TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय ८

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय ८
सप्तमे  परस्य ब्रह्मणो वासुदेवस्योपास्यत्वं निखिलचेतनाचेतनवस्तुशेषित्वम्, कारणत्वम्, आधारत्वम्, सर्वशरीरतया सर्वप्रकारत्वेन सर्वशब्दवाच्यत्वम्, सर्वनियन्तृत्वम्, सर्वैश्च कल्याणगुणगणैस्तस्यैव परतरत्वम्, सत्त्वरजस्तमोमयैर्देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर्भावैरनादिकालप्रवृत्तदुष्कृतप्रवाहहेतुकैस्तस्य तिरोधानम्, अत्युत्कृष्टसुकृतहेतुकभगवत्प्रपत्त्या सुकृततारतम्येन च प्रतिपत्तिवैशेष्यादैश्वर्याक्षरयाथात्म्यभगवत्प्राप्त्यपेक्षयोपासकभेदम्, भगवन्तं प्रेप्सोर्नित्ययुक्ततयैकभक्तितया चात्यर्थपरमपुरुषप्रियत्वेन च श्रैष्ठ्यं दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्योपादेयभेदांश्च प्रास्तौषीत् । इदानीं अष्टमे प्रस्तुतान्ज्ञातव्योपादेयभेदान्विविनक्ति॥

अर्जुन उवाच
किं तद्ब्रह्म किं अध्यात्मं किं कर्म पुरुषोत्तम  ।
अधिभूतं च किं प्रोक्तं अधिदैवं किं उच्यते  ॥भगवद्गीता ८.१॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदनम् ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः  ॥भगवद्गीता ८.२॥

जरामरणमोक्षाय भगवन्तं आश्रित्य यतमानानां ज्ञातव्यतयोक्तं तद्ब्रह्म अध्यात्मं च किं इति वक्तव्यं । ऐश्वर्यार्थीनां ज्ञातव्यं अधिभूतं अधिदैवं च किम्? त्रयाणां ज्ञातव्योऽधियज्ञशब्दनिर्दिष्टश्च कः? तस्य चाधियज्ञभावः कथम्? प्रयाणकाले च एभिस्त्रिभिर्नियतात्मभिः कथं ज्ञेयोऽसि? ॥८.१,२॥

श्रीभगवानुवाच
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्मं उच्यते  ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः  ॥भगवद्गीता ८.३॥

तद्ब्रह्मेति निर्दिष्टं परमं अक्षरं न क्षरतीत्यक्षरम्, क्षेत्रज्ञसमष्टिरूपं । तथा च श्रुतिः, "अव्यक्तं अक्षरे लीयते अक्षरं तमसि लीयते" इत्यादिका । परमं अक्षरं प्रकृतिविनिर्मुक्तं आत्मस्वरूपं । स्वभावोऽध्यात्मं उच्यते । स्वभावः प्रकृतिः । अनात्मभूतम्, आत्मनि संबध्यमानं भूतसूक्ष्मतद्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतयोदितं । तदुभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिर्ज्ञातव्यं । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । भूतभावः मनुष्यादिभावः; तदुद्भवकरो यो विसर्गः, "पञ्चम्यां आहुतावापः पुरुषवचसो भवन्ति" इति श्रुतिसिद्धो योषित्संबन्धजः, स कर्मसंज्ञितः । तच्चाखिलं सानुबन्धं उद्वेजनीयतया, परिहरणीयतया च मुमुक्षुभिर्ज्ञातव्यं । परिहरणीयतया चानन्तरं एव वक्ष्यते, "यदिच्छन्तो ब्रह्मचर्यं चरन्ति" इति ॥८.३॥

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहं एवात्र देहे देहभृतां वर  ॥भगवद्गीता ८.४॥

