TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय १

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय १
यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुतां उपयातोऽहं यामुनेयं नमामि तं॥

श्रियः पतिः, निखिलहेयप्रत्यनीककल्याणैकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञनानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृत्यसंख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयाउज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपः, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणः, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवाइश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषसेषतैकरतिरूपनित्यनिरवद्यनिरतिशयज्ञानक्रियाइश्वर्याद्यनन्तगुणगणापरिमितसूरिभिरनवरताभिष्टुतचरणयुगलः, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म पुरुषोत्तमो नारायणः, ब्रह्मादिस्थावरान्तं अखिलं जगत्सृष्ट्वा ,स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरः, अपारकारुण्यसौशील्यवात्सल्याउदार्यमहोदधिः, स्वं एव रूपं तत्तत्सजातीयसंस्थानं स्वस्वभावं अजहदेव कुर्वन्तेषु तेषु लोकेष्ववतीर्यावतीर्य तैस्तैराराधितस्तत्तदिष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनां अपि समाश्रयणीयत्वायावतीर्योर्व्यां
सकलमनुजनयनविषयतां गतः, परावरनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन्, पूतनाशकटयमलार्जुनारिष्टप्रलम्बधेनुककालियकेशिकुवलयापीडचाणूरमुष्टिकतोसलकंसादीन्निहत्य अनवधिकदयासौहार्दानुरागगर्भावलोकनालापामृतैर्विश्वं आप्याययन्, निरतिशयसौन्दर्यसौशील्यादिगुणगणाविष्कारेणाक्रूरमालाकारादीन्परमभागवतान्कृत्वा, पाण्डुतनययुद्धप्रोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगं अवतारयां आस । तत्र पाण्डवानां कुरूणां च युद्धे प्रारब्धे स भगवान्पुरुषोत्तमः सर्वेश्वरेश्वरो जगदुपकृतिमर्त्यः आश्रितवात्सल्यविवशः पार्थं रथिनं आत्मानं च सारथिं सर्वलोकसाक्षिकं चकार ।

धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः  ।
मामकाः पाण्डवाश्चैव किं अकुर्वत सञ्जय  ॥भगवद्गीता १.१॥

एवं ज्ञात्वापि सर्वात्मनान्धो धृतराष्ट्रः सुयोधनविजयबुभुत्सया सञ्जयं पप्रच्छ ।

सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा  ।
आचार्यं उपसंगम्य राजा वचनं अब्रवीत् ॥ भगवद्गीता १.२॥
पश्यैतां पाण्डुपुत्राणां आचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता  ॥भगवद्गीता १.३॥
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि  ।
युयुधानो विराटश्च द्रुपदश्च महारथः  ॥भगवद्गीता १.४॥
धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः  ॥भगवद्गीता १.५॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः  ॥भगवद्गीता १.६॥
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम  ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते  ॥भगवद्गीता १.७॥
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः  ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च  ॥भगवद्गीता १.८॥
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः  ।
नानाशस्त्रप्रहरणास्सर्वे युद्धविशारदाः  ॥भगवद्गीता १.९॥
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदं एतेषां बलं भीमाभिरक्षितम् ॥भगवद्गीता १.१०॥
अयनेषु च सर्वेषु यथाभागं अवस्थिताः  ।
भीष्मं एवाभिरक्षन्तु भवन्तः सर्व एव हि  ॥भगवद्गीता १.११॥

दुर्योधनः स्वयं एव भीमाभिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्माभिरक्षितं बलं अवलोक्य, आत्मविजये तस्य बलस्य पर्याप्ततां आत्मीयस्य बलस्य तद्विजये चापर्याप्ततां आचार्याय निवेद्य अन्तर्विषण्णोऽभवत् ॥ १.२११॥

तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः  ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥भगवद्गीता १.१२॥
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः  ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ भगवद्गीता १.१३॥
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ  ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः  ॥भगवद्गीता १.१४॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः  ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः  ॥भगवद्गीता १.१५॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः  ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ  ॥भगवद्गीता १.१६॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः  ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः  ॥भगवद्गीता १.१७॥
द्रुपदो द्रौपदेयाश्च सर्वतः पृथिवीपते  ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥भगवद्गीता १.१८॥

तस्य विषादं आलक्ष्य भीष्मस्तस्य हर्षं जनयितुं सिंहनादं शङ्खध्मानं च कृत्वा, शङ्खभेरीनिनादैश्च विजयाभिशंसिनं घोषं चाकारयत् ॥  ततः  तं घोषं आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयस्त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोऽप्यनुनादयन् ॥भगवद्गीता १.१९॥
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः  ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः  ॥भगवद्गीता १.२०॥
हृषीकेशं तदा वाक्यं इदं आह महीपते  ।
अर्जुन उवाच  
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत  ॥भगवद्गीता १.२१॥

