TransLiteral Foundation

रामानुजभाष्य - अध्याय १३

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय १३
पूर्वस्मिन्षट्के परमप्राप्यस्य परस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्त्युपायभूतभक्तिरूपभगवदुपासनाङ्गभूतं प्राप्तुः प्रत्यगात्मनो याथात्म्यदर्शनं ज्ञानयोगकर्मयोगलक्षणनिष्ठाद्वयसाध्यं उक्तं । मध्यमे च परमप्राप्यभूतभगवद्तत्त्वयाथात्म्यतन्माहात्म्यज्ञानपूर्वकाइकान्तिकात्यन्तिकभक्तियोगनिष्ठा प्रतिपादिता । अतिशयिताइश्वर्यापेक्षाणां आत्मकैवल्यमात्रापेक्षाणां च भक्तियोगस्तत्तदपेक्षितसाधनं इति चोक्तं । इदानीं उपरितने षट्के प्रकृतिपुरुषतत्संसर्गरूपप्रपञ्चेश्वरतद्याथात्म्यकर्मज्ञानभक्तिस्वरूपतदुपादानप्रकाराश्च षट्कद्वयोदिता विशोध्यन्ते । तत्र तावत्त्रयोदशे देहात्मनोः स्वरूपम्, देहयाथात्म्यशोधनम्, देहवियुक्तात्मप्राप्त्युपायः, विविक्तात्मस्वरूपसंशोधनम्, तथाविधस्यात्मनश्चाचित्संबन्धहेतुः, ततो विवेकानुसन्धानप्रकारश्चोच्यते ।

 श्रीभगवानुवाच
 इदं शरीरं कौन्तेय क्षेत्रं इत्यभिधीयते  ।
 एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः  ॥भगवद्गीता १३.१॥

इदं शरीरं देवोऽहम्, मनुष्योऽहम्, स्थूलोऽहम्, कृशोऽहं इति आत्मनो भोक्त्रा सह सामानाधिकरण्येन प्रतीयमानं भोक्तुरात्मनोऽर्थान्तरभूतस्य भोगक्षेत्रं इति शरीरयाथात्म्यविद्भिरभिधीयते । एतदवयवशः संघातरूपेण च, इदं अहं वेद्मीति यो वेत्ति, तं वेद्यभूतादस्माद्वेदितृत्वेनार्थान्तरभूतम्, क्षेत्रज्ञ इति तद्विदः आत्मयाथात्म्यविदः प्राहुः । यद्यपि देहव्यतिरिक्तघटाद्यर्थानुसन्धानवेलायां "देवोऽहम्, मनुष्योऽहं घटादिकं जानामि" इति देहसामानाधिकरण्येन ज्ञातारं आत्मानं अनुसन्धत्ते, तथापि देहानुभववेलायां देहं अपि घटादिकं इव "इदं अहं वेद्मि" इति वेद्यतया वेदितानुभवतीति वेदितुरात्मनो वेद्यतया शरीरं अपि घटादिवदर्थान्तरभूतं । तथा घटादेरिव वेद्यभूताच्छरीरादपि वेदिता क्षेत्रज्ञोऽर्थान्तरभूतः । सामानाधिकरण्येन प्रतीतिस्तु वस्तुतश्शरीरस्य गोत्वादिवदत्मविशेषणतैकस्वभावतया तदपृथक्सिद्धेरुपपन्ना । तत्र वेदितुरसाधारणाकारस्य चक्षुरादिकरणाविषयत्वाद्योगसंस्कृतमनोविषयत्वाच्च प्रकृतिसन्निधानादेव मूढाः प्रकृत्याकारं एव वेदितारं पश्यन्ति, तथा च वक्ष्यति, "उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितं । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः" इति ॥१३.१॥

 क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत  ।
 क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम  ॥भगवद्गीता १३.२॥

