TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय १४

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय १४
त्रयोदशे प्रकृतिपुरुषयोरन्यान्यसंसृष्टयोः स्वरूपयाथात्मयं विज्ञाय अमानित्वादिभिः भगवद्भक्त्यनुगृहीतैर्बन्धान्मुच्यत इत्युक्तं । तत्र बन्धहेतुः पूर्वपूर्वसत्त्वादिगुणमयसुखादिसङ्ग इति चाभिहितम्, "कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु" इति । अथेदानीं गुणानां बन्धहेतुताप्रकारः, गुणनिवर्तनप्रकारश्चोच्यते ।

 श्रीभगवानुवाच
 परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानं उत्तमम् ।
 यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिं इतो गताः  ॥भगवद्गीता १४.१॥

परं पूर्वोक्तादन्यत्प्रकृतिपुरुषान्तर्गतं एव सत्त्वादिगुणविषयं ज्ञानं भूयः प्रवक्ष्यामि । तच्च ज्ञानं सर्वेषां प्रकृतिपुरुषविषयज्ञानानां उत्तमं । यज्ज्ञानं ज्ञात्वा सर्वे मुनयस्तन्मननशीलाः इतः संसारबन्धात्परां सिद्धिं गताः परां परिशुद्धात्मस्वरूपप्राप्तिरूपां सिद्धिं अवाप्ताः ॥१४.१॥

पुनरपि तज्ज्ञानं फलेन विशिनष्टि

 इदं ज्ञानं उपाश्रित्य मम साधर्म्यं आगताः  ।
 सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च  ॥भगवद्गीता १४.२॥

इदं वक्ष्यमाणं ज्ञानं उपश्रित्य मम साधर्म्यं आगताः मत्साम्यं प्राप्ताः, सर्गेऽपि नोपजायन्ते  न सृजिकर्मतां भजन्ते; प्रलये न व्यथन्ति च  न च संहृतिकर्मतां ॥१४.२॥

अथ प्राकृतानां गुणानां बन्धहेतुताप्रकारं वक्तुं सर्वस्य भूतजातस्य प्रकृतिपुरुषसंसर्गजत्वं "यावत्संजायते किञ्चित्" इत्यनेनोक्तं भगवता स्वेनैव कृतं इत्याह

 मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
 संभवस्सर्वभूतानां ततो भवति भारत  ॥भगवद्गीता १४.३॥

कृत्स्नस्य जगतो योनिभूतं मम महद्ब्रह्म यत्, तस्मिन्गर्भं दधाम्यहम्; "भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥अपरेयम्" इति निर्दिष्टा अचेतनप्रकृतिः महदहङ्कारादिविकाराणां कारणतया महद्ब्रह्मेत्युच्यते । श्रुतावपि क्वचित्प्रकृतिरपि ब्रह्मेति निर्दिश्यते, "यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपं अन्नं च जायते" इति; "इतस्त्वन्यां प्रकृतिं विद्धि मे परां । जीवभूताम्" इति चेतनपुञ्जरूपा या परा प्रकृतिर्निर्दिष्टा, सेह सकलप्राणिबीजतया गर्भशब्देनोच्यते । तस्मिनचेतने योनिभूते महति ब्रह्मणि चेतनपुञ्जरूपं गर्भं दधामि; अचेतनप्रकृत्या भोगक्षेत्रभूतया भोक्तृवर्गपुञ्जभूतां चेतनप्रकृतिं संयोजयामीत्यर्थः । ततः तस्मात्प्रकृतिद्वयसंयोगान्मत्संकल्पकृतात्सर्वभूतानां ब्रह्मादिस्तम्बपर्यन्तानां संभवो भवति ॥१४.३॥

कार्यावस्थोऽपि चिदचित्प्रकृतिसंसर्गो मयैव कृत इत्याह

 सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः  ।
 तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता  ॥भगवद्गीता १४.४॥

