TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय १६

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय १६
अतीतेनाध्यायत्रयेण प्रकृतिपुरुषयोर्विविक्तयोः संसृष्टयोश्च याथात्म्यं तत्संसर्गवियोगयोश्च गुणसङ्गतद्विपर्ययहेतुत्वम्, सर्वप्रकारेणावस्थितयोः प्रकृतिपुरुषयोर्भगवद्विभूतित्वम्, विभूतिमतो भगवतो विभूतिभूतादचिद्वस्तुनश्चिद्वस्तुनश्च बद्धमुक्तोभयरूपादव्ययत्वव्यापनभरणस्वाम्यैरर्थान्तरतया पुरुषोत्तमत्वेन याथात्म्यञ् च वर्णितं । अनन्तरम्, उक्तस्य कृत्स्नस्यार्थस्य स्थेम्ने शास्त्रवश्यतां वक्तुं शास्त्रवश्यतद्विपरीतयोर्देवासुरसर्गयोर्विभागं

 श्रीभगवानुवाच
 अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः  ।
 दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥भगवद्गीता १६.१॥
 अहिंसा सत्यं अक्रोधस्त्यागः शान्तिरपैशुनम् ।
 दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥भगवद्गीता १६.२॥
 तेजः क्षमा धृतिः शौचं अद्रोहो नातिमानिता  ।
 भवन्ति संपदं दैवीं अभि जातस्य भारत  ॥भगवद्गीता १६.३॥

इष्टानिष्टवियोगसंयोगरूपस्य दुःखस्य हेतुदर्शनजं दुःखं भयम्, तन्निवृत्तिरभयं । सत्त्वसंशुद्धिः सत्त्वस्यान्तःकरणस्य रजस्तमोभ्यां अस्पृष्टत्वं । ज्ञानयोगव्यवस्थितिः प्रकृतिवियुक्तात्मस्वरूपविवेकनिष्ठा । दानं न्यायार्जितधनस्य पात्रे प्रतिपादनं । दमः मनसो विषयोन्मुख्यनिवृत्तिसंशीलनं । यज्ञः फलाभिसन्धिरहितभगवदाराधनरूपमहायज्ञाद्यनुष्ठानं । स्वाध्यायः सविभूतेर्भगवतस्तदाराधनप्रकारस्य च प्रतिपादकः कृत्स्नो वेद इत्यनुसन्धाय वेदाभ्यासनिष्ठा । तपः कृच्छ्रचान्द्रायणद्वादश्युपवासादेर्भगवत्प्रीणनकर्मयोग्यतापादनस्य करणं । आर्जवं मनोवाक्कायवृत्तीनां एकनिष्ठता परेषु । अहिंसा परपीडावर्जनं । सत्यं यथादृष्टार्थगोचरभूतहितवाक्यं । अक्रोधः परपीडाफलचित्तविकाररहितत्वं । त्यागः आत्महितप्रत्यनीकपरिग्रहविमोचनं । शान्तिः इन्द्रियाणां विषयप्रावण्यनिरोधसंशीलनं । अपैशुनं परानर्थकरवाक्यनिवेदनाकरणं । दया भूतेषु  सर्वभूतेषु दुःखासहिष्णुत्वं । अलोलुप्त्वं अलोलुपत्वं । अलोलुत्वं इति वा पाठः; विषयेषु निस्स्पृहत्वं इत्यर्थः । मार्दवं अकाठिन्यम्, साधुजनसंश्लेषार्हतेत्यर्थः । ह्रीः अकार्यकरणे व्रीडा । अचापलं स्पृहणीयविषयसन्निधौ अचञ्चलत्वं । तेजः दुर्जनैरनभिभवनीयत्वं । क्षमा परनिमित्तपीडानुभवेऽपि परेषु तं प्रति चित्तविकाररहितता । धृतिः महत्यां अप्यापदि कृत्यकर्तव्यतावधारणं । शौचं बाह्यान्तरकरणानां कृत्ययोग्यता शास्त्रीया । अद्रोहः
परेष्वनुपरोधः; परेषु स्वच्छन्दवृत्तिनिरोधरहितत्वं इत्यर्थः । नातिमानिता  अस्थाने गर्वोऽतिमानित्वम्; तद्रहितता । एते गुणाः दैवीं संपदं अभिजातस्य भवन्ति । देवसंबन्धिनी संपद्दैवी; देवा भगवदाज्ञानुवृत्तिशीलाः; तेषां संपत् । सा च भगवदाज्ञानुवृत्तिरेव । तां अभिजातस्य तां अभिमुखीकृत्य जातस्य, तां निवर्तयितुं जातस्य भवन्तीत्यर्थः ॥१६.१_३॥

 दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यं एव च  ।
 अज्ञानं चाभिजातस्य पार्थ सम्पदं असुरीम् ॥भगवद्गीता १६.४॥

दम्भः धार्मिकत्वख्यापनाय धर्मानुष्ठानं । दर्पः कृत्याकृत्याविवेककरो विषयानुभवनिमित्तो हर्षः । अतिमानश्च स्वविद्याभिजनाननुगुणोऽभिमानः । क्रोधः परपिडाफलचित्तविकारः । पारुष्यं साधूनां उद्वेगकरः स्वभावः । अज्ञानं परावरतत्त्वकृत्याकृत्याविवेकः । एते स्वभावाः आसुरीं संपदं अभिजातस्य भवन्ति । असुराः भगवदाज्ञातिवृत्तिशीलाः ॥१६.४॥

 दैवी संपद्विमोक्षाय निबन्धायासुरी मता  ।

दैवी मदाज्ञानुवृत्तिरूपा संपद्विमोक्षाय बन्धान्मुक्तये भवति । क्रमेण मत्प्राप्तये भवतीत्यर्थः । आसुरी मदाज्ञातिवृत्तिरूपा संपन्निबन्धाय भवति अधोगतिप्राप्तये भवतीत्यर्थः॥

एतच्छ्रुत्वा स्वप्रकृत्यनिर्धारणादतिभीतायार्जुनायैवं आह

 मा शुचस्संपदं दैवीं अभिजातोऽसि पाण्डव  ॥भगवद्गीता १६.५॥

शोकं मा कृथाः; त्वं तु दैवीं संपदं अभिजातोऽसि । पाण्डव । धार्मिकाग्रेसरस्य हि पाण्डोस्तनयस्त्वं इत्यभिप्रायः ॥१६.५॥

 द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च  ।
 दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु  ॥भगवद्गीता १६.६॥

अस्मिन्कर्मलोके कर्मकराणां भूतानां सर्गो द्विविधौ दैवश्चासुरश्चेति । सर्गः उत्पत्तिः, प्राचीनपुण्यपापरूपकर्मवशाद्भगवदाज्ञानुवृत्तितद्विपरीतकरणायोत्पत्तिकाल एव विभागेन भूतान्युत्पद्यन्त इत्यर्थः । तत्र दैवः सर्गो विस्तरशः प्रोक्तः  देवानां मदाज्ञानुवृत्तिशीलानां उत्पत्तिर्यदाचारकरणार्था, स आचारः कर्मयोगज्ञानयोगभक्तियोगरूपो विस्तरशः प्रोक्तः । असुराणां सर्गश्च यदाचारार्थः, तं आचारं मे शृणु  मम सकाशाच्छृणु ॥१६.६॥

 प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः  ।
 न शौचं नापि चाचारो न सत्यं तेषु विद्यते  ॥भगवद्गीता १६.७॥

प्रवृत्तिं च निवृत्तिं च अभ्युदयसाधनं मोक्षसाधनं च वैदिकं धर्मं आसुरा न विदुः न जानन्ति । शौचं वैदिककर्मयोग्यत्वं शास्त्रसिद्धम्; तद्बाह्यं आन्तरं चासुरेषु न विद्यते । नापि चाचारः तद्बाह्यान्तरशौचं येन सन्ध्यावन्दनादिना आचारेण जायते, सोऽप्याचारस्तेषु न विद्यते । यथोक्तम्, "संध्याहीनोऽशुचिर्नित्यं अनर्हस्सर्वकर्मसु" इति । तथा सत्यं च तेषु न विद्यते यथाज्ञातभूतहितरूपभाषणं तेषु न विद्यते ॥१६.७॥

किं च

 असत्यं अप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
 अपरस्परसंभूतं किं अन्यत्कामहेतुकम् ॥भगवद्गीता १६.८॥

असत्यं जगदेतत्सत्यशब्दनिर्दिष्टब्रह्मकार्यतया ब्रह्मात्मकं इति नाहुः । अप्रतिष्ठं तथा ब्रह्मणि प्रतिष्ठितं इति न वदन्ति । ब्रह्मणानन्तेन धृता हि पृथिवी सर्वान्लोकान्बिभर्ति । यथोक्तम्, "तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सदेवासुरमानुषाम्" इति । अनीश्वरं । सत्यसंकल्पेन परेण ब्रह्मणा सर्वेश्वरेण मयैतन्नियमितं इति च न वदन्ति । "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इति ह्युक्तं । वदन्ति चैवं अपरस्परसंभूतम्; किं अन्यत् । योषित्पुरुषयोः परस्परसंबन्धेन जातं इदं मनुष्यपश्वादिकं उपलभ्यते; अनेवंभूतं किं अन्यदुपलभ्यते ? किंचिदपि नोपलभ्यत इत्यर्थः । अतः सर्वं इदं जगत्कामहेतुकं इति ॥१६.८॥

