TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय ९

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय ९
उपासकभेदनिबन्धना विशेषाः प्रतिपादिताः । इदानीं उपास्यस्य परमपुरुषस्य माहात्म्यम्, ज्ञानिनां विशेषं च विशोध्य भक्तिरूपस्योपासनस्य स्वरूपं उच्यते ।

श्रीभगवानुवाच
इदं तु गुह्यतमं प्रवक्ष्याम्यनसूयवे  ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्षसेऽशुभात् ॥ भगवद्गीता ९.१॥

इदं तु गुह्यतमं भक्तिरूपं उपासनाख्यं ज्ञानं विज्ञानसहितं उपासनगतविशेषज्ञानसहितम्, अनसूयवे ते प्रवक्ष्यामि  मद्विषयं सकलेतरविसजातीयं अपरिमितप्रकारं माहात्म्यं श्रुत्वा, एवं एव संभवतीति मन्वानाय ते प्रवक्ष्यामीत्यर्थः । यज्ज्ञानं अनुष्ठानपर्यन्तं ज्ञात्वा मत्प्राप्तिविरोधिनः सर्वस्मादशुभान्मोक्ष्यसे ॥९.१॥

राजविद्या राजगुह्यं पवित्रं इदं उत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुं अव्ययम् ॥भगवद्गीता ९.२॥

राजविद्या विद्यानां राजा, राजगुह्यं गुह्यानां राजा । राज्ञां विद्येति वा राजविद्या । राजानो हि विस्तीर्णागाध्यमनसः । महामनसां इयं विद्येत्यर्थः । महामनस एव हि गोपनीयगोपनकुशला इति तेषां एव गुह्यं । इदं उत्तमं पवित्रं मत्प्राप्तिविरोध्यशेषकल्मषापहं । प्रत्यक्षावगमं । अवगम्यत इत्यवगमः  विषयः; प्रत्यक्षभूतोऽवगमः विषयो यस्य ज्ञानस्य तत्प्रत्यक्षावगमं । भक्तिरूपेणोपासनेनोपास्यमानोऽहं तादानीं एवोपासितुः प्रत्यक्षतां उपगतो भवामीत्यर्थः । अथापि धर्म्यं धर्मादनपेतं । धर्मत्वं हि निश्श्रेयससाधनत्वं । स्वरूपेणैवात्यर्थप्रियत्वेन तदानीं एव मद्दर्शनापादनतया च स्वयं निश्श्रेयसरूपं अपि निरतिशयनिश्श्रेयसरूपात्यन्तिकमत्प्राप्तिसाधनं इत्यर्थः । अत एव सुसुखं कर्तुं सुसुखोपादानं । अत्यर्थप्रियत्वेनोपादेयं । अव्ययं अक्षयम्; मत्प्राप्तिं साधयित्वा+अपि स्वयं न क्षीयते । एवंरूपं उपासनं कुर्वतो मत्प्रदाने कृतेऽपि किंचित्कृतं मया+अस्येति मे प्रतिभातीत्यर्थः ॥९.२॥

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप  ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि  ॥भगवद्गीता ९.३॥

अस्योपासनाख्यस्य धर्मस्य निरतिशयप्रियमद्विषयतया स्वयं निरतिशयप्रियरूपस्य परमनिश्श्रेयसरूपमत्प्राप्तिसाधनस्याव्ययस्योपादानयोग्यदशायां प्राप्य अश्रद्दधानाः विश्वासपूर्वकत्वरारहिताः पुरुषाः मां अप्राप्य मृत्युरूपे संसारवर्त्मनि नितरां वर्तन्ते । अहो महदिदं आश्चर्यं इत्यर्थः ॥९.३॥

शृणु तावत्प्राप्यभूतस्य ममाचिन्त्यमहिमानं

मया ततं इदं सर्वं जगदव्यक्तमूर्तिना  ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः  ॥भगवद्गीता ९.४॥
न च मत्स्थानि भूतानि पश्य मे योगं ऐश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः  ॥भगवद्गीता ९.५॥