सर्वासु देवगन्धर्वयक्षराक्षसमनुष्यपशुमृगपक्षिसरीसृपादिषु योनिषु तत्तन्मूर्तयो याः संभवन्ति जायन्ते, तासां ब्रह्म महद्योनिः कारणम्; मया संयोजितचेतनवर्गा महदादिविशेषान्तावस्था प्रकृतिः कारणं इत्यर्थः । अहं बीजप्रदः पिता  तत्र तत्र च तत्तत्कर्मानुगुण्येन चेतनवर्गस्य संयोजकश्चाहं इत्यर्थः ॥१४.४॥

एवं सर्गादौ प्राचीनकर्मवशादचित्संसर्गेण देवादियोनिषु जातानां पुनः पुनर्देवादिभावेन जन्महेतुं आह

 सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः  ।
 निबध्नन्ति महाबाहो देहे देहिनं अव्ययम् ॥भगवद्गीता १४.५॥

सत्त्वरजस्तमांसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनः स्वभावविशेषाः प्रकाशादिकार्यैकनिरूपणीयाः प्रकृत्यवस्थायां अनुद्भूताः तद्विकारेषु महदादिषु उद्भूताः महदादिविशेषान्तैरारब्धदेवमनुष्यादिदेहसंबन्धिनं एनं देहिनम्, अव्ययं स्वतो गुणसंबन्धानर्हं देहे वर्तमानं निबध्नन्ति, देहे वर्तमानत्वोपाधिना निबध्नन्तीत्यर्थः ॥१४.५॥

सत्त्वरजस्तमसां आकारं बन्धनप्रकारं चाह

 तत्र सत्त्वं निर्मलत्वात्प्रकाशकं अनामयम् ।
 सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ  ॥भगवद्गीता १४.६॥

तत्र सत्त्वरजस्तमस्तु सत्त्वस्य स्वरूपं ईदृशं निर्मलत्वात्प्रकाशकम्; प्रकाशसुखावरणस्वभावरहितता निर्मलत्वम्; प्रकाशसुखजननैकान्तस्वभावतया प्रकाशसुखहेतुभूतं इत्यर्थः । प्रकाशः वस्तुयाथात्म्यावबोधः । अनामयं आमयाख्यं कार्यं न विद्यत इत्यनामयम्; अरोगताहेतुरित्यर्थः । एष सत्त्वाख्यो गुणो देहिनं एनं सुखसङ्गेन ज्ञानसङ्गेन च बध्नाति पुरुषस्य सुखसङ्गं ज्ञानसङ्गं च जनयतीत्यर्थः । ज्ञानसुखयोस्सङ्गे हि जाते तत्साधनेषु लौकिकवैदिकेषु प्रवर्तते; ततश्च तत्फलानुभवसाधनभूतासु योनिषु जायत इति सत्त्वं सुखज्ञानसङ्गद्वारेण पुरुषं बध्नाति । ज्ञानसुखजननं पुनरपि तयोस्सङ्गजननं च सत्त्वं इत्युक्तं भवति ॥१४.६॥

 रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
 तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥भगवद्गीता १४.७॥

रजो रागात्मकं रागहेतुभूतं । रागः योषित्पुरुषयोरन्यान्यस्पृहा । तृणासङ्गसमुद्भवं तृष्णासङ्गयोरुद्भवस्थानम् तृष्णासङ्गहेतुभूतं इत्यर्थः । तृष्णा शब्दादिसर्वविषयस्पृहा; सङ्गः पुत्रमित्रादिषु संबन्धिषु संश्लेषस्पृहा । तद्रजः देहिनं कर्मसु क्रियासु स्पृहाजननद्वारेण निबध्नाति; क्रियासु हि स्पृहया याः क्रिया आरभते देही, ताश्च पुण्यपापरूपा इति तत्फलानुभवसाधनभूतासु योनिषु जन्महेतवो भवन्ति । अतः कर्मसङ्गद्वारेण रजो देहिनं निबध्नाति । तदेवं रजो रागतृष्णासङ्गहेतुः कर्मसङ्गहेतुश्चेत्युक्तं भवति ॥१४.७॥

 तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
 प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत  ॥भगवद्गीता १४.८॥