ऐश्वर्यार्थिनां ज्ञातव्यतया निर्दिष्टं अधिभूतं क्षरो भावः वियदादिभूतेषु वर्तमानः तत्परिणामविशेषः क्षरणस्वभावो विलक्षणः शब्दस्पर्शादिस्सास्रयः । विलक्षणाः साश्रयाश्शब्दस्पर्शरूपरसगन्धाः ऐश्वर्यार्थिभिः प्राप्यास्तैरनुसन्धेयाः । पुरुषश्चाधिदैवतं अधिदैवतशब्दनिर्दिष्टः पुरुषः अधिदैवतं देवतोपरि वर्तमानः, इन्द्रप्रजापतिप्रभृतिकृत्स्नदैवतोपरि वर्तमानः, इन्द्रप्रजापतिप्रभृतीनां भोग्यजातद्विलक्षणशब्दादेर्भोक्ता पुरुषः । सा च भोक्तृत्वावस्था ऐश्वर्यार्थिभिः प्राप्यतयानुसन्धेया । अधियज्ञोऽहं एव । अधियज्ञः यज्ञैराराध्यतया वर्तमानः । अत्र इन्द्रादौ मम देहभूते आत्मतयावस्थितोऽहं एव यज्ञैराराध्य इति महायज्ञादिनित्यनैमित्तिकानुष्ठानवेलायां त्रयाणां अधिकारिणां अनुसन्धेयं एतत् ॥ ८.४॥

अन्तकाले च मां एव स्मरन्मुक्त्वा कलेबरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः  ॥भगवद्गीता ८.५॥

इदं अपि त्रयाणां साधारणं । अन्तकाले च मां एव स्मरन्कलेवरं त्यक्त्वा यः प्रयाति, स मद्भावं याति मम यो भावः स्वभावः तं याति; तदानीं यथा मां अनुसन्धत्ते, तथाविधाकारो भवतीत्यर्थः; यथा आदिभरतादयस्तदानीं स्मर्यमाणमृगसजातीयाकारात्संभूताः ॥८.५॥

स्मर्तुस्स्वविषयसजातीयाकारतापादनं अन्त्यप्रत्ययस्य स्वभाव इति सुस्पष्टं आह

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् ।
तं तं एवैति कौन्तेय सदा तद्भावभावितः  ॥भगवद्गीता ८.६॥

अन्ते अन्तकाले यं यं वापि भावं स्मरन्कलेबरं त्यजति, तं तं भावं एव मरणानन्तरं एति । अन्तिमप्रत्ययश्च पूर्वभावितविषय एव जायते ॥८.६॥

तस्मात्सर्वेषु कालेषु मां अनुस्मर युध्य च  ।
मय्यर्पितमनोबुद्धिः मां एवैष्यस्यसंशयः  ॥भगवद्गीता ८.७॥

यस्मात्पूर्वकालाभ्यस्तविषय एवान्त्यप्रत्ययो जायते, तस्मात्सर्वेषु कालेष्वाप्रयाणादहरहर्मां अनुस्मर । अहरहरनुस्मृतिकरं युद्धादिकं वर्णाश्रमानुबन्धि श्रुतिस्मृतिचोदितं नित्यनैमित्तिकं च कर्म कुरु । एवं उपायेन मय्यर्पितमनोबुद्धिः अन्तकले च मां एव स्मरन्यथाभिलषितप्रकारं मां प्राप्स्यसि; नात्र संशयः ॥८.७॥

एवं सामान्येन स्वप्राप्यावाप्तिरन्त्यप्रत्ययाधीनेत्युक्त्वा तदर्थं त्रयाणां उपासनप्रकारभेदं वक्तुं उपक्रमते; तत्राइश्वर्यार्थिनां उपासनप्रकारं यथोपासनं अन्त्यप्रत्ययप्रकारं चाह

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना  ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥भगवद्गीता ८.८॥

अहरहरभ्यासयोगाभ्यां युक्ततया नान्यगामिना चेतसा अन्तकाले परमं पुरुषं दिव्यं मां वक्ष्यमाणप्रकारं चिन्तयन्मां एव याति  आदिभरतमृगत्वप्राप्तिवदैश्वर्यविशिष्टतया मत्समानाकारो भवति । अभ्यासः नित्यनैमित्तिकाविरुद्धेषु सर्वेषु कालेषु मनसोपास्यसंशीलनं । योगस्तु अहरहर्योगकालेऽनुष्ठीयमानं यथोक्तलक्षणं उपासनं ॥८.८॥

कविं पुराणं अनुशासितारं अणोरणीयांसं अनुस्मरेद्यः  ।
सर्वस्य धातारं अचिन्त्यरूपं आदित्यवर्णं तमसः परस्तात् ॥ भगवद्गीता ८.९॥
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव  ।
भ्रुवोर्मध्ये प्राणं आवेश्य सम्यक्स तं परं पुरुषं उपैति दिव्यम् ॥भगवद्गीता ८.१०॥

