TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय ७

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय ७
प्रथमेनाध्यायषट्केन  परमप्राप्यभूतस्य परस्य ब्रह्मणो निरवधस्य निखिलजगदेककारणस्य सर्वज्ञस्य सर्वभूतस्य सत्यसङ्कल्पस्य महाविभूतेः श्रीमतो नारायणस्य प्राप्त्युपायभूतं तदुपासनं वक्तुं तदङ्गभूतम् आत्मज्ञानपूर्वककर्मानुष्ठानसाध्यं प्राप्तुः प्रत्यगात्मनो याथात्म्यदार्शनं उक्तं । इदानीं मध्यमेन षट्केन परब्रह्मभूतपरमपुरुषस्वरूपं तदुपासनं च भक्तिशब्दवाच्यं उच्यते । तदेतदुत्तरत्र, "यतः प्रवृत्तिर्भूतानां येन सर्वं इदं ततं । स्वकर्मणा तं अभ्यर्च्य सिद्धिं विन्दति मानवः ॥१." इत्यारभ्य, "विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते  । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समस्सर्वेषु भूतेषु मद्भक्तिं लभते परां ॥१." इति संक्षिप्य वक्ष्यते  ।

उपानसं तु भक्तिरूपापन्नं एव परप्राप्त्युपायभूतं इति वेदान्तवाक्यसिद्धं । "तं एव विदित्वातिमृत्युं एति", "तं एवं विद्वानमृत इह भवति" इत्यादिना अभिहितं वेदनम्, "आत्मा वा अरे द्रष्टव्यः ..... निदिध्यासितव्यः", "आत्मानं एव लोकं उपासीत", "सत्त्वशुद्धौ ध्रुवा स्मृतिः; स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः", "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" इत्यादिभिरैकार्थ्यात्स्मृतिसन्तानरूपं दर्शनसमानाकारं ध्यानोपासनशब्दवाच्यं इत्यवगम्यते । पुनश्च, "नायं आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यं एवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्" इति विशेषणात्परेणात्मना वरणीयताहेतुभूतं स्मर्यमाणात्यर्थप्रियत्वेन स्वयं अप्यत्यर्थप्रियरूपं स्मृतिसन्तानं एवोपासनशब्दवाच्यं इति हि निश्चीयते । तदेव हि भक्तिरित्युच्यते, "स्नेहपूर्वं अनुध्यानं भक्तिरित्यभिधीयते" इत्यादिवचनात् । अतः "तं एवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते", "नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥भक्त्या त्वनन्यया शक्य अहं एवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप" इत्यनयोरेकार्थत्वं सिद्धं भवति ।

तत्र सप्तमे तावदुपास्यभूतपरमपुरुषयाथात्म्यं प्रकृत्या तत्तिरोधानं तन्निवृत्तये भगवत्प्रपत्तिः, उपासकविधाभेदः, ज्ञानिनश्श्रैष्ठ्यं चोच्यते॥

 श्रीभगवानुवाच
 मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः  ।
 असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु  ॥भगवद्गीता ७.१॥

मय्याभिमुख्येन असक्तमनाः मत्प्रियत्वातिरेकेण मत्स्वरूपेण गुणैश्च चेष्टितेन मद्विभूत्या विश्लेषे सति तत्क्षणादेव विशीर्यमाणस्वरूपतया मयि सुगाढं बद्धमनाः तथा मदश्रयः स्वयं च मया विना विशीर्यमाणतया मदाश्रयः मदेकाधारः, मद्योगं युञ्जन्योक्तुं प्रवृत्तः योगविषयभूतं मां असंशयं निस्संशयम्, समग्रं सकलं यथा ज्ञास्यसि य्न ज्ञानेनोक्तेन ज्ञास्यसि, तज्ज्ञानं अवहितमनाः त्वं शृणु ॥७.१॥

 ज्ञानं तेऽहं सविज्ञानं इदं वक्ष्याम्यशेषतः  ।
 यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यं अवशिष्यते  ॥भगवद्गीता ७.२॥

