TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय ४

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय ४
तृतीयेऽध्याये  प्रकृतिसंसृष्टस्य मुमुक्षोः सहसा ज्ञानयोगेऽनधिकारात्कर्मयोग एव कार्यः, ज्ञानयोगाधिकारिणोऽप्यकर्तृत्वानुसन्धानपूर्वककर्मयोग एव श्रेयानिति  सहेतुकं उक्तम्; शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्मयोग एव कार्य इति चोक्तं । चतुर्थेनेदानीम् अस्यैव कर्मयोगस्य निखिलजगदुद्धरणाय मन्वन्तरादावेवोपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गतज्ञानतयास्यैव ज्ञानयोगाकरतां प्रदर्श्य, कर्मयोगस्वरूपम्, तद्भेदाः, कर्मयोगे ज्ञानांशस्यैव प्राधान्यं चोच्यते । प्रसङ्गाच्च भगवदवतारयाथात्म्यं उच्यते ।

 श्रीभगवानुवाच

 इमं विवस्वते योगं प्रोक्तवानहं अव्ययम् ।
 विवस्वान्मनवे प्राह मनुरीक्षवाकवेऽब्रवीत् ॥ भगवद्गीता ४.१॥
 एवं परम्पराप्राप्तं इमं राजर्षयोऽविदुः  ।
 स कालेनेह महता योगो नष्टः परन्तप  ॥भगवद्गीता ४.२॥
 स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः  ।
 भक्तोऽस्ति मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥भगवद्गीता ४.३॥

योऽयं तवोदितो योगः स केवलं युद्धप्रोत्साहनायेदानीं उदित इति न मन्तव्यं । मन्वन्तरादावेव निखिलजगदुद्धरणाय परमपुरुषार्थलक्षणमोक्षसाधनतया इमं योगं अहं एव विवस्वते प्रोक्तवान्, विवस्वांश्च मनवे, मनुरिक्ष्वकवे । इत्येवं संप्रदायपरम्परया प्राप्तं इमं योगं पूर्वे राजर्षयोऽविदुः । स महता कालेन तत्तच्छ्रोतृबुद्धिमान्द्याद्विनष्टप्रायोऽभूत् । स एवायं अस्खलितस्वरूपः पुरातनो योगः सख्येनातिमात्रभक्त्या च मां एव प्रपन्नाय ते मया प्रोक्तः  सपरिकरस्सविस्तरं उक्त इत्यर्थः । मदन्येन केनापि ज्ञातुं वक्तुं चाशक्यम्, यत इदं वेदान्तोदितं उत्तमं रहस्यं ज्ञानं ॥४.१॥२ ॥३ ॥

अस्मिन्प्रसङ्गे भगवदवतारयाथात्म्यं यथावज्ज्ञातुं अर्जुन उवाच

 अर्जुन उवाच
 अवरं भवतो जन्म परं जन्म विवस्वतः  ।
 कथं एतद्विजानीयां त्वं आदौ प्रोक्तवानिति  ॥भगवद्गीता ४.४॥

कालसङ्ख्यया अवरं अस्मज्जन्मसमकालं हि भवतो जन्म । विवस्वतश्च जन्म कालसङ्ख्यया परम् अष्टाविंशतिचतुर्युगसङ्ख्यासङ्ख्यातं । त्वं एवादौ प्रोक्तवानिति कथं एतदसंभावनीयं यथार्थं जानीयां ? ननु जन्मान्तरेणापि वक्तुं शक्यम्, जन्मान्तरकृतस्य महतां स्मृतिश्च युज्यत इति नात्र कश्चिद्विरोधः । न चासौ वक्तारं एनं वसुदेवतनयं सर्वेश्वरं न जानाति, यत एवं वक्ष्यति, "परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यं आदिदेवं अजं विभुं ॥आहुस्त्वां ऋषयस्सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे" इति । युधिष्ठिरराजसूयादिषु भीष्मादिभ्यश्चासकृच्छ्रुतम्, "कृष्ण एव हि लोकानां उत्पत्तिरपि चाप्ययः । कृष्णस्य हि कृते भूतं इदं विश्वं चराचरम्" इत्येवमादिषु । कृष्णस्य हि कृते इति, कृष्णस्य शेषभूतं इदं कृत्स्नं जगदित्यर्थः ॥अत्रोच्यते जानात्येवायं भगवन्तं वसुदेवसूनं पार्थः । जानतोऽप्यजानत इव पृच्छतोऽयं आशयः  निखिलहेयप्रत्यनीककल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्यसङ्कल्पस्यावाप्तसमस्तकामस्य कर्मपरवशदेवमनुष्यादिसजातीयं जन्म किं इन्द्रजालादिवन्मिथ्या, उत सत्यम्? सत्यत्वे च कथं जन्मप्रकारः? किं आत्मकोऽयं देहः? कश्च जन्महेतुः? कदा च जन्म? किं अर्थं च जन्मेति । परिहारप्रकारेण प्रश्नार्थो विज्ञायते ॥४.४॥