कविं सर्वज्ञन्पुराणं पुरातनं अनुशासितारं विश्वस्य प्रशासितारं अणोरणीयांसं जीवादपि सूक्ष्मतरम्, सर्वस्य धातारं सर्वस्य स्रष्टारम्, अचिन्त्यरूपं सकलेतरविसजातीयस्वरूपम्, आदित्यवर्णं तमसः परस्तादप्राकृतस्वासाधारणदिव्यरूपम्, तं एवंभूतं अहरहरभ्यस्यमानभक्तियुक्तयोगबलेन आरूढसंस्कारतया अचलेन मनसा प्रयाणकाले भ्रुवोर्मध्ये प्राणं आवेश्य संस्थाप्य तत्र भूमध्ये दिव्यं पुरुषं योऽनुस्मरेत्; स तं एवोपैति  तद्भावं याति, तत्समानाइश्वर्यो भवतीत्यर्थः ॥८.९,१० ॥  

अथ कैवल्यार्थिनां स्मरण् अप्रकारं आह

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः  ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये  ॥भगवद्गीता ८.११॥

यदक्षरं अस्थूलत्वादिगुणकं वेदविदो वदन्ति, वीतरागाश्च यतयो यदक्षरं विशन्ति, यदक्षरं प्राप्तुं इच्छन्तो ब्रह्मचर्यं चरन्ति, तत्पदं संग्रहेण ते प्रवक्ष्ये । पद्यते गम्यते चेतसेति पदम्; तन्निखिलवेदान्तवेद्यं मत्स्वरूपं अक्षरं यथा उपास्यम्, तथा संक्षेपेण प्रवक्ष्यामीत्यर्थः ॥८.११॥

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च  ।
मूर्ध्न्याधायात्मनः प्राणं आस्थितो योगधारणाम् ॥भगवद्गीता ८.१२॥
ओं इत्येकाक्षरं ब्रह्म व्याहरन्मां अनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥भगवद्गीता ८.१३॥

सर्वाणि श्रोत्रादीनीन्द्रियाणि ज्ञानद्वारभूतानि संयम्य स्वव्यापारेभ्यो विनिवर्त्य, हृदयकमलनिविष्टे मय्यक्षरे मनो निरुध्य, योगाख्यां धारणां आस्थितः मय्येव निश्चलां स्थितिं आस्थितः, ओं इत्येकाक्षरं ब्रह्म मद्वाचकं व्याहरन्, वाच्यं मां अनुस्मरन्, आत्मनः प्राणं मूर्ध्न्याधाय देहं त्यजन्यः प्रयाति  स याति परमां गतिं प्रकृतिवियुक्तं मत्समानाकारं अपुनरावृत्तिं आत्मानं प्राप्नोतीत्यर्थः । "यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥अव्यक्तोऽक्षर इत्युक्तस्तं आहुः परमां गतिं ॥१." इत्यनन्तरं एव वक्ष्यते ॥८१२, १३ ॥

एवं ऐश्वर्यार्थिनः कैवल्यार्थिनश्च स्वप्राप्यानुगुणं भगवदुपासनप्रकार उक्तः; अथ ज्ञानिनो भगवदुपासनप्रकारं प्राप्तिप्रकारं चाह

अनन्यचेताः सततं यो मां स्मरति नित्यशः  ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः  ॥भगवद्गीता ८.१४॥

नित्यशः मां उद्योगप्रभृति सततं सर्वकालं अनन्यचेताः यः स्मरति अत्यर्थमत्प्रियत्वेन मत्स्मृत्या विना आत्मधारणं अलभमानो निरतिशयप्रियां स्मृतिं यः करोति; तस्य नित्ययुक्तस्य नित्ययोगं काङ्क्षमाणस्य योगिनः अहं सुलभः अहं एव प्राप्यः; न मद्भाव ऐश्वर्यादिकः सुप्रापश्च । तद्वियोगं असहमानोऽहं एव तं वृणे । "यं एवैष वृणुते तेन लभ्यः" इति हि श्रूयते । मत्प्राप्त्यनुगुणोपासनविपाकं तद्विरोधिनिरसनं अत्यर्थमत्प्रियत्वादिकं चाहं एव ददामीत्यर्थः । वक्ष्यते च "तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं । ददामि बुद्धियोगं तं येन मां उपायान्ति ते ॥तेषां एवानुकम्पार्थं अहं अज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥१." इति ॥८१४ ॥