त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः॥

ततो युधिष्ठिरो वृकोदरादयश्च स्वकीयान्शङ्खान्पृथक्पृथक्प्रदध्मुः । स घोषो दुर्योधनप्रमुखानां सर्वेषां एव भवत्पुत्राणां हृदयानि बिभेद । "अद्यैव नष्टं कुरूणां बलम्" इति धार्तराष्ट्रा मेनिरे । एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय सञ्जयोऽकथयत् ॥ १.१२१९॥

अथ युयुत्सूनवस्थितान्धार्तराष्ट्रान्दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यं अस्मिन्रणसमुद्यमे  ॥भगवद्गीता १.२२॥
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः  ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः  ॥भगवद्गीता १.२३॥
सञ्जय उवाच
एवं उक्तो हृषीकेशो गुडाकेशेन भारत  ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥भगवद्गीता १.२४॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति  ॥भगवद्गीता १.२५॥
तत्रापश्यत्स्थितान्पार्थः पित्Qनथ पितामहान् ।

ज्ञानशक्तिबलाइश्वर्यवीर्यतेजसां निधिं स्वसङ्कल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तरबाह्यकरणानां सर्वप्रकारनियमनेऽवस्थितं आश्रितवात्सल्यविवशतया स्वसारथ्येऽवस्थितम्, "युयुत्सून्यथावदवेक्षितुं तदीक्षनक्षमे स्थाने रथं स्थापय" इत्यचोदयत् ॥

आचार्यान्मातुलान्भ्रात्Qन्पुत्रान्पौत्रान्सखींस्तथा  ॥भगवद्गीता १.२६॥
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि  ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥भगवद्गीता १.२७॥
कृपया परयाविष्टो विषीदन्निदं अब्रवीत् ।
अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥भगवद्गीता १.२८॥
सीदन्ति मम गात्राणि मुखं च परिशुष्यति  ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते  ॥भगवद्गीता १.२९॥
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते  ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः  ॥भगवद्गीता १.३०॥
निमित्तानि च पश्यामि विपरीतानि केशव  ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनं आहवे  ॥भगवद्गीता १.३१॥
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च  ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा  ॥भगवद्गीता १.३२॥
येषां अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च  ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च  ॥भगवद्गीता १.३३॥
आचार्याः पितरः पुत्रास्तथैव च पितामहाः  ।
मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा  ॥भगवद्गीता १.३४॥

स च तेन चोदितस्तत्क्षणादेव भीष्मड्रोणादीनां सर्वेषां एव महीक्षितां पश्यतां यथाचोदितं अकरोत् । ईदृशी भवदीयानां विजयस्थितिरिति चावोचत् ॥ १.२०२५ ॥

स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको

एतान्न हन्तुं इच्छामि घ्नतोऽपि मधुसूधन  ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते  ॥भगवद्गीता १.३५॥
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन  ।
पापं एवाश्रयेदस्मान्हत्वैतानाततायिनः  ॥भगवद्गीता १.३६॥
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव  ॥भगवद्गीता १.३७॥
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः  ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥भगवद्गीता १.३८॥
कथं न ज्ञेयं अस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्ञनार्दन  ॥भगवद्गीता १.३९॥
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः  ।
धर्मे नष्टे कुलं कृत्स्नं अधर्मोऽभिभवत्युत  ॥भगवद्गीता १.४०॥
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः  ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः  ॥भगवद्गीता १.४१॥
सङ्करो नरकायैव कुलघ्नानां कुलस्य च  ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः  ॥भगवद्गीता १.४२॥
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः  ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः  ॥भगवद्गीता १.४३॥
उत्सन्नकुलधर्माणां मनुष्याणां ञनार्दन  ।
नरके नियतं वासो भवतीत्यनुशुश्रुम  ॥भगवद्गीता १.४४॥
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलाभेन हन्तुं स्वजनं उद्यताः  ॥भगवद्गीता १.४५॥
यदि मां अप्रतीकारं अशस्त्रं शस्त्रपाणयः  ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ भगवद्गीता १.४६॥

भवद्भिरतिघोरैर्मारणैर्जतुगृहदाहादिभिरसकृद्वञ्चितोऽपि परमपुरुषसहायेनात्मना हनिष्य

सञ्जय उवाच
एवं उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः  ॥भगवद्गीता १.४७॥

माणान्भवदीयान्विलोक्य बन्धुस्नेहेन परया कृपया धर्मभयेन चातिमात्रसन्नसर्वगात्रः सर्वथाहं न योत्स्यामीत्युक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थ उपाविशत् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.1230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चलवादी

  • वि. ( व . ) भांडखोर ; एक बायकी शिवी . 
RANDOM WORD

Did you know?

मंदिराला कळस बांधतात, पण घरातील देव्हार्‍याला कळस का नसतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site