्चार्थे कर्तृत्वाभिमानयुक्तेन च, बहुलायासं यत्कर्म क्रियते, तद्राजसं बहुलायासं इदं कर्म मयैव क्रियत इत्येवंरूपाभिमानयुक्तेन यत्कर्म क्रियते, तद्राजसं इत्यर्थः ॥१८.२४॥

अनुबन्धं क्षयं हिंसां अनवेक्ष्य च पौरुषं ।
मोहादारभ्यते कर्म यत्तत्तामसं उच्यते ॥१८.२५॥

कृते कर्मण्यनुबध्यमानं दुःखं अनुबन्धः; क्षयः कर्मणि क्रियमाणे अर्थविनाशः; हिंसा तत्र प्राणिपीडा; पौरुषं आत्मनः कर्मसमापनसामर्थ्यम्; एतानि अनवेक्ष्य अविमृश्य, मोहात्परमपुरुषकर्तृत्वाज्ञानाद्यत्कर्मारभ्यते, तत्तामसं उच्यते ॥१८.२५॥

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥१८.२६॥

मुक्तसङ्गः फलसङ्गरहितः अनहंवादी कर्तृत्वाभिमानरहितः, धृत्युत्साहसमन्वितः आरब्धे कर्मणि यावत्कर्मसमाप्त्यवर्जनीयदुःखधारणं धृतिः; उत्साहः उद्युक्तचेतस्त्वम्; ताभ्यां समन्वितः, सिद्ध्यसिद्ध्योर्निर्विकारः युद्धादौ कर्मणि तदुपकरणभूतद्रव्यार्जनादिषु च सिद्ध्यसिद्ध्योरविकृतचित्तः कर्ता सात्त्विक उच्यते ॥१८.२६॥

रगी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥१८.२७॥

रागी यशोऽर्थी, कर्मफलप्रेप्सुः कर्मफलार्थी; लुब्धः कर्मापेक्षितद्रव्यव्ययस्वभावरहितः, हिंसात्मकः परान्पीडयित्वा तैः कर्म कुर्वाणः, अशुचिः कर्मापेक्षितशुद्धिरहितः, हर्षशोकान्वितः युद्धादौ कर्मणि जयादिसिद्ध्यसिद्ध्योर्हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥१८.२७॥

अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥१८.२८॥

अयुक्तः शास्त्रीयकर्मायोग्यः, विकर्मस्थः, प्राकृतः अनधिगतविद्यः, स्तब्धः अनारम्भशीलः, शठः अभिचारादिकर्मरुचिः, नैकृतिकः वञ्चनपरः, अलसः आरब्धेष्वपि कर्मसु मन्दप्रवृत्तिः, विषादी अतिमात्रावसादशीलः दीर्घसूत्री अभिचारादिकर्म कुर्वन्परेषु दीर्घकालवर्त्यनर्थपर्यालोचनशीलः, एवंभूतो यः कर्ता, स तामसः ॥१८.२८॥

एवं कर्तव्यकर्मविषयज्ञाने कर्तव्ये च कर्मणि अनुष्ठातरि च गुणतस्त्रैविध्यं उक्तम्; इदानीं सर्वतत्त्वसर्वपुरुषार्थनिश्चयरूपाया बुद्धेर्धृतेश्च गुणतस्त्रैविध्यं आह

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानं अशेषेण पृथक्त्वेन धनंजय ॥१८.२९॥

बुद्धिः विवेकपूर्वकं निश्चयरूपं ज्ञानम्; धृतिः आरब्धायाः क्रियाया विघ्नोपनिपातेऽपि धारणम्, तयोस्सत्त्वादिगुणतस्त्रिविधं भेदं पृथक्त्वेन प्रोच्यमानं यथावच्छृणु ॥१८.२९॥

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥१८.३०॥

प्रवृत्तिः अभ्युदयसाधनभूतो धर्मः, निवृत्तिः मोक्षसाधनभूतः, तवुभौ यथावस्थितौ या बुद्धिर्वेत्ति; कार्याकार्ये सर्ववर्णानां प्रवृत्तिनिवृत्तिधर्मयोरन्यतरनिष्ठानां देशकालावस्थाविशेषेषु "इदं कार्यम्, इदं अकार्यम्" इति या वेत्ति; भयाभये  शास्त्रातिवृत्तिर्भयस्थानं तदनुवृत्तिरभयस्थानम्, बन्धं मोक्षं च संसारयाथात्म्यं तद्विगमयाथात्म्यं च या वेत्ति; सा सात्त्विकी बुद्धिः ॥१८.३०॥

यथा धर्मं अधर्मं च कार्यं चाकार्यं एव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥१८.३१॥

यथा पूर्वोक्तं द्विविधं धर्मं तद्विपरीतं च तन्निष्ठानां देशकालावस्थादिषु कार्यं चाकार्यं च यथावन्न जानाति, सा राजसी बुद्धिः ॥१८.३१॥

अधर्मं धर्मं इति या मन्यते तमसावृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥१८.३२॥

तामसी तु बुद्धिः तमसावृता सती सर्वार्थान्विपरीतान्मन्यते । अधर्मं धर्मं, धर्मं चाधर्मं, सन्तं चार्थं असन्तम्, असन्तं चार्थं सन्तं, परं च तत्त्वं अपरम्, अपरं च तत्त्वं परं । एवं सर्वं विपरीतं मन्यत इत्यर्थः ॥१८.३२॥

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥१८.३३॥

यया धृत्या योगेनाव्यभिचारिण्या मनःप्राणेन्द्रियाणां क्रियाः पुरुषो धारयते; योगः मोक्षसाधनभूतं भगवदुपासनम्; योगेन प्रयोजनभूतेनाव्यभिचारिण्या योगोद्देशेन प्रवृत्तास्तत्साधनभूता मनःप्रभृतीनां क्रियाः यया धृत्या धारयते, सा सात्त्विकीत्यर्थः ॥१८.३३॥