इदं चेतनाचेतनात्मकं कृत्स्नं जगदव्यक्तमूर्तिना अप्रकाशितस्वरूपेण मया अन्तर्यामिणा, ततं अस्य जगतो धारणार्थं नियमनार्थं च शेषित्वेन व्याप्तं इत्यर्थः । यथान्तर्यामिब्राह्मणे, "यः पृथिव्यां तिष्ठन्... यं पृथिवी न वेद", "य आत्मनि तिष्ठन्... यं आत्मा न वेद" इति चेतनाचेतनवस्तुजातैरदृष्टेणान्तर्यामिणा तत्र तत्र व्याप्तिरुक्ता । ततो मत्स्थानि सर्वभूतानि सर्वाणि भूतानि मय्यन्तर्यामिणि स्थितानि । तत्रैव ब्राह्मणे, "यस्य पृथिवी शरीरं ... यः पृथिवीं अन्तरो यमयति, यस्यात्मा शरीरं ... य आत्मानं अन्तरो यमयति" इति शरीरत्वेन नियाम्यत्वप्रतिपादनात्तदायत्ते स्थितिनियमने प्रतिपादिते; शेषित्वं च । न चाहं तेष्ववस्थितः  अहं तु न तदायत्तस्थितिः; मत्स्थितौ तैर्न कश्चिदुपकार इत्यथः । न च मत्स्थानि भूतानि  न घटादीनां जलादेरिव मम धारकत्वं । कथम्? मत्सङ्कल्पेन । पश्य ममाइश्वरं योगं अन्यत्र कुत्रचिदसंभावनीयं मदसाधारणं आश्चर्यं योगं पश्य । कोऽसौ योग? भूतभृन्न च भूतस्थो ममात्मा भूतभावनः । सर्वेषां भूतानां भर्ताहम्; न च तैः कश्चिदपि ममोपकारः । ममात्मैव भूतभावनः  मम मनोमयस्सङ्कल्प एव भूतानां भावयिता धारयिता नियन्ता च ॥९.४,५॥

सर्वस्यास्य स्वसङ्कल्पायत्तस्थितिप्रवृत्तित्वे निदर्शनं आह

यथा+आकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय  ॥भगवद्गीता ९.६॥

यथा आकशे अनालम्बने महान्वयुः स्थितः सर्वत्र गच्छति; स तु वायुर्निरालम्बनो मदायत्तस्थितिरित्यवश्याभ्युपगमनीयः  एवं एव सर्वाणि भूतानि तैरदृष्टे मयि स्थितानि मयैव धृतानीत्युपधारय । यथा+आहुर्वेदविदः, "मेघोदयः सागरसन्निवृत्तिरिन्दोर्विभागः स्फुरितानि वायोः । विद्युद्विभङ्गो गतिरुष्णरश्मेर्विष्णोर्विचित्राः प्रभवन्ति मायाः" इति विष्णोरनन्यसाधारणानि महाश्चर्याणीत्यर्थः । श्रुतिरपि, "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः", "भीषा+अस्माद्वातः पवते,भीषोदेति सूर्यः, भीषा+अस्मादग्निश्चेन्द्रश्च" इत्यादिका ॥९.६॥
सकलेतरनिरपेक्षस्य भगवतस्सङ्कल्पात्सर्वेषां स्थितिः प्रवृत्तिश्चोक्ता तथा तत्सङ्कल्पादेव सर्वेषां उत्पत्तिप्रलयावपीत्याह

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥भगवद्गीता ९.७॥

स्थावरजङ्गमात्मकानि सर्वाणि भूतानि, मामिकां मच्छरीरभूताम्, प्रकृतिं तमश्शब्दवाच्यां नामरूपविभागानर्हाम्, कल्पक्षये चतुर्मुखावसानसमये मत्सङ्कल्पाद्यान्ति; तान्येव भूतानि कल्पादौ पुनर्विसृज्याम्यहम्; यथा+आह मनुः "आसीदिदं तमोभूतं ... सोऽभिध्याय शरीरात्स्वात्" इति । श्रुतिरपि "यस्याव्यक्तं शरीरम्", "अव्यक्तं अक्षरे लीयते, अक्षरं तमसि लीयते" इत्यादिका, "तं आसीत्तमसा गूढं अग्रे प्रकेतम्"  इति च ॥९.७॥

प्रकृतिं स्वां अवष्टभ्य विसृजामि पुनः पुनः  ।
भूतग्रामं इमं कृत्स्नं अवशं प्रकृतेर्वशात् ॥ भगवद्गीता ९.८॥

स्वकीयां विचित्रपरिणामिनीं प्रकृतिं अवष्टभ्य अष्टधा परिणाम्य्यिमं चतुर्विधं देवतिर्यङ्मनुष्यस्थावरात्मकं भूतग्रामं मदीयाया मोहिन्या गुणमय्याः प्रकृतेर्वशादवशं पुनः पुनः काले काले विसृजामि ॥९.८॥

एवं तर्हि विषमसृष्ट्यादीनि कर्माणि नैघृण्याद्यापादनेन भवन्तं बध्नन्तीत्यत्राह

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय  ।
उदासीनवदासीनं असक्तं तेषु कर्मसु  ॥भगवद्गीता ९.९॥

न च तानि विषमसृष्ट्यादीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्यादिकं नापादयन्ति, यतः क्षेत्रज्ञानां पूर्वकृतान्येव कर्माणि देवादिविषमभावहेतवः; अहं तु तत्र वैषम्ये असक्तः तत्रोदासीनवदासीनः; यथा +आह सूत्रकारः "वैषम्यनैर्घृण्ये न सापेक्षत्वात्", न कर्माविभागादिति चेन्नानादित्वात्" इति ॥९.९॥