देवमनुष्यादिसर्वक्षेत्रेषु वेदितृत्वाकारं क्षेत्रज्ञं च मां विद्धि  मदात्मकं विद्धि; क्षेत्रज्ञं चापीति अपिशब्दात्क्षेत्रं अपि मां विद्धीत्युक्तं इति गम्यते । यथा क्षेत्रं क्षेत्रज्ञविशेषणतैकस्वभावतया तदपृथक्सिद्धेः तत्सामानाधिकरण्येनैव निर्देश्यम्, तथा क्षेत्रं क्षेत्रज्ञं च मद्विशेषणतैकस्वभावतया मदपृथक्सिद्धेः मत्सामानाधिकरण्येनैव निर्देश्यौ विद्धि । पृथिव्यादिसंघातरूपस्य क्षेत्रस्य क्षेत्रज्ञस्य च भगवच्छरीरतैकस्वरूपतया भगवदात्मकत्वं श्रुतयो वदन्ति, "यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीं अन्तरो यमयति स त आत्मान्तर्याम्यमृतः" इत्यारभ्य, "य आत्मनि तिष्ठनात्मनोऽन्तरो यं आत्मा न वेद यस्यात्मा शरीरं य आत्मानं अन्तरो यमयति स त आत्मान्तर्याम्यमृतः" इत्याद्याः । इदं एवान्तर्यामितया सर्वक्षेत्रज्ञानां आत्मत्वेनावस्थानं भगवतः तत्सामानाधिकरण्येन व्यपदेशहेतुः । "अहं आत्मा गुडाकेश सर्वभूताशयस्थितः", "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्" ,"विष्टभ्याहं इदं कृत्स्नं एकांशेन स्थितो जगत्" इति पुरस्तादुपरिष्टाच्चाभिधाय, मध्ये सामानाधिकरण्येन व्यपदिशति, "आदित्यानां अहं विष्णुः" इत्यादिना । यदिदं क्षेत्रक्षेत्रज्ञयोः विवेकविषयं तयोर्मदात्मकत्वविषयं च ज्ञानं उक्तम्, तदेवोपादेयं ज्ञानं इति मम मतं । केचिद्
आहुः  "क्षेत्रज्ञं चापि मां विद्धि" इति सामानाधिकरण्येनैकत्वं अवगम्यते । ततश्चेश्वरस्यैव सतोऽज्ञानात्क्षेत्रज्ञत्वं इव भवतीत्यभ्युपगन्तव्यं । तन्निवृत्त्यर्थश्चायं एकत्वोपदेशः । अनेन च आप्ततमभगवदुपदेशेन, "रज्जुरेषा न सर्पः" इत्याप्तोपदेशेन सर्पत्वभ्रमनिवृत्तिवत्क्षेत्रज्ञत्वभ्रमो निवर्तते  इति ।
ते प्रष्टव्याः  अयं उपदेष्टा भगवान्वासुदेवः परमेश्वरः किं आत्मयाथात्म्यसाक्षात्कारेण निवृत्ताज्ञानः उत नेति । निवृत्ताज्ञानश्चेत्, निर्विशेषचिन्मात्रैकस्वरूपे आत्मनि अन्यतद्रूपाध्यासासंभावनया कौन्तेयादिभेददर्शनं, तान्प्रत्युपदेशादिव्यापाराश्च न संभवन्ति । अथात्मसाक्षात्काराभावादनिवृत्ताज्ञानः, न तर्ह्यज्ञत्वादेवात्मज्ञानोपदेशसंभवः; "उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः" इति ह्युक्तं । अत एवं आदिवादा अनाकलितश्रुतिस्मृतीतिहासपुराणन्यायस्ववाग्विरोधैरज्ञानिभिर्जगन्मोहनाय प्रवर्तिता इत्यनादरणीयाः । अत्रेदं तत्त्वं
अचिद्वस्तुनश्चिद्वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च स्वरूपविवेकं आहुः काश्चन श्रुतयः, "अस्मान्मायी सृजते विश्वं एतत्तस्मिंश्चान्यो मायया सन्निरुद्धः", "मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं", "क्षरं प्रधानं अमृताक्षरं हरः क्षरात्मानावीशते देव एकः"  अमृताक्षरं हरः इति भोक्ता निर्दिश्यते; प्रधानं आत्मनो भोग्यत्वेन हरतीति हरः  "स कारणं करणाधिपाधिपो न चास्य कश्चिञ् जनिता न चाधिपः", "प्रधानक्षेत्रज्ञपतिर्गुणेशः", "पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवं अच्युतम्", "ज्ञाज्ञौ द्वावजावीशनीशौ", "नित्यो नित्यानां चेतनश्चेतनानां एको बहूनां यो विदधाति कामान्", "भोक्ता भोग्यं प्रेरितारं च मत्वा", "पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वं एति", "तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति", "अजां एकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपां । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगां अजोऽन्यः" इत्याद्याः । अत्रापि, "अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयं इतस्त्वन्यां प्रकृतिं विद्धि मे परां । जीवभूतां", "सर्वभूतानि कौन्त्तेय प्रकृतिं यान्ति मामिकां । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहं ॥प्रकृतिं स्वां अवष्टभ्य विसृजामि पुनः पुनः । भूतग्रामं इमं कृत्स्नं अवशं प्रकृतेर्वशात् ॥ ..... मयाध्यक्षेण प्रकृतिस्
सूयते सचराचरं । हेतुनानेन कौन्तेय जगद्धि परिवर्तते ॥१३.", "प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि", "मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । संभवस्सर्वभूतानां ततो भवति भारत" इति । जगद्योनिभूतं महद्ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्मं अचिद्वस्तु यत्, तस्मिन्चेतनाख्यं गर्भं संयोजयामि; ततो मत्सङ्कल्पकृताच्चिदचित्संसर्गादेव देवादिस्थावरान्तानां अचिन्मिश्राणां सर्वभूतानां संभवो भवतीत्यर्थः ।
एवं भोक्तृभोग्यरूपेणावस्थितयोः सर्वावस्थावस्थितयोश्चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक्स्थितिं परमपुरुषस्य चात्मत्वं आहुः काश्चन श्रुतयः, "यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीं अन्तरो यमयति" इत्यारभ्य, "य आत्मनि तिष्ठनात्मनोऽन्तरो यं आत्मा न वेद यस्यात्मा शरीरं य आत्मानं अन्तरो यमयति स त आत्मान्तर्याम्यमृताः" इति; तथा, "यः पृथिवीं अन्तरे सञ्चरन्यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्यारभ्य, योऽक्षरं अन्तरे सञ्चरन्यस्याक्षरं शरीरं यं अक्षरं न वेद", "यो मृत्युं अन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायण",  अत्र मृत्युशब्देन तमश्शब्दवाच्यं सूक्ष्मावस्थं अचिद्वस्त्वभिधीयते, अस्यां एवोपनिषदि, "अव्यक्तं अक्षरे लीयते अक्षरं तमसि लीयते" इति वचनात्"अन्तःप्रविष्टश्शास्ता जनानां सर्वात्मा" इति च । एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणावस्थित इतीमं अर्थं ज्ञापयितुं काश्चन श्रुतयः कार्यावथं कारणावथं च जगत्स एवेत्याहुः, "सदेव सोम्येदं अग्र आसीदेकं एवाद्वितीयम्", "तदैक्षत बहु स्यां प्रजायेयेति । तत्तेजोऽसृजत" इत्यारभ्य, "सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठा", "ऐतदात्म्यं इदं सर्वं तत्सत्यं स आत्मा तत्त्वं असि श्वेतकेतो" इति । तथा, "सोऽकामयत,
बहु स्यां प्रजायेयेति । स तपोऽतप्यत, स तपस्तप्त्वा, इदं सर्वं असृजत" इत्यारभ्य, "सत्यं चामृतं च सत्यं अभवत्" इति । अत्रापि श्रुत्यन्तरसिद्धिश्चिदचितोः परमपुरुषस्य च स्वरूपविवेकः स्मारितः, "हन्ताहं इमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि", "तत्सृष्ट्वा, तदेवानुप्रविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत्..... विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यं अभवत्" इति च । एवंभूतं एव नामरूपव्याकरणम्, "तद्धेदं तर्ह्यव्याकृतं आसीत्, तन्नामरूपाभ्यां व्याक्रियत" इत्यत्राप्युक्तं ।
अतः कार्यावस्थः कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एवेति, कारणात्कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततयैकविज्ञानेन सर्वविज्ञानं च समीहितं उपपन्नतरं । "हन्ताहं इमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति, "तिस्रो देवताः" इति सर्वं अचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात्सर्वे वाचकाः शब्दाः अचिज्जीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनः शब्दस्य सामानाधिकरण्यं मुख्यवृत्तं । अतः स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्मैव कार्यं कारणं चेति ब्रह्मोपादानं जगत् । सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्मैव कारणं इति जगतो ब्रह्मोपादानत्वेऽपि संघातस्योपादानत्वेन चिदचितोर्ब्रह्मणश्च स्वभावासङ्करोऽप्युपपन्नतरः । यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वेऽपि चित्रपटस्य तत्तत्तन्तुप्रदेश एव शौक्ल्यादिसंबन्ध इति कार्यावस्थायां अपि न सर्वत्र वर्णसङ्करः  तथा चिदचिदीश्वरसंघातोपादानत्वेऽपि जगतः कार्यावस्थायां अपि भोक्तृत्वभोग्यत्वनियन्तृत्वाद्यसङ्करः । तन्तूनां पृथक्स्थितियोग्यानां एव पुरुषेच्छया कदाचित्संहतानां कारणत्वं कार्यत्वं च; इह तु चिदचितोस्सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात्तत्प्रकारः परमपुरुष एव कराण कार्यं च; स एव सर्वदा सर्वशब्दवाच्य इति विशेषः । स्वभावभेदस्तदसङ्करश्च तत्र चात्र च तुल्यः । एवं च सति परस्य ब्रह्मणः कार्यानुप्रवेशेऽपि स्वरूपान्यथाभावाभावादविकृतत्वं उपपन्नतरं । स्थूलावस्थस्य
नामरूपविभागविभक्तस्य चिदचिद्वस्तुनः आत्मतयावस्थानात्कार्यत्वं अप्युपपन्नं । अवस्थान्तरापत्तिरेव हि कार्यता । निर्गुणवादाश्च परस्य ब्रह्मणो हेयगुणसंबन्धाभावादुपपद्यन्ते । "अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः" इति हेयगुणान्प्रतिषिध्य, "सत्यकामस्सत्यसङ्कल्पः" इति कल्याणगुणगणान्विदधतीयं श्रुतिरेव अन्यत्र सामान्येनावगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति । ज्ञानस्वरूप ब्रह्म इति वादश्च सर्वज्ञस्य सर्वशक्तेर्निखिलहेयप्रत्यनीककय्लाणगुणाकरस्य ब्रह्मणः स्वरूपं ज्ञानैकनिरूपणीयं स्वप्रकाशतया ज्ञानस्वरूपं चेत्यभ्युपगमादुपपन्नतरः । "यस्सर्वज्ञः सर्ववित्", "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, "विज्ञातारं अरे केन विजानीयात्" इत्यादिकाः ज्ञातृत्वं आवेदयन्ति । "सत्यं ज्ञानम्" इत्यादिकाश्च ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपतां । "सोऽकामयत बहु स्याम्", "तदैक्षत बहु स्याम्", "तन्नामरूपाभ्यां एव व्याक्रियत" इति ब्रह्मैव स्वसङ्कल्पाद्विचित्रस्थिरत्रसरूपतया नानाप्रकारं अवस्थितं इति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वं अतत्त्वं इति प्रतिषिध्यते, "मृत्युः स मृत्युं आप्नोति य इह नानेव पश्यति ..... नेह नानास्ति किञ्चन", "यत्र हि द्वैतं इव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वं आत्मैवाभूत्तत्केन कं पश्येत्" इत्यादिना । न पुनः, "बहु स्यां प्रजायेय" इत्यादिश्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वं अपि निषिध्यते । "यत्र त्वस्य सर्वं आत्मैवाभूत्" इति निषेधवाक्यारम्भे च तत्स्थापितम्, "सर्वं तं परादाद्योऽन्यतरात्मनस्सर्वं वेद", "तस्य एतस्य महतो भूतस्य निश्श्वसितं एतद्यदृग्वेदः" इत्यादिना ।
एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोरनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनां अविरोधः, चिदचितोः परमात्मनश्च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानर्हसूक्ष्मदशापत्तिं कार्यदशायां च तदर्हस्थूलदशापत्तिं वदन्तीभिः श्रुतिभिरेव ज्ञायत इति ब्रह्माज्ञानवादस्याउपाधिकब्रह्मभेदवादस्य अन्यस्यापि अपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथंचिदप्यवकाशो दृश्यत इत्यलं अतिविस्तरेण ॥१३.२॥

 तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
 स च यो यत्प्रभावश्च तत्समासेन मे शृणु  ॥भगवद्गीता १३.३॥

तत्क्षेत्रं यच्च  यद्द्रव्यम्, यादृक्च येषां आश्रयभूतम्, यद्विकारि ये चास्य विकाराः, यतश्च  यतो हेतोरिदं उत्पन्नम्; यस्मै प्रयोजनायोत्पन्नं इत्यर्थः, यत्यत्स्वरूपं चेदम्, स च यः  स च क्षेत्रज्ञो यः यत्स्वरूपः, यत्प्रभावश्च ये चास्य प्रभावाः, तत्सर्वम्, समासेन संक्षेपेण मत्तः शृणु ॥१३.३॥

 ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
 ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः  ॥भगवद्गीता १३.४॥

तदिदं क्षेत्रक्षेत्रज्ञयाथात्म्यं ऋषिभिः पराशरादिभिः बहुधा बहुप्रकारं गीतम् "अहं त्वं च तथान्ये च भूतैरुह्याम पार्थिव । गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययं ॥कर्मवश्या गुणा ह्येते सत्त्वाद्याः पृथिवीपते । अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ॥आत्मा शुद्धोऽक्षरश्शान्तो निर्गुणः प्रकृतेः परः ॥१३."; तथा, "पिण्डः पृथक्यतः पुंसः शिरःपाण्यादिलक्षणः  । ततोऽहं इति कुत्रैतां संज्ञां राजन्करोम्यहम्"; तथा च, "किं त्वं एतच्छिरः किं नु उरस्तव तथोदरं । किं उ पादादिकं त्वं वै तवैतत्किं महीपते ॥समस्तावयवेभ्यस्त्वं पृथक्भूय व्यवस्थितः । कोऽहं इत्येव निपुणो भूत्वा चिन्तय पार्थिव ॥१३." इति  । एवं विविक्तयोर्द्वयोः वासुदेवात्मकत्वं चाहुः, "इन्द्रियाणि मनो बुद्धिस्सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञं एव च ॥१३." इति  । छन्दोभिर्विविधैः पृथक् पृथग्विधैश्छन्दोभिश्च ऋग्यजुस्सामाथर्वभिः देहात्मनोः स्वरूपं पृथग्गीतम् "तस्माद्वा एतस्मादात्मन आकाशस्संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नं । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः" इति शरीरस्वरूपं अभिधाय तस्मादन्तरं प्राणमयं तस्माच्चान्तरं
मनोमयं अभिधाय, "तस्माद्वा एतस्माद्मनोमयादन्योऽन्तर आत्मा विज्ञानमयः" इति क्षेत्रज्ञस्वरूपं अभिधाय, "तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः" इति क्षेत्रज्ञस्याप्यन्तरात्मतया आनन्न्दमयः परमात्माभिहितः । एवं ऋक्सामाथर्वसु च तत्र तत्र क्षेत्रक्षेत्रज्ञयोः पृथग्भावस्तयोर्ब्रह्मात्मकत्वं च सुस्पष्टं गीतं । ब्रह्मसूत्रपदैश्चैव  ब्रह्मप्रतिपादनसूत्राख्यैः पदैः शारीरकसूत्रैः, हेतुमद्भिः हेययुक्तैः, विनिश्चितैः निर्णयान्तैः; "न वियदश्रुतेः" इत्यारभ्य क्षेत्रप्रकारनिर्णय उक्तः । "नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः" इत्यारभ्य क्षेत्रज्ञयाथात्म्यनिर्णय उक्तः । "परात्तु तच्छ्रुतेः" इति भगवत्प्रवर्त्यत्वेन भगवदात्मकत्वं उक्तं । एवं बहुधा गीतं क्षेत्रक्षेत्रज्ञयाथात्म्यं मया संक्षेपेण सुस्पष्टं उच्यमानं शृण्वित्यर्थः ॥१३.४॥