 श्रीभगवानुवाच
 बहूनि मे व्यतीतानि जन्मानि तव चार्जुन  ।
 तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप  ॥भगवद्गीता ४.५॥

अनेन जन्मनस्सत्यत्वं उक्तम्, बहूनि मे व्यतीतानि जन्मानीति वचनात्, तव चेति दृष्टान्ततयोपादानाच्च ॥४.५॥

अवतारप्रकारम्, देहयाथात्म्यम्, जन्महेतुं चाह

 अजोऽपि सनव्ययात्मा भूतानां ईश्वरोऽपि सन् ।
 प्रकृतिं स्वां अधिष्ठाय संभवाम्यात्ममायया  ॥भगवद्गीता ४.६॥

अजत्वाव्ययत्वसर्वेश्वरत्वादि सर्वं पारमेश्वरं प्रकारं अजहदेव स्वां प्रकृतिं अधिष्ठाय आत्ममायया संभवामि । प्रकृतिः  स्वभावः स्वं एव स्वभावं अधिष्ठाय स्वेनैव रूपेण स्वेच्छया संभवामीत्यर्थः । स्वस्वरूपं हि, "आदित्यवर्णं तमसः परस्तात्", "क्षयन्तं अस्य रजसः पराके", "य एषोऽन्तरादित्ये हिरण्यमयः पुरुषः", "तस्मिन्नयं पुरुषो मनोमयः; अमृतो हिरण्मयः", "सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि" , "भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकामा सर्वकामस्सर्वगन्धस्सर्वरसः", "माहारजनं वासः" इत्यादिश्रुतिसिद्धं । आत्ममायया  आत्मीयया मायया । "माया वयुनं ज्ञानम्" इति ज्ञानपर्यायोऽत्र मायाशब्दः । तथा चाभियुक्तप्रयोगः, "मायया सततं वेत्ति प्राणिनां च शुभाशुभम्" इति । आत्मीयेन ज्ञानेन आत्मसङ्कल्पेनेत्यर्थः । अतोऽपहतपाप्मत्वादिसमस्तकल्याणगुणात्मकत्वं सर्वं ऐशं स्वभावं अजहत्स्वं एव रूपं देवमनुष्यादिसजातीयसंस्थानं कुर्वनात्मसङ्कल्पेन देवादिरूपः संभवामि । तदिदं आह, "अजायमानो बहुधा विजायते" इति श्रुतिः । इतरपुरुषसाधारणं जन्म अकुर्वन्देवादिरूपेण स्वसङ्कल्पेनोक्तप्रक्रियया जायत इत्यर्थः । "बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि", "तदात्मानं सृजाम्यहम्" "जन्म कर्म च मे दिव्यं एवं यो वेत्ति तत्त्वतः" इति पूर्वापराविरोधाच्च ॥४.६ ॥जन्मकालं आह  

 यदा यदा हि धर्मस्य ग्लानिर्भवति भारत  ।
 अभ्युत्थानं अधर्मस्य तदात्मानं सृजाम्यहम् ॥भगवद्गीता ४.७॥

न कालनियमोऽस्मत्संभवस्य । यदा यदा हि धर्मस्य वेदोदितस्य चातुर्वर्ण्यचातुराश्रम्यव्यवस्थयावस्थितस्य कर्तव्ययस्य ग्लानिर्भवति, यदा यदा च तद्विपर्ययस्याधर्मस्याभ्युत्थानं तदाहं एव स्वसङ्कल्पेनोक्तप्रकारेणात्मानं सृजामि ॥४.७॥

जन्मनः प्रयोजनं आह

 परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
 धर्मसंस्थापनार्थाय संभवामि युगे युगे  ॥भगवद्गीता ४.८॥

साधवः उक्तलक्षणधर्मशीलाः वैष्णवाग्रेसरा मत्समाश्रयणे प्रवृत्ता मन्नामकर्मस्वरूपाणां वाङ्मनसागोचरतया मद्दर्शनेन विना स्वात्मधारणपोषणादिकं अलभमानाः क्षणमात्रकालं कल्पसहस्रं मन्वानाः प्रतिशिथिलसर्वगात्रा भवेयुरिति मत्स्वरूपचेष्टितावलोकनालापादिदानेन तेषां परित्राणाय तद्विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मदाराधनरूपस्याराध्यस्वरूपप्रदर्शनेन स्थापनाय च देवमनुष्यादिरूपेण युगे युगे संभवामि । कृतत्रेतादियुगविशेषनियमोऽपि नास्तीत्यर्थः ॥४.८॥