मया+अध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुना+अनेन कौन्तेय जगद्धि परिवर्तते  ॥भगवद्गीता ९.१०॥

तस्मात्क्षेत्रज्ञकर्मानुगुणं मदीया प्रकृतिः सत्यसङ्कल्पेन मया+अध्यक्षेणेक्षिता सचराचरं जगत्सूयते । अनेन क्षेत्रज्ञकर्मानुगुणमदीक्षणेन हेतुना जगत्परिवर्तत इति मत्स्वाम्यं सत्यसङ्कल्पत्वं नैर्घृण्यादिदोषरहितत्वं इत्येवं आदिकं मम वसुदेवसूनोरैश्वरं योगं पश्य । यथा+आह श्रुतिः, "अस्मान्मायी सृजते विश्वं एतत्तस्मिंश्चान्यो मायया सन्निरुद्धः । मायां तु प्रकृतिं विद्यान्मायिनं तु म्हेश्वरं ॥१." इति ॥९१० ॥

अवजानन्ति मां मूढा मानुषीं तनुं आश्रितम् ।
परं भावं अजानन्तो मम भूतमहेश्वरम् ॥भगवद्गीता ९.११॥

एवं मां भूतमहेश्वरं सर्वज्ञं सत्यसङ्कल्पं निखिलजगदेककारणं परमकारुणिकतया सर्वसमाश्रयणीयत्वाय मानुषीं तनुं आश्रितं स्वकृतैः पापकर्मभिर्मूढा अवजानन्ति प्राकृतमनुष्यसमं मन्यन्ते । भूतमहेश्वरस्य ममापारकारुण्योदार्यसौशील्यवात्सल्यनिबन्धनं मनुष्यत्वसमाश्रयणलक्षणं इमं परं भावं अजानन्तो मनुष्यत्वसमाश्रयणमात्रेण मां इतरसजातीयं मत्वा तिरस्कुर्वन्तीत्यर्थः ॥९.११॥

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः  ।
राक्षसीं आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः  ॥भगवद्गीता ९.१२॥

मम मनुष्यत्वे परमकारुण्यादिपरत्वतिरोधानकरीं राक्षसीं आसुरीं च मोहिनीं प्रकृतिं आश्रिताः, मोघाशाः मोघ्वाञ् छिताः निष्फलवाञ् छिताः, मोघ्कर्माणः मोघारम्भाः, मोघज्ञानाः सर्वेषु मदीयेषु चराचरेष्वर्थेषु विपरीतज्ञानतया निष्फलज्ञानाः, विचेतसः तथा सर्वत्र विगतयाथात्म्यज्ञानाः मां सर्वेश्वरं इतरसमं मत्वा मयि च यत्कर्तुं इच्छन्ति, यदुद्दिश्यारम्भान्कुर्वते, तत्सर्वं मोघं भवतीत्यर्थः ॥९.१२॥

महात्मानस्तु मां पार्थ दैवीं प्रकृतिं आश्रिताः  ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिं अव्ययम् ॥भगवद्गीता ९.१३॥

ये तु स्वकृतैः पुण्यसञ्चयैः मां शरणं उपगम्य विध्वस्तसमस्तपापबन्धा दैवीं प्रकृतिं आश्रिता महात्मानः, ते, भूतादिं अव्ययं वाङ्मनसागोचरनामकर्मस्वरूपं परमकारुणिकतया साधुपरित्राणाय मनुष्यत्वेनावतीर्णं मां ज्ञात्वा+अनन्यमनसो मां भजन्ते; मत्प्रियत्वातिरेकेण मद्भजनेन विना मनसश्चात्मनश्च बाह्यकरणानां च धारणं अलभमाना मद्भजनैकप्रयोजना भजन्ते ॥९.१३॥

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः  ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते  ॥भगवद्गीता ९.१४॥

अत्यर्थमत्प्रियत्वेन मत्कीर्तनयतननमस्कारैर्विना क्षणाणुमात्रेऽप्यात्मधारणं अलभमानाः, मद्गुणविशेषवाचीनि मन्नामानि स्मृत्वा पुलकाञ्चितसर्वाङ्गाः हर्षगद्गदकण्ठाः, नारायणकृष्णवासेदेवेत्येवं आदीनि सततं कीर्तयन्तः, तथैव यतन्तः मत्कर्मस्वर्चनादिकेषु, तदुपकारेषु भवननन्दनवनकरणादिकेषु च दृढसङ्कल्पा यतमानाः, भक्तिभारावनमितमनोबुद्ध्यभिमानपदद्वयकरद्वयशिरोभिरष्टाङ्गैरचिन्तितपांसुकर्दमशर्करादिके धरातले दण्डवत्प्रणिपतन्तः, सततं मां नित्ययुक्ताः नित्ययोगं काङ्क्षमाणा आत्मान्तं मद्दास्यव्यवसायिनः उपासते ॥९.१४॥