अतः परं अध्यायशेषेण ज्ञानिनः कैवल्यार्थिनश्चापुनरावृत्तिं ऐश्वर्यार्थिनः पुनरावृत्तिं चाह

मां उपेत्य पुनर्जन्म दुःखालयं अशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः  ॥भगवद्गीता ८.१५॥

मां प्राप्य पुनर्निखिलदुःखालयं अशाश्वतं अस्थिरं जन्म न प्राप्नुवन्ति । यत एते महात्मानः महामनसः, यथावस्थितमत्स्वरूपज्ञानाना अत्यर्थमत्प्रियत्वेन मया विना आत्मधारणं अलभमाना मय्यास्क्तमनसो मदाश्रया मां उपास्य परमसंसिद्धिरूपं मां प्राप्ताः ॥८.१५॥

ऐश्वर्यगतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनरावृत्तौ अपुनरावृत्तौ च हेतुं अनन्तरं आह

आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन  ।
मां उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते  ॥भगवद्गीता ८.१६॥

ब्रह्मलोकपर्यन्ताः ब्रह्माण्डोदरवर्तिनस्सर्वे लोका भोगाइश्वर्यालयाः पुनरावर्तिनः विनाशिनः । अत ऐश्वर्यगतिं प्राप्तानां प्राप्यस्थानविनाशाद्विनाशित्वं अवर्जनीयं । मां सर्वज्ञं सत्यसङ्कल्पं निखिलजगदुत्पत्तिस्थितिलयलीलं परमकारुणिकं सदैकरूपं प्राप्तानां विनाशप्रसङ्गाभावात्तेषां पुनर्जन्म न विद्यते ॥८.१६॥

ब्रह्मलोकपर्यन्तानां लोकानां तदन्तर्वर्तिनां च परमपुरुषसङ्कल्पकृतां उत्पत्तिविनाशकालव्यवस्थां आह

सहस्रयुगपर्यन्तं अहर्यद्ब्रह्मणो विदुः  ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः  ॥भगवद्गीता ८.१७॥
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे  ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके  ॥भगवद्गीता ८.१८॥
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते  ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे  ॥भगवद्गीता ८.१९॥

ये मनुष्यादिचतुर्मुखान्तानां मत्सङ्कल्पकृताहोरात्रव्यवस्थाविदो जनाः, ते ब्रह्मणश्चतुर्मुखस्य यदहः तच्चतुर्युगसहस्रावसानं विदुः, रात्रिं च तथारूपां । तत्र ब्रह्मणोऽहरागमसमये त्रैलोक्यान्तर्वर्तिन्यो देहेन्द्रियभोग्यभोगस्थानरूपा व्यक्तश्चतुर्मुखदेहावस्थादव्यक्तात्प्रभवन्ति । तत्रैव अव्यक्तावस्थाविशेषे चतुर्मुखदेहे रात्र्यागमसमये प्रलीयन्ते । स एवायं कर्मवश्यो भूतग्रामोऽहरागमे भूत्वा भुत्वा रात्र्यागमे प्रलीयते । पुनरप्यहरागमे प्रभवति । तथा वर्षतावसानरूपयुगसहस्रान्ते ब्रह्मलोकपर्यन्ता लोकाः ब्रह्मा च, "पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते" इत्यादिक्रमेण अव्यक्ताक्षरतमःपर्यन्तं मय्येव प्रलीयन्ते । एवं मद्व्यतिरिक्तस्य कृत्स्नस्य कालव्यवस्थया मत्त उत्पत्तेः मयि प्रलयाच्चोत्पत्तिविनाशयोगित्वं अवर्जनीयं इत्यैश्वर्यगतिं प्राप्तानां पुनरावृत्तिरपरिहार्या । मां उपेतानां तु न पुनरावृत्तिप्रसङ्गः ॥८.१९॥

अथ कैवल्यं प्रप्तानां अपि पुनरावृत्तिर्न विद्यत इत्यह

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः  ।
यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यति  ॥भगवद्गीता ८.२०॥
अव्यक्तोऽक्षर इत्युक्तस्तं आहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम  ॥भगवद्गीता ८.२१॥