अहं ते मद्विषयं इदं ज्ञानं विज्ञानेन सहाशेषतो वक्षयामि । विज्ञानन्विविक्ताकारविषयं ज्ञानं । यथाहं मद्व्यतिरिक्तात्समस्तचिदचिद्वस्तुजातान्निखिलहेयप्रत्यनीकतया नानाविधानवधिकातिशयासंख्येयकल्याणगुणगणानन्तमहाविभूतितया च विविक्तः, तेन विविक्तविषयज्ञानेन सह मत्स्वरूपविषयज्ञानं वक्ष्यामि । किं बहुना; यद्ज्ञानं ज्ञात्वा
मयि पुनरन्यज्ज्ञातव्यं नावशिष्यते ॥७.२॥

वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापतां आह

 मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये  ।
 यततां अपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः  ॥भगवद्गीता ७.३॥

मनुष्याः शास्त्राधिकारयोग्याः । तेषां सहस्रेषु कश्चिदेव सिद्धिपर्यन्तं यतते । सिद्धिपर्यन्तं यतमानानां सहस्रेषु कश्चिदेव मां विदित्वा मत्तस्सिद्धये यतते । मद्विदां सहस्रेषु कश्चिदेव तत्त्वतः यथावस्थितं मां वेत्ति । न कश्चिदित्यभिप्रायः; "स महात्मा सुदुर्लभः", "मां तु वेद न कश्चन" इति हि वक्ष्यते ॥७.३॥

 भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च  ।
 अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा  ॥भगवद्गीता ७.४॥

अस्य विचित्रानन्तभोग्यभोगोपकरणभोगस्थानरूपेणावस्थितस्य जगतः प्रकृतिरियं गन्धादिगुणकपृथिव्यप्तेजोवाय्वाकाशादिरूपेण मनःप्रभृतीन्द्रियरूपेण महदहंकाररूपेण चाष्टधा भिन्ना मदीयेति विद्धि ॥७.४॥

 अपरेयं इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
 जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ भगवद्गीता ७.५॥

इयं ममापरा प्रकृतिः; इतस्त्वन्यां इतोऽचेतनायाश्चेतनभोग्यभूतायाः प्रकृतेर्विसजातीयाकारां जीवभूतां परां तस्याः भोक्तृत्वेन प्रधानभूतां चेतनरूपां मदीयां प्रकृतिं विद्धि; ययेदं अचेतनं कृत्स्नं जगद्धार्यते ॥७.५॥

 एतद्योनीनि भूतानि सर्वाणीत्युपधारय  ।
 अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा  ॥भगवद्गीता ७.६॥

एतद्चेतनाचेतनसमष्टिरूपमदीयप्रकृतिद्वययोनीनि ब्रह्मादिस्तम्बपर्यन्तानि उच्चावचभावेनावस्थितानि चिदचिन्मिश्राणि मदीयानि सर्वाणि भूतानीत्युपधारय । मदीयप्रकृतिद्वययोनीनि हि तानि मदीयान्येव । तथा प्रकृतिद्वययोनित्वेन कृत्स्नस्य जगतः, तयोर्द्वयोरपि मद्योनित्वेन मदीयत्वेन च, कृत्स्नस्य जगतः अहं एव प्रभवोऽहं एव च प्रलयोऽहं एव च शेषीत्युपधारय । तयोः चिदचित्समष्टिभूतयोः प्रकृतिपुरुषयोरपि परमपुरुषयोनित्वं श्रुतिस्मृतिसिद्धं । "महानव्यक्ते लीयते । अव्यक्तं अक्षरे लीयते । अक्षरं तमसि लीयते । तमः परे देव एकीभवति", "विष्णोस्स्वरूपात्परतोदिते द्वे रूपे प्र्धानं पुरुषश्च विप्र", "प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयते परमात्मनि । परमात्मा च सर्वेषां आधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥१." इत्यादिका हि श्रुतिस्मृतयः ॥७६ ॥

 मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय  ।

यथा सर्वकारणस्यापि प्रकृतिद्वयस्य कारणत्वेन, सर्वाचेतनवस्तुशेषिणश्चेतनस्यापि शेषित्वेन कारणतया शेषितया चाहं परतरः  तथा ज्ञानशक्तिबलादिगुणयोगेन चाहं एव परतरः । मत्तोऽन्यन्मद्व्यतिरिक्तं ज्ञानबलादिगुणान्तरयोगि किंचिदपि परतरं नास्ति॥