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥१८.३४॥

फलाकाङ्क्षी पुरुषः प्रकृष्टसङ्गेन धर्मकामार्थान्यया धृत्या धारयते, सा राजसी । धर्मकामार्थशब्देन तत्साधनभूता मनःप्राणेन्द्रियक्रिया लक्ष्यन्ते । फलाकाङ्क्षीत्यत्रापि फलशब्देन राजसत्वाद्धर्मकामार्था एव विवक्षिताः । अतो धर्मकामार्थापेक्षया मनःप्रभृतीनां क्रिया यया धृत्या धारयते, सा राजसीत्युक्तं भवति ॥१८.३४॥

यया स्वप्नं भयं शोकं विषादं मदं एव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥१८.३५॥

यया धृत्या ।स्वप्नं निद्रां । मदं विषयानुभवजनितं मदं । स्वप्नमदवुद्दिश्य प्रवृत्ता मनःप्राणादीनां क्रियाः दुर्मेधा न विमुञ्चति धारयति । भयशोकविषादशब्दाश्च भयशोकादिदायिविषयपराः; तत्साधनभूताश्च मनःप्राणादिक्रिया यया धारयते, सा धृतिस्तामसी ॥१८.३५॥

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।

पूर्वोक्ताः सर्वे ज्ञानकर्मकर्त्रादयो यच्छेषभूताः, तच्च सुखं गुणतस्त्रिविधं इदानीं शृणु॥

अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥१८.३६॥
यत्तदग्रे विषं इव परिणामेऽमृतोपमं ।
तत्सुखं सात्त्विकं प्रोक्तं आत्मबुद्धिप्रसादजं ॥१८.३७॥

यस्मिन्सुखे चिरकालाभ्यासात्क्रमेण निरतिशयां रतिं प्राप्नोति, दुःखान्तं च निगच्छति निखिलस्य सांसारिकस्य दुःखस्यान्तं निगच्छति ॥तदेव विशिनष्टि  यत्तत्सुखम्, अग्रे योगोपक्रमवेलायां बह्वायाससाध्यत्वाद्विविक्तस्वरूपस्याननुभूतत्वाच्च विषं इव दुःखं इव भवति, परिणामेऽमृतोपमं । परिणामे विपाके अभ्यासबलेन विविक्तात्मस्वरूपाविर्भावे अमृतोपमं भवति, तच्च आत्मबुद्धिप्रसादजं आत्मविषया बुद्धिः आत्मबुद्धिः, तस्याः निवृत्तसकलेतरविषयत्वं प्रसादः, निवृत्तसकलेतरविषयबुद्ध्या विविक्तस्वभावात्मानुभवजनितं सुखं अमृतोपमं भवति; तत्सुखं सात्त्विकं प्रोक्तं ॥१८.३७॥

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमं ।
परिणामे विषं इव तत्सुखं राजसं स्मृतं ॥१८.३८॥

अग्रे अनुभववेलायां विषयेन्द्रियसंयोगाद्यत्तदमृतं इव भवति, परिणामे विपाके विषयाणां सुखतानिमित्तक्षुदादौ निवृत्ते तस्य च सुखस्य निरयादिनिमित्तत्वाद्विषं इव पीतं भवति, तत्सुखं राजसं स्मृतं ॥१८.३८॥

यदग्रे चानुबन्धे च सुखं मोहनं आत्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसं उदाहृतं ॥१८.३९॥

यत्सुखं अग्रे चानुबन्धे च अनुभववेलायां विपाके च आत्मनो मोहनं मोहहेतुर्भवति; मोहोऽत्र यथावस्थितवस्त्वप्रकाशोऽभिप्रेतः; निद्रालस्यप्रमादोत्थं निद्रालस्यप्रमादजनितम्, निद्रादयो ह्यनुभववेलायां अपि मोहहेतवः । निद्राया मोहहेतुत्वं स्पृष्टं । आलस्यं इन्द्रियव्यापारं आन्द्यं । इन्द्रियव्यापारं आन्द्ये च ज्ञानं आन्द्यं भवत्येव । प्रमादः कृत्यानवधानरूप इति तत्रापि ज्ञानं आन्द्यं भवति । ततश्च तयोरपि मोहहेतुत्वं । तत्सुखं तामसं उदाहृतं । अतो मुमुक्षुणा रजस्तमसी अभिभूय सत्त्वं एवोपादेयं इत्युक्तं भवति ॥१८.३९॥

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥१८.४०॥

पृथिव्यां मनुष्यादिषु दिवि देवेषु वा प्रकृतिसंसृष्टेषु ब्रह्मादिषु स्थावरान्तेषु प्रकृतिजैरेभिस्त्रिभिर्गुणैर्मुक्तं यत्सत्त्वं प्राणिजातम्, न तदस्ति ॥१८.४०॥

"त्यागेनैके अमृतत्वं आनशुः" इत्यादिषु मोक्षसाधनतया निर्दिष्टस्त्यागः संन्यासशब्दार्थादनन्यः; स च क्रियमाणेष्वेव कर्मसु कर्तृत्वत्यागमूलः फलकर्मणोस्त्यागः; कर्तृत्वत्यागश्च परमपुरुषे कर्तृत्वानुसंधानेनेत्युक्तं । एतत्सर्वं सत्त्वगुणवृद्धिकार्यं इति सत्त्वोपादेयताज्ञापनाय सत्त्वरजस्तमसां कार्यभेदाः प्रपञ्चिताः । इदानीं एवंभूतस्य मोक्षसाधनतया क्रियमाणस्य कर्मणः परमपुरुषाराधनवेषतां तथानुष्ठितस्य च कर्मणस्तत्प्राप्तिलक्षणं फलं प्रतिपादयितुं ब्राह्मणाद्यधिकारिणां स्वभावानुबन्धिसत्त्वादिगुणभेदभिन्नं वृत्त्या सह कर्तव्यकर्मस्वरूपं आह
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥१८.४१॥