ज्ञानादन्यदिह अज्ञानं अभिप्रेतं । ज्ञानं वस्तुयथात्म्यावबोधः; तस्मादन्यत्तद्विपर्ययज्ञानं । तमस्तु वस्तुयाथात्म्यविअपरीतविषयज्ञानजं । मोहनं सर्वदेहिनां । मोहो विपर्ययज्ञानम्; विपर्ययज्ञानहेतुरित्यर्थः । तत्तमः प्रमादालस्यनिद्राहेतुतया तद्द्वारेण देहिनं निबध्नाति । प्रमादः कर्तव्यात्कर्मणोऽन्यत्र प्रवृत्तिहेतुभूतं अनवधानं । आलस्यं कर्मस्वनारम्भस्वभावः; स्तब्धतेति यावत् । पुरुषस्येन्द्रियप्रवर्तनश्रान्त्या सर्वेन्द्रियप्रवर्तनोपरतिर्निद्रा; तत्र बाह्येन्द्रियप्रवर्तनोपरमः स्वप्नः; मनसोऽप्युपरतिः सुषुप्तिः ॥१४.८॥

सत्त्वादीनां बन्धद्वारभूतेषु प्रधानान्याह

 सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत  ।
 ज्ञानं आवृत्य तु तमः प्रमादे सञ्जयत्युत  ॥भगवद्गीता १४.९॥

सत्त्वं सुखसङ्गप्रधानम्; रजः कर्मसङ्गप्रधानम्; तमस्तु वस्तुयाथात्म्यज्ञानं आवृत्य विपरीतज्ञानहेतुतया कर्तव्यविपरीतप्रवृत्तिसङ्गप्रधानं ॥१४.९॥

देहाकारपरिणतायाः प्रकृतेः स्वरूपानुबन्धिनः सत्त्वादयो गुणाः; ते च स्वरूपानुबन्धित्वेन सर्वदा सर्वे वर्तन्ते इति परस्परविरुद्धं कार्यं कथं जनयन्तीत्यत्र आह

 रजस्तमश्चाभिभूय सत्त्वं भवति भारत  ।
 रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा  ॥भगवद्गीता १४.१०॥

यद्यपि सत्त्वाद्यस्त्रयः प्रकृतिसंसृष्टात्मस्वरूपानुबन्धिनः, तथापि प्राचीनकर्मवशाद्देहाप्यायनभूताहारवैषम्याच्च सत्त्वादयः परस्परसमुद्भवाभिभवरूपेण वर्तन्ते । रजस्तमसी कदाचिदभिभूय सत्त्वं उद्रिक्तं वर्तते; तथा तमस्सत्त्वे अभिभूय रजः कदाचित्; कदाचिच्च रजस्सत्त्वे अभिभूय तमः ॥१४.१०॥

तच्च कार्योपलभ्यैवावगच्छेदित्याह

 सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
 ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वं इत्युत  ॥भ्ङ्%_१४.११ ।

सर्वेषु चक्षुरादिषु ज्ञानद्वारेषु यदा वस्तुयाथात्म्यप्रकाशे ज्ञानं उपजायते, तदा तस्मिन्देहे सत्त्वं प्रवृद्धं इति विद्यात् ॥ १४.११॥

 लोभः प्रवृत्तिरारम्भः कर्मणां अशमः स्पृहा ।
 रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥१४.१२॥

लोभः स्वकीयद्रव्यस्यात्यागशीलता; प्रवृत्तिः प्रयोजनं अनुद्दिश्यापि चलनस्वभावाता; आरम्भः कर्मणाम् फलसाधनभूतानां कर्मणां आरम्भः; अशमः इन्द्रियानुरतिः; स्पृहा  विषयेच्छा । एतानि रजसि प्रवृद्धे जायन्ते । यदा लोभादयो वर्तन्ते, तदा रजः प्रवृद्धं इति विद्यादित्यर्थः ॥१४.१२॥

 अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
 तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥१४.१३॥