 मयि सर्वं इदं प्रोतं सूत्रे मणिगणा इव  ॥भगवद्गीता ७.७॥

सर्वं इदं चिदचिद्वस्तुजातं कार्यावस्थं कारणावस्थं च मच्छरीरभूतं सूत्रे मणिगणवदत्मतयावस्थिते मयि प्रोतं आश्रितं । "यस्य पृथिवी शरीरम्", "यस्यात्मा शरीरम्", "एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः" इति, आत्मशरीरभावेनावस्थानं च जगद्ब्रह्मणोरन्तर्यामिब्राह्मणादिषु सिद्धं ॥७.७॥

अतः सर्वस्य परमपुरुषशरीरत्वेनात्मभूतपरमपुरुषप्रकारर्वात्सर्वप्रकारः परमपुरुष एवावस्थित इति सर्वैश्शब्दैस्तस्यैवाभिधानं इति तत्तत्सामानाधिकरण्येन आह

 रसोऽहं अप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः  ।
 प्रणवस्सर्ववेदेषु शब्दः खे पौरुषं नृषु  ॥भगवद्गीता ७.८॥
 पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ  ।
 जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु  ॥भगवद्गीता ७.९॥
 बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
 बुद्धिर्बुद्धिमतां अस्मि तेजस्तेजस्विनां अहम् ॥भगवद्गीता ७.१०॥
 बलं बलवन्ताञ् चाहं कामरागविवर्जितम् ।
 धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ  ॥भगवद्गीता ७.११॥

एते सर्वे विलक्षणा भावा मत्त एवोत्पन्नाः, मच्छेषभूताः मच्छरीरतया मय्येवावस्थिताः; अतस्तत्तत्प्रकारोऽहं एवावथितः ॥७.८,९,१०,११॥

 ये चैव सात्त्विका भावा राजसास्तामसाश्च ये  ।
 मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि  ॥भगवद्गीता ७.१२॥

किं विशिष्य अभिधीयते? सात्त्विका राजसास्तामसाश्च जगति देहत्वेनेन्द्रियत्वेन भोग्यत्वेन तत्तद्ध्तेतुत्वेन चावस्थिता ये भवाः, तान्सर्वान्मत्त एवोत्पन्नान्विद्धि; ते मच्छरीरतया मय्येवावस्थिता इति च । न त्वहं तेषु  नाहं कदाचिदपि तदायत्तस्थितिः; अन्यत्रात्मायत्तस्थितित्वेऽपि शरीरस्य, शरीरेणात्मनः स्थितावप्युपकारो विद्यते; मम तु तैर्न कश्चित्तथाविध उपकारः, केवललीलैव प्रयोजनं इत्यर्थः ॥७.१२॥

 त्रिभिर्गुणमयैर्भावैरेभिः सर्वं इदं जगत् ।
 मोहितं नाभिजानाति मां एभ्यः परं अव्ययम् ॥भगवद्गीता ७.१३॥

तदेवं चेतनाचेतनात्मकं कृत्स्नं जगन्मदीयं काले काले मत्त एवोत्पद्यते, मयि च प्रलीयते, मय्येवावस्थितम्, मच्छरीरभूतम्, मदात्मकं चेत्यहं एव कारणावस्थायां कार्यावथायां च सर्वशरीरतया सर्वप्रकारोऽवस्थितः । अतः कारणत्वेन शेषित्वेन च ज्ञानाद्यसङ्ख्येयकल्याणगुणगणैश्चाहं एव सर्वैः प्रकारैः परतरः, मत्तोऽन्यत्केनापि कल्याणगुणगणेन परतरं न विद्यते । एवंभूतं मां त्रिभ्यः सात्त्विकराजसतामसगुणमयेभ्यो भावेभ्यः परं मदसाधारणैः कल्याणगुणगणैस्तत्तद्भोग्यताप्रकारैश्च परं उत्कृष्टतमम्, अव्ययं सदैकरूपं अपि तैरेव त्रिभिर्गुणमयैर्निहीनतरैः क्षणध्वंसिभिः पूर्वकर्मानुगुणदेहेन्द्रियभोग्यत्वेनावस्थितैः पदार्थैर्मोहितं देवतिर्यङ्मनुष्यस्थावरात्मनावस्थितं सर्वं इदं जगन्नाभिजानाति ॥७.१३॥

