TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय ६

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय ६
श्रीभगवानुवाच

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः  ।
स संन्यसी च योगी च न निरग्निर्न चाक्रियः  ॥भगवद्गीता ६.१॥

उक्तः कर्मयोगः सपरिकरः, इदानीं ज्ञानयोगकर्मयोगसाध्यात्मावलोकनरूपयोगाभ्यासविधिरुच्यते । तत्र कर्मयोगस्य निरपेक्षयोगसाधनत्वं द्रढयितुं ज्ञानाकारः कर्मयोगो योगशिरस्कोऽनूद्यते । कर्मफलं स्वर्गादिकं अनाश्रितः, कार्यं कर्मानुष्ठानं एव कार्यम्, सर्वात्मनास्मत्सुहृद्भूतपरमपुरुषाराधनरूपतया कर्मैव मम प्रयोजनम्, न तत्साध्यं किंचिदिति यः कर्म करोति; स संन्यासी च ज्ञानयोगनिष्ठश्च; योगी च कर्मयोगनिष्ठश्च; आत्मावलोकनरूपयोगसाधनभूतोभयनिष्ठ इत्यर्थः । न निरग्निर्न चाक्रियः न चोदितयज्ञादिकर्मस्वप्रवृत्तः, न च केवलज्ञाननिष्ठः । तस्य हि ज्ञननिष्ठैव, कर्मयोगनिष्ठस्य तूभयं अस्तीत्यभिप्रायः ॥६.१॥

उक्तलक्षणकर्मयोगे ज्ञानं अप्यस्तीत्याह

यं संन्यास इति प्राहुर्योगं तं विद्धि पाण्डव  ।
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन  ॥भगवद्गीता ६.२॥

यं संन्यास इति ज्ञानयोग इति, आत्मयाथात्म्यज्ञानं इति प्राहुः, तं कर्मयोगं एव विद्धि । तदुपपादयति न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन । आत्मयाथात्म्यानुसन्धानेन अनात्मनि प्रकृतौ आत्मसङ्कल्पः संन्यस्तः परित्यक्तो येन स संन्यस्तसङ्कल्पः; अनेवंभूतः असंन्यस्तसङ्कल्पः । न ह्युक्तेषु कर्मयोगिष्वनेवंभूतः कश्चन कर्मयोगी भवति; "यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः" इति ह्युक्तं ॥६.२॥

कर्मयोग एवाप्रमादेन योगं साधयतीत्याह

आरुरुक्षोर्मुनेर्योगं कर्म कारणं उच्यते  ।
योगारूढस्य तस्यैव शमः कारणं उच्यते  ॥भगवद्गीता ६.३॥

योगं आत्मावलोकनं प्राप्तुं इच्छोर्मुमुक्षोः कर्मयोग एव कारणं उच्यते । तस्यैव योगारूढस्य प्रतिष्ठितयोगस्यैव, शमः कर्मनिवृत्तिः कारणं उच्यते । यावदात्मावलोकनरूपमोक्षावाप्ति कर्म कार्यं इत्यर्थः ॥६.३॥

कदा प्रतिष्ठितयोगो भवतीत्यत्राह

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते  ।
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते  ॥भगवद्गीता ६.४॥

यदायं योगी त्वात्मैकानुभवस्वभावतया इन्द्रियार्थेषु  आत्मव्यतिरिक्तप्राकृतविषयेषु, तत्संबन्धिषु च कर्मसु नानुषज्जते न सङ्गं अर्हति, तदा हि सर्वसङ्कल्पसम्न्यासी योगारूढ इत्युच्यते । तस्मादारुरुक्षोर्विषयानुभवार्हतया तदननुषङ्गाभ्यासरूपः कर्मयोग एव योगनिष्पत्तिकारणं । अतो विषयाननुषङ्गाभ्यासरूपं कर्मयोगं एव आरुरुक्षुः कुर्यात् ॥ ६.४॥

तदेवाह

उद्धरेदात्मनात्मानं नात्मानं अवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः  ॥भगवद्गीता ६.५॥