अप्रकाशः ज्ञानानुदयः; अप्रवृत्तिश्च स्तब्धता; प्रमादः अकार्यप्रवृत्तिफलं अनवधानम्; मोहः विपरीतज्ञानं । एतानि तमसि प्रवृद्धे जायन्ते । एतैस्तमः प्रवृद्धं इति विद्यात् ॥ १४.१३॥

 यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
 तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥१४.१४॥

यदा सत्त्वं प्रवृद्धं तदा, सत्त्वे प्रवृद्धे देहभृत्प्रलयं मरणं याति चेत्, उत्तमविदां उत्तमतत्त्वविदां आत्मयाथात्म्यविदां लोकान्समूहानमलान्मलरहितान् अज्ञानरहितान्, प्रतिपद्यते प्राप्नोति । सत्त्वे प्रवृद्धे तु मृतः आत्मविदां कुलेषु जनित्वा आत्मयाथात्म्यज्ञानसाधनेषु पुण्यकर्मस्वधिकरोतीत्युक्तं भवति ॥१४.१४॥

 रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।

रजसि प्रवृद्धे मरणं प्राप्य फलार्थं कर्म कुर्वतां कुलेषु जायते; तत्र जनित्वा स्वर्गादिफलसाधनकर्मस्वधिकरोतीत्यर्थः॥

 तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥१४.१५॥

तथा तमसि प्रवृद्धे मृता मूढयोनिषु श्वसूकरादियोनिषु जायते । सकलपुरुषार्थारम्भानर्हो जायत इत्यर्थः ॥१४.१५॥

 कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलं ।
 रजसस्तु फलं दुःखं अज्ञानं तमसः फलं ॥१४.१६॥

एवं सत्त्वप्रवृद्धौ मरणं उपगम्यात्मविदां कुले जातेनानुष्ठितस्य सुकृतस्य फलाभिसन्धिरहितस्य मदाराधनरूपस्य कर्मणः फलं पुनरपि ततोऽधिकसत्त्वजनितं निर्मलं दुःखगन्धरहितं भवतीत्याहुः सत्त्वगुणपरिणामविदः । अन्त्यकालप्रवृद्धस्य रजसस्तु फलं फलसाधनकर्मसङ्गिकुलजन्मफलाभिसन्धिपूर्वककर्मारम्भतत्फलानुभवपुनर्जन्मरजोवृद्धिफलाभिसन्धिपूर्वक कर्मारम्भपरम्परारूपं सांसारिकदुःखप्रायं एवेत्याहुः तद्गुणयाथात्म्यविदः । अज्ञानं तमसः फलम् एवं अन्त्यकालप्रवृद्धस्य तमसः फलं अज्ञानपरम्परारूपं ॥१४.१६॥

तदधिकसत्त्वादिजनितं निर्मलादिफलं किं इत्यत्राह

 सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।
 प्रमादमोहौ तमसो भवतोऽज्ञानं एव च ॥१४.१७॥

एवं परम्परया जातादधिकसत्त्वादात्मयाथात्म्यापरोक्ष्यरूपं ज्ञानं जायते । तथा प्रवृद्धाद्रजसः स्वर्गादिफललोभो जायते । तथा प्रवृद्धाच्च तमसः प्रमादः अनवधाननिमित्ता असत्कर्मणि प्रवृत्तिः; ततश्च मोहः विपरीतज्ञानम्; ततश्चाधिकतरं तमः; ततश्चाज्ञानम् ज्ञानाभावः ॥१४.१७॥

 ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
 जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१४.१८॥

एवं उक्तेन प्रकारेण सत्त्वस्था ऊर्ध्वं गच्छन्ति  क्रमेण संसारबन्धान्मोक्षं गच्छन्ति । रजसः स्वर्गादिफललोभकरत्वाद्राजसाः फलसाधनभुतं कर्मानुष्ठाय तत्फलं अनुभूय पुनरपि जनित्वा तदेव कर्मानुतिष्ठन्तीति मध्ये तिष्ठन्ति । पुनरावृत्तिरूपतया दुःखप्रायं एव तत् । तामसास्तु जघन्यगुणवृत्तिस्था उत्तरोत्तरनिकृष्टतमोगुणवृत्तिषु स्थिता अधो गच्छन्ति  अन्त्यत्वम्, ततस्तिर्यक्त्वम्, ततः क्रिमिकीटादिजन्म, स्थावरत्वम्, ततोऽपि गुल्मलतात्वम्, ततश्च शिलाकाष्ठलोष्टतृणादित्वं गच्छन्तीत्यर्थः ॥१४.१८॥