कथं स्वत एवानवधिकातिशयानन्दे नित्ये सदैकरूपे लौकिकवस्तुभोग्यतत्प्रकारैश्चोत्कृष्टतमे त्वयि स्थितेऽप्यत्यन्तनिहीनेषु गुणमयेष्वस्थिरेषु भावेषु सर्वस्य भोक्तृवर्गस्य भोग्यत्वबुद्धिरुपजायत इत्यत्राह

 दैवी ह्येषा गुणमयी मम माया दुरत्यया  ।

ममैषा गुणमयी सत्त्वरजस्तमोमयी माया यस्माद्दैवी देवेन क्रीढाप्रवृत्तेन मयैव निर्मिता, तस्मात्सर्वैर्दुरत्यया दुरतिक्रमा । अस्याः मायाशब्दवाच्यत्वं आसुरराक्षसास्त्रादीनां इव विचित्रकार्यकरत्वेन, यथा च "ततो भगवता तस्य रक्षार्थं चक्रं उत्तमं । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनं । तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहं ऐकाइकश्येन सूदितम्" इत्यादौ । अतो मायाशब्दो न मिथ्यार्थवाची । ऐन्द्रजालिकादिष्वपि केनचिन्मन्त्राउषधादिना मिथ्यार्थविषयायाः पारमार्थिक्या एव बुद्धेरुत्पादकत्वेन मायावीति प्रयोगः । तथा मन्त्राउषधादिरेव तत्र माया; सर्वप्रयोगेष्वनुगतस्यैकस्यैव शब्दार्थत्वात् । तत्र मिथ्यार्थेषु मायाशब्दप्रयोगो मायाकार्यबुद्धिविषयत्वेनाउपचारिकः, मञ्चाः क्रोशन्तीतिवत् । एषा गुणमयी पारमार्थिकी भगवन्मायैव, "मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्" इत्यादिष्वभिधीयते । अस्याः कार्यं भगवत्स्वरूपतिरोधानम्, स्वस्वरूपभोग्यत्वबुद्धिश्च । अतो भगवन्मायया मोहितं सर्वं जगद्भगवन्तं अनवधिकातिशयानन्दस्वरूपं नाभिजानाति॥

मायाविमोचनोपायं आह

 मां एव ये प्रपद्यन्ते मायां एतां तरन्ति ते  ॥भगवद्गीता ७.१४च्द् ॥

मां एव सत्यसङ्कल्पं परमकारुणिकं अनालोचितविशेषाशेषलोकशरण्यं ये शरणं प्रपद्यन्ते, ते एतां मदीयां गुणमयीं मायां तरन्ति मायां उत्सृज्य मां एवोपासत इत्यर्थः ॥७.१४॥

किं इति भगवदुपासनापादिनीं भगवत्प्रपत्तिं सर्वे न कुर्वत इत्यत्राह

 न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः  ।
 माययापहृतज्ञाना आसुरं भावं आश्रिताः  ॥भगवद्गीता ७.१५॥

दुष्कृतिनः पापकर्माणः मां न प्रपद्यते । दुष्कृततारतम्येन ते चतुर्विधा भवन्ति मूढाः, नराधमाः, माययापहृतज्ञानाः, आसुरं भावं आश्रिताः इति । मूढाः विपरीतज्ञानाः; पूर्वोक्तप्रकारेण भगवच्छेषतैकरसं आत्मानं भोग्यजातं च स्वशेषतया मन्यमानाः । नराधमाः सामान्येन ज्ञातेऽपि मत्स्वरूपे मदौन्मुख्यानर्हाः । माययापहृतज्ञानाः मद्विषयं मदैश्वर्यविषयं च ज्ञानं येषां तदसंभावनापादिनीभिः कूटयुक्तिभिरपहृतम्, ते तथा उक्ताः । आसुरं भावं आश्रिताः मद्विषयं मदैश्वर्यविषयं च ज्ञानं सुदृढं उपपन्नं येषां द्वैषायैव भवति; ते आसुरं भावं आश्रिताः । उत्तरोत्तराः पापिष्ठतमाः ॥७.१५॥

 चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन  ।
 आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ  ॥भगवद्गीता ७.१६॥

सुकृतिनः पुण्यकर्माणो मां शरणं उपगम्य मां एव भजन्ते । ते च सुकृततारतम्येन चतुर्विधाः, सुकृतगरीयस्त्वेन प्रतिपत्तिवैशेष्यादुत्तरोत्तरा अधिकतमा भवन्ति । आर्तः प्रतिष्ठाहीनः भ्रष्टाइश्वर्यः पुनर्तत्प्राप्तिकामः । अर्थार्थी अप्राप्ताइश्वर्यतया ऐश्वर्यकामः । तयोर्मुखभेदमात्रं । ऐश्वर्यविषयतयाइक्यादेक एवाधिकारः । जिज्ञासुः प्रकृतिवियुक्तात्मस्वरूपावाप्तीच्छुः । ज्ञानं एवास्य स्वरूपं इति जिज्ञासुरित्युक्तं । ज्ञानी च, "इतस्त्वन्यां प्रकृतिं विद्धि मे पराम्" इत्यादिनाभिहितभगवच्छेषतैकरसात्मस्वरूपवित्; प्रकृतिवियुक्तकेवलात्मनि अपर्यवस्यन्भगवन्तं प्रेप्सुः भगवन्तं एव परमप्राप्यं मन्वानः ॥७.१६॥

 तेषां ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते  ।
 प्रियो हि ज्ञानिनोऽत्यर्थं अहं स च मम प्रियः  ॥भगवद्गीता ७.१७॥

तेषां ज्ञानी विशिष्यते । कुतः? नित्ययुक्त एकभक्तिरिति च । ज्ञानिनो हि
मदेकप्राप्यस्य मया योगो नित्यः; इतरयोस्तु यावत्स्वाभिलषितप्राप्ति मया योगः । तथा ज्ञानिनो मय्येकस्मिन्नेव भक्तिः; इतरयोस्तु स्वाभिलषिते तत्साधनत्वेन मयि च । अतः स एव विशिष्यते । किञ् च, प्रियो हि ज्ञानिनोऽत्यर्थं अहं । अर्थशब्दोऽभिधेयवचनः; ज्ञानिनोऽहं यथा प्रियः, तथा मया सर्वज्ञेन सर्वशक्तिनाप्यभिधातुं न शक्यत इत्यर्थः; प्रियत्वस्येयत्तारहितत्वात् । यथा ज्ञानिनां अग्रेसरस्य प्रह्लादस्य, "स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः" इति । तथैव सोऽपि मम प्रियः ॥७.१७॥

 उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे  मतम् ।
 आस्थितस्स हि युक्तात्मा मां एवानुत्तमां गतिम् ॥भगवद्गीता ७.१८॥

सर्व एवैते मां एवोपासत इति उदाराः वदान्याः । ये मत्तो यत्किंचिदपि गृह्णन्ति, ते हि मम सर्वस्वदायिनः । ज्ञानी त्वात्मैव मे मतम् तदायत्तधारणोऽहं इति मन्ये । कस्मादेवम्? यस्मादयं मया विनात्मधारणासंभावनया मां एवानुत्तमं प्राप्यं आस्थितः, अतस्तेन विना ममाप्यात्मधारणं न संभवति । ततो ममात्मा हि सः ॥७.१८॥

 बहूनां जन्मनां अन्ते ज्ञानवान्मां प्रपद्यते  ।
 वासुदेवस्सर्वं इति स महात्मा सुदुर्लभः  ॥भगवद्गीता ७.१९॥