ब्राह्मणक्षत्रियविशां स्वकीयो भावः स्वभावः ब्राह्मणादिजन्महेतुभूतं प्राचीनकर्मेत्यर्थः; तत्प्रभवाः सत्त्वादयो गुणाः । ब्राह्मणस्य स्वभावप्रभवो रजस्तमोऽभिभवेनोद्भूतः सत्त्वगुणः; क्षत्रियस्य स्वभावप्रभवः तमस्सत्त्वाभिभवेनोद्भूतो रजोगुणः; वैश्यस्य स्वभावप्रभवः सत्त्वरजोऽभिभवेनाल्पोद्रिक्तस्तमोगुणः; शूद्रस्य स्वभावप्रभवस्तु रजस्सत्त्वाभिभवेनात्युद्रिक्तस्तमोगुणः । एभिः स्वभावप्रभवैर्गुणैः सह प्रविभक्तानि कर्माणि शास्त्रैः प्रतिपादितानि । ब्राह्मणादय एवंगुणकाः, तेषां चैतानि कर्माणि, वृत्तयश्चैता इति हि विभज्य प्रतिपादयन्ति शास्त्राणि ॥१८.४१॥

शमो दमस्तपश्शौचं क्षान्तिरार्जवं एव च ।
ज्ञानं विज्ञानं आस्तिक्यं ब्राह्मं कर्म स्वभावजं ॥१८.४२॥

शमः बाह्येन्द्रियनियमनम्; दमः अन्तःकरणनियमनम्; तपः भोगनियमनरूपः शास्त्रसिद्धः कायक्लेशः; शौचं शास्त्रीयकर्मयोग्यता; क्षान्तिः परैः पीड्यमानस्याप्यविकृतचित्तता; आर्जवं परेषु मनोऽनुरूपं बाह्यचेष्टाप्रकाशनम्; ज्ञानं परावरतत्त्वयाथात्म्यज्ञानम्; विज्ञानं परतत्त्वगतासाधारणविशेषविषयं ज्ञानम्; आस्तिक्यं वैदिकस्य कृत्स्नस्य सत्यतानिश्चयः प्रकृष्टः; केनापि हेतुना चालयितुं अशक्य इत्यर्थः । भगवान्पुरुषोत्तमो वासुदेवः परब्रह्मशब्दाभिदेयो निरस्तनिखिलदोषगन्धः स्वाभाविकानवधिकातिशयज्ञानशक्त्याद्यसङ्ख्येयकल्याणगुणगणो निखिलवेदवेदान्तवेद्यः; स एव निखिलजगदेककारणं निखिलजगदाधारभूतः; निखिलस्य स एव प्रवर्तयिता; तदाराधनभूतं च वैदिकं कृत्स्नं कर्म; तैस्तैराराधितो धर्मार्थकाममोक्षाख्यं फलं प्रयच्छतीत्यस्यार्थस्य सत्यतानिश्चय आस्तिक्यम्; "वेदैश्च सर्वैरहं एव वेद्यः", "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते ", "मयि सर्वं इदं प्रोतम्", "भोक्तारं यज्ञतपसाम् ..... ज्ञात्वा मां शान्तिं ऋच्छति", "मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय", "यतः प्रवृत्तिर्भूतानां येन सर्वं इदं ततं । स्वकर्मणा तं अभ्यर्च्य सिद्धिं विन्दति मानवः", "यो मां अजं अनादिं च वेत्ति लोकमहेश्वरम्" इति ह्युच्यते । तदेतद्ब्राह्मणस्य स्वभावजं कर्म ॥१८.४२॥

शैर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनं ।
दानं ईश्वरभावश्च क्षात्रं कर्म स्वभावजं ॥१८.४३॥

शैर्यं युद्धे निर्भयप्रवेशसामर्थ्यम्, तेजः परैरनभिभवनीयता, धृतिः आरब्धे कर्मणि विघ्नोपनिपातेऽपि तत्समापनसामर्थ्यम्, दाक्ष्यं सर्वक्रियानिर्वृत्तिसामर्थ्यम्, युद्धे चाप्यपलायनं युद्धे चात्ममरणनिश्चयेऽप्यनिर्वर्तनम्; दानं आत्मीयस्य धनस्य परस्वत्वापादनपर्यन्तस्त्यागः ईश्वरभावः स्वव्यतिरिक्तसकलजननियमनसामर्थ्यम्; एतत्क्षत्रियस्य स्वभावजं कर्म ॥१८.४३॥

कृषिगोरक्ष्यवाणिज्यं वैश्यं कर्म स्वभावजं ।

कृषिः सत्योत्पादनं कर्षणं । गोरक्ष्यं पशुपालनं इत्यर्थः । वाणिज्यं धनसञ्चयहेतुभूतं क्रयविक्रयात्मकं कर्म । एतद्वैश्यस्य स्वभावजं कर्म॥

परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजं ॥१८.४४॥

पूर्ववर्णत्रयपरिचर्यारूपं शूद्रस्य स्वभावजं कर्म । तदेतच्चतुर्णा वर्णानां वृत्तिभिस्सह कर्तव्यानां शास्त्रविहितानां यज्ञादिकर्मणां प्रदर्शनार्थं उक्तं । यज्ञादयो हि त्रयाणां वर्णानां साधारणाः । शमादयोऽपि त्रयाणां वर्णानां मुमुक्षूणां साधारणाः । ब्राह्मणस्य तु सत्त्वोद्रेकस्य स्वाभाविकत्वेन शमदमादयः सुखोपादाना इति कृत्वा तस्य शमादय स्वभावजं कर्मेत्युक्तं । क्षत्रियवैश्ययोस्तु स्वतो रजस्तमःप्रधानत्वेन शमदमादयो दुःखोपादाना इति कृत्वा न तत्कर्मेत्युक्तं । ब्राह्मणस्य वृत्तिर्याजनाध्यापनप्रतिग्रहाः; क्षत्रियस्य जनपदपरिपालनम्; वैश्यस्य च कृष्यादयो यथोक्ताः; शूद्रस्य तु कर्तव्यं वृत्तिश्च पूर्ववर्णत्रयपरिचर्यैव॥

स्वे स्वे कर्मण्यभिरतस्संसिद्धिं लभते नरः ।
स्वकर्मनिरतस्सिद्धिं यथा विन्दति तच्छृणु ॥१८.४५॥

स्वे स्वे यथोदिते कर्मण्यभिरतो नरः संसिद्धिं परमपदप्राप्तिं लभते । स्वकर्मनिरतो यथा सिद्धिं विन्दति परमपदं प्राप्नोति, तथा शृणु ॥१८.४५॥

यतः प्रवृत्तिर्भूतानां येन सर्वं इदं ततं ।
स्वकर्मणा तं अभ्यर्च्य सिद्धिं विन्दति मानवः ॥१८.४६॥

यतो भूतानां उत्पत्त्यादिका प्रवृत्तिः, येन च सर्वं इदं ततम्, स्वकर्मणा तं मां इन्द्राद्यन्तरात्मतयावस्थितं अभ्यर्च्य मत्प्रसादान्मत्प्राप्तिरूपां सिद्धिं विन्दति मानवः । मत्त एव सर्वं उत्पद्यते, मया च सर्वं इदं ततं इति पूर्वं एवोक्तम्, "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत्किंचिदस्ति धनञ्जय ।", "मया ततं इदं सर्वं जगदव्यक्तमूर्तिना", "मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्", "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इत्यादिषु ॥१८.४६॥

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।

एवं त्यक्तकर्तृत्वादिको मदाराधनरूपः स्वधर्मः । स्वेनैवोपादातुं योग्यो धर्मः; प्रकृतिसंसृष्टेन हि पुरुषेणेन्द्रियव्यापाररूपः कर्मयोगात्मको धर्मः सुकरो भवति । अतः कर्मयोगाख्यः स्वधर्मो विगुणोऽपि परधर्मातिन्द्रियजयनिपुणपुरुषधर्माज्ज्ञानयोगात्सकलेन्द्रियनियमनरूपतया सप्रमादात्कदाचित्स्वनुष्ठिताच्श्रेयान् । तदेवोपपादयति

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषं ॥१८.४७॥

प्रकृतिसंसृष्टस्य पुरुषस्य इन्द्रियव्यापाररूपतया स्वभावत एव नियतत्वात्कर्मणः, कर्म कुर्वन्किल्बिषं संसारं न प्राप्नोति; अप्रमादत्वात्कर्मणः । ज्ञानयोगस्य सकलेन्द्रियनियमनसाध्यतया सप्रमादत्वात्तन्निष्ठस्तु प्रमादात्किल्बिषं प्रतिपद्येतापि ॥१८.४७॥

अतः कर्मनिष्ठैव ज्यायसीति तृतीयाध्यायोक्तं स्मारयति

सहजं कर्म कौन्तेय सदोषं अपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥१८.४८॥

अतः सहजत्वेन सुकरं अप्रमादं च कर्म सदोषं सदुःखं अपि न त्यजेत्; ज्ञानयोगयोग्योऽपि कर्मयोगं एव कुर्वीतेत्यर्थः । सर्वारम्भाः,  कर्मारम्भाः ज्ञानारम्भाश्च हि दोषेण दुःखेन धूमेनाग्निरिवावृताः । इयांस्तु विशेषः  कर्मयोगः सुकरोऽप्रमादश्च, ज्ञानयोगस्तद्विपरीतः इति ॥१८.४८॥

असक्तबुद्धिस्सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥१८.४९॥

सर्वत्र फलादिषु असक्तबुद्धिः, जितात्मा  जितमनाः, परमपुरुषकर्तृत्वानुसंधानेनात्मकर्तृत्वे विगतस्पृहः, एवं त्यागादनन्यत्वेन निर्णीतेन संन्यासेन युक्तः कर्म कुर्वन्परमां नैष्कर्म्यसिद्धिं अधिगच्छति  परमां ध्याननिष्ठां ज्ञानयोगस्यापि फलभूतं अधिगच्छतीत्यर्थः । वक्ष्यमाणध्यानयोगावाप्तिं सर्वेन्द्रियकर्मोपरतिरूपां अधिगच्छति ॥१८.४९॥

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥१८.५०॥

सिद्धिं प्राप्तः आप्रयाणादहरहरनुष्ठीयमानकर्मयोगनिष्पाद्यध्यानसिद्द्धिं प्राप्तः, यथा येन प्रकारेण वर्तमानो ब्रह्म प्राप्नोति, तथा समासेन मे निबोध । तदेव ब्रह्म विशेष्यते निष्ठा ज्ञानस्य या परेति । ज्ञानस्य ध्यानात्मकस्य या परा निष्ठा  परमप्राप्यं इत्यर्थः ॥१८.५०॥

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥१८.५१॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥१८.५२॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहं ।
विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते ॥१८.५३॥