 एतां दृष्टिं अवष्टभ्य नष्टात्मानोऽल्पबुद्धयः  ।
 प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽशुभाः  ॥भगवद्गीता १६.९॥

एतां दृष्टिं अवष्टभ्य अवलम्ब्य, नष्टात्मानः अदृष्टदेहातिरिक्तात्मानः, अल्पबुद्धयः घटादिवज्ज्ञेयभूते देहे ज्ञातृत्वेन देहव्यतिरिक्त आत्मोपलभ्यत इति विवेकाकुशलाः, उग्रकर्माणः सर्वेषां हिंसका जगतः क्षयाय प्रभवन्ति ॥१६.९॥

 कामं आश्रित्य दुष्पूरं दम्भमानमदान्विताः  ।
 मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः  ॥भगवद्गीता १६.१०॥

दुष्पूरं दुष्प्रापविषयं कामं आश्रित्य तत्सिसाधयिषया मोहादज्ञानात्, असद्ग्राहानन्यायगृहीतपरिग्रहान्गृहीत्वा, अशुचिव्रताः अशास्त्रविहितव्रतयुक्ताः दम्भमानमदान्विताः प्रवर्तन्ते ॥१६.१०॥

 चिन्तां अपरिमेयां च प्रलयान्तां उपाश्रिताः  ।
 कामोपभोगपरमा एतावदिति निश्चिताः  ॥भगवद्गीता १६.११॥

अद्य श्वो वा मुमूर्षवः चिन्तां अपरिमेयाम् अपरिच्छेद्यां प्रलयान्तां प्राकृतप्रलयावधिकालसाध्यविषयां उपाश्रिताः, तथा कामोपभोगपरमाः कामोपभोग एव परमपुरुषार्थ इति मन्वानाः, एतावदिति निश्चिताः इतोऽधिकः पुरुषार्थो न विद्यत इति संजातनिश्चयाः ॥१६.११॥

 आशापाशशतैर्बद्धाः कामक्रोधपरायणाः  ।
 ईहन्ते कामभोगार्थं अन्यायेनार्थसञ्चयान् ॥भगवद्गीता १६.१२॥

आशापाशशतैः आशाख्यपाशशतैर्बद्धाः, कामक्रोधपरायणाः कामक्रोधैकनिष्ठाः, कामभोगार्थं अन्यायेनार्थसंचयान्प्रति ईहन्ते ॥१६.१२॥

 इदं अद्य मया लब्धं इमं प्राप्स्ये मनोरथम् ।
 इदं अस्तीदं अपि मे भविष्यति पुनर्धनम् ॥भगवद्गीता १६.१३॥

इदं क्षेत्रपुत्रादिकं सर्वं मया मत्सामर्थ्येनैव लब्धम्, नादृष्टादिना; इमं च मनोरथं अहं एव प्राप्स्ये, नादृष्टादिसहितः । इदं धनं मत्सामर्थ्येन लब्धं मे अस्ति, इदं अपि पुनर्मे मत्सामर्थ्येनैव भविष्यति ॥१६.१३॥

 असौ मया हतः शत्रुर्हनिष्ये चापरानपि  ।

असौ मया बलवता हतः शत्रुः । अपरानपि शत्रूनहं शूरो धीरश्च हनिष्ये । किं अत्र मन्दधीभिर्दुर्बलैः परिकल्पितेनादृष्टपरिकरेण॥

तथा च

 ईश्वरोऽहं अहं भोगी सिद्धोऽहं बलवान्सुखी  ॥भगवद्गीता १६.१४॥

ईश्वरोऽहं स्वाधीनोऽहम्; अन्येषां चाहं एव नियन्ता । अहं भोगी स्वत एवाहं भोगी; नादृष्टादिभिः । सिद्धोऽहं स्वतस्सिद्धोऽहम्; न कस्माच्चिददृष्टादेः । तथा स्वत एव बलवान्; स्वत एव सुखी ॥१६.१४॥

 आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया  ।
 यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः  ॥भगवद्गीता १६.१५॥