नाल्पसंख्यासङ्ख्यातानां पुण्यजन्मनां फलं इदम्, यन्मच्छेषतैकरसात्मयाथात्म्यज्ञानपूर्वकं मत्प्रपदनम्; अपि तु बहूनां जन्मनां पुण्यजन्मनां अन्ते अवसाने, वासुदेवशेषतैकरसोऽहं तदायत्तस्वरूपस्थितिप्रवृत्तिश्च; स चासङ्ख्येयैः कल्याणगुणगणैः परतरः इति ज्ञानवान्भूत्वा, वासुदेव एव मम परमप्राप्यं प्रापकं च, अन्यदपि यन्मनोरथवर्तिं स एव मम तत्सर्वं इति मां प्रपद्यते मां उपास्ते; स महात्मा महामनाः सुदुर्लभः दुर्लभतरो लोके । वासुदेवस्सर्वं इत्यस्यायं एवार्थः, "प्रियो हि ज्ञानिनोऽत्यर्थं अहम्", "आस्थितस्स हि युक्तात्मा मां एवानुत्तमां गतिम्" इति प्रक्रमात् । ज्ञानवांश्चायं उक्तलक्षण एव, अस्यैव पूर्वोक्तज्ञानित्वात्, भूमिरापः" इत्यारभ्य, "अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयं इतस्त्वन्यां प्रकृतिं विद्धि मे परां । जीवभूताम्" इति हि चेतनाचेतनप्रकृतिद्वयस्य परमपुरुषशेषतैकरसतोक्ता; "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय" इत्यारभ्य, "ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥१." इति प्रकृतिद्वयस्य कार्यकारणोभयावस्थस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तित्वं परमपुरुषस्य च सर्वैः प्रकारैः सर्वस्मात्परतरत्वं उक्तम्; अतः स एवात्र ज्ञानीत्युच्यते ॥७१९ ॥

तस्य ज्ञानिनो दुर्लभत्वं एवोपपादयति

 कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः  ।
 तं तं नियमं आस्थाय प्रकृत्या नियताः स्वया  ॥भगवद्गीता ७.२०॥

सर्व एव हि लौकिकाः पुरुषाः स्वया प्रकृत्या पापवासनया गुणमयभावविषयया नियताः नित्यान्विताः तैस्तैः स्ववासनानुरूपैर्गुणमयैरेव कामैः इच्छाविषयभूतैः हृतमत्स्वरूपविषयज्ञानाः तत्तत्कामसिद्ध्यर्थं अन्यदेवताः मद्व्यतिरिक्ताः केवलेन्द्रादिदेवताः तं तं नियमं आस्थाय तत्तद्देवताविशेषमात्रप्रीणनासाधारणं नियमं आस्थ्याय प्रपद्यन्ते ता एवाश्रित्यार्चयन्ते ॥७.२०॥

 यो यो यां यां तनुं भक्तः श्रद्धयार्चितुं इच्छति  ।
 तस्य तस्याचलां श्रद्धां तां एव विदधाम्यहम् ॥भगवद्गीता ७.२१॥

ता अपि देवता मदीयास्तनवः, "य आदित्ये तिष्ठन्... यं आदित्यो न वेद यस्यादित्यश्शरीरम्" इत्यादिश्रुतिभिः प्रतिपादिताः । मदीयास्तनव इत्यजानन्नपि यो यो यां यां मदीयां आदित्यादिकां तनुं भक्तः श्रद्धयार्चितुं इच्छति; तस्य तस्याजानतोऽपि मत्तनुविषयैषा श्रद्धेत्यनुसन्धाय तां एवाचलां निर्विघ्नां विदधाम्यहं ॥७.२१॥

 स तया श्रद्धया युक्तस्तस्याराधनं ईहते  ।
 लभते च ततः कामान्मयैव विहितान्हि तान् ॥भगवद्गीता ७.२२॥

स तया निर्विघ्नया श्रद्धया युक्तस्तस्य इन्द्रादेराराधनं प्रतीहते । ततः मत्तनुभूतेन्द्रादिदेवताराधनात्तानेव हि स्वाभिलषितान्कामान्मयैव विहितान्लभते । यद्यप्याराधनकाले, "आराध्येन्द्रादयो मदीयास्तनवः, तत एव तदर्चनं च मदाराधनम्" इति न जानाति  तथापि तस्य वस्तुनो मदाराधनत्वादाराधकाभिलषितं अहं एव विदधामि ॥७.२२॥

 अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
 देवान्देवयज्ञो यान्ति मद्भक्ता यान्ति मां अपि  ॥भगवद्गीता ७.२३॥

तेषां अल्पमेधसां अल्पबुद्धीनां इन्द्रादिमात्रयाजिनां तदाराधनफलं अल्पम्, अन्तवच्च भवति । कुतः? देवान्देवयजो यान्ति  यत इन्द्रादीन्देवान्तद्याजिनो यान्ति । इन्द्रादयोऽपि हि परिच्छिन्नभोगाः परिमितकालवर्तिनश्च । ततस्तत्सायुज्यं प्राप्ताः तैस्सह प्रच्यवन्ते । मद्भक्ता अपि तेषां एव कर्मणां मदाराधनरूपतां ज्ञात्वा परिच्छिन्नफलसङ्गं त्यक्त्वा मत्प्रीणनैकप्रयोजनाः मां प्राप्नुवन्ति; न च पुनर्निवर्तन्ते । "मां उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते" इति हि वक्ष्यते ॥७.२३॥

इतरे तु सर्वसमाश्रयणीयत्वाय मम मनुष्यादिष्ववतारं अप्यकिञ्चित्करं कुर्वन्तीत्याह

 अव्यक्तं व्यक्तिं आपन्नं मन्यन्ते मां अबुद्धयः  ।
 परं भावं अजानन्तो मम अव्ययं अनुत्तमम् ॥भगवद्गीता ७.२४॥

सर्वैः कर्मभिराराध्योऽहं सर्वेश्वरो वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः परमकारुण्यादश्रित्यवात्सल्याच्च सर्वसमाश्रयणीयत्वायाजहत्स्वभाव एव वसुदेवसूनुरवरीर्ण इति ममैवं परं भावं अव्ययं अनुत्तमं अजानन्तः प्राकृतराजसूनुसमानं इतः पूर्वं अनभिव्यक्तं इदानीं कर्मवशाज्जन्मविशेषं प्राप्य व्यक्तिं आपन्नं प्राप्तं मां बुद्धयो मन्यन्ते । अतो मां नाश्रयन्ते; न कर्मभिराराधयन्ति च ॥७.२४॥

कुत एवं न प्रकाश्यत इत्यत्राह

 नाहं प्रकाशः सर्वस्य योगमायासमावृतः  ।
 मूढोऽयं नाभिजानाति लोको मां अजं अव्ययम् ॥भगवद्गीता ७.२५॥

क्षेत्रज्ञासाधारणमनुष्यत्वादिसंस्थानयोगाख्यमायया समावृतोऽहं न सर्वस्य प्रकाशः । मयि मनुष्यत्वादिसंस्थानदर्शनमात्रेण मूढोऽयं लोको मां अतिवाय्विन्द्रकर्माणं अतिसूर्याग्नितेजसं उपलभ्यमानं अपि अजं अव्ययं निखिलजगदेककारणं सर्वेश्वरं मां सर्वसमाश्रयणीयत्वाय मनुष्यत्वसंस्थानं आस्थितं नाभिजानाति ॥७.२५॥

 वेदाहं समतीतानि वर्तमानानि चार्जुन  ।
 भविष्याणि च भूतानि मां तु वेद न कश्चन  ॥भगवद्गीता ७.२६॥

अतीतानि वर्तमानानि अनागतानि च सर्वाणि भूतान्यहं वेद जानामि । मां तु वेद न कश्चन मयानुसंधीयमानेषु कालत्रयवर्तिषु भूतेषु मां एवंविधं वासुदेवं सर्वसमाश्रय्णीयत्वायावतीर्णं विदित्वा मां एव समाश्रयन्न कश्चिदुपलभ्यत इत्यर्थः । अतो ज्ञानी सुदुर्लभ एव ॥७.२६॥

तथा हि

 इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत  ।
 सर्वभूतानि संमोहं सर्गे यान्ति परन्तप  ॥भगवद्गीता ७.२७॥