आत्मना मनसा; विषयाननुषक्तेन आत्मानं उद्धरेत् । तद्विपरीतेन मनसा आत्मानं नावसादयेत् । आत्मैव मन एव ह्यात्मनो बन्धुः; तदेवात्मनो रिपुः ॥६.५॥

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः  ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ भगवद्गीता ६.६॥

येन पुरुषेण स्वेनैव स्वमनो विषयेभ्यो जितम्, तन्मनस्तस्य बन्धुः । अनात्मनः अजितमनसः स्वकीयं एव मनः स्वस्य शत्रुवच्शत्रुत्वे वर्तेत  स्वनिश्श्रेयसविपरीते वर्तेतेत्यर्थः । यथोक्तं भगवता पराशरेणापि, "मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्गि मुक्त्यैव निर्विषयं मनः ॥६." इति ॥६ ॥

योगारम्भयोग्या अवस्थोच्यते

जितात्मनः प्रशान्तस्य परमात्मा समाहितः  ।
शीतोष्णसुखदुःखेषु तथा मानावमानयोः  ॥भगवद्गीता ६.७॥

शीतोष्णसुखदुःखेषु मानावमानयोश्च जितात्मनः जितमनसः विकाररहितमनसः प्रशान्तस्य मनसि परमात्मा समाहितः सम्यगाहितः । स्वरूपेणावस्थितः प्रत्यगात्मात्र परमात्मेत्युच्यते; तस्यैव प्रकृतत्वात् । तस्यापि पूर्वपूर्वावस्थापेक्षया परमात्मत्वात् । आत्मा परं समाहित इति वान्वयः ॥६.७॥

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः  ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः  ॥भगवद्गीता ६.८॥

ज्ञानविज्ञानतृप्तात्मा आत्मस्वरूपविषयेण ज्ञानेन, तस्य च प्रकृतिविसजातीयाकारविषयेण ज्ञानेन च तृप्तमनाः कूटस्थः देवाद्यवस्थास्वनुवर्तमानसर्वसाधारणज्ञानैकाकारात्मनि स्थितः, तत एव विजितेन्द्रियः, समलोष्टाश्मकाञ्चनः प्रकृतिविविक्तस्वरूपनिष्ठतया प्राकृतवस्तुविशेषेषु भोग्यत्वाभावाल्लोष्टाश्मकाञ्चनेषु समप्रयोजनः यः कर्मयोगी, स युक्त इत्युच्यते आत्मावलोकनरूपयोगाभ्यासार्ह इत्युच्यते ॥६.८॥

तथा च

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु  ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते  ॥भगवद्गीता ६.९॥

वयोविशेषानङ्गीकारेण स्वहितैषिणः सुहृदः; सवयसो हितैषिणो मित्राणि, अरयो निमित्ततोऽनर्थेच्छवः; उभयहेत्वभावादुभयरहिता उदासीनाः; जन्मत एवोभयरहिता मध्यस्थाः; जन्मत एवानिच्छेच्छवो द्वेष्याः; जन्मत एव हितैषिणो बन्धवः, साधवो धर्मशीलाः; पापाः पापशीलाः; आत्मैकप्रयोजनतया सुहृन्मित्रादिभिः प्रयोजनाभावाद्विरोधाभावाच्च तेषु
समबुद्धिर्योगाभ्यासार्हत्वे विशिष्यते ॥६.९॥

योगी युञ्जीत सततं आत्मानं रहसि स्थितः  ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः  ॥भगवद्गीता ६.१०॥

योगी उक्तप्रकारकर्मयोगनिष्ठः, सततं अहरहर्योगकाले आत्मानं युञ्जीत आत्मानं युक्तं कुर्वीत । स्वदर्शननिष्ठं कुर्वीतेत्यर्थः; रहसि जनवर्जिते निश्शब्दे देशे स्थितः, एकाकी तत्रापि न सद्वितीयः, यतचित्तात्मा यतचित्तमनस्कः, निराशीः आत्मव्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षः अपरिग्रहः तद्व्यतिरिक्ते कस्मिंश्चिदपि ममतारहितः ॥६.१०॥