बुद्ध्या विशुद्धया यथावस्थितात्मतत्त्वविषयया युक्तः, धृत्या आत्मानं नियम्य च विषयविमुखीकरणेन योगयोग्यं मनः कृत्वा, शब्दादीन्विषयान्त्यक्त्वा  असन्निहितान्कृत्वा, तन्निमित्तौ च रागद्वेषौ व्युदस्य, विविक्तसेवी  सर्वैर्ध्यानविरोधिभिर्विविक्ते देशे वर्तमानः, लघ्वाशी  अत्यशनानशनरहितः, यतवाक्कायमानसः  ध्यानाभिमुखीकृतकायवाङ्मनोवृत्तिः, ध्यानयोगपरो नित्यम् एवंभूतस्सना प्रायाणादहरहर्ध्यानयोगपरः, वैराग्यं समुपाश्रितः  ध्येयतत्त्वव्यतिरिक्तविषयदोषावमर्शेन तत्र तत्र विरागतां वर्धयन्, अहंकारम् अनात्मनि आत्माभिमानं, बलम् तद्वृद्धिहेतुभूतवासनबलं, तन्निमित्तं दर्पं कामं क्रोधं परिग्रहं विमुच्य, निर्ममः सर्वेष्वनात्मीयेष्वात्मीयबुद्धिरहितः, शान्तः  आत्मानुभवैकसुखः, एवंभूतो ध्यानयोगं कुर्वन्ब्रह्मभूयाय कल्पते  सर्वबन्धविनिर्मुक्तो यथावस्थितं आत्मानं अनुभवतीत्यर्थः ॥१८.५१  ५३॥

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समस्सर्वेषु भूतेषु मद्भक्तिं लभते परां ॥१८.५४॥

ब्रह्मभूतः  आविर्भूतापरिच्छिन्नज्ञानैकाकारमच्छेषतैकस्वभावात्मस्वरूपः, "इतस्त्वन्यां प्रकृतिं विद्धि मे पराम्" इति हि स्वशेषतोक्ता । प्रसन्नात्मा  क्लेशकर्मादिभिरकलुषस्वरूपो मद्व्यतिरिक्तं न कंचन भूतविशेषं प्रति शोचति; न किंचन काङ्क्षति; अपि तु मद्व्यतिरिक्तेषु सर्वेषु भूतेषु अनादरणीयतायां समो निखिलं वस्तुजातं तृणवन्मन्यमानो मद्भक्तिं लभते परां मयि सर्वेश्वरे निखिलजगदुद्भवस्थितिप्रलयलीले निरस्तसमस्तहेयगन्धेऽनवधिकातिशयासंख्येयकल्याणगुणगणैकताने लावण्यामृतसागरे श्रीमति पुण्डरीकनयने स्वस्वामिनि अत्यर्थप्रियानुभवरूपां परां भक्तिं लभते ॥१८.५४॥

तत्फलं आह

भक्त्या मां अभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरं ॥१८.५५॥

स्वरूपतः स्वभावतश्च योऽहम्; गुणतो विभूतितोऽपि यावांश्चाहम्, तं मां एवंरूपया भक्त्या तत्त्वतोऽभिजानाति; मां तत्त्वतो ज्ञात्वा तदनन्तरम् तत्त्वज्ञानानन्तरं ततः भक्तितः मां विशते प्रविशति । तत्त्वतस्स्वरूपस्वभावगुणविभूतिदर्शनोत्तरकालभाविन्या अनवधिकातिशयभक्त्या मां प्राप्नोतीत्यर्थः । अत्र तत इति प्राप्तिहेतुतया, निर्दिष्टा भक्तिरेवाभिधीयते; "भक्त्या त्वनन्यया शक्यः" इति तस्य एव तत्त्वतः प्रवेशहेतुत्वाभिधानात् ॥ १८.५५॥

एवं वर्णाश्रमोचितनित्यनैमित्तिककर्मणां परित्यक्तफलादिकानां परमपुरुषाराधनरूपेणानुष्ठितानां विपाक उक्तः । इदानीं काम्यानां अपि कर्मणां उक्तेनैव प्रकारेणानुष्ठितानां स एव विपाक इत्याह

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदं अव्ययं ॥१८.५६॥

न केवलं नित्यनैमित्तिकानि कर्माणि, अपि तु सर्वाणि काम्यान्यपि कर्माणि, मद्व्याश्रयः मयि संन्यस्तकर्तृत्वादिकः कुर्वाणो मत्प्रसादाच्छाश्वतं पदं अव्ययं अविकलं प्राप्नोति । पद्यते गम्यत इति पदम्; मां प्राप्नोतीत्यर्थः ॥१८.५६॥

यस्मादेवम्, तस्मात्

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुद्धियोगं उपाश्रित्य मच्चित्तस्सततं भव ॥१८.५७॥

चेतसा  आत्मनो मदीयत्वमन्नियाम्यत्वबुद्ध्या । उक्तं हि, "मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा" इति । सर्वकर्माणि सकर्तृकाणि साराध्यानि मयि संन्यस्य, मत्परः  अहं एव फलतया प्राप्य इत्यनुसंधानः, कर्माणि कुर्वनिमं एव बुद्धियोगं उपाश्रित्य सततं मच्चित्तो भव ॥१८.५७॥

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वं अहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥१८.५८॥

एवं मच्चित्तः सर्वकर्माणि कुर्वन्सर्वाणि सांसारिकाणि दुर्गाणि मत्प्रसादादेव तरिष्यसि । अथ त्वं अहंकारादहं एव कृत्याकृत्यविषयं सर्वं जानामीति भावान्मदुक्तं न श्रोष्यसि चेत्, विनङ्क्ष्यसि  विनष्टो भविष्यसि । न हि कश्चिन्मद्व्यतिरिक्तः कृत्स्नस्य प्राणिजातस्य कृत्याकृत्ययोर्ज्ञाता प्रशासिता वास्ति ॥१८.५८॥