अहं स्वतश्चाढ्योऽस्मि; अभिजनवानस्मि स्वत एवोत्तमकुले प्रसूतोऽस्मि; अस्मिन्लोके मया सदृशः कोऽन्यः स्वसामर्थ्यलब्धसर्वविभवो विद्यते? अहं स्वयं एव यक्ष्ये दास्यामि, मोदिष्ये इत्यज्ञानविमोहिताः ईश्वरानुग्रहनिरपेक्षेण स्वेनैव यागदानादिकं कर्तुं शक्यं इत्यज्ञानविमोहिता मन्यन्ते ॥१६.१५॥

 अनेकचित्तविभ्रान्ता मोहजालसमावृताः  ।
 प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ  ॥भगवद्गीता १६.१६॥

अदृष्टेश्वरादिसहकारं ऋते स्वेनैव सर्वं कर्तुं शक्यं इति कृत्वा, एवं कुर्याम्, तच्च कुर्याम्, अन्यच्च कुर्यां इत्यनेकचित्तविभ्रान्ताः, एवंरूपेण मोहजालेन समावृताः, कामभोगेषु प्रकर्षेण सक्ताः, मध्ये मृताः अशुचौ नरके पतन्ति ॥१६.१६॥

 आत्मसंभाविताः स्तब्धाः धनमानमदान्विताः  ।
 यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥भगवद्गीता १६.१७॥

आत्मनैव संभाविताः । आत्मनैवात्मानं संभावयन्तीत्यर्थः । स्तब्धाः परिपूर्णं मन्यमाना न किंचित्कुर्वाणाः । कथं ? धनमानमदान्विताः धनेन विद्याभिजनाभिमानेन च जनितमदान्विताः, नामयज्ञैः नामप्रयोजनैः यष्टेतिनाममात्रप्रयोजनैर्यज्ञैः यजन्ते । तदपि दम्भेन हेतुना यष्टृत्वख्यापनाय, अविधिपूर्वकं अयथाचोदनं यजन्ते ॥१६.१७॥

ते चेदृग्भूता यजन्त इत्याह

 अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः  ।
 मां आत्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः  ॥भगवद्गीता १६.१८॥

अनन्यापेक्षोऽहं एव सर्वं करोमीत्येवंरूपं अहंकारं आश्रिताः, तथा सर्वस्य करणे मद्बलं एव पर्याप्तं इति च बलम्, अतो मत्सदृशो न कश्चिदस्तीति च दर्पम्, एवंभूतस्य मम काममात्रेण सर्वं संपत्स्यत इति कामम्, मम ये अनिष्टकारिणस्तान्सर्वान्हनिष्यामीति च क्रोधम्, एवं एतान्संश्रिताः, स्वदेहेषु परदेहेषु चावस्थितं सर्वस्य कारयितारं पुरुषोत्तमं मां अभ्यसूयकाः प्रद्विषन्तः, कुयुक्तिभिर्मत्स्थितौ दोषं आविष्कुर्वन्तो मां असहमानाः । अहंकारादिकान्संश्रिता यागादिकं सर्वं क्रियाजातं कुर्वत इत्यर्थः ॥१६.१८॥

 तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
 क्षिपाम्यजस्रं अशुभानासुरीष्वेव योनिषु  ॥भगवद्गीता १६.१९॥

य एवं मां द्विषन्ति, तान्क्रूरान्नराधमानशुभानहं अजस्रं संसारेषु जन्मजरामरणादिरूपेण परिवर्तमानेषु संतानेषु, तत्राप्यासुरीष्वेव योनिषु क्षिपामि मदानुकूल्यप्रत्यनीकेष्वेव जन्मसु क्षिपामि । तत्तज्जन्मप्राप्त्यनुगुणप्रवृत्तिहेतुभूतबुद्धिषु क्रूरास्वहं एव संयोजयामीत्यर्थः ॥१६.१९॥

 आसुरीं योनिं आपन्ना मूढा जन्मनि जन्मनि  ।
 मां अप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥भगवद्गीता १६.२०॥

मदानुकूल्यप्रत्यनीकजन्मापन्नाः पुनरपि जन्मनि जन्मनि मूढाः मद्विपरीतज्ञाना मां अप्राप्यैव "अस्ति भगवान्सर्वेश्वरो वासुदेवः" इति ज्ञानं अप्राप्य ततः ततो जन्मनोऽधमां एव गतिं यान्ति ।२० ॥

अस्यासुरस्वभावस्यात्मनाशस्य मूलहेतुं आह

 त्रिविधं नरकस्यैतद्द्वारं नाशनं आत्मनः  ।
 कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ भगवद्गीता १६.२१॥