 जन्म कर्मं च मे दिव्यं एवं यो वेत्ति तत्त्वतः  ।
 त्यक्त्वा देहं पुनर्जन्म नैति मां एति सोऽर्जुन  ॥भगवद्गीता ४.९॥

एवं कर्ममूलहेयत्रिगुणप्रकृतिसंसर्गरूपजन्मरहितस्य सर्वेस्वरत्वसार्वज्ञ्यसत्यसङ्कल्पत्वादिसमस्तकल्याणगुणोपेतस्य साधुपरित्राणमत्समाश्रयणैकप्रयोजनं दिव्यम् अप्राकृतं मदसाधारणं मम जन्म चेष्टितं च तत्त्वतो यो वेत्ति, स वर्तमानं देहं परित्यज्य पुनर्जन्म नैति, मां एव प्राप्नोति ।  मदीयदिव्यजन्मचेष्टितयाथात्म्यविज्ञानेन विध्वस्तसमस्तमत्समाश्र्यणविरोधिपापः अस्मिन्नेव जन्मनि यथोदितप्रकारेण मां आश्रित्य मदेकप्रियो मदेकचित्तो मां एव प्राप्नोति ॥४.९॥

तदाह

 वीतरागभयक्रोधा मन्मया मां उपाश्रिताः  ।
 बहवो ज्ञानतपसा पूता मद्भावनागताः  ॥भगवद्गीता ४.१०॥

मदीयजन्मकर्मतत्त्वज्ञानाख्येन तपसा पूता बहव एवं संवृत्ताः । तथा च श्रुतिः, "तस्य धीराः परिजानन्ति योनिम्" इति । धीराः  धीमतां अग्रेसरा एवं तस्य जन्मप्रकारं जानन्तीत्यर्थः ॥४.१०॥

 ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
 मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः  ॥भगवद्गीता ४.११॥

न केवलं देवमनुष्यादिरूपेणावतीर्य मत्समाश्रयणापेक्षाणां परित्राणं करोमि, अपि तु ये मत्समाश्रयणापेक्षा यथा  येन प्रकारेण स्वापेक्षानुरूपं मां संकल्प्य प्रपद्यन्ते  समाश्रयन्ते; तान्प्रति तथैव तन्मनीषितप्रकारेण भजामि  मां दर्शयामि । किं अत्र बहुना, सर्वे मनुष्याः मदनुवर्तनैकमनोरथा मम वर्त्म  मत्स्वभावं सर्वं योगिनां वाङ्मनसागोचरं अपि स्वकीयाइश्चक्षुरादिकरणैः सर्वशः स्वापेक्षितैः सर्वप्रकारैरनुभूयानुवर्त्न्ते ॥४.११॥

इदानीं प्रासङ्गिकं परिसमाप्य प्रकृतस्य कर्मयोगस्य ज्ञानाकारताप्रकारं वक्तुं तथाविधकर्मयोगाधिकारिणो दुर्लभत्वं आह  

 काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः  ।
 क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा  ॥भगवद्गीता ४.१२॥

सर्व एव पुरुषाः कर्मणां फलं काङ्क्षमाणाः इन्द्रादिदेवतामात्रं यजन्ते  आराधयन्ति, न तु कश्चिदनभिसंहितफलः इन्द्रादिदेवतात्मभूतं सर्वयज्ञानां भोक्तारं मां यजते । कुत एतत्? यतः क्षिप्रस्मिन्नेव मानुषे लोके कर्मजा पुत्रपश्वन्नाद्य्सिद्धिर्भवति । मनुष्यलोकशब्दः स्वर्गादीनां अपि प्रदर्शनार्थः । सर्वं एव लौकिकाः पुरुषा अक्षीणानादिकालप्रवृत्तानन्तपापसंचयतया अविवेकिनः क्षिप्रफलाकाङ्क्षिणः पुत्रपश्वन्नाद्यस्वर्गाद्यर्थतया सर्वाणि कर्माणीन्द्रादिदेवताराधनमात्राणि कुर्वते; न तु कश्चित्संसारोद्विग्नहृदयो मुमुक्षुः उक्तलक्षणं कर्मयोगं मदाराधनभूतं आरभत इत्यर्थः ॥४.१२॥

यथोक्तकर्मयोगारम्भविरोधिपापक्षयहेतुं आह

 चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः  ।
 तस्य कर्तारं अपि मां विद्ध्यकर्तारं अव्ययम् ॥भगवद्गीता ४.१३॥

चातुर्वर्ण्यप्रमुखं ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत्सत्त्वादिगुणविभागेन तदनुगुणशमादिकर्मविभागेन च विभक्तं मया सृष्टं । सृष्टिग्रहणं प्रदर्शनार्थं । मयैव रक्ष्यन्ते, मयैव चोपसंह्रियते । तस्य  विचित्रसृष्त्यादेः कर्तारं अप्यकर्तारं मां विद्धि ॥४.१३ ॥कथं इत्यत्राह