यद्यहङ्कारं आश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥१८.५९॥

यदि अहंकारं आत्मनि हिताहितज्ञाने स्वातन्त्र्याभिमानं आश्रित्य मन्नियोगं अनादृत्य न योत्स्य इति मन्यसे, एष ते स्वातन्त्र्यव्यवसायो मिथ्या भविष्यति; यतः प्रकृतिस्त्वां युद्धे नियोक्ष्यति मत्स्वातन्त्र्योद्विग्नं त्वां अज्ञं प्रकृतिर्नियोक्षति ॥१८.५९॥

तदुपपादयति

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ १८.६०॥

स्वभावजं हि क्षत्रियस्य कर्म शौर्यं । स्वभावजेन शौर्याख्येन स्वेन कर्मणा निबद्धः, तदेवावशः, परैर्धर्षणं असहमानस्त्वं एव तद्युद्धं करिष्यसि, यदिदानीं मोहादज्ञानात्कर्तुं नेच्छसि ॥१८.६०॥

सर्वं हि भूतजातं सर्वेश्वरेण मया पूर्वकर्मानुगुण्येन प्रकृत्यनुवर्तने नियमितम्; तच्छृणु ।

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥१८.६१॥

ईश्वरः सर्वनियमनशीलो वासुदेवः सर्वभूतानां हृद्देशे सकलप्रवृत्तिमूलज्ञानोदयप्रदेशे तिष्ठति । कथं किं कुर्वंस्तिष्ठति ? यन्त्रारूढानि सर्वभूतानि मायया भ्रामयन् । स्वेनैव निर्मितं देहेन्द्रियावस्थं प्रकृत्याख्यं यन्त्रं आरूढानि सर्वभूतानि स्वकीयया सत्त्वादिगुणमय्या मायया गुणानुगुणं प्रवर्तयंस्तिष्ठतीत्यर्थः । पूर्वं अप्येतदुक्तम्, "सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानं अपोहनं च" इति; "मत्तस्सर्वं प्रवर्तते" इति च । "य आत्मनि तिष्ठन्" इत्यादिका श्रुतिश्च ॥१८.६१॥

एतन्मायानिवृत्तिहेतुं आह

तं एव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतं ॥१८.६२॥

यस्मादेवम्, तस्मात्तं एव सर्वस्य प्रशासितारम्, आश्रितवात्सल्येन त्वत्सारथ्येऽवस्थितम्, "इत्थं कुरु " इति च शासितारं सर्वभावेन सर्वात्मना शरणं गच्छ । सर्वात्मनानुवर्तस्व । अन्यथापि तन्मायाप्रेरितेनाज्ञेन त्वया युद्धादिकरणं अवर्जनीयं । तथा सति नष्टो भविष्यसि । अतस्तदुक्तप्रकारेण युद्धादिकं कुर्वित्यर्थः । एवं कुर्वाणस्तत्प्रसादात्परां शान्तिं सर्वकर्मबन्धोपशमं शाश्वतं च स्थानं प्राप्स्यसि । यदभिधीयते श्रुतिशतैः, "तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः, "ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः", "यत्र ऋषयः प्रथमजा ये पुराणाः", "परेण नाकं निहितं गुहायाम्", "योऽस्याध्यक्षः परमे व्योमन्", "अथ यदतः परो दिवो ज्योतिर्दीप्यते", "सोऽध्वनः पारं आप्नोति तद्विष्णोः परमं पदम्" इत्यादिभिः॥

इति ते ज्ञानं आख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥१८.६३॥

इति  एवं ते मुमुक्षुभिरधिगन्तव्यं ज्ञानं सर्वस्माद्गुह्याद्गुह्यतरं कर्मयोगविषयं ज्ञानयोगविषयं भक्तियोगविषयं च सर्वं आख्यातं । एतदशेषेण विमृश्य स्वाधिकारानुरूपं यथेच्छसि, तथा कुरु कर्मयोगं ज्ञानयोगं भक्तियोगं वा यथेष्टं आतिष्ठेत्यर्थः ॥१८.६३॥

सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढं इति ततो वक्ष्यामि ते हितं ॥१८.६४॥

सर्वेष्वेतेषु गुह्येषु भक्तियोगस्य श्रैष्ठ्याद्गुह्यतमं इति पूर्वं एवोक्तं "इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे" इत्यादौ । भूयोऽपि तद्विषयं परमं मे वचः शृणु । इष्टोऽसि मे दृढं इति ततस्ते हितं वक्ष्यामि ॥१८.६४॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मां एवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥१८.६५॥

वेदान्तेषु, "वेदाहं एतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् । तं एवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय" इत्यादिषु विहितं वेदनं ध्यानोपासनादिशब्दवाच्यं दर्शनसमानाकारं स्मृतिसंतानं अत्यर्थप्रियं इह मन्मना भवेति विधीयते । मद्भक्तः अत्यर्थमत्प्रियः । अत्यर्थमत्प्रियत्वेन निरतिशयप्रियां स्मृतिसंततिं कुरुष्वेत्यर्थः । मद्याजी । तत्रापि मद्भक्त इत्यनुषज्यते । यजनं पूजनं । अत्यर्थप्रियमदाराधनपरो भव । आराधनं हि परिपूर्णशेषवृत्तिः । मां नमस्कुरु । नमः  नमनं । मय्यतिमात्रप्रह्वीभावं अत्यर्थप्रियं कुर्वित्यर्थः । एवं वर्तमानो मां एवैष्यसि । एतत्सत्यं ते प्रतिजाने  तव प्रतिज्ञां करोमि; नोपच्छन्दनमात्रम्; यतस्त्वं प्रियोऽसि मे । "प्रियो हि ज्ञानिनोऽत्यर्थं अहं स च मम प्रियः" इति पूर्वं एवोक्तं । यस्य मय्यतिमात्रता प्रीतिर्वर्तते, ममापि तस्मिनतिमात्रा प्रीतिर्भवतीति तद्वियोगं असहमानोऽहं तं मां प्रापयामि । अतः सत्यं एव प्रतिज्ञातम्, मां एवैष्यसीति ॥१८.६५॥