इच्छाद्वेषाभ्यां समुत्थितेन शीतोष्णादिद्वन्द्वाख्येन मोहेन सर्वभूतानि सर्गे जन्मकाल एव संमोहं यान्ति । एतदुक्तं भवति  गुणमयेषु सुखदुःखादिद्वन्द्वेषु पूर्वपूर्वजन्मनि यद्विषयौ इच्छाद्वेषौ अभ्यस्तौ, तद्वासनया पुनरपि जन्मकाल एव तदेव द्वन्द्वाख्यं इच्छाद्वेषविषयत्वेन समुत्थितं भूतानां मोहनं भवति; तेन मोहेन सर्वभूतानि संमोहं यान्ति; तद्विषयेच्छाद्वेषस्वभावानि भवन्ति, न मत्सम्श्लेषवियोगसुखदुःखस्वभावानि, ज्ञानी तु मत्संश्लेषवियोगैकसुखदुःखस्वभावः; न तत्स्वभावं किं अपि भूतं जायते इति ॥७.२७॥

 येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
 ते द्वन्द्वमोहनिर्मुक्ताः भजन्ते मां दृढव्रताः  ॥भगवद्गीता ७.२८॥

येषां त्वनेकजन्मार्जितेनोत्कृष्टपुण्यसंचयेन गुणमयद्वन्द्वेच्च्छाद्वेषहेतुभूतं मदौन्मुख्यविरोधि च अनादिकालप्रवृत्तं पापं अन्तगतं क्षीणम्; ते पूर्वोक्तेन सुकृततारतम्येन मां शरणं अनुप्रपद्य गुणमयान्मोहाद्विनिर्मुक्ताः जरामरणमोक्षाय, महते चाइश्वर्याय, मत्प्राप्तये च दृढव्रताः दृढसङ्कल्पाः मां एव भजन्ते ॥७.२८॥

अत्र त्रयाणां भगवन्तं भजमानानां ज्ञातव्यविशेषानुपादेयांश्च प्रस्तौति

 जरामरणमोक्षाय मां आश्रित्य यतन्ति ये  ।
 ते ब्रह्म तद्विदुः कृत्स्नं अध्यात्मं कर्म चाखिलम् ॥भगवद्गीता ७.२९॥

जरामरणमोक्षाय प्रकृतिवियुक्तात्मस्वरूपदर्शनाय मां आश्रित्य ये यतन्ते, ते तद्ब्रह्म विदुः, अध्यात्मं तु कृत्स्नं विदुः, कर्म चाखिलं विदुः ॥१.२९॥

 साधिभूताधिदैवं मां साधियज्ञं च ये विदुः  ।
 प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः  ॥भगवद्गीता ७.३०॥

अत्र य इति पुनर्निर्देशात्पूर्वनिर्दिष्टव्योऽन्ये अधिकारिणो ज्ञायन्ते; साधिभूतं साधिदैवं मां ऐश्वर्यार्थिनो ये विदुः इत्येतदनुवादसरूपं अप्यप्राप्तार्थत्वाद्विधायकं एव; तथा साधियज्ञं इत्यपि त्रयाणां अधिकारिणां अविशेषेण विधीयते; अर्थस्वभाव्यात् । त्रयाणां हि नित्यनैमित्तिकरूपमहायज्ञाद्यनुष्ठानं अवर्जनीयं । ते च प्रयाणकालेऽपि स्वप्राप्यानुगुणं मां विदुः । ते चेति चकारात्पूर्वे जरामरणमोक्षाय यतमानाश्च प्रयाणकाले विदुरिति समुच्चीयन्ते; अनेन ज्ञानिनोऽप्यर्थस्वाभाव्यात्साधियज्ञं मां विदुः, प्रयाणकालेऽपि स्वप्राप्यानुगुणं मां विदुरित्युक्तं भवति ॥७.३०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.4530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

reaction

  • स्त्री. प्रतिक्रिया 
  • स्त्री. अभिक्रिया 
  • स्त्री. प्रतिक्रिया 
  • Bot., Zool. 
More meanings
RANDOM WORD

Did you know?

I'm not able to locate this Mahakurma PuraNa vAkhya
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.