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मां उपासते  ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥भगवद्गीता ९.१५॥

अन्येऽपि महात्मनः पूर्वोक्तैः कीर्तनादिभिर्ज्ञानाख्येन यज्ञेन च यजन्तो मां उपासते । कथम्? बहुधा पृथक्त्वेन जगदाकारेण, विश्वतोमुखं विश्वप्रकारं अवस्थितं मां एकत्वेनोपासते । एतदुक्तं भवति  भगवान्वासुदेव एव नामरूपविभागानर्हातिसूक्ष्मचिदचिद्वस्तुशरीरस्सन्सत्यसङ्कल्पो विविधविभक्तनामरूपस्थूलचिदचिद्वस्तुशरीरः स्यां इति संकल्प्य स एक एव देवतिर्यङ्मनुष्यस्थावराख्यविचित्रजगच्छरीरोऽवतिष्ठत इत्यनुसंदधानाश्च मां उपासते इति ॥९.१५॥

तथा हि विश्वशरीरोऽहं एवावस्थित इत्याह

अहं क्रतुरहं यज्ञः स्वधा+अहं अहं औषधम् ।
मन्त्रोऽहं अहं एवाज्यं अहं अग्निरहं हुतम् ॥भगवद्गीता ९.१६॥

अहं क्रतुः अहं ज्योतिष्टोमादिकः क्रतुः; अहं एव महायज्ञः; अहं एव पितृगणपुष्टिदा स्वधा; औषधं हविश्चाहं एव; अहं एव च मन्त्रः; अहं एव च आज्यं । प्रदर्शनार्थं इदं सोमादिकं च हविरहं एवेत्यर्थः; अहं आहवनीयादिकोऽग्निः; होमश्चाहं एव ॥९.१६॥

पिता+अहं अस्य जगतो माता धाता पितामहः  ।
वेद्यं पवित्रं ओङ्कार ऋक्साम यजुरेव च  ॥भगवद्गीता ९.१७॥

अस्य स्थावरजङ्गमात्मकस्य जगतः, तत्र तत्र पितृत्वेन, मातृत्वेन, धातृत्वेन, पितामहत्वेन च वर्तमानोऽहं एव । अत्र धातृशब्दो मातापितृव्यतिरिक्ते उत्पत्तिप्रयोजके चेतनविशेषे वर्तते । यत्किञ्चिद्वेदवेद्यं पवित्रं पावनम्,तदहं एव । वेदकश्च वेदबीजभूतः प्रणवोऽहं एव । ऋक्सामयजुरात्मको वेदश्चाहं एव ॥९.१७॥

गतिर्भर्ता प्रभुस्साक्षी निवासश्शरणं सुहृत् ।
प्रभवप्रलयस्थानं निधानं बीजं अव्ययम् ॥भगवद्गीता ९.१८॥

गम्यत इति गतिः; तत्र तत्र प्राप्यस्थानं इत्यर्थः; भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्दृष्टा, निवासः वासस्थानं वेश्मादि । शरणं । इष्टस्य प्रापकतया+अनिष्टस्य निवारणतया च समाश्रयणीयश्चेतनः शरणं । स चाहं एव; सुकृद्धितैषी, प्रभवप्रलयस्थानं यस्य कस्यचिद्यत्र कुत्रचिदुत्पत्तिप्रलययोर्यत्स्थानम्, तदहं एव । निधानं निधीयत इति निधानम्, उत्पाद्यं उपसंहार्यं चाहं एवेत्यर्थः; अव्ययं बीजं तत्र तत्र व्ययरहितं यत्कारणम्, तदहं एव ॥९.१८॥

तपाम्यहं अहं वर्षं निगृह्णाम्यित्युत्सृज्यामि च  ।
अमृतं चैव मृत्युश्च सदसच्चाहं अर्जुन  ॥भगवद्गीता ९.१९॥

अग्न्यादित्यादिरूपेणाहं एव तपामि; ग्रीष्मादावहं एव वर्षं निगृह्णामि । तथा वर्षासु चाहं एवोत्सृजामि । अमृतं चैव मृत्युश्च । येन जीवति लोको येन च म्रियते, तदुभयं अहं एव । किं अत्र बहुनोक्तेन; सदसच्चाहं एव । सद्यद्वर्तते, असद्यदतीतं अनागतं च सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्तत्प्रकारोऽहं एवावस्थित इत्यर्थः । एवं बहुधा पृथक्त्वेन विभक्तनामरूपावस्थितकृत्स्नजगच्छरीरतया तत्प्रकारोऽहं एवावस्थित इत्येकत्वज्ञानेनाननुसंदधानाश्च मां उपासते ॥९.१९॥

एवं महात्मनां ज्ञानिनां भगवदनुभवैकभोगानां वृत्तं उक्त्वा तेषां एव विशेषं दर्शयितुं अज्ञानां कामकामानां वृत्तं आह