अस्यासुरस्वभावरूपस्य नरकस्यैतत्त्रिविधं द्वारम्, तच्चात्मनो नाशनम्; कामः क्रोधो लोभ इति त्रयाणां स्वरूपं पूर्वं एव व्याख्यातं । द्वारं मार्गः; हेतुरित्यर्थः । तस्मादेतत्त्रयं त्यजेत्; तस्मादतिघोरनरकहेतुत्वात्कामक्रोधलोभानाम्, एतत्त्रितयं दूरतः परित्यजेत् ॥ १६.२१॥

 एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः  ।
 आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥भगवद्गीता १६.२२॥

एतैः कामक्रोधलोभैः तमोद्वारैः मद्विपरीतज्ञानहेतुभिः विमुको नरः आत्मनः श्रेय आचरति लब्धमद्विषयज्ञानो मदानुकूल्ये प्रयतते । ततो मां एव परां गतिं याति ॥१६.२२॥

शास्त्रानादरोऽस्य नरकस्य प्रधानहेतुरित्याह

 यः शास्त्रविधिं उत्सृज्य वर्तते कामकारतः  ।
 न स सिद्धिं अवाप्नोति न सुखं न परां गतिम् ॥भगवद्गीता १६.२३॥

शास्त्रं वेदाः; विधिः अनुशासनं । वेदाख्यं मदनुशासनं उत्सृज्य यः कामकारतो वर्तते स्वच्छन्दानुगुणमार्गेण वर्तते, न स सिद्धिं अवाप्नोति न कां अप्यामुष्मिकीं सिद्धिं अवाप्नोति; न सुखं किंचिदवाप्नोति । न परां गतिं । कुतः परां गतिं प्राप्नोतीत्यर्थः ॥१६.२३॥

 तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ  ।
 ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुं इहार्हसि  ॥भगवद्गीता १६.२४॥

तस्मात्कार्याकार्यव्य्वस्थितौ उपादेयानुपादेयव्यवस्थायां शास्त्रं एव तव प्रमाणं । धर्मशास्त्रेतिहासपुराणाद्युपबृंहिता वेदाः यदेव पुरुषोत्तमाख्यं परं तत्त्वं तत्प्रीणनरूपं तत्प्राप्त्युपायभूतं च कर्मावबोधयन्ति, तच्शास्त्रविधानोक्तं तत्त्वं कर्म च ज्ञात्वा यथावदन्यूनातिरिक्तं विज्ञाय, कर्तुं त्वं अर्हसि  तदेवोपादातुं अर्हसि ॥१६.२४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.9530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मार

  • ( संक्षेप ) मजकूर . 
  • पु. मदन . मानी अहंकृति शिवे असि मार - माते । - वामन , रुक्मिणीविलास २ . [ सं . मृ = मरणें ] 
  • पु. १ ठोक ; चोप ; ताडण . ( क्रि० देणें ). देते झाले वीर सुभद्राकृष्णाकुमार मारा ज्या । - मोभीष्म ७ . ३८ . २ बंदूक , तोफ इ० कांच्या गोळ्यांचा प्रक्षेप , हल्ला ; भडिमार . त्याच्या गुलालाचा मार । आमच्या वेण्या झाल्या लाल । - मसाप २ . ३० . ३ ( ल . ) हल्ला ; गर्दी ; कहर . ते तसें बोलतात , हे असें बोलतात . एकूण मला दोहोंकडून मार . ४ निग्रह करणें . मनाचा हन मारु । - ज्ञा ६ . २८९ . ६ विपुलता ; कडेलोट ; रेलचेल . सालमजकुरीं अंब्यांचा मार झाला आहे . ७ एखाद्या गोष्टीचा धबडगा , भारी प्रमाण . त्या विहिरीवर सगळे गांवाचा आठ दिवस मार पडतांच आटली . ८ क्रियेचा झपाटा , अतिरेक , निष्काळजीपणा दाखविणार्‍या भाषणसंप्रदायांत प्रकषार्थी व पादपूरणार्थी , योजतात . उदा० मार पगडी फेंकून , मार डौलानें चालतो . ९ न्यूनाधिक असणारें जमीनीचें माप . जसें - विठ्ठलपंती - रायरी - सुलतानी - मार . [ मारणें ] ( वाप्र . ) 
  • ०देणें १ जिंकणें . २ एखाद्यास चोपणें , ठोकणें . 
More meanings
RANDOM WORD

Did you know?

If the rituals after the death are not performed what are the consequences?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site