शुचौ देशे प्रतिष्ठाप्य स्थिरं आसनं आत्मनः  ।
नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ॥भगवद्गीता ६.११॥
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः  ।
उपविश्यासने युञ्ज्याद्योगं आत्मविशुद्धये  ॥भगवद्गीता ६.१२॥

शुचौ देशे अशुचिभिः पुरुषैरनधिष्ठिते अपरिगृहीते च अशुचिभिर्वस्तुभिरस्पृष्टे च पवित्रभूते देशे, दार्वादिनिर्मितं नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं आसनं प्रतिष्ठाप्य तस्मिन्मनःप्रसादकरे सापाश्रये उपविश्य योगैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः सर्वात्मनोपसंहृतचित्तेन्द्रियक्रियः आत्मविशुद्धये बन्धनिवृत्तये योगं युञ्ज्यादत्मावलोकनं कुर्वीत ॥६.११॥१२ ॥

समं कायशिरोग्रीवं धारयनचलं स्थिरम् ।
संप्रेक्ष्य नासिकाग्रं स्वं देशश्चानवलोकयन् ॥भगवद्गीता ६.१३॥
प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः  ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः  ॥भगवद्गीता ६.१४॥

कायशिरोग्रीवं समं अचलं सापाश्रयतया स्थिरं धारयन्, दिशश्चानवलोअकयन्, स्वनासिकाग्रं संप्रेक्ष्य, प्रशान्तात्मा अत्यन्तनिर्वृतमनाः, विगतभीर्ब्रह्मचर्ययुक्तो मनः संयम्य मच्चित्तो युक्तः अवहितो मत्पर आसीत मां एव चिन्त्यनासीत ॥६.१३॥१४ ॥

युञ्जन्नेवं सदात्मानं योगी नियतमानसः  ।
शान्तिं निर्वाणपरमां मत्संस्थां अधिगच्छति  ॥भगवद्गीता ६.१५॥

एवं मयि परस्मिन्ब्रह्मणि पुरुषोत्तमे मनसश्शुभाश्रये सदा आत्मानं मनः युञ्जन्नियतमानसः मत्स्पर्शवित्रीकृतमानसतया निश्चलमानसः, मां एव चिन्तयन्मत्संस्थां निर्वाणपरमां शान्तिं अधिगच्छति निर्वाणकाष्ठारूपां मत्संस्थां मयि संस्थितां शान्तिं अधिगच्छति ॥६.१५॥

एवं आत्मयोगं आरभमाणस्य मनोनैर्मल्यहेतुभूतां मनसो भगवति शुभाश्रये स्थितिं अभिधाय अन्यदपि योगोपकरणं आह

नात्यश्नतस्तु योगोऽस्ति न चैकान्तं अनश्नतः  ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन  ॥भगवद्गीता ६.१६॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु  ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा  ॥भगवद्गीता ६.१७॥

अत्यशनानशने योगविरोधिनी; अतिविहाराविहारौ च तथातिमात्रस्वप्नजागर्ये; तथा चात्यायासानायासौ । मिताहारविहारस्य मितायासस्य मितस्वप्नावबोधस्य सकलदुःखहा बन्धनाशनः योगः संपन्नो भवति ॥६.१६॥१७ ॥

यदा विनियतं चित्तं आत्मन्येवावतिष्ठते  ।
निस्स्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा  ॥भगवद्गीता ६.१८॥

यदा प्रयोजनविषयं चित्तं आत्मन्येव विनियतम् विशेषेण नियतं निरतिशयप्रयोजनतया तत्रैव नियतं निश्चलं अवतिष्ठते, तदा सर्वकामेभ्यो निस्स्पृहस्सन्युक्त इत्युच्यते  योगार्ह इत्युच्यते ॥६.१८॥

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता  ।
योगिनो यतचित्तस्य युञ्जतो योगं आत्मनः  ॥भगवद्गीता ६.१९॥