 महाभूतान्यहङ्कारो बुद्धिरव्यक्तं एव च  ।
 इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः  ॥भगवद्गीता १३.५॥
 इच्छा द्वेषः सुखं दुःखं संघातश्चेतनाधृतिः  ।
 एतत्क्षेत्रं समासेन सविकारं उदाहृतम् ॥भगवद्गीता १३.६॥

महाभूतान्यहंकारो बुद्धिरव्यक्तं एव चेति क्षेत्रारम्भकद्रव्याणि; पृथिव्यप्तेजोवाय्वाकाशाः महाभूतानि, अहंकारो भूतादिः, बुद्धिः महान्, अव्यक्तं प्रकृतिः; इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा इति क्षेत्राश्रितानि तत्त्वानि; श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणीति तानि दश, एकं इति मनः; इन्द्रियगोचराश्च पञ्च शब्दस्पर्शरूपरसगन्धाः; इच्छा द्वेषस्सुखं दुःखं इति क्षेत्रकार्याणि क्षेत्रविकारा उच्यन्ते; यद्यपीच्छाद्वेषसुखदुःखान्यात्मधर्मभूतानि, तथाप्यात्मनः क्षेत्रसंबन्धप्रयुक्तानीति क्षेत्रकार्यतया क्षेत्रविकारा उच्यन्ते । तेषां पुरुषधर्मत्वम्, "पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यते" इति वक्ष्यते; संघातश्चेतनाधृतिः । आधृतिः आधारः सुखदुःखे भुञ्जानस्य भोगापवर्गौ साधयतश्च चेतनस्याधारतयोत्पन्नो भूतसंघातः । प्रकृत्यादिपृथिव्यन्तद्रव्यारब्धं इन्द्रियाश्रयभूतं इच्छाद्वेषसुखदुःखविकारि भूतसंघातरूपं चेतनसुखदुःखोपभोगाधारत्वप्रयोजनं क्षेत्रं इत्युक्तं भवति; एतत्क्षेत्रं समासेन संक्षेपेण सकिवारं सकार्यं उदाहृतं ॥१३.५,६॥

अथ क्षेत्रकार्येष्वात्मज्ञानसाधनतयोपादेया गुणाः प्रोच्यन्ते

 अमानित्वं अदम्भित्वं अहिंसा क्षान्तिरार्जवम् ।
 आचार्योपासनं शौचं स्थैर्यं आत्मविनिग्रहः  ॥भगवद्गीता १३.७॥

अमानित्वं उत्कृष्टजनेष्ववधीरणारहितत्वम्; अदम्भित्वम् धार्मिकत्वयशःप्रयोजनतया धर्मानुष्ठानं दम्भः, तद्रहितत्वम्; अहिंसा वाङ्मनःकायैः परपीडारहितत्वम्; क्षान्तिः परैः पीड्यमानस्यापि तान्प्रति अविकृतचित्तत्वं । आर्जवं परान्प्रति वाङ्मनःकायप्रभृतीनां एकरूपता; आचार्योपासनं आत्मज्ञानप्रदायिनि आचार्ये प्रणिपातपरिप्रश्नसेवादिनिरतत्वम्; शौचं आत्मज्ञानतत्साधनयोग्यता मनोवाक्कायगता शास्त्रसिद्धा; स्तैर्यं अध्यात्मशास्त्रोदितेऽर्थे निश्चलत्वम्; आत्मविनिग्रहः आत्मस्वरूपव्यतिरिक्तविषयेभ्यो मनसो निवर्तनं ॥१३.७॥

 इन्द्रियार्थेषु वैराग्यं अनहङ्कार एव च  ।
 जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥भगवद्गीता १३.८॥

इन्द्रियार्थेषु वैराग्यं आत्मव्यतिरिक्तेषु विषयेषु सदोषतानुसंधानेनोद्वेजनम्; अनहंकारः अनात्मनि देहे आत्माभिमानरहितत्वम्; प्रदर्शनार्थं इदम्; अनात्मीयेष्वात्मीयाभिमानरहितत्वं च विवक्षितं । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं सशरीरत्वे जन्ममृत्युजराव्याधिदुःखरूपस्य दोषस्यावर्जनीयत्वानुसंधानं ॥१३.८॥

 असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु  ।
 नित्यं च समचित्तत्वं इष्टानिष्टोपपत्तिषु  ॥भगवद्गीता १३.९॥

असक्तिः आत्मव्यतिरिक्तपरिग्रहेषु सङ्गरहितत्वम्; अनभिष्वङ्गः पुत्रदारगृहादिषु तेषु शास्त्रीयकर्मोपकरणत्वातिरेकेण श्लेषरहितत्वम्; संकल्पप्रभवेष्विष्टानिष्टोपनिपातेषु हर्षोद्वेगरहितत्वं ॥१३.९॥

 मयि चानन्ययोगेन भक्तिरव्यभिचारिणी  ।
 विविक्तदेशसेवित्वं अरतिर्जनसंसदि  ॥भगवद्गीता १३.१०॥

मयि सर्वेश्वरे च ऐकान्त्ययोगेन स्थिरा भक्तिः, जनवर्जितदेशवासित्वम्, जनसंसदि चाप्रीतिः ॥१३.१०॥

 अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थचिन्तनम् ।
 एतज्ज्ञानं इति प्रोक्तं अज्ञानं यदतोऽन्यथा  ॥भगवद्गीता १३.११॥