आहारविशेषैः फलाभिसन्धिरहितसुकृतविशेषैश्च परम्परया प्रवर्धितसत्त्वानां गुणात्ययद्वारेण ऊर्ध्वगमनप्रकारं आह

 नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
 गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥१४.१९॥

एवं सात्त्विकाहारसेवया फलाभिसन्धिरहितभगवदाराधनरूपकर्मानुष्ठानैश्च रजस्तमसी सर्वात्मनाभिभूय उत्कृष्टसत्त्वनिष्ठो यदायं गुणेभ्योऽन्यं कर्तारं नानुपश्यति  गुणा एव स्वानुगुणप्रवृत्तिषु कर्तार इति पश्यति; गुणेभ्यश्च परं वेत्ति कर्तृभ्यो गुणेभ्यश्च परं अन्यं आत्मानं अकर्तारं वेत्ति  स मद्भावं अधिगच्छति मम यो भावस्तं अधिगच्छति । एतदुक्तं भवति  "आत्मनः स्वतः परिशुद्धस्वभावस्य पूर्वपूर्वकर्ममूलगुणसङ्गनिमित्तं विविधकर्मसु कर्तृत्वम्; आत्मा स्वतस्त्वकर्ता अपरिच्छिन्नज्ञानैकाकारः" इत्येवं आत्मानं यदा पश्यति, तदा मद्भावं अधिगच्छतीति ॥१४.१९॥

कर्तृभ्यो गुणेभ्योऽन्यं अकर्तारं आत्मानं पश्यन्भगवद्भावं अधिगच्छतीत्युक्तम्; स भगवद्भावः कीदृश इत्यत आह

 गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
 जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतं अश्नुते ॥१४.२०॥

अयं देही देहसमुद्भवान्देहाकारपरिणतप्रकृतिसमुद्भवानेतान्सत्त्वादीन्त्रीन्गुणानतीत्य तेभ्योऽन्यं ज्ञानैकाकारं आत्मानं पश्यन्जन्ममृत्युजरादुह्खैर्विमुक्तः अमृतं आत्मानं अनुभवति । एष मद्भाव इत्यर्थः ॥१४.२०॥

अथ गुणातीतस्य स्वरूपसूचनाचारप्रकारं गुणात्ययहेतुं च पृच्छनर्जुन उवाच

 अर्जुन उवाच
 कैर्लिङ्गैस्त्रिगुणानेतानतीतो भवति प्रभो ।
 किं आचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥१४.२१॥

सत्त्वादीन्त्रीन्गुणानेतानतीतः कैर्लिङ्गैः कैर्लक्षणैः उपलक्षितो भवति? किं आचारः केनाचारेण युक्तोऽसौ? अस्य स्वरूपावगतिलिङ्गभूताचारः कीदृश इत्यर्थः । कथं चैतान्केनोपायेन सत्त्वादींस्त्रीन्गुणानतिवर्तते? ॥१४.२१॥

 श्रीभगवानुवाच
 प्रकाशं च प्रवृत्तिं च मोहं एव च पाण्डव ।
 न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥१४.२२॥

आत्मव्यतिरिक्तेषु वस्त्वनिष्टेषु संप्रवृत्तानि सत्त्वरजस्तमसां कार्याणि प्रकाशप्रवृत्तिमोहाख्यानि यो न द्वेष्टि, तथा आत्मव्यतिरिक्तेष्विष्टेषु वस्तुषु तान्येव निवृत्तानि न काङ्क्षति ॥१४.२२॥

 उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
 गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥१४.२३॥