निवातस्थो दीपो यथा नेङ्गते न चलति; अचलस्सप्रभस्तिष्ठति; यतचित्तस्य निवृत्तसकलेतरमनोवृत्तेः योगिनः आत्मनि योगं युञ्जतः आत्मस्वरूपस्य सोपमा; निवातस्थतया निश्चलसप्रभदीपवन्निवृत्तसकलमनोवृत्तितया निश्चलो ज्ञानप्रभ आत्मा तिष्ठईत्यर्थः ॥६.१९॥

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यनात्मनि तुष्यति ।२० ॥
सुखं आत्यन्तिकं यत्तद्बुद्धिग्राह्यं अतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः  ॥भगवद्गीता ६.२१॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः  ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते  ॥भगवद्गीता ६.२२॥
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा  ॥भगवद्गीता ६.२३॥

योगसेवया हेतुना सर्वत्र निरुद्धं चित्तं यत्र योगे उपरमते अतिशयितसुखं इदं इति रमते, यत्र च योगे आत्मना मनसा आत्मानं पश्यनन्यनिरपेक्षं आत्मन्येव तुष्यति, यत्तदतीन्द्रियं आत्मबुद्ध्येकग्राह्यं आत्यन्तिकं सुखं यत्र च योगे वेत्ति अनुभवति, यत्र च योगे स्थितः सुखातिरेकेण तत्त्वतः तद्भावान्न चलति, यं योगं लब्ध्वा योगाद्विरतस्तं एव काङ्क्षमाणो नापरं लाभं ततोऽधिकं मन्यते, यस्मिंश्च योगे स्थितो विरतोऽपि गुणवत्पुत्रवियोगादिना गुरुणापि दुःखेन न विचाल्यते, तं दुःखसंयोगवियोगं दुःखसंयोगप्रत्यनीकाकारं योगशब्दाभिधेयं विद्यात् । स एवंरूपो योग इति आरम्भदशायां निश्चयेन अनिर्विण्णचेतसा हृष्टचेतसा योगो योक्तव्यः ॥६.२०२३॥

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः  ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः  ॥भगवद्गीता ६.२४॥
शनैश्शनैरुपरमेद्बुद्ध्या धृतिगृहीतया  ।
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥ भगवद्गीता ६.२५॥

स्पर्शजाः सङ्कल्पजाश्चेति द्विविधाः कामाः, स्पर्शजाः शीतोष्णादयः, सङ्कल्पजाः पुत्रक्षेत्रादयः । तत्र सङ्कल्पप्रभवाः स्वरूपेणैव त्यक्तुं शक्याः । तान्सर्वान्मनसैव तदन्वयानुसन्धानेन त्यक्त्वा स्पर्शजेष्ववर्जनीयेषु तन्निमित्तहर्षोद्वेगौ त्यक्त्वा समन्ततः सर्वस्माद्विषयात्सर्वं इन्द्रियग्रामं विनियम्य शनैश्शनैर्धृतिगृहीतया विवेकविषयया बुद्ध्या सर्वस्मादात्मव्यतिरिक्तादुपरम्य आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ६.२४॥२५ ॥

यतो यतो निश्चरति मनश्चञ्चलं अस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ भगवद्गीता ६.२६॥

चलस्वभावतयात्मन्यस्थिरं मनः यतो यतो विषयप्रावण्यहेतोः बहिः निश्चरति, ततस्ततो यत्नेन मनो नियम्य आत्मन्येव अतिशयितसुखभावनया वशं नयेत् ॥ ६.२६॥

प्रशान्तमनसं ह्येनं योगिनं सुखं उत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतं अकल्मषम् ॥भगवद्गीता ६.२७॥

प्रशान्तमनसं आत्मनि निश्चलमनसम्, आत्मन्यस्तमनसं तदेव हेतोर्दग्धाशेषकल्मषम्, तत एव शान्तरजसम् विनष्टरजोगुणम्, तत एव ब्रह्मभूतं स्वस्वरूपेणावस्थितं एनं योगिनं आत्मस्वरूपानुभवरूपं उत्तमं सुखं उपैति । हीति हेतौ; उत्तमसुखरूपत्वादात्मस्वरूपस्येत्यर्थः ॥६.२७॥