 न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा  ।
 इति मां योऽभिजानाति कर्मभिर्न स बध्यते  ॥भगवद्गीता ४.१४॥

यत इमानि विचित्रसृष्ट्यादीनि कर्माणि मां न लिम्पन्ति  न मां संबध्नन्ति । न मत्प्रयुक्तानि तानि देवमनुष्यादिवैचित्र्याणि । सृज्यानां पुण्यपापरूपकर्मविशेषप्रयुक्तानीत्यर्थः । अतः प्राप्ताप्राप्तविवेकेन विचित्रसृष्ट्यादेर्नाहं कर्ता; यतश्च सृष्टाः क्षेत्रज्ञाः सृष्टिलब्धकरणकलेबराः सृष्टिलब्धं भोग्यजातं फलसङ्गादिहेतुस्वकर्मानुगुणं भुङ्जते; सृष्ट्याद्कर्मफले च तेषां एव स्पृहेति ने मे स्पृहा । तथाह सूत्रकारः  वैषम्यनैर्घृण्ये न सापेक्षत्वादिति । तथा च भगवान्पराशरः  "निमित्तमात्रं एवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥निमित्तमात्रं मुक्त्वेदं नान्यत्किंचिदपेक्षते । नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुतां ॥४." इति  । सृज्यानां देवादीनां क्षेत्रज्ञानां सृष्टेः कारणमात्रं एवायं परमपुरुषः; देवादिवैचित्र्ये तु प्रधानकारणं सृज्यभूतक्षेत्रज्ञानां प्राचीनकर्मशक्तय एव । अतो निमित्तमात्रं मुक्त्वा  सृष्टेः कर्तारं परमपुरुषं मुक्त्वा इदं क्षेत्रज्ञवस्तु देवादिविचित्रभावे नान्यदपेक्षते; स्वगतप्राचीनकर्मशक्त्या एव हि देवादिवस्तुभावं नीयत इत्यर्थः । एवं उक्तेन प्रकारेण सृष्त्यादेः कर्तारं अप्यकर्तारं सृष्ट्यादिकर्मफलसङ्गरहितं च यो मां अभिजानाति, स कर्मयोगारम्भविरोधिभिः फलसङ्गादिहेतुभिः
प्राचीनकर्मभिर्न संबध्यते । मुच्यत इत्यर्थः ॥४.१४॥
 एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः  ।
 कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥भगवद्गीता ४.१५॥

एवं मां ज्ञात्वा विमुक्तपापैः पूर्वैरपि मुमुक्षुभिरुक्तलक्षणं कर्म कृतं । तस्मात्त्वं उक्तप्रकारमद्विषयज्ञानविधूतपापः पूर्वैर्विवस्वन्मन्वादिभिः कृतं पूर्वतरम् पुरातनं तदानीं एव मयोक्तं वक्ष्यमाणाकारं कर्वैव कुरु ॥४.१५॥

वक्ष्यमाणस्य कर्मणो दुर्ज्ञानतां आह

 किं कर्म किं अकर्मेति कवयोऽप्यत्र मोहिताः  ।
 तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ भगवद्गीता ४.१६॥

मुमुक्षुणानुष्ठेयं कर्म किंरूपम्, अकर्म च किं । अकर्मेति कर्तुरात्मनो याथात्म्यज्ञानं उच्यते; अनुष्ठेयं कर्म तदन्तर्गतं ज्ञानं च किंरूपं इत्युभयत्र कवयः  विद्वांसोऽपि मोहिताः  यथावन्न जानन्ति । एवं अन्तर्गतज्ञानं यत्कर्म, तत्ते प्रवक्ष्यामि, यज्ज्ञात्वानुष्ठाय अशुभात्संसारबन्धान्मोक्ष्यसे । कर्तव्यकर्मज्ञानं ह्यनुष्ठानफलं ॥४.१६॥

कुतोऽस्य दुर्ज्ञानतेत्याह

 कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः  ।
 अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः  ॥भगवद्गीता ४.१७॥

यस्मान्मोक्षसाधनभूते कर्मस्वरूपे बोद्धव्यं अस्ति; विकर्मणि च । नित्यनैमित्तिककाम्यरूपेण, तत्साधनद्रव्यार्जनाद्याकारेण च विविधतापन्नं कर्म विकर्म । अकर्मणि  ज्ञाने च बोद्धव्यं अस्ति । गहना  दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः ॥४.१७॥

विकर्मणि बोद्धव्यं नित्यनैमित्तिककाम्यद्रव्यार्जनादौ कर्मणि फलभेदकृतं वैविध्यं परित्यज्य मोक्षैकफलतयैकशास्त्रार्थत्वानुसन्धानं । तदेतत्"व्यवसायात्मिका बुद्धिरेका" इत्यत्रैवोक्तं इति नेह प्रपञ्च्यते । कर्माकर्मणोर्बोद्धव्यं आह

 कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः  ।
 स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ भगवद्गीता ४.१८॥

अकर्मशब्देनात्र कर्मेतरात्प्रस्तुतं आत्मज्ञानं उच्यते । कर्मणि क्रियमाण एवात्मज्ञानं यः पश्येत्, अकर्मणि चात्मज्ञाने वर्तमान एव यः कर्म पश्येत् । किं उक्तं भवति? क्रियमाणं एव कर्म आत्मयाथात्म्यानुसन्धानेन ज्ञानाकारं यः पश्येत्, तच्च ज्ञानं कर्मयोगान्तरगततया कर्माकारं यः पश्येदित्युक्तं भवति । क्रियमाणे हि कर्मणि कर्तृभूतात्मयाथात्म्यानुसन्धाने सति तदुभयं संपन्नं भवति । एवं आत्मयाथात्म्यानुसन्धानान्तर्गर्भं कर्म यः पश्येत्, स बुद्धिमान् कृत्स्नशास्त्रार्थवित्,मनुष्येषु स युक्तः  मोक्षायार्हः, स एव कृत्स्नकर्मकृत्कृत्स्नशास्त्रार्थकृत् ॥ ४.१८॥

प्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञनाकारता कथं उपपद्यत इत्यत्राह

 यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः  ।
 ज्ञानाग्निदग्धकर्माणं तं आहुः पण्डितं बुधाः  ॥भगवद्गीता ४.१९॥

यस्य मुमुक्षोः सर्वे द्रव्यार्जनादिलौकिककर्मपूर्वकनित्यनैमित्तिककाम्यरूपकर्मसमारम्भाः कामार्जिताः फलसङ्गरहिताः । सङ्कल्पवर्जिताश्च । प्रकृत्या तद्गुणैश्चात्मानं एकीकृत्यानुसन्धानं सङ्कल्पः; प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया तद्रहिताः । तं एवं कर्म कुर्वाणं पण्डितं कर्मान्तर्गतात्मयाथात्म्यज्ञानाग्निना दग्धप्राचीनकर्माणं आहुस्तत्त्वज्ञाः । अतः कर्मणो ज्ञानाकारत्वं उपपद्यते ॥४.१९॥

एतदेव विवृणोति

 त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः  ।
 कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः  ॥भगवद्गीता ४.२०॥

कर्मफलसङ्गं त्यक्त्वा नित्यतृप्तः  नित्ये स्वात्म्न्येव तृप्तः, निराश्रयः  अस्थिरप्रकृतौ आश्रयबुद्धिरहितो यः कर्माणि करोति, स कर्मण्याभिमुख्येन प्रवृत्तोऽपि नैव किंचित्कर्म करोति  कर्मापदेशेन ज्ञानाभ्यासं एव करोतीत्यर्थः ॥४.२०॥

पुनरपि कर्मणो ज्ञानाकारतैव विशोध्यते

 निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः  ।
 शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥भगवद्गीता ४.२१॥

निराशीः  निर्गतफलाभिसन्धिः यतचित्तात्मा  यतचित्तमनाः त्यक्तसर्वपरिग्रहः  आत्मैकप्रयोजनतया प्रकृतिप्राकृतवस्तुनि ममतारहितः, यावज्जीवं केवलं शारीरं एव कर्म कुर्वन्किल्बिषम् संसारं नाप्नोति ज्ञाननिष्ठाव्यवधानरहितकेवलकर्मयोगेनैवंरूपेणात्मानं पश्यतीत्यर्थः ॥४.२१॥

 यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः  ।
 समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते  ॥भगवद्गीता ४.२२॥

यदृच्छोपनतशरीरधारणहेतुवस्तुसन्तुष्टः, द्वन्द्वातीतः  यावत्साधनसमाप्त्यवर्जनीयशीतोष्णादिसहः, विमत्सरः  अनिष्टोपनिपातहेतुभूतस्वकर्मनिरूपणेन परेषु विगतमत्सरः, समस्सिद्धावसिद्दौ च  युद्धादिकर्मसु जयादिसिद्ध्यसिद्ध्योः समचित्तः, कर्मैव कृत्वापि  ज्ञाननिष्ठां विनापि न निबध्यते  न संसारं प्रतिपद्यते ॥४.२२॥

 गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः  ।
 यज्ञायाचरतः कर्म समग्रं प्रविलीयते  ॥भगवद्गीता ४.२३॥

आत्मविषयज्ञानावस्थितमनस्त्वेन निर्गततदितरसङ्गस्य तत एव निखिलपरिग्रहविनिर्मुक्तस्य उक्तलक्षणयज्ञादिकर्मनिर्वृत्तये वर्तमानस्य पुरुषस्य बन्धहेतुभूतं प्राचीनं कर्म समग्रं प्रविलीयते  निश्शेषं क्षीयते ॥४.२३॥