तस्मादव्यक्तादचेतनप्रकृतिरूपात्पुरुषार्थतया परः उत्कृष्टो भावोऽन्यो ज्ञानैकाकारतया तस्माद्विसजातीयः, अव्यक्तः केनचित्प्रमाणेन न व्यज्यत इत्यव्यक्तः, स्वसंवेद्यस्वासाधारणाकार इत्यर्थः; सनातनः उत्पत्तिविनाशानर्हतया नित्यः यः सर्वेषु वियदादिभूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र तत्र स्थितोऽपि न विनश्यति; सः अव्यक्तोऽक्षर इत्युक्तः, "ये त्वक्षरं अनिर्देश्यं अव्यक्तं पर्युपासते", "कूटस्थोऽक्षर उच्यते" इत्यादिषु  तं वेदविदः परमां गतिं आहुः । अयं एव, "यः प्रयाति त्यजन्देहं स याति परमां गतिम्" इत्यत्र परमगतिशब्दनिर्दिष्टोऽक्षरः प्रकृतिसंसर्गवियुक्तस्वस्वरूपेणावस्थित आत्मेत्यर्थः । यं एवंभूतं स्वरूपेणावस्थितं प्राप्य न निवर्तन्ते; तन्मम परमं धाम परं नियमनस्थानं । अचेतनप्रकृतिरेकं नियमनस्थानम्; तत्संसृष्टरूपा जीवप्रकृतिर्द्वितीयं नियमनस्थानं । अचित्संसर्गवियुक्तं स्वरूएणावथितं मुक्तस्वरूपं परमं नियमनस्थानं इत्यर्थः । तच्चापुनरावृत्तिरूपं । अथ वा प्रकाशवाची धामशब्दः; प्रकाशः चेह ज्ञानं अभिप्रेतम्; प्रकृतिसंसृष्टात्परिछिन्नज्ञानरूपादात्मनोऽपरिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परं धाम ॥१.२०॥२१ ॥

ज्ञानिनः प्राप्यं तु तस्मादत्यन्तविभक्तं इत्याह

पुरुषस्स परः पार्थ भक्त्या लभ्यस्त्वनन्यया  ।
यस्यान्तस्स्थानि भूतानि येन सर्वं इदं ततम् ॥भगवद्गीता ८.२२॥

"मत्तः परतरं नान्यत्किञ्चिदस्ति धनंजय । मयि सर्वं इदं प्रोतं सूत्रे मणिगणा इव ॥१.", "मां एभ्यः परं अव्ययम्" इत्यादिना निर्दिष्टस्य यस्य अन्तस्स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वं इदं ततम्, स परः पुरुषः "अनन्यचेतास्सततम्" इत्यनन्यया भक्त्या लभ्यः ॥८२२ ॥

अथात्मयाथात्म्यविदुः परमपुरुषनिष्टस्य च साधरणीं अर्चिरादिकां गतिं आह  द्वयोरप्यर्चिरादिका गतिः श्रुतौ श्रुता । सा चापुनरावृत्तिलक्षणा । यथा पञ्चाग्निविद्यायाम्, "तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते, तेऽर्चिषं अभिसंभवन्त्यर्चिषोऽहः" इत्यादौ । अर्चिरादिकया गतस्य परब्रह्मप्राप्तिरपुनरावृत्तिश्चाम्नाता, "स एनान्ब्रह्म गमयति एतेन प्रतिपद्यमाना इमं मानवं आवर्तं नावर्तन्ते" इति । न च प्रजापतिवाक्यादौ श्रुतपरविद्याङ्गभूतात्मप्राप्तिविषयेयम्, "तद्य इत्थं विदुः" इति गतिश्र्तुइः, "ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" इति परविद्यायाः पृथक्छ्रुतिवैयार्थ्यात् । पञ्चाग्निविद्यायां च, "इति तु पञ्चम्यां आहुतावापः पुरुषवचसो भवन्ति" इति, "रमणीयचरणाः ... कपूयचरणाः" इति पुण्यपापहेतुको मनुष्यादिभावोऽपां एव भूतान्तरसंसृष्टानाम्, आत्मनस्तु तत्परिष्वङ्गमात्रं इति चिदचितोर्विवेकं अभिधाय, "तद्य इत्थं विदुः ,,, तेऽर्चिषं असंभवन्ति ... इमं मानवं आवर्तं नावर्तन्ते" इति विविक्ते चिदचिद्वस्तुनी त्याज्यतया प्राप्यतया च य इत्थं विदुः तेऽर्चिरादिना गच्छन्ति, न च पुनरावर्तन्त इत्युक्तं इति गम्यते । आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य च "स एनान्ब्रह्म गमयति" इति ब्रह्मप्राप्तिवचनादचिद्वियुक्तं आत्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषतैकरसं इत्यनुसन्धेयम्; तत्क्रतुन्यायाच्च । परशेषतैकरसत्वं च "य आत्मनि तिष्ठन्... यस्यात्मा शरीरम्" इत्यादिश्रुतिसिद्धं ।