एवं युञ्जन्सदात्मानं योगी विगतकल्मषः  ।
सुखेन ब्रह्मसंस्पर्शं अत्यन्तं सुखं अश्नुते  ॥भगवद्गीता ६.२८॥

एवं उक्तप्रकारेणात्मानं युञ्जन्तेनैव विगतप्राचीनसमस्तकल्मषो ब्रह्मसंस्पर्शं ब्रह्मानुभवरूपं सुखं अत्यन्तं अपरिमितं सुखेन अनायासेन सदाशुनुते ॥६.२८॥

अथ योगविपाकदशा चतुष्प्रकारोच्यते

सर्वभूतस्थं आत्मानं सर्वभूतानि चात्मनि  ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः  ॥भगवद्गीता ६.२९॥

स्वात्मनः परेषां च भूतानां प्रकृतिवियुक्तस्वरूपाणां ज्ञानैकाकारतया साम्याद्वैषम्यस्य च प्रकृतिगतत्वाद्योगयुक्तात्मा प्रकृतिवियुक्तेष्वात्मसु सर्वत्र ज्ञानैकाकारतया समदर्शनः सर्वभूतस्थं स्वात्मानं सर्वभूतानि च स्वात्मनीक्षते  सर्वभूतसमानाकारं स्वात्मानं स्वात्मसमानाकाराणि च सर्वभूतानि पश्यतीत्यर्थः । एकस्मिनात्मनि दृष्टे सर्वस्यात्मवस्तुनस्तत्साम्यात्सर्वं आत्मवस्तु दृष्टं भवतीत्यर्थः । "सर्वत्र समदर्शनः" इति वचनात् । "योऽयं योगस्त्वया प्रोक्तः साम्येन" इत्यनुभाषणाच्च । "निर्दोषं हि समं ब्रह्म" इति वचनाच्च ॥६.२९॥

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति  ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति  ॥भगवद्गीता ६.३०॥

ततोऽपि विपाकदशापन्नो मम साधर्म्यं उपागतः, "निरञ्जनः परमं साम्यं उपैति" इत्युच्यमानं सर्वस्यात्मवस्तुनो विधूतपुण्यपापस्य स्वरूपेणावस्थितस्य मत्साम्यं पश्यन्यः सर्वत्रात्मवस्तुनि मां पश्यति, सर्वं आत्मवस्तु च मयि पश्यति अन्योन्यसाम्यादन्यतरदर्शनेन अन्यतरदपीदृशं इति पश्यति, तस्य स्वात्मस्वरूपं पश्यतोऽहं तत्साम्यान्न प्रणश्यामि नादर्शनं उपयामि; ममापि मां पश्यतः, मत्साम्यात्स्वात्मानं मत्समं अवलोकयन्स नादर्शनं उपयाति ॥६.३०॥

ततोऽपि विपाकदशां आह

सर्वभूतस्थितं यो मां भजत्येकत्वं आस्थितः  ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते  ॥भगवद्गीता ६.३१॥

योगदशायां सर्वभूतस्थितं मां असंकुचितज्ञानैकाकारतया एकत्वं आस्थितः प्राकृतभेदपरित्यागेन सुदृढं यो भजते, स योगी व्युत्थानकालेऽपि यथा तथा वर्तमानः स्वात्मानं सर्वभूतानि च पश्यन्मयि वर्तते मां एव पश्यति । स्वात्मनि सर्वभूतेषु च सर्वदा मत्साम्यं एव पश्यतीत्यर्थः ॥६.३१॥

ततोऽपि काष्ठां आह

आत्माउपम्येन सर्वत्र समं पश्यति योऽर्जुन  ।
सुखं वा यदि वा दुःखं स योगी परमो मतः  ॥भगवद्गीता ६.३२॥