उदासीनवदासीनः गुणव्यतिरिक्तात्मावलोकनतृप्त्या अन्यत्रोदासीनवदासीनः, गुणैर्द्वेषाकाङ्क्षाद्वारेणे यो न विचाल्यते  गुणाः स्वेषु कार्येषु प्रकाशादिषु वर्तन्त इत्यनुसन्धाय यस्तूष्णीं अवतिष्ठते । नेङ्गते न गुणकार्यानुगुणं चेष्टते ॥१४.२३॥

 समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
 तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥१४.२४॥
 मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
 सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥१४.२५॥

समदुःखसुखः सुखदुःखयोस्समचित्तः, स्वस्थः स्वस्मिन्स्थितः । स्वात्मैकप्रियत्वेन तद्व्यतिरिक्तपुत्रादिजन्ममरणादिसुखदुःखयोस्समचित्त इत्यर्थः । तत एव समलोष्टाश्मकाञ्चनः । तत एव तुल्यप्रियाप्रियः तुल्यप्रियाप्रियविषयः । धीरः प्रकृत्यात्मविवेककुशलः । तत एव तुल्यनिन्दात्मसंस्तुतिः आत्मनि मनुष्याद्यभिमानकृतगुणागुणनिमित्तस्तुतिनिन्दयोः स्वासंबन्धानुसन्धानेन तुल्यचित्तः । तत्प्रयुक्तमानावमानयोः तत्प्रयुक्तमित्रारिपक्षयोरपि स्वसंबन्धाभावादेव तुल्यचित्तः । तथा देहित्वप्रयुक्तसर्वारम्भपरित्यागी । य एवंभूतः, स गुणातीत उच्यते ॥१४.२४,२५॥

अथैवंरूपगुणात्यये प्रधानहेतुं आह

 मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
 स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥१४.२६॥

"नान्यं गुणेभ्यः कर्तारम्" इत्यादिनोक्तेन प्रकृत्यात्मविवेकानुसन्धानमात्रेण न गुणात्ययः संपत्स्यते; तस्यानादिकालप्रवृत्तिविपरीतवासनाबाध्यत्वसंभवात् । मां सत्यसङ्कल्पं परमकारुणिकं आश्रितवात्सल्यजलधिम्, अव्यभिचारेन ऐकान्त्यविशिष्टेन भक्तियोगेन च यः सेवते, स एतान्सत्त्वादीन्गुणान्दुरत्ययानतीत्य ब्रह्मभूयाय ब्रह्मत्वाय कल्पते; ब्रह्मभावयोग्यो भवति । यथावस्थितं आत्मानं अमृतं अव्ययं प्राप्नोतीत्यर्थः ॥१४.२६॥

 ब्रह्मणो हि प्रतिष्ठाहं अमृतस्याव्ययस्य च ।
 शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥१४.२७॥

हिशब्दो हेतौ; यस्मादहं अव्यभिचारिभक्तियोगेन सेवितोऽमृतस्याव्ययस्य च ब्रह्मणः प्रतिष्ठा, तथा शाश्वतस्य च धर्मस्य अतिशयितनित्याइश्वर्यस्य; एइकान्तिकस्य च सुखस्य "वासुदेवः सर्वम्" इत्यादिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्येत्यर्थः । यद्यपि शाश्वतधर्मशब्दः प्रापकवचनः, तथापि पूर्वोत्तरयोः प्राप्यरूपत्वेन तत्साहचर्यादयं अपि प्राप्यलक्षकः । एतदुक्तं भवति  पूर्वत्र "दैवी ह्येषा गुणमयी मम माया दुरत्यया । मां एव ये प्रपद्यन्ते" इत्यारभ्य गुणात्ययस्य तत्पूर्वकाक्षरैर्भगवत्प्राप्तीनां च भगवत्प्रपत्त्येकोपायतायाः प्रतिपादितत्वादेकान्तभगवत्प्रपत्त्येकोपायो गुणात्ययः तत्पूर्वकब्रह्मभावश्चेति ॥१४.२७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.8430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

military cantonment

  • न. सैनिकी कटक 
RANDOM WORD

Did you know?

How do I become a moderator on QnA?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.