त्रैविद्या मां सोमपाः पूतपापाः यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते  ।
ते पुण्यं आसाद्य सुरेन्द्रलोकं अश्नन्ति दिव्यान्दिवि देवभोगान् ॥भगवद्गीता ९.२०॥
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति  ।
एवं त्रयीधर्मं अनुप्रपन्नाः गतागतं कामकामा लभन्ते  ॥भगवद्गीता ९.२१॥

ऋग्यजुस्सामरूपास्तिस्रो विद्याः त्रिविद्यम्; केवलं त्रिविद्यनिष्ठास्त्रैविद्याः, न तु त्रय्यन्तनिष्ठाः । त्रय्यन्तनिष्ठा हि महात्मनः पूर्वोक्तप्रकारेण निखिलवेदवेद्यं मां एव ज्ञात्वा+अतिमात्रमद्भक्तिकारितकीर्तनादिभिर्ज्ञानयज्ञेन च मदेकप्राप्या मां एवोपासते । त्रैविद्यास्तु वेदप्रतिपाद्यकेवलेन्द्रादियागशिष्टसोमान्पिबन्तः, पूतपापाः स्वर्गादिप्राप्तिविरोधिपापात्पूताः, तैः केवलेन्द्रादिदेवत्यतया+अनुसंहितैर्यज्ञैर्वस्तुतस्तद्रूपं मां इष्ट्वा, तथावस्थितं मां अजानन्तः स्वर्गगतिं प्रार्थयन्ते । ते पुण्यं दुःखासंभिन्नं सुरेन्द्रलोकं प्राप्य तत्र तत्र दिव्यान्देवभोगानश्नन्ति । ते तं विशालं स्वर्गलोकं भुक्त्वा तदनुभवहेतुभूते पुण्ये क्षीणे पुनरपि मर्त्यलोकं विशन्ति । एवं त्रय्यन्तसिद्धज्ञानविधुराः काम्यस्वर्गादिकामाः केवलं त्रयीधर्मं अनुप्रपन्नाः गतागतं लभन्ते अल्पास्थिरस्वर्गादीननुभूय पुनः पुनर्निवर्तन्त इत्यर्थः ॥९.२०,२१॥

महात्मनस्तु निरतिशयप्रियरूपमच्चिन्तनं कृत्वा मां अनवधिकातिशयानन्दं प्राप्यन पुनरावर्तन्त इति तेषां विशेषं दर्शयति

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते  ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥भगवद्गीता ९.२२॥

अनन्याः अनन्यप्रयोजनाः, मच्चिन्तनेन विना+आत्मधारणालाभान्मच्चिन्तनैकप्रयोजनाः मां चिन्तयन्तो ये महात्मानो जनाः पर्युपासते सर्वकल्यान्णगुणान्वितं सर्वविभूतियुक्तं मां परित उपासते, अन्यूनं उपासते, तेषां नित्याभियुक्तानां मयि नित्याभियोगं काङ्क्षमाणानाम्, अहं मत्प्राप्तिलक्षणं योगम्, अपुनरावृत्तिरूपं क्षेमं च वहामि ॥९.२२॥

ये त्वन्यदेवताभक्ता यजन्ते श्रद्धया+अन्विताः  ।
तेऽपि मां एव कौन्तेय यजन्त्यविधिपूर्वकम् ॥भगवद्गीता ९.२३॥

ये त्विन्द्रादिदेवताभक्ताः केवलत्रयीनिष्ठाः श्रद्धया+अन्विताः इन्द्रादीन्यजन्ते, तेऽपि पूर्वोक्तेन न्यायेन सर्वस्य मच्छरीरतया मदात्मकत्वेन, इन्द्रादिशब्दानां च मद्वाचित्वाद्वस्तुतो मां एव यजन्ते; अपि त्वविधिपूर्वकं यजन्ते । इन्द्रादीनां देवतानां करम्स्वाराध्यतया अन्वयं यथा वेदान्तवाक्यानि, "चतुर्होतारो यत्र संपदं गच्छन्ति देऐः" इत्यादीनि विदधति, न तत्पूर्वकं यजन्ते । वेदान्तवाक्यजातं हि परमपुरुषशरीरतया+अवस्थितानां इन्द्रादीनां आराध्यत्वं विदधदत्मभूतस्य परमपुरुषस्यैव साक्षादाराध्यत्वं विदधाति । चतुर्होतारः अग्निहोत्रदर्शपूर्णमासादीनि कर्माणि, यत्र परमात्मन्यात्मतया+अवस्थिते सत्येव तच्छरीरभूतेन्द्रादिदेवैः; संपदं गच्छन्ति इन्द्रादिदेवानां आराधनान्येतानि कर्माणीतीमां संपदं गच्छन्तीत्यर्थः ॥९.२३॥