स्वात्मनश्चान्येषां चात्मनां असंकुचितज्ञानैकाकारतयोपम्येन स्वात्मनि चान्येषु च सर्वत्र वर्तमानं पुत्रजन्मादिरूपं सुखं तन्मरणादिरूपं च दुःखं असंबन्धसाम्यात्समं यः पश्यति परपुत्रजन्ममरणादिसमं स्वपुत्रजन्ममरणादिकं यः पश्यतीत्यर्थः । स योगी परमो मतः योगकाष्ठां गतो मतः ॥६.३२॥

अर्जुन उवाच
योऽयं योगस्त्वया प्रोक्तः साम्येन ंअधुसूदन  ।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥भगवद्गीता ६.३३॥
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥भगवद्गीता ६.३४॥

योऽयं देवमनुष्यादिभेदेन जीवेश्वरभेदेन चात्यतभिन्नतयैतावन्तं कालं अनुभूतेषु सर्वेष्वात्मसु ज्ञानैकाकारतया परस्परसाम्येन अकर्मवश्यतया चेश्वरसाम्येन सर्वत्र समदर्शनरूपो योगस्त्वया प्रोक्तः, एतस्य योगस्य स्थिरां स्थितिं न पश्यामि, मनसश्चञ्चलत्वात् । तथा अनवरताभ्यस्तविषयेष्वपि स्वत एव चञ्चलं पुरुषेणैकत्रावस्थापयितुं अशक्यं मनः पुरुषं बलात्प्रमथ्य दृढं अन्यत्र चरति; तस्य स्वाभ्यस्तविषयेष्वपि चञ्चलस्वभावस्य मनसस्तद्विपरीताकारात्मनि स्थापयितुं निग्रहं प्रतिकूलगतेर्महावातस्य व्यजनादिनैव सुदुष्करं अहं मन्ये । मनोनिग्रहोपायो वक्तव्य इत्यभिप्रायः ॥६.३३॥३४ ॥

श्रीभगवानुवाच
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते  ॥भगवद्गीता ६.३५॥
असंयतात्मना योगो दुष्प्राप इति मे मतिः  ।
वश्यात्मना तु यतता शक्योऽवाप्तुं उपायतः  ॥भगवद्गीता ६.३६॥

चलस्वभावतया मनो दुर्निग्रहं एवेत्यत्र न संशयः; तथा +अप्यात्मनो गुणाकरत्वाभ्यासजनिताभिमुख्येन आत्मव्यतिरिक्तेषु दोषाकरत्वजनितवैतृष्ण्येन च कथंचिद्गृह्यते; असंयतात्मना अजितमनसा महतापि बलेन योगो दुष्प्राप एअ । उपायतस्तु वश्यात्मना पूर्वोक्तेन मदाराधनरूपेणान्तर्गतज्ञानेन कर्मणा जितमनसा यतमानेनायं एव समदर्शनरूपो योगोऽवाप्तुं शक्यः ॥६.३५॥३६ ॥

अथ "नेहाभिक्रमनाशोऽस्ति" इति आदावेव श्रुतं योगमाहात्म्यं यथावच्छ्रोतुं अर्जुनः पृच्छति । अन्तर्गतात्मज्ञानतया योगशिरस्कतया च हि कर्मयोगस्य माहात्म्यं तत्रोदितम्; तच्च योगमाहात्म्यं एव ।

अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः  ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति  ॥भगवद्गीता ६.३७॥
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रं इव नश्यति  ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि  ॥भगवद्गीता ६.३८॥
एतं मे संशयं कृष्ण च्छेतुं अर्हस्यशेषतः  ।
त्वदन्यः संशयस्यास्य च्छेत्ता न ह्युपपद्यते  ॥भगवद्गीता ६.३९॥