यत्र काले त्वनावृत्तिं आवृत्तिं चैव योगिनः  ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ  ॥भगवद्गीता ८.२३॥
अग्निर्ज्योतिरहश्शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः  ॥भगवद्गीता ८.२४॥

अत्र कालशब्दो मार्गस्याहःप्रभृतिसंवतरान्तकालाभिमानिदेवताभूयस्तया मार्गोपलक्षणार्थः । यस्मिन्मार्गे प्रयाता योगिनोऽनावृत्तिं पुण्यकर्माणश्चावृत्तिं यान्ति तं मार्गं वक्ष्यामीत्यर्थः । "अग्निर्ज्योतिरहश्शुक्लः षण्मासा उत्तरायणम्" इति संवत्सरादीनां प्रदर्शनं ॥८.२३,२४॥

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायणम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते  ॥भगवद्गीता ८.२५॥

एतच्च धूमादिमार्गस्थपितृलोकादेः प्रदर्शनं । अत्र योगिशब्दः पुण्यकर्मसंबन्धिविषयः ॥८.२५॥

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते  ।
एकया यात्यनावृत्तिं अन्ययावर्तते पुनः  ॥भगवद्गीता ८.२६॥

शुक्ला गतिः अर्चिरादिका, कृष्णा च धूमादिका । शुक्लयानावृत्तिं याति; कृष्णया तु पुनरावर्तते । एते शुक्लकृष्णे गती ज्ञानिनां विविधानां पुण्यकर्मणां च श्रुतौ शाश्वते मते । "तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषं अभिसंभवन्ति", "अथ य इमे ग्राम इष्टापूर्ते दत्तं इत्युपासते ते धूमं अभिसंभवन्ति" इति ॥८.२६॥

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन  ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन  ॥भगवद्गीता ८.२७॥

एतौ मार्गौ जानन्योगी प्रयाणकाले कश्चन न मुह्यति; अपि तु स्वेनैव देवयानेन पथा याति । तस्मादहरहर्चिरादिगतिचिन्तनाख्ययोगयुक्तो भव ॥८.२७॥

अथाध्यायद्वयोदितशास्त्रार्थवेदनफलं आह

वेदेषु यज्ञेषु तपस्सु चैव दाने च यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वं इदं विदित्वा योगी परं स्थानं उपैति चाद्यम् ॥भगवद्गीता ८.२८॥

ऋग्यजुस्सामाथर्वरूपवेदाभ्यासयज्ञतपोदानप्रभृतिषु सर्वेषु पुण्येषु यत्फलं निर्दिष्टम्, इदं अध्यायद्वयोदितं भगवन्माहात्म्यं विदित्वा तत्सर्वं अत्येति एतद्वेदनसुखातिरेकेण तत्सर्वं तृणवन्मन्यते । योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यं परं आद्यं स्थानं उपैति ॥८.२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.5000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गुळखोबरे देतो, तो जाळे लावितो

  • जो आपल्‍याला एखादी लालूच दाखवितो, तो आपल्‍याला एखाद्या पाशंत अडकविण्याचा प्रयत्‍न करीत असतो, ही गोष्‍ट मनात समजून असावे. जो लाडीगोडी लावतो त्‍याच्या मनात आपल्‍याला फसविण्याचा उद्देश असतो. 
RANDOM WORD

Did you know?

मी ह्या साईट साठी काही करू शकते काय
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.