अतस्त्रैविद्या इन्द्रादिशरीरस्य परमपुरुषस्याराधनान्येतानि कर्माणि; आराध्यश्च स एवेति न जानन्ति, ते च परिमितफलभागिनश्च्यवनस्वभावाश्च भवन्ति; तदाह

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च  ।
न तु मां अभिजानन्ति तत्त्वेनातश्च्यवन्ति ते  ॥भगवद्गीता ९.२४॥

प्रभुरेव च  तत्र तत्र फलप्रदाता चाहं एव इत्यर्थः ॥९.२४॥

अहो महदिदं वैचित्र्यम्, यदेकस्मिन्नेव कर्मणि वर्तमानाः सङ्कल्पमात्रभेदेन केचिदत्यल्पफलभागिनश्च्यवनस्वभावाश्च भवन्ति; केचन अनवधिकातिशयानन्दपरमपुरुषप्राप्तिरूपफलभागिनोऽपुनरावर्तिनश्च भवन्तीत्याह

यान्ति देवव्रता देवान्पित्Qन्यान्ति पितृव्रताः  ।
भूतानि यान्ति भूतेज्याः यान्ति मद्याजिनोऽपि माम् ॥भगवद्गीता ९.२५॥

व्रतशब्दः सङ्क्ल्पवाची; देवव्रताः दर्शपूर्णमासादिभिः कर्मभिः इन्द्रादीन्यजामहे इति इन्द्रादियजनसङ्कल्पा ये, ते इन्द्रादीन्देवान्यान्ति । ये च पितृयज्ञादिभिः पित्Qन्यजामहे इति पितृयजनसङ्कल्पाः, ते पित्Qन्यान्ति । ये च "यक्षरकषःपिशाचादीनि भूतानि यजामहे" इति भूतयजनसङ्कल्पाः, ते भूतानि यान्ति । ये ते तैरेव यज्ञैः "देवपितृभूतशरीरकं परमात्मानं भगवन्तं वासुदेवं यजामहे" इति मां यजन्ते, ते मद्याजिनो मां एव यान्ति । देवादिव्रताः देवादीन्प्राप्य तैस्सह परिमितं भोगं भुक्त्वा तेषां विनशकाले तैस्सह विनष्टा भवन्ति । मद्याजिनस्तु मां अनादिनिधनं सर्वज्ञं सत्यसङ्कल्पं अनवधिकातिशयासंख्येयकल्याणगुणगणमहोदधिं अनवधिकातिशयानन्दं प्राप्य न पुनर्निवर्तन्त इत्यर्थः ॥९.२५॥

मद्याजिनां अयं अपि विशेषोऽस्तीत्याह

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति  ।
तदहं भक्त्युपहृतं अश्नामि प्रयतात्मनः  ॥भगवद्गीता ९.२६॥

सर्वसुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छति  अत्यर्थमत्प्रियत्वेन तत्प्रदानेन विना+आत्मधारणं अलभमानतया तदेकप्रयोजनो यो मे पत्रादिकं ददाति; तस्य प्रयतात्मनः तत्प्रदानैकप्रयोजनत्वरूपशुद्धियुक्तमनसः, तत्तथाविधभक्त्युपहृतम्, अहं सर्वेश्वरो निखिलजगदुदयविभवलयलीला+अवाप्तसमस्तकामः सत्यसङ्कल्पोऽनवधिकातिशयासंख्येयकल्याणगुणगणः स्वाभाविकानवधिकातिशयानन्दस्वानुभवे वर्तमानोऽपि, मनोरथपथदूरवर्ति प्रियं प्राप्यैवाश्नामि । यथोक्तं मोक्षधर्मे, "याः क्रियाः संप्रयुक्तास्स्युरेकान्तगतबुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्" इति ॥९.२६॥

यस्माज्ज्ञानिनां महात्मनां वाङ्मनसागोचरोऽयं विशेषः, तस्मात्त्वं च ज्ञानी भूत्वा उक्तलक्षणभक्तिभारावनमितात्मा आत्मीयः कीर्तनयतनार्चनप्रणामादिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्यनैमित्तिकं कर्म चेत्थं कुर्वित्याहा

यत्करोषि यदश्नासि यज्जहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥भगवद्गीता ९.२७॥

यद्देहयात्राशेषभूतं लौकिकं कर्म करोषि, यच्च देहधारणायाश्नासि, यच्च वैदिकं होमदानतपःप्रभृति नित्यनैमित्तिकं कर्म करोषि, तत्सर्वं मदर्पणं कुरुष्व । अर्प्यत इत्यर्पणं सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वं आराध्यत्वं च यथा मयि समर्पितं भवति तथा कुरु । एतदुक्तं भवति  यागदानादिषु आराध्यतया प्रतीयमानानां देवादीनां कर्मकर्तुर्भोक्तुः तव च मदीयतया मत्सङ्कल्पायत्तस्वरूपस्थितिप्रवृत्तितया च मय्येव परमशेषिणि परमकर्तरि त्वां च कर्तारं भोक्तारं आराधकम्, आराध्यं च देवताजातम्, आराधनं च क्रियाजातं सर्वं समर्पय; तव मन्नियाम्यतापूर्वकमच्छेषतैकरसतां आराध्यादेस्चैतत्स्वभावगर्भतां अत्यर्थप्रीतियुक्तोऽनुसंधत्स्व  इति ॥९.२७॥