आत्मनि ज्ञानं अध्यात्मज्ञानं तन्निष्ठत्वम्, तत्त्वज्ञानार्थचिन्तनं तत्त्वज्ञानप्रयोजनं यच्चिन्तनं तन्निरतत्वं इत्यर्थः । ज्ञायतेऽनेनात्मेति ज्ञानम्, आत्मज्ञानसाधनं इत्यर्थः; क्षेत्रसंबन्धिनः पुरुषस्यामानित्वादिकं उक्तं गुणबृन्हं एवात्मज्ञानोपयोगि, एतद्व्यतिरिक्तं सर्वं क्षेत्रकार्यं आत्मज्ञानविरोधीति अज्ञानं ॥१३.११॥

अथ एतद्यो वेत्तीति वेदितृत्वलक्षणेनोक्तस्य क्षेत्रज्ञस्य स्वरूपं विशोध्यते

 ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतं अश्नुते  ।
 अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते  ॥भगवद्गीता १३.१२॥

अमानित्वादिभिः साधनैः ज्ञेयं प्राप्यं यत्प्रत्यगात्मस्वरूपं तत्प्रवक्ष्यामि, यज्ज्ञात्वा जन्मजरामरणादिप्राकृतधर्मरहितं अमृतं आत्मानं प्राप्नोति; आदिर्यस्य न विद्यते, तदनादि; अस्य हि प्रत्यगात्मन उत्पत्तिर्न विद्यते; तत एवान्तो न विद्यते । श्रुतिश्च, "न जायते म्रियते वा विपश्चित्" इति, मत्परं अहं परो यस्य तन्मत्परं । "इतस्त्वन्यां प्रकृतिं विद्धि मे पराम्, जीवभूताम्" इति ह्युक्तं । भगवच्छरीरतया भगवच्छेषतैकरसं ह्यात्मस्वरूपम्; तथा च श्रुतिः, "य आत्मनि तिष्ठनात्मनोऽन्तरो यं अत्मा न वेद यस्यात्मा शरीरं य आत्मानं अन्तरो यमयति" इति, तथा, "स कारणं करणाधिपाधिपो न चास्य कश्चिञ् जनिता न चाधिपः", "प्रधानक्षेत्रज्ञपतिर्गुणेशः" इत्यादिका । ब्रह्म बृहत्त्वगुणयोगि, शरीरादेरर्थान्तरभूतम्, स्वतः शरीरादिभिः परिच्छेदरहितं क्षेत्रज्ञतत्त्वं इत्यर्थः; "स चानन्त्याय कल्पते" इति हि श्रूयते; शरीरपरिच्छिन्नत्वं अणुत्वं चास्य कर्मकृतं । कर्मबन्धान्मुक्तस्यानन्त्यं । आत्मन्यपि ब्रह्मशब्दः प्रयुज्यते, "स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते । ब्रह्मणो हि प्रतिष्ठाहं अमृतस्याव्ययस्य च", "ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते परां ॥१३." इति  । न सत्तन्नासदुच्यते कार्यकारणरूपावस्थाद्वयरहिततया सदसच्छब्दाभ्यां आत्मसवरूपं नोच्यते । कार्यावस्थायां हि देवादिनामरूपभाक्त्वेन सदित्युच्यते, तदनर्हता कारणावस्थायां असदित्युच्यते । तथा च श्रुतिः, "असद्वा इदं अग्र आसीत् । ततो वै सदजायत","तद्धेदं तर्ह्यव्याकृतं आसीत्तन्नामरूपाभ्यां व्याक्रियत" इत्यादिका । कार्यकारणावस्थाद्वयान्वयस्त्वात्मनः कर्मरूपाविद्यावेष्टनकृतः,
न स्वरूपकृत इति सदसच्छब्दाभ्यां आत्मस्वरूपं नोच्यते । यद्यपि "असद्वा इदं अग्र आसीत्" इति कारणावस्थं परं ब्रह्मोच्यते, तथापि नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरं परं ब्रह्म कारणावस्थं इति कारणावस्थायां क्षेत्रक्षेत्रज्ञस्वरूपं अपि असच्छब्दवाच्यम्, क्षेत्रज्ञस्य सावस्था कर्मकृतेति परिशुद्धस्वरूपं न सदसच्छब्दनिर्देश्यं ॥१३.१२॥

 सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
 सर्वतश्श्रुतिमल्लोके सर्वं आवृत्य तिष्ठति  ॥भगवद्गीता १३.१३॥

सर्वतः पाणिपादं तत्परिशुद्धात्मस्वरूपं सर्वतः पाणिपादकार्यशक्तम्, तथा सर्वतोऽक्षिशिरोमुखं सर्वतश्श्रुतिमत्सर्वतश्चक्षुरादिकार्यकृत्, "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः" इति परस्य ब्रह्मणोऽपाणिपादस्यापि सर्वतः पाणिपादादिकार्यकृत्त्वं श्रूयते । प्रत्यगात्मनोऽपि परिशुद्धस्य तत्साम्यापत्त्या सर्वतः पाणिपादादिकार्यकृत्त्वं श्रुतिसिद्धं एव । "तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यं उपैति" इति हि श्रूयते । "इदं ज्ञानं उपाश्रित्य मम साधर्म्यं आगताः" इति च वक्ष्यते । लोके सर्वं आवृत्य तिष्ठति लोके यद्वस्तुजातं तत्सर्वं व्याप्य तिष्ठति, परिशुद्धस्वरूपं देशादिपरिच्छेदरहिततया सर्वगतं इत्यर्थः ॥१३.१३॥

 सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
 असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च  ॥भगवद्गीता १३.१४॥

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियगुणैराभासो यस्य तत्सर्वेन्द्रियाभासं । इन्द्रियगुणा इन्द्रियवृत्तयः । इन्द्रियवृत्तिभिरपि विषयान्ज्ञतुं समर्थं इत्यर्थः । स्वभावतस्सर्वेन्द्रियविवर्जितं विनैवेन्द्रियवृत्तिभिः स्वत एव सर्वं जानातीत्यर्थः । असक्तं स्वभावतो देवादिदेहसङ्गरहितम्, सर्वभृच्चैव देवादिसर्वदेहभरणसमर्थं च; "स एकधा भवति त्रिधा भवति" इत्यादिश्रुतेः । निर्गुणं तथा स्वभावतस्सत्त्वादिगुणरहितं । गुणभोक्तृ च सत्त्वादीनां गुणानां भोगसमर्थं च ॥१३.१४॥

 बहिरन्तश्च भूतानां अचरं चरं एव च  ।
 सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ भगवद्गीता १३.१५॥