श्रद्धया योगे प्रवृत्तो दृढतराभ्यासरूपयतनवैकल्येन योगसंसिद्धिं अप्राप्य योगाच्चलितमानसः कां गतिं गच्छति; उभयविभ्रष्टोऽयं च्छिन्नाभ्रं इव कच्चिन्न नश्यति? यथा मेघशकलः पूर्वस्माद्बृहतो मेघाच्छिन्नः परं बृहन्तं मेघं अप्राप्य मध्ये विनष्टो भवति, तथैव कच्चिन्न नश्यति । कथं उभयविभ्रष्टता? अप्रतिष्ठः, विमूढो ब्रह्मणः पथीति । यथावस्थितं स्वर्गादिसाधनभूतं कर्म फलाभिसन्धिरहितस्यास्य पुरुषस्य स्वफलसाधनत्वेन प्रतिष्ठा न भवतीत्यप्रतिष्ठः । प्रक्रान्ते ब्रह्मणः पथि विमूढः तस्मात्पथः प्रच्युतः । अतः उभयविभ्रष्टतया किं अयं नश्यत्येव, उत न नश्यति? तं एनं संशयं अशेषतश्छेत्तुं अर्हसि । स्वतः प्रत्यक्षेण युगपत्सर्वं सदा पश्यतस्त्वत्तोऽन्यः संशयस्यास्य
छेत्ता न ह्युपपद्यते ॥६.३७॥३८ ॥३९ ॥

श्रीभगवानुवाच
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते  ।
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति  ॥भगवद्गीता ६.४०॥

श्रद्धया योगे प्रक्रान्तस्य तस्मात्प्रच्युतस्येह चामुत्र च विनाशो न विद्यते प्राकृतस्वर्गादिभोगानुभवे ब्रह्मानुभवे चाभिलषितानवाप्तिरूपः प्रत्यवायाख्यानिष्टावाप्तिरूपश्च विनाशो न विद्यत इत्यर्थः । न हि निरतिशयकल्याणरूपयोगकृत्कश्चित्कालत्रयेऽपि दुर्गतिं गच्छति ॥६.४० ॥

कथं अयं भविष्यतीत्यत्राह

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः  ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते  ॥भगवद्गीता ६.४१॥

यज्जातीयभोगाभिकाङ्क्षया योगात्प्रच्युतोऽयम्, अतिपुण्यकृतां प्राप्यान्लोकान्प्राप्य तज्जातीयानतिकल्याणान्भोगान्योगमाहात्म्यादेव भुञ्जानो यावत्तद्भोगतृष्णावसानं शश्वतीः समास्तत्रोषित्वा तस्मिन्भोगे वितृष्णः शुचीनां श्रीमतां योगोपक्रमयोग्यानां कुले योगोपक्रमे भ्रष्टो योगमाहात्म्याज्जायते ॥६.४१॥

अथ वा योगिनां एव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥भगवद्गीता ६.४२॥

परिपक्वयोगश्चलितश्चेत्, योगिनां धीमतां योगं कुर्वतां स्वयं एव योगोपदेशक्षमाणां महतां कुले भवति; तदेतदुभयविधं योगयोग्यानां योगिनां च कुले जन्म लोके प्राकृतानां दुर्लभतरं । एतत्तु योगमाहात्म्यकृतं ॥६.४२॥

तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन  ॥भगवद्गीता ६.४३॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः  ।

तत्र जन्मनि पौर्वदैहिकं तं एव योगविषयं बुद्धिसंयोगं लभते । ततः सुप्तप्रबुद्धवद्भूयः संसिद्धौ यतते  यथा नान्तरायहतो भवति, तथा यतते । तेन पूर्वाभ्यासेन पूर्वेण योगविष्येणाभ्यासेन सः योगभ्रष्टो ह्यवशोऽपि योग एव ह्रियते । प्रसिद्धं ह्येतद्योगमाहात्म्यं इत्यर्थः ॥६.४३॥

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते  ॥भगवद्गीता ६.४४॥

अप्रवृत्तयोगो योगे जिज्ञासुरपि ततश्चलितमानसः पुनरपि तां एव जिज्ञासां प्राप्य कर्मयोगादिकं योगं अनुष्ठाय शब्दब्रह्मातिवर्तते । शब्दब्रह्म देवमनुष्यपृथिव्यन्तरिक्षस्वर्गादिशब्दाभिलापयोग्यं ब्रह्म प्रकृतिः । प्रकृतिबन्धाद्विमुक्तो देवमनुष्यादिशब्दाभिलापानर्हं ज्ञानानन्दैकतानं आत्मानं प्राप्नोतीत्यर्थः ॥६.४४॥