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः  ।
संन्यासयोगयुक्तात्मा विमुक्तो मां उपैष्यसि  ॥भगवद्गीता ९.२८॥

एवं संन्यासाख्ययोगयुक्तमनाः आत्मानं मच्छेषतामन्नियाम्यतैकरसं कर्म च सर्वं मदाराधनं अनुसंदधानो लौकिकं वैदिकं च कर्म कुर्वन्शुभाशुभफलैरनन्तैः प्राचीनकर्माख्यैर्बन्धनैर्मत्प्राप्तिविरोधिभिस्सर्वैर्मोक्ष्यसे; तैर्विमुक्तो मां एवोपैष्यसि ॥९.२८॥

ममेमं परमं अतिलोकं स्वभावं शृणु

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः  ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥भगवद्गीता ९.२९॥

देवतिर्यङ्मनुष्यस्थावरात्मना+अवस्थितेषु जातितश्चाकारतः स्वभावतो ज्ञानतश्चात्यन्तोत्कृष्टापकृष्टरूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वे समोऽहम्; अयं जात्याकारस्वभावज्ञानादिभिर्निर्कृष्ट इति समाश्रयणे न मे द्वेष्योऽस्ति  उद्वेजनीयतया न त्याज्योऽस्ति । तथा समाश्रितत्वातिरेकेण जात्यादिभिरत्यन्तोत्कृष्टोऽयं इति तद्व्युक्ततया समाश्रयणे न कश्चित्प्रियोऽस्ति न संग्राह्योऽस्ति । अपि तु अत्यर्थमत्प्रियत्वेन मद्भजनेन विना+आत्मधारणालाभान्मद्भजनैकप्रयोजना ये मां भजन्ते, ते जात्यादिभिरुत्कृष्टा अपकृष्टा वा मत्समानगुणवद्यथासुखं मय्येव वर्तन्ते । अहं अपि तेषु मदुत्कृष्टेष्विव वर्ते ॥९.२९॥

तत्रापि

अपि चेत्सुदुराचारो भजते मां अनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः  ॥भगवद्गीता ९.३०॥

तत्र तत्र जातिविशेषे जातानां यः समाचार उपादेयः परिहरणीयश्च, तस्मादतिवृत्तोऽप्युक्तप्रकारेण मां अनन्यभाक्भजनैकप्रयोजनो भजते चेत्, साधुरेव सः वैष्णवाग्रेसर एव सः । मन्तव्यः बहुमन्तव्यः पूर्वोक्तैस्सम इत्यर्थः । कुत एतत्? सम्यग्व्यवसितो हि सः  यतोऽस्य व्यवसायः सुसमीचीनः  भगवान्निखिलजगदेककारणभूतः परं ब्रह्म नारायणश्चराचरपतिरस्मत्स्वामी मम गुरुर्मम सुहृन्मम परमं भोग्यं इति सर्वैर्दुष्प्रापोऽयं व्यवसायस्तेन कृतः; तत्कार्यं चानन्यप्रयोजनं निरन्तरं भजनं तस्यास्ति  अतः साधुरेव; बहुमन्तव्यः । अस्मिन्व्यवसाये, तत्कार्ये चोक्तप्रकारभजने संपन्ने सति तस्याचारव्यतिक्रमः स्वल्पवैकल्यं इति न तावता+अनादरणीयः, अपि तु बहुमन्तव्य एवेत्यर्थः ॥९.३०॥

ननु "नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशन्तमानसो वा+अपि प्रज्ञानेनैनं आप्नुयात् ॥ १." इत्यादिश्रुतेः आचारव्यतिक्रम उत्तरोत्तरभजनोत्पत्तिप्रवाहं निरुणद्धीत्यत्र आह

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति  ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति  ॥भगवद्गीता ९.३१॥

मत्प्रियत्वकारितानन्यप्रयोजनमद्भजनेन विधूतपापतयैव समूलोन्मूलितरजस्तमोगुणः क्षिप्रं धर्मात्मा भवति क्षिप्रं एव विरोधिरहितसपरिकरमद्भजनैकमना भवति  । एवंरूपभजनं एव हि "धर्मस्यास्य परन्तप" इति उपक्रमे धर्मशब्दोदितं । शश्वच्छान्तिं निगच्छति शश्वतीं अपुनरावर्तिनीं मत्प्राप्तिविरोध्याचारनिवृत्तिं गच्छति । कौन्तेय त्वं एवास्मिन्नर्थे प्रतिज्ञां कुरु मद्भक्तावुपक्रान्तो विरोध्याचारमिश्रोऽपि न नश्यति; अपि तु मद्भक्तिमाहात्म्येन सर्वं विरोधिजातं नाशयित्वा शाश्वतीं विरोधिनिवृत्तिं अधिगम्य क्षिप्रं परिपूर्णभक्तिर्भवतीति ॥९.३१॥