पृथिव्यादीनि भूतानि परित्यज्याशरीरो बहिर्वर्तते; तेषां अन्तश्च वर्तते, "जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा" इत्यादिश्रुतिसिद्धस्वच्छन्दवृत्तिषु । अचरं चरं एव च  स्वभावतोऽचरम्; चरं च देहित्वे । सूक्ष्मत्वात्तदविज्ञेयं एवं सर्वशक्तियुक्तं सर्वज्ञां तदत्मतत्त्वं अस्मिन्क्षेत्रे वर्तमानं अप्यतिसूक्ष्मत्वाद्देहात्पृथक्त्वेन संसारिभिरविज्ञेयम्, दूरस्थं चान्तिके च तदमानित्वाद्युक्तगुणरहितानां विपरीतगुणाणां पुंसां स्वदेहे वर्तमानं अप्यतिदूरस्थम्, तथा अमानित्वादिगुणोपेतानां तदेवान्तिके वर्तते ॥१३.१५॥

 अविभक्तं च भूतेषु विभक्तं इव च स्थितम् ।
 भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च  ॥भगवद्गीता १३.१६॥

देवमनुष्यादिभूतेषु सर्वत्र स्थितं आत्मवस्तु वेदितृत्वैकाकारतया अविभक्तं । अविदुषां देवाद्याकारेण "अयं देवो मनुष्यः" इति विभक्तं इव च स्थितं । देवोऽहम्, मनुष्योऽहं इति देहसामानाधिकरण्येनानुसन्धीयमानं अपि वेदितृत्वेन देहादर्थान्तरभूतं ज्ञातुं शक्यं इति आदावुक्तं एव, "एतद्यो वेत्ति" इति, इदानीं प्रकारान्तरैश्च ज्ञातुं शक्यं इत्याज भूतभर्तृ चेति । भूतानां पृथिव्यादीनां देहरूपेण संहतानां यद्भर्तृ, तद्भर्तव्येभ्यो भूतेभ्योऽर्थान्तरं ज्ञेयम्; अर्थान्तरं इति ज्ञातुं शक्यं इत्यर्थः । तथा ग्रसिष्णु अन्नादीनां भौतिकानां ग्रसिष्णु, ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेनार्थान्त्रभूतं इति ज्ञातुं शक्यं । प्रभविष्णु च प्रभवहेतुश्च, ग्रस्तानां अन्नादीनां आकारान्तरेण परिणतानां प्रभहेतुः, तेभ्योऽर्थान्तरं इति ज्ञातुं शक्यं इत्यर्थः; मृतशरीरे ग्रसनप्रभवादीनां अदर्शनान्न भूतसंघातरूपं क्षेत्रं ग्रसनप्रभवभरणहेतुरिति निश्चीयते ॥१३.१६॥

 ज्योतिषां अपि तज्ज्योतिस्तमसः परं उच्यते  ।
 ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥भगवद्गीता १३.१७॥

ज्योतिशां दीपादित्यमणिप्रभृतीनां अपि तदेव ज्योतिः प्रकाशकम्, दीपादित्यादीनां अप्यात्मप्रभारूपं । ज्ञानं एव प्रकाशकं । दीपादयस्तु विषयेन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमात्रं कुर्वते । तावन्मात्रेण तेषां प्रकाशकत्वं । तमसः परं उच्यते । तमश्शब्दः सूक्ष्मावस्थप्रकृतिवचनः । प्रकृतेः परं उच्यत इत्यर्थः । अतो ज्ञानं ज्ञेयं ज्ञानैकाकारं इति ज्ञेयं । तच्च ज्ञानगम्यं अमानित्वादिभिर्ज्ञानसाधनैरुक्तैः प्राप्यं इत्यर्थः । हृदि सर्वस्य विष्ठितं सर्वस्य मनुष्यादेः हृदि विशेषणावस्थितम् सन्निहितं ॥१३.१७॥

 इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः  ।
 मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते  ॥भगवद्गीता १३.१८॥

एवं "महाभूतान्यहङ्कारः" इत्यादिना "संघातश्चेतनाधृतिर्" इत्यन्तेन क्षेत्रतत्त्वं समासेनोक्तं । "अमानित्वम्" इत्यादिना "तत्त्वज्ञानार्थचिन्तनम्" इत्यन्तेन ज्ञातव्यस्यात्मतत्त्वस्य ज्ञानसाधनं उक्तं । "अनादि मत्परम्" इत्यादिना "हृदि सर्वस्य विष्ठितम्" इत्यन्तेन ज्ञेयस्य क्षेत्रज्ञस्य याथात्म्यं च संक्षेपेणोक्तं । मद्भक्तः एतत्क्षेत्रयाथात्म्यं, क्षेत्राद्विविक्तात्मस्वरूपप्राप्त्युपाययाथात्म्यं क्षेत्रज्ञयाथात्म्यं च विज्ञाय, मद्भावायोपपद्यते । मम यो भावः स्वभावः, असंसारित्वम् असंसारित्वप्राप्तये उपपन्नो भवतीत्यर्थः ॥१३.१८॥

अथात्यन्तविविक्तस्वभावयोः प्रकृत्यात्मनोः संसर्गस्यानादित्वं संसृष्टयोर्द्वयोः कार्यभेदः संसर्गहेतुश्चोच्यते

 प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि  ।
 विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥भगवद्गीता १३.१९॥

प्रकृतिपुरुषौ उभौ अन्योन्यसंसृष्टौ अनादी इति विद्धि; बन्धहेतुभूतान्विकारानिच्छाद्वेषादीन्, अमानित्वादिकांश्च गुणां मोक्षहेतुभूतान्प्रकृतिसंभवान्विद्धि । पुरुषेण संसृष्टेयं अनादिकालप्रवृत्ता क्षेत्राकारपरिणाता प्रकृतिः स्वविकारैरिच्छाद्वेषादिभिः पुरुषस्य बन्धुहेतुर्भवति; सैवामानित्वादिभिः स्वविकारैः पुरुषस्यापवर्गहेतुर्भवतीत्यर्थः ॥१३.१९॥

 कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते  ।
 पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते  ॥भगवद्गीता १३.२०॥