प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया कर्मणो ज्ञानाकारत्वं उक्तम्; इदानीं सर्वस्य सपरिकरस्य कर्मणः परब्रह्मभूतपरमपुरुषात्मकत्वानुसन्धानयुक्ततया ज्ञानाकारत्वं आह

 ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
 ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना  ॥भगवद्गीता ४.२४॥

ब्रह्मार्पणं इति हविर्विशेष्यते । अर्प्यतेऽनेनेत्यर्पणं स्रुगादि । तद्ब्रह्मकार्यत्वाद्ब्रह्म । ब्रह्म यस्य हविषोऽर्पणं तद्ब्रह्मार्पणम्, ब्रह्म हविः ब्रह्मार्पणं हविः । स्वयं च ब्रह्मभूतम्, ब्रह्माग्नौ  ब्रह्मभूते अग्नौ ब्रह्मणा कर्त्रा हुतं इति सर्वं कर्म ब्रह्मात्मकतया ब्रह्ममयं इति यः समाधत्ते, स ब्रह्मकर्मसमाधिः, तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम् ब्रह्मात्मकतया ब्रह्मभूतं आत्मस्वरूपं गन्तव्यं । मुमुक्षुणा क्रियमाणं कर्म परब्रह्मात्मकं एवेत्यनुसन्धानयुक्ततया ज्ञानाकारं साक्षादात्मावलोकनसाधनम्; न ज्ञाननिष्ठाव्यधानेनेत्यर्थः ॥४.२४॥

एवं कर्मणो ज्ञानाकारतां प्रतिपाद्य कर्मयोगभेदानाह

 दैवं एवापरे यज्ञं योगिनः पर्युपासते  ।
 ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति  ॥भगवद्गीता ४.२५॥

दैवम् देवार्चनरूपं यज्ञं अपरे कर्मयोगिनः पर्युपासते  सेवन्ते । तत्रैव निष्ठां कुर्वन्तीत्यर्थः । अपरे ब्रह्माग्नौ यज्ञं यज्ञेनैवोपजुह्वति; अत्र यज्ञशब्दो हविस्स्रुगादियज्ञसाधने वर्तते; "ब्रह्मार्पणं ब्रह्म हविः" इति न्यायेन यागहोमयोर् निष्ठां कुर्वन्ति ॥४.२५॥

 श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति  ।
 शब्दादीन्विषयानन्ये इन्द्रियाग्निषु जुह्वति  ॥भगवद्गीता ४.२६॥

अन्ये श्रोत्रादीनां इन्द्रियाणां संयमने प्रयतन्ते । अन्ये योगिनः इन्द्रियाणां शब्दादिप्रवणतानिवारणे प्रयतन्ते ॥४.२६॥

 सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे  ।
 आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते  ॥भगवद्गीता ४.२७॥

अन्ये ज्ञानदीपिते मनस्संयनयोगाग्नौ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि च जुह्वति । मनस इन्द्रियप्राणकर्मप्र्वणतानिवारणे प्रयतन्त इत्यर्थः ॥४.२७॥

 द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे  ।
 स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः  ॥भगवद्गीता ४.२८॥

केचित्कर्मयोगिनो द्रव्ययज्ञाः न्यायतो द्रव्याण्युपादाय देवतार्चने प्रयतन्ते, केचिच्च दानेषु, केचिच्च यागेषु, केचिच्च होमेषु । एते सर्वे द्रव्ययज्ञाः । केचित्तपोयज्ञाः कृच्छ्रचान्द्रायणोपवासादिषु निष्ठां कुर्वन्ति । योगयज्ञाश्चापरे पुण्यतीर्थपुण्यस्थानप्राप्तिषु निष्ठां कुर्वन्ति । इह योगशब्दः कर्मनिष्ठाभेदप्रकरणात्तद्विषयः । केचित्स्वाध्यायाभ्यासपराः । केचित्तदर्थज्ञानाभ्यासपराः । यतयः यतनशीलाः, संशितव्रताः दृढसङ्कल्पाः ॥४.२८॥

 अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे  ।
 प्राणापानगती रुद्ध्वा प्राणायामपरायणाः  ॥भगवद्गीता ४.२९॥
 अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति  ।

अपरे कर्मयोगिनः प्राणायामेषु निष्ठां कुर्वन्ति । ते च त्रिविधाः पूरकरेचककुम्भकभेदेन; अपाने जुह्वति प्राणं इति पूरकः, प्राणेऽपानं इति रेचकः, प्राणापानगती रुद्ध्वा ..... प्राणान्प्राणेषु जुह्वति इति कुम्भकः । प्राणायामपरेषु त्रिष्वप्यनुषज्यते नियताहारा इति॥

 सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः  ॥भगवद्गीता ४.३०॥
 यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।

दैवयज्ञप्रभृतिप्राणायामपर्यन्तेषु कर्मयोगभेदेषु स्वसमीहितेषु प्रवृत्ता एते सर्वे "सह यज्ञैः प्रजाः सृष्ट्वा" इत्यभिहितमहायज्ञपूर्वकनित्यनैमित्तिककर्मरूपयज्ञविदः तन्निष्ठाः तत एव क्षपितकल्मषाः यज्ञशिष्टामृतेन शरीरधारणं कुर्वन्त एव कर्मयोग व्यापृताः सनातनं ब्रह्म यान्ति॥

 नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम  ॥भगवद्गीता ४.३१॥

अयज्ञस्य महायज्ञादिपूर्वकनित्यमैमित्तिककर्मरहितस्य नायं लोकः न प्राकृतलोकः, प्राकृतलोकसंबन्धिधर्मार्थकामाख्यः पुरुषार्थो न सिध्यति । कुत इतोऽन्यो मोक्षाख्यः पुरुषार्थः? परमपुरुषार्थतया मोक्षस्य प्रस्तुतत्वात्तदितरपुरुषार्थः अयं लोकः इति निर्दिश्यते । स हि प्राकृतः ॥४.३१॥

 एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे  ।
 कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे  ॥भगवद्गीता ४.३२॥

एवं हि बहुप्रकाराः कर्मयोगाः ब्रह्मणो मुखे वितताः आत्मयाथात्म्यावाप्तिसाधनतया स्थिताः; तानुक्तलक्षणानुक्तभेदान्कर्मयोगान्सर्वान्कर्मजान्विद्धि अहरहरनुष्ठीयमाननित्यनैमित्तिककर्मजान्विद्धि । एवं ज्ञात्वा यथोक्तप्रकारेणानुष्ठाय मोक्ष्यसे ॥४.३२॥

अन्तर्गतज्ञानतया कर्मणो ज्ञानाकारत्वं उक्तम्; तत्रान्तर्गतज्ञाने कर्मणि ज्ञानांशस्यैव प्राधान्यं आह

 श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप  ।
 सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते  ॥भगवद्गीता ४.३३॥

उभयाकारे कर्मणि द्रव्यमयादंशाज्ज्ञानमयांशः श्रेयान्; सर्वस्य कर्मणः तदितरस्य चाखिलस्योपादेयस्य ज्ञाने परिसमाप्तेः तदेव सर्वैस्साधनैः प्राप्यभूतं ज्ञानं कर्मान्तर्गतत्वेनाभ्यस्यते । तदेव अभ्यस्यमानं क्रमेण प्राप्यदशां प्रतिपद्यते ॥४.३३॥

 तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया  ।
 उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः  ॥भगवद्गीता ४.३४॥

तदत्मविषयं ज्ञानं "अविनाशि तु तद्विद्धि" इत्यारभ्य "एषा तेऽभिहिता" इत्यन्तेन मयोपदिष्टम्, "तद्युक्तकर्मणि वर्तमानत्वं विपाकानुगुणं काले काले प्रणिपातपरिप्रश्नसेवादिभिर्विशदाकारं ज्ञानिभ्यो विद्धि । साक्षात्कृतात्मस्वरूपास्तु ज्ञानिनः प्रणिपातादिभ्यस्सेविताः ज्ञानबुभुत्सया परितः पृच्छतस्तवाशयं आलक्ष्य ज्ञानं उपदेक्ष्यन्ति ॥४.३४॥

आत्मयाथात्म्यविषयस्य ज्ञानस्य साक्षात्काररूपस्य लक्षणं आह

 यज्ज्ञात्वा न पुनर्मोहं एवं यास्यसि पाण्डव  ।
 येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि  ॥भगवद्गीता ४.३५॥

यज्ज्ञानं ज्ञात्वा पुनरेवं देवाद्यात्माभिमानरूपं तत्कृतं ममताद्यास्पदं च मोहं न यास्यसि, येन च देवमनुष्याद्याकारेणानुसन्हितानि सर्वाणि भूतानि स्वात्मन्येव द्रक्ष्यसि, यतस्तवान्येषां च भूतानां प्रकृतिवियुक्तानां ज्ञानैकाकारतया साम्यं । प्रकृतिसंसर्गदोषविनिर्मुक्तं आत्मरूपं सर्वं समं इति च वक्ष्यते, "निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः" इति । अथो मयि सर्वभूतान्यशेषेण द्रक्ष्यसि, मत्स्वरूपसाम्यात्परिशुद्धस्य सर्वस्यात्मवस्तुनः । "इदं ज्ञानं उपाश्रित्य मम साधर्म्यं आगताः" इति हि वक्ष्यते । तथा, "तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यं उपैति" इत्येवमादिषु नामरूपविनिर्मुक्तस्यात्मवस्तुनः परस्वरूपसाम्यं अवगम्यते । अतः प्रकृतिविनिर्मुक्तं सर्वं आत्मवस्तु परस्परं समं सर्वेश्वरेण च समं ॥४.३५॥

 अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः  ।
 सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि  ॥भगवद्गीता ४.३६॥

यद्यपि सर्वेभ्यः पापेभ्यः पापकृत्तमोऽसि, सर्वं पूर्वार्जितं वृजिनरूपं समुद्रं आत्मविषयज्ञानरूपप्लवेनैव संतरिष्यसि ॥४.३६॥

 यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन  ।
 ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा  ॥भगवद्गीता ४.३७॥

सम्यक्प्रवृद्धोऽग्निरिन्धनसञ्चयं इव, आत्मयाथात्म्यज्ञानरूपोऽग्निर्जीवात्मगतं अनादिकालप्रवृत्तानन्तकर्मसञ्चयं भस्मीकरोति ॥४.३७॥

 न हि ज्ञानेन सदृशं पवित्रं इह विद्यते  ।
 तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति  ॥भगवद्गीता ४.३८॥

यस्मादात्मज्ञानेन सदृशं पवित्रं शुद्धिकरं इह जगति वस्त्वन्तरं न विद्यते, तस्मादात्मज्ञानं सर्वपापं नाशयतीत्यर्थः । तत्तथाविधं ज्ञानं यथोपदेशं अहरहरनुष्ठीयमानज्ञानाकारकर्मयोगसंसिद्धः कालेन स्वात्मनि स्वयं एव लभते ॥४.३८॥

तदेव विस्पष्टं आह

 श्रद्धावान्लभते ज्ञानं तत्परः संयतेन्द्रियः  ।
 ज्ञानं लब्ध्वा परां शान्तिं अचिरेणाधिगच्छति  ॥भगवद्गीता ४.३९॥

एवं उपदेशाज्ज्ञानं लब्ध्वा चोपदिष्टज्ञानवृद्धौ श्रद्धावान्तत्परः तत्रैव नियतमनाः तदितरविषयात्संयतेन्द्रियोऽचिरेण कालेनोक्तलक्षणविपाकदशापन्नं ज्ञानं लभते, तथाविधं ज्ञानं लब्ध्वा परां शान्तिं अचिरेणाधिगच्छति परं निर्वाणं आप्नोति ॥४.३९॥

 अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति  ।
 नायं लोकोऽस्ति न परो न सुखं संशयात्मनः  ॥भगवद्गीता ४.४०॥

अज्ञः एवं उपदेशलब्धज्ञानरहितः, उपदिष्टज्ञानवृद्ध्युपाये चाश्रद्धधानः अत्वरमाणः, उपदिष्टे च ज्ञाने संशयात्मा संशयमनाः विनश्यति विनष्टो भवति । अस्मिन्नुपदिष्टे आत्मयाथात्म्यविषये ज्ञाने संशयात्मनोऽयं अपि प्राकृतो लोको नास्ति, न च परः । धर्मार्थकामरूपपुरुषार्थाश्च न सिध्यन्ति, कुतो मोक्ष इत्यर्थः; शास्त्रीयकर्मसिद्धिरूपत्वात्सर्वेषां पुरुषार्थानाम्, शास्त्रीयकर्मजन्यसिद्धेश्च देहातिरिक्तात्मनिश्चयपूर्वकत्वात् । अतः सुखलवभागित्वं आत्मनि संशयात्मनो न संभवति ॥४.४०॥

 योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् ।
 आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय  ॥भगवद्गीता ४.४१॥

यथोपदिष्टयोगेन संन्यस्तकर्माणं ज्ञानाकारतापन्नकर्माणं यथोपदिष्टेन चात्मज्ञानेन आत्मनि संच्छिन्नसंशयम्, आत्मवन्तं मनस्विनम् उपदिष्टार्थे दृढावस्थितमनसं बन्धहेतुभूतप्राचीनानन्तकर्माणि न निबध्नन्ति ॥४.४१॥

 तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः  ।
 छित्त्वैनं संशयं योगं आतिष्ठोत्तिष्ठ भारत  ॥भगवद्गीता ४.४२॥

तस्मादनाद्यज्ञानसंभूतं हृत्स्थं आत्मविषयं संशयं मयोपदिष्टेनात्मज्ञानासिना छित्त्वा मयोपदिष्टं कर्मयोगं आतिष्ठ; तदर्थं उत्तिष्ठ भारतेति ॥४.४२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.2800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पोरचेष्टा

  • f  The liveliness and wantonness of Children. 
RANDOM WORD

Did you know?

पितापुत्र अथवा भाउ भाउ एकाच नक्षत्रावर जन्मले असता त्याचे काय परिणाम होतात? उपाय काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.