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः  ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥भगवद्गीता ९.३२॥
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा  ।
अनित्यं असुखं लोकं इमं प्राप्य भजस्व माम् ॥भगवद्गीता ९.३३॥

स्त्रियो वैश्याः शूद्राश्च पापयोनयोऽपि मां व्यपाश्रित्य परां गतिं यान्ति; किं पुनः पुण्ययोनयो ब्राह्मणा राजर्षयश्च मद्भक्तिं आस्थिताः । अतस्त्वं राजर्षिरस्थिरं तापत्रयाभिहततया असुखं चेमं लोकं प्राप्य वर्तमानो मां भजस्व ॥९.३२,३३॥

भक्तिस्वरूपं आह

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु  ।
मां एवैष्यसि युक्त्वैवं आत्मानं मत्परायणः  ॥भगवद्गीता ९.३४॥

मन्मना भव मयि सर्वेश्वरेश्वरे, निखिलहेयप्रत्यनीककल्याणैकताने, सर्वज्ञे, सत्यसङ्कल्पे निखिलजगदेककारणे, परस्मिन्ब्रह्मणि, पुरुषोत्तमे, पुण्डरीकदलामलायताक्षे, स्वच्छनीलजीमूतसङ्काशे, युगपदुदितदिनकरसहस्रसदृशतेजसि, लावण्यामृतमहोदधौ, उदारपीवरचतुर्बाहौ, अत्युज्ज्वलपीताम्बरे, अमलकिरीटमकरकुण्डलहारकेयूरकटकभूषिते, अपारकारुण्यसौशील्यसौन्दर्यमाधुर्यगाम्भीर्याउदार्यवात्सल्यजलधौ, अनालोचितविशेषाशेषलोकशरण्ये सर्वस्वामिनि तैलधारावदविच्छेदेन निविष्टमना भव । तदेव विशिनष्टि  मद्भक्तः अत्यर्थमत्प्रियत्वेन युक्तो मन्मना भवेत्यर्थः । पुनर्पि विशिनष्टि  मद्याजी अनवधिकातिशयप्रियमदनुभवकारितमद्यजनपरो भव । यजनं नामपरिपूर्णशेषवृत्तिः । औपचारिकसांस्पर्शिकाभ्यवहारिकादिसकलभोगप्रदानरूपो हि यागः । यथा मदनुभवजनितनिर्वधिकातिशयप्रीतिकारितमद्यजनपरो भवसि, तथा मन्मना भवेत्युक्तं भवति । पुनरपि तदेव विशिनष्टि  मां नमस्कुरु । अनवधिकातिशयप्रियमदनुभवकारितात्यर्थप्रियाशेषशेषवृत्तौ अपर्यवस्यन्मय्यन्तरात्मनि अतिमात्रप्रह्वीभावव्यवसायं कुरु । मत्परायणः  अहं एव परं अयनं यस्यासौ मत्परायणः; मया विना+आत्मधारणासंभावनया मदाश्रय इत्यर्थः । एवं आत्मानं युक्त्वा मत्परायणसेवं अनवधिकातिशयप्रीत्या मदनुभवसमर्थं मनः प्राप्य मां एवैष्यसि । आत्मशब्दो ह्यत्र मनोविषयः । एवंरूपेण मनसा मां ध्यात्वा मां अनुभूय मां इष्ट्वा मां नमस्कृत्य मत्परायणो मां एव प्राप्स्यसीत्यर्थः । तदेवं लौकिकानि शरीरधारणार्थानि, वैदिकानि च नित्यनैमित्तिकानि कर्माणि मत्प्रीतये मच्छेषतैकरसो
मयैव कारित इति कुर्वन्सततं मत्कीर्तनयतननमस्कारादिकान्प्रीत्या कुर्वाणो मन्नियाम्यं निखिलजगन्मच्छेषतैकरसं इति चानुसन्धानः अत्यर्थप्रियमद्गुणगणं चानुसन्धायाहरहरुक्तलक्षणं इदं उपासनं उपाददानो मां एव प्राप्स्यसि ॥९.३४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.5600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तें नाहीं ललाटीं, आणि पाऊस पडे शेताकांठीं

  • जर शेतकर्‍याच्या नशिबात नसेल तर पाऊस पडला तरी तो त्‍याच्या शेताबाहेर पडतो, शेतांत पडत नाही. 
RANDOM WORD

Did you know?

गंध का लावावे ? अधिक माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.