कार्यं शरीरम्; कारणानि ज्ञानकर्मात्मकानि समनस्कानीन्द्रियाणि । तेषां क्रियाकारित्वे पुरुषाधिष्ठिता प्रकृतिरेव हेतुः; पुरुषाधिष्ठितक्षेत्राकारपरिणतप्रकृत्याश्रयाः भोगसाधनभूताः क्रिया इत्यर्थः । पुरुषस्याधिष्ठातृत्वं एव; तदपेक्षया, "कर्ता शास्त्रार्थवत्त्वात्" इत्यादिकं उक्तम्; शरीराधिष्ठानप्रयत्नहेतुत्वं एव हि पुरुषस्य कर्तृत्वं । प्रकृतिसंसृष्टः पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः, सुखदुःखानुभवाश्रय इत्यर्थः ॥१३.२०॥

एवं अन्योन्यसंसृष्टयोः प्रकृतिपुरुषयोः कार्यभेद उक्तः; पुरुषस्य स्वतस्स्वानुभवैकसुखस्यापि वैषयिकसुखदुःखोपभोगहेतुं आह

 पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।

गुणशब्दः स्वकार्येष्वौपचारिकः । स्वतस्स्वानुभवैकसुखः पुरुषः प्रकृतिस्थः प्रकृतिसंसृष्टः, प्रकृतिजान्गुणान्प्रकृतिसंसर्गोपाधिकान्सत्त्वादिगुणकार्यभूतान्सुखदुःखादीन्, भुङ्क्ते अनुभवति । प्रकृतिसंसर्गहेतुं आह

 कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु  ॥भगवद्गीता १३.२१॥

पूर्वपूर्वप्रकृतिपरिणामरूपदेवमनुष्यादियोनिविशेषेषु स्थितोऽयं पुरुषस्तत्तद्योनिप्रयुक्तसत्त्वादिगुणमयेषु सुखदुःखादिषु सक्तः तत्साधनभूतेषु पुण्यपापकर्मसु प्रवर्तते; ततस्तत्पुण्यपापफलानुभवाय सदसद्योनिषु साध्वसाधुषु योनिषु जायते; ततश्च कर्मारभते; ततो जायते; यावदमानित्वादिकानात्मप्राप्तिसाधनभूतान्गुणान्सेवते, तावदेव संसरति । तदिदं उक्तं कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु इति ॥१३.२१॥

 उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः  ।
 परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः  ॥भगवद्गीता १३.२२॥

अस्मिन्देहेऽवस्थितोऽयं पुरुषो देहप्रवृत्त्यनुगुणसङ्कल्पादिरूपेण देहस्योपद्रष्टा अनुमन्ता च भवति । तथा देहस्य भर्ता च भवति; तथा देहप्रवृत्तिजनितसुखदुःखयोर्भोक्ता च भवति । एवं देहनियमनेन, देहभरणेन, देहशेषित्वेन च देहेन्द्रियमनांसि प्रति महेश्वरो भवति । तथा च वक्ष्यते, "शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ १३." इति  । अस्मिन्देहे देहेन्द्रियमनांसि प्रति परमात्मेति चाप्युक्तः । देहे मनसि च आत्मशब्दोऽनन्तरं एव प्रयुज्यते, "ध्यानेनात्मनि पश्यन्ति केचिदात्मानं आत्मना" इति; अपिशब्दान्महेश्वर इत्यप्युक्त इति गम्यते; पुरुषः परः "अनादि मत्परम्" इत्यादिनोक्तोऽपरिच्छिन्नज्ञानशक्तिरयं पुरुषोऽनादिप्रकृतिसंबन्धकृतगुणसङ्गादेतद्देहमात्रमहेश्वरो देहमात्रपरमात्मा च भवति ॥१३.२२॥

 य एनं वेत्ति पुरुषं प्रकृतिं च गुणैस्सह  ।
 सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते  ॥भगवद्गीता १३.२३॥

एनं उक्तस्वभावं पुरुषम्, उक्तस्वभावां च प्रकृतिं वक्ष्यमाणस्वभावयुक्तैः सत्त्वादिभिर्गुणैः सह, यो वेत्ति यथावद्विवेकेन जानाति, स सर्वथा देवमनुष्यादिदेहेष्वतिमात्रक्लिष्टप्रकारेण वर्तमानोऽपि, न भूयोऽभिजायते न भूयः प्रकृत्या संसर्गं अर्हति, अपरिच्छिन्नज्ञानलकषणं अपहतपाप्मानं आत्मानं तद्देहावसानसमये प्राप्नोतीत्यर्थः ॥१३.२३॥

 ध्यानेनात्मनि पश्यन्ति केचिदात्मानं आत्मना  ।
 अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे  ॥भगवद्गीता १३.२४॥

केचिन्निष्पन्नयोगाः आत्मनि शरीरेऽवस्थितं आत्मानं आत्मना मनसा ध्यानेन योगेन पश्यन्ति । अन्ये च अनिष्पन्नयोगाः, सांख्येन योगेन ज्ञानयोगेन योगयोग्यं मनः कृत्वा आत्मानं पश्यन्ति । अपरे ज्ञानयोगानधिकारिणः, तदधिकारिणश्च सुकरोपायसक्ताः, व्यपदेश्याश्च कर्मयोगेनान्तर्गतज्ञानेन मनसो योगयोग्यतां आपाद्य आत्मानं पश्यन्ति ॥१३.२४॥

 अन्ये त्वेवं अजानन्तः श्रुत्वान्येभ्यश्च उपासते  ।
 तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः  ॥भगवद्गीता १३.२५॥

अन्ये तु कर्मयोगादिषु आत्मावलोकनसाधनेष्वनधिकृताः अन्येभ्यः तत्त्वदर्शिभ्यो ज्ञानिभ्यः श्रुत्वा कर्मयोगादिभिरात्मानं उपासते; तेऽप्यात्मदर्शनेन मृत्युं अतितरन्ति । ये श्रुतिपरायणाः श्रवणमात्रनिष्ठाः, एते च श्रवणनिष्ठाः पूतपापाः क्रमेण कर्मयोगादिकं आरभ्यातितरन्त्येव मृत्युं । अपिशब्दाच्च पूर्वभेदोऽवगम्यते ॥१३.२५॥

अथ प्रकृतिसंसृष्टस्यात्मनो विवेकानुसन्धानप्रकारं वक्तुं सर्वं स्थावरं जङ्गमं च सत्त्वं चिदचित्संसर्गजं इत्याह

 यावत्संजायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
 क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ  ॥भगवद्गीता १३.२६॥

यावत्स्थावरजङ्गमात्मना सत्त्वं जायते, तावत्क्षेत्रक्षेत्रज्ञयोरितरेतरसंयोगादेव जायते संयुक्तं एव जायते, न त्वितरेतरवियुक्तं इत्यर्थः ॥१३.२६॥
 
 समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
 विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति  ॥भगवद्गीता १३.२७॥

एवं इतरेतरयुक्तेषु सर्वेषु भूतेषु देवादिविषमाकाराद्वियुक्तं तत्र तत्र तत्तद्देहेन्द्रियमनांसि प्रति परमेश्वरत्वेन स्थितं आत्मानं ज्ञातृत्वेन समानाकारं तेषु देहादिषु विनश्यत्सु विनाशानर्हस्वभावेनाविनश्यन्तं यः पश्यति, स  पश्यति स आत्मानं यथावदवस्थितं पश्यति । यस्तु देवादिविषमाकारेणात्मानं अपि विषमाकारं जन्मविनाशादियुक्तं च पश्यति, स नित्यं एव संसरतीत्यभिप्रायः ॥१३.२७॥

 समं पश्यन्हि सर्वत्र समवस्थितं ईश्वरम् ।
 न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥भगवद्गीता १३.२८॥

सर्वत्र देवादिशरीरेषु तत्तच्छेषित्वेनाधारतया वियन्तृतया च स्थितं ईश्वरं आत्मानं देवादिविषमाकारवियुक्तं ज्ञानैकाकारतया समं पश्यनात्मना मनसा, स्वं आत्मानं न हिनस्ति रक्षति, संसारान्मोचयति । ततः तस्माज्ज्ञातृतया सर्वत्र समानाकारदर्शनात्परां गतिं याति; गम्यत इति गतिः; परं गन्तव्यं यथावदवस्थितं आत्मानं प्राप्नोति; देवाद्याकारयुक्ततया सर्वत्र विषमं आत्मानं पश्यनात्मानं हिनस्ति  भवजलधिमध्ये प्रक्षिपति ॥१३.२८॥

 प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः  ।
 यः पश्यति तथात्मानं अकर्तारं स पश्यति  ॥भगवद्गीता १३.२९॥

सर्वाणि कर्माणि, "कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते" इति पूर्वोक्तरीत्या प्रकृत्या क्रियमाणानीति यः पश्यति, तथा आत्मानं ज्ञानाकारं अकर्तारं च यः पश्यति, तस्य प्रकृतिसंयोगस्तदधिष्ठानं तज्जन्यसुखदुःखानुभवश्च कर्मरूपाज्ञानकृतानीति च यः पश्यति, स आत्मानं यथावदवस्थितं पश्यति ॥१३.२९॥

 यदा भूतपृथग्भावं एकस्थं अनुपश्यति  ।
 तत एव च विस्तारं ब्रह्म संपद्यते तदा  ॥भगवद्गीता १३.३०॥

प्रकृतिपुरुषतत्त्वद्वयात्मकेषु देवादिषु सर्वेषु भूतेषु सत्सु तेषां देवत्वमनुष्यत्वह्रस्वत्वदीर्घत्वादिपृथग्भावं एकस्थं एकतत्त्वस्थम् प्रकृतिस्थं यदा पश्यति, नात्मस्थम्, तत एव प्रकृतित एवोत्तरोत्तरपुत्रपौत्रादिभेदविस्तारं च यदा पश्यति, तदैव ब्रह्मसंपद्यते अनवच्छिन्नं ज्ञानैकाकारं आत्मानं प्राप्नोतीत्यर्थः ॥१३.३०॥

 अनादित्वान्निर्गुणत्वात्परमात्मायं अव्ययः  ।
 शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते  ॥भगवद्गीता १३.३१॥

अयं परमात्मा देहान्निष्कृष्य  स्वस्वभावेन निरूपितः, शरीरस्थोऽपि अनादित्वादनारभ्यत्वादव्ययः व्ययरहितः, निर्गुणत्वात्सत्त्वादिगुणरहितत्वान्न करोति, न लिप्यते देहस्वभावैर्न लिप्यते ॥१३.३१॥

यद्यपि निर्गुणत्वान्न करोति, नित्यसंयुक्तो देहस्वभावैः कथं न लिप्यत इत्यत्राह

 यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते  ।
 सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते  ॥भगवद्गीता १३.३२॥

यथा आकाशं सर्वगतं अपि सर्वैर्वस्तुभिस्संयुक्तं अपि सौक्ष्म्यात्सर्ववस्तुस्वभावैर्न लिप्यते, तथा आत्मा अतिसौक्ष्म्यात्सर्वत्र देवमनुष्यादौ देहेऽवस्थितोऽपि तत्तद्देहस्वभावैर्न लिप्यते ॥१३.३२॥

 यथा प्रकाशयत्येकः कृत्स्नं लोकं इमं रविः  ।
 क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत  ॥भगवद्गीता १३.३३॥

यथैक आदित्यः स्वया प्रभया कृत्स्नं इमं लोकं प्रकाशयति, तथा क्षेत्रं अपि क्षेत्री, "ममेदं क्षेत्रं ईदृशम्" इति कृत्स्नं बहिरन्तश्चापादतलमस्तकं स्वकीयेन ज्ञानेन प्रकाशयति । अतः प्रकाश्याल्लोकात्प्रकाशकादित्यवद्वेदितृत्वेन वेद्यभूतादस्मात्क्षेत्रादत्यन्तविलक्षणोऽयं उक्तलक्षण आत्मेत्यर्थः ॥१३.३३॥

 क्षेत्रक्षेत्रज्ञयोरेवं अन्तरं ज्ञानचक्षुषा  ।
 भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥भगवद्गीता १३.३४॥

एवं उक्तेन प्रकारेण क्षेत्रक्षेत्रज्ञयोरन्तरं विशेषं विवेकविषयज्ञानाख्येन चक्षुषा ये विदुः, भूतप्रकृतिमोक्षं च, ते परं यान्ति निर्मुक्तबन्धं आत्मानं प्राप्नुवन्ति । मोक्ष्यतेऽनेनेति मोक्षः, अमानित्वादिकं मोक्षसाधनं इत्यर्थः; क्षेत्रक्षेत्रज्ञयोर्विवेकविषयेणोक्तेन ज्ञानेन तयोर्विवेकं विदित्वा भूताकारपरिणतप्रकृतिमोक्षोपायं अमानित्वादिकं चागम्य य आचरन्ति, ते निर्मुक्तबन्धाः स्वेन रूपेणावस्थितं अनवच्छिन्नज्ञानलक्षणं आत्मानं प्राप्नुवन्तीत्यर्थः ॥१३.३४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.7800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

management position

  • व्यवस्थापन पद 
RANDOM WORD

Did you know?

I need something, but I cant find it or is it not there?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.