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः  ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥भगवद्गीता ६.४५॥

यत एवं योगमाहात्म्यम्, ततः अनेकजन्मार्जितपुण्यसञ्चयैः संशुद्धकिल्बिषस्संसिद्धिः संजातः प्रयत्नाद्यतमानस्तु योगी चलितोऽपि पुनः परां गतिं यात्येव ॥६.४५॥

अतिशयितपुरुषार्थनिष्ठतया योगिनः सर्वस्मादाधिक्यं आह

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः  ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन  ॥भगवद्गीता ६.४६॥

केवलतपोभिर्यः पुरुषार्थः साध्यते, आत्मज्ञानव्यतिरिक्तैर्ज्ञानैश्च यः, यश्च केवलैरश्वमेधादिभिः कर्मभिः, तेभ्यस्सर्वेभ्योऽधिकपुरुषार्थसाधनत्वाद्योगस्य, तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६.४६॥

तदेवं परविद्याङ्गभूतं प्रजापतिवाक्योदितं प्रत्यगात्मदर्शनं उक्तम्; अथ परविद्यां प्रस्तौति

योगिनां अपि सर्वेषां मद्गतेनान्तरात्मना  ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः  ॥भगवद्गीता ६.४७॥

योगिनां इति पञ्चम्यर्थे षष्ठी । "सर्वभूतस्थं आत्मानम्" इत्यादिना चतुर्विधा योगिनः प्रतिपादिताः । तेष्वनन्तर्गतत्वाद्वक्ष्यमाणस्य योगिनः न निर्धारणे षष्ठी संभवति । अपि सर्वेषां इति सर्वशब्दनिर्दिष्टास्तपस्विप्रभृतयः । तत्राप्युक्तेन न्यायेन पञ्चम्यर्थो ग्रहीतव्यः । योगिभ्यः, अपि सर्वेभ्यो वक्ष्यमाणो योगी युक्ततमः । तदपेक्षया अवरत्वे तपस्विप्रभृतीनां योगिनां च न कश्चिद्विशेष इत्यर्थः; मेर्वपेक्षया सर्षपाणां इव । यद्यपि सर्षपेषु अन्योन्यन्यूनाधिकभावो विद्यते  तथापि मेर्वपेक्षया अवरत्वनिर्देशः समानः । मत्प्रियत्वातिरेकेन अनन्यधारणस्वभावतया मद्गतेन अन्तरात्मना मनसा, श्रद्धावानत्यर्थमत्प्रियत्वेन क्षणमात्रविश्लेषासहतया मत्प्राप्तिप्रवृत्तौ त्वरावान्यो मां भजते  मां विचित्रानन्तभोग्यभोक्तृवर्गभोगोपकरणभोगस्थानपरिपूर्णनिखिलजगदुदयविभवलयलीलम्, अस्पृष्टाशेषदोषानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृत्यसङ्ख्येयकल्याणगुणगणनिधिम्, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयाउज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपम्, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावम्, अपारकारुण्यसौशील्यवात्सल्योदार्यमहोदधिम्, अनालोचितविशेषाशेषलोकशरण्यम्, प्रणतार्तिहरम्, आश्रितवात्सल्यैकजलधिम्, अखिलं अनुजनयनविषयतां गतम्, अजहत्स्वस्वभावम्, वसुदेवगृहेऽवतीर्णम्, अनवधिकातिशयतेजसा निखिलं जगद्भासयन्तम्, आत्मकान्त्या विश्वं आप्याययन्तम्, भजते सेवते, उपास्त इत्यर्थः  स मे युक्ततमो मतः  स सर्वेभ्यश्श्रेष्टतमः
इति सर्वं सर्वदा यथावस्थितं स्वत एव साक्षात्कुर्वनहं मन्ये ॥६.४७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.3900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

अंत्येष्टी म्हणजे काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site