सर्वधर्मान्परित्यज्य मां एकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥१८.६६॥

कर्मयोगज्ञानयोगभक्तियोगरूपान्सर्वान्धर्मान्परमनिश्श्रेयससाधनभूतान्, मदाराधनत्वेन अतिमात्रप्रीत्या यथाधिकारं कुर्वाण एव, उक्तरीत्या फलकर्मकर्तृत्वादिपरित्यागेन परित्यज्य, मां एकं एव कर्तारं आराध्यं प्राप्यं उपायं चानुसंधत्स्व । एष एव सर्वधर्माणां शस्त्रीयः परित्याग इति, "निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥१८." इत्यारभ्य, "सङ्गं त्यक्त्वा फलं चैव स त्यागस्सात्तिविको मतः  ॥... न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥१८." इति अध्यायादौ सुदृढं उपपादितम् । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि  एवं वर्तमानं त्वां मत्प्राप्तिविरोधिभ्योऽनादिकालसंचितानन्ताकृत्यकरणकृत्याकरणरूपेभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि । मा शुचः  शोकं मा कृथाः । अथ वा, सर्वपापविनिर्मुक्तात्यर्थभगवत्प्रियपुरुषनिर्वर्त्यत्वाद्भक्तियोगस्य, तदारम्भविरोधिपापानां आनन्त्यात्तत्प्रायश्चित्तरूपैर्धर्मैः परिमितकालकृतैस्तेषां दुस्तरतया आत्मनो भक्तियोगारम्भानर्हतां आलोच्य शोचतोऽर्जुनस्य शोकं अपनुदन्श्रीभगवानुवाच  सर्वधर्मान्परित्यज्य मां एकं शरणं व्रजेति । भक्तियोगारम्भविरोध्यनादिकालसंचितनानाविधानन्तपापानुगुणान्तत्तत्प्रायश्चित्तरूपान्कृच्छ्रचान्द्रायणकूश्माण्डवैश्वानरव्रातपतिपवित्रेष्टित्रिवृदग्निष्टोमादिकान्नानाविधाननन्तांस्त्वया परिमितकालवर्तिना दूरनुष्ठानान्सर्वान्धर्मान्परित्यज्य भक्तियोगारम्भसिद्धये मां एकं परमकारुणिकं अनालोचितविशेषाशेषलोकशरण्यम्
आश्रितवात्सल्यजलधिं शरणं प्रपद्यस्व । अहं त्वा सर्वपापेभ्यः यथोदितस्वरूपभक्त्यारम्भविरोधिभ्यः सर्वेभ्यः पापेभ्यः मोक्षयिष्यामि; मा शुचः ॥१८.६६॥

इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥१८.६७॥

इदं ते परमं गुह्यं शास्त्रं मयाख्यातं अतपस्काय अतप्ततपसे त्वया न वाच्यम्; त्वयि वक्तरि, मयि चाभक्ताय कदाचन न वाच्यं । तप्ततपसे चाभक्ताय न वाच्यं इत्यर्थः । न चाशुश्रूषवे । भक्तायाप्यशुश्रूषवे न वाच्यं । न च मां योऽभ्यसूयति । मत्स्वरूपे मदैश्वर्ये मद्गुणेषु च कथितेषु यो दोषं आविष्करोति, न तस्मै वाच्यं । असमानविभक्तिनिर्देशः तस्यात्यन्तपरिहरणीयताज्ञापनाय ॥१८.६७॥

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मां एवैष्यत्यसंशयः ॥१८.६८॥

इदं परमं गुह्यं मद्भक्तेषु यः अभिधास्यति व्याख्यास्यति, सः मयि परमां भक्तिं कृत्वा मां एवैष्यति; न तत्र संशयः ॥१८.६८॥

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥१८.६९॥

सर्वेषु मनुष्येष्वितः पूर्वं तस्मादन्यो मनुष्यो मे न कश्चित्प्रियकृत्तमोऽभूत्; इत उत्तरं च न भविता । अयोग्यानां प्रथमं उपादानं योग्यानां अकथनादपि तत्कथनस्यानिष्टतमत्वात् ॥

अध्येष्यते च य इमं धर्म्यं संवादं आवयोः ।
ज्ञानयज्ञेन तेनाहं इष्टः स्यां इति मे मतिः ॥१८.७०॥

य इमं आवयोर्धर्म्यं संवादं अध्येष्यते, तेन ज्ञानयज्ञेनाहं इष्टस्स्यां इति मे मतिः  अस्मिन्यो ज्ञानयज्ञोऽभिधीयते, तेनाहं एतदध्ययनमात्रेणेष्टः स्यां इत्यर्थः ॥१८.७० ।

श्रद्धावाननसूयुश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभांल्लोकान्प्राप्नुयात्पुण्यकर्मणां ॥१८.७१॥

श्रद्धावाननसूयुश्च यो नरः शृणुयादपि, तेन श्रवणमात्रेण सोऽपि भक्तिविरोधिपापेभ्यो मुक्तः पुण्यकर्मणां मद्भक्तानां लोकान्समूहन्प्राप्नुयात् ॥ १८.७१ ।

कश्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय ॥१८.७२॥

मया कथितं एतत्पार्थ त्वया अवहितेन चेतसा कच्चिच्श्रुतम्, तवाज्ञानसंमोहः कच्चित्प्रनष्टः, येनाज्ञानेन मूढो न योत्स्यामीत्युक्तवान् ॥ १८.७२॥

अर्जुन उवाच
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥१८.७३॥

मोहः विपरीतज्ञानं । त्वत्प्रसादान्मम तद्विनष्टं । स्मृतिः यथावस्थिततत्त्वज्ञानं । त्वत्प्रसादादेव तच्च लब्धं । अनात्मनि प्रकृतौ आत्माभिमानरूपो मोहः, परमपुरुषशरीरतया तदात्मकस्य कृत्स्नस्य चिदचिद्वस्तुनः अतदात्माभिमानरूपश्च, नित्यनैमित्तिकरूपस्य कर्मणः परमपुरुषाराधनतया तत्प्राप्त्युपायभूतस्य बन्धकत्वबुद्धिरूपश्च सर्वो विनष्टः । आत्मनः प्रकृतिविलक्षणत्वतत्स्वभावरहितताज्ञातृत्वैकस्वभावतापरमपुरुषशेषतातन्नियाम्यत्वैकस्वरूपताज्ञानम्, निखिलजगदुद्भवस्थितिप्रलयलीलाशेषदोषप्रत्यनीककल्याणैकस्वरूपस्वाभाविकानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृतिसमस्तकल्याणगुणगणमहार्णवपरब्रह्मशब्दाभिधेयपरमपुरुषयाथात्म्यज्ञानं च, एवंरूपपरावरतत्त्वयाथात्म्यविज्ञानतदभ्यासपूर्वकाहरहरुपचीयमानपरमपुरुषप्रीत्येकफलनित्यनैमित्तिककर्मनिषिद्धपरिहारशमदमाद्यात्मगुणनिवर्त्यभक्तिरूपतापन्नपरमपुरुषोपासनैकलभ्यो वेदान्तवेद्यः परमपुरुषो वासुदेवस्त्वं इति ज्ञानं च लब्धं । ततश्च बन्धस्नेहकारुण्यप्रवृद्धविपरीतज्ञानमूलात्सर्वस्मादवसादाद्विमुक्तो गतसंदेहः स्वस्थः स्थितोऽस्मि । इदानीं एव युद्धादिकर्तव्यताविषयं तव वचनं करिष्यति  यथोक्तं युद्धादिकं करिष्यति इत्यर्थः ॥१८.७३॥

धृतराष्ट्राय स्वपुत्राः पाण्डवाश्च युद्धे किं करिष्यन्तीति पृच्छते

सञ्जय उवाच
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादं इमं अश्रौषं अद्भुतं रोमहर्षणं ॥१८.७४॥

इति एवं वासुदेवस्य वसुदेवसूनोः, पार्थस्य च तत्पितृष्वसुः पुत्रस्य च महात्मनः महाबुद्धेस्तत्पदद्वन्द्वं आश्रितस्येमं रोमहर्षणं अद्भुतं संवादं अहं यथोक्तं अश्रौषं श्रुतवानहं ॥१८.७४॥

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यं अहं परं ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयं ॥१८.७५॥

व्यासप्रसादाद्व्यासानुग्रहेण दिव्यचक्षुश्श्रोत्रलाभादेतत्परं योगाख्यं गुह्यं योगेश्वराज्ज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधेर्भगवतः कृष्णात्स्वयं एव कथयतः साक्षाच्श्रुतवानहं ॥१८.७५॥

राजन्संस्मृत्य संस्मृत्य संवादं इमं अद्भुतं ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥१८.७६॥

केशवार्जुनयोरिमं पुण्यं अद्भुतं संवादं साक्षाच्छ्रुतं स्मृत्वा मुहुर्मुहुर्हृष्यामि॥

तच्च संस्मृत्य संस्मृत्य रूपं अत्यद्भुतं हरेः ।
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ॥१८.७७॥

तच्चार्जुनाय प्रकाशितं ऐश्वरं हरेरत्यद्भुतं रूपं मया साक्षात्कृतं संस्मृत्य संस्मृत्य हृष्यतो मे महान्विस्मयो जायते; पुनः पुनश्च हृष्यामि ॥१८.७७॥
किं अत्र बहुनोक्तेन ?

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥१८.७८॥

यत्र योगेश्वरः कृत्स्नस्योच्चावचरूपेणावस्थितस्य चेतनस्याचेतनस्य च वस्तुनो ये ये स्वभावयोगाः, तेषां सर्वेषां योगानां ईश्वरः, स्वसंकल्पायत्तस्वेतरसमस्तवस्तुस्वरूपस्थितिप्रवृत्तिभेदः, कृष्णः वसुदेवसूनुः, यत्र च पार्थो धनुर्धरः तत्पितृष्वसुः पुत्रः तत्पदद्वन्द्वैकाश्रयः, तत्र श्रीर्विजयो भूतिर्नीतिश्च ध्रुवा निश्चला इति मतिर्ममेति ॥१८.७८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:17.0600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मनु V.

  • n. एक अग्निविशेष, जो तप नाम धारण करनेवाले पांचजन्य नामक अग्नि का पुत्र था । इसकी सुप्रजा, भृहत्भासा एवं निशा नामक तीन पत्नियॉं थी । उनमें से प्रथम दो से इसे छः पुत्र एवं तीसरी से इसे एक कन्या तथा सात पुत्र उत्पन्न हुए थे । इसके पुत्रों में निम्नलिखित चार पुत्र प्रमुख थेः---वैश्वानर, विश्वपति, स्विष्टकृत् एवं कर्मन् [म.व.२२३] 
RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.