TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय १२

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय १२
भक्तियोगनिष्ठानां प्राप्यभूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुशाइश्वर्यं साक्षात्कर्तुकामायार्जुनाय अनवधिकातिशयकारुण्याउदार्यसौशील्यादिगुणसागरेण सत्यसंकल्पेन भगवता स्वाइश्वर्यं यथावदवस्थितं दर्शितम्; उक्तं च तत्त्वतो भगवज्ज्ञानदर्शनप्राप्तीनां ऐकान्तिकात्यन्तिकभगवद्भक्त्येकलभ्यत्वं । अननतरं आत्मप्राप्तिसाधनभूतादत्मोपासनाद्भक्तिरूपस्य भगवदुपासनस्य स्वसाध्यनिष्पादने शैघ्र्यात्सुसुखोपादानत्वाच्च श्रैष्ठ्यम्, भगवदुपासनोपायश्च, तदशक्तस्याक्षरनिष्ठता, तदपेक्षिताश्चोच्यन्ते । भगवदुपासनस्य प्राप्यभूतोपास्यश्रैष्ठ्याच्श्रैष्ठ्यं तु, "योगिनां अपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥१२." इत्यत्रोक्तम् ।

 एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते  ।
 ये चाप्यक्षरं अव्यक्तं तेषां के योगवित्तमाः  ॥भगवद्गीता १२.१॥

एवम् "मत्कर्मकृत्" इत्यादिनोक्तेन प्रकारेण, सततयुक्ताः भगवन्तं त्वां एव परं प्राप्यं मन्वानाः ये भक्ताः, त्वां सकलविभूतियुक्तं अनवधिकातिशयसौन्दर्यसौशील्यसार्वज्ञ्यसत्यसंकल्पत्वाद्यनन्तगुणसागरं परिपूर्णं उपासते, ये चाप्यक्षरं प्रत्यगात्मस्वरूपं तदेव च अव्यक्तं चक्षुरादिकरणानभिव्यक्तस्वरूपं उपासते; तेषां उभयेषां के योगवित्तमाः  के स्वसाध्यं प्रति शीघ्रगामिन इत्यर्थः, "भवामि न चिरात्पार्थ" इति उत्तरत्र योगवित्तमत्वं शैघ्र्यविषयं इति हि व्यञ्जयिष्यते ॥१२.१॥

 श्रीभगवानुवाच
 मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते  ।
 श्रद्धया परयोपेतास्ते मे युक्ततमाः मताः  ॥भगवद्गीता १२.२॥

अत्यर्थमत्प्रियत्वेन मनो मय्यावेश्य श्रद्धया परयोपेताः नित्ययुक्ताः नित्ययोगं काङ्क्षमाणाः ये मां उपासते  प्राप्यविषयं मनो मय्यावेश्य ये मां उपासत इत्यर्थः  ते युक्ततमाः  मां सुखेनाचिरात्प्राप्नुवन्तीत्यर्थः ॥१२.२॥

 ये त्वक्षरं अनिर्देश्यं अव्यक्तं पर्युपासते  ।
 सर्वत्रगं अचिन्त्यं च कूटस्थं अचलं ध्रुवम् ॥भगवद्गीता १२.३॥
 सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः  ।
 ते प्राप्नुवन्ति मां एव सर्वभूतहिते रताः  ॥भगवद्गीता १२.४॥
 क्लेशोऽधिकतरस्तेषां अव्यक्तासक्तचेतसाम् ।
 अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते  ॥भगवद्गीता १२.५॥

ये तु अक्षरं प्रत्यगात्मस्वरूपम्, अनिर्देश्यं देहादन्यतया देवादिशब्दानिर्देश्यं तत एव चक्षुरादिकरणानभिव्यक्तम्, सर्वत्रगं अचिन्त्यं च  सर्वत्र देवादिदेहेषु वर्तमानं अपि तद्विसजातीयतया तेन तेन रूपेण चिन्तयितुं अनर्हम्, तत एव कूटस्थं सर्वसाधारणम् तत्तद्देवाद्यसाधारणाकारासंबद्धं इत्यर्थः  अपरिणामित्वेन स्वासाधारणाकारान्न चलति न च्यवत इत्यचलम्, तत एव ध्रुवम्, नित्यं । सन्नियाम्येन्द्रियग्रामं चक्षुरादिकं इन्द्रियग्रामं सर्वं स्वव्यापारेभ्यस्सम्यङ्नियम्य, सर्वत्र समबुद्धयः सर्वत्र देवादिविषमाकारेषु देहेष्ववस्थितेष्वात्मसु ज्ञानैकाकारतया समबुद्धयः, तत एव सर्वभूतहिते रताः सर्वभूताहितरहितत्वान्निवृत्ताः । सर्वभूताहितरहितत्वं ह्यात्मनो देवादिविषमाकाराभिमाननिमित्तं । य एवं अक्षरं उपासते, तेऽपि मां प्राप्नुवन्त्येव  मत्समानाकारं असंसारिणं आत्मानं प्राप्नुवन्त्येवेत्यर्थः । "मम साधर्म्यं आगताः" इति हि वक्ष्यते । श्रूयते च, "निरञ्जनः परमं साम्यं उपैति" इति । तथा अक्षरशब्दनिर्दिष्टात्कूटस्थादन्यत्वं परस्य ब्रह्मणो वक्ष्यते, "कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः" इति । "अथ परा यया तदक्षरं अधिक्गम्यते" इत्यक्षरविद्यायां तु अक्षरशब्दनिर्दिष्टं परं एव ब्रह्म, भूतयोनित्वादेः ।तेषां अव्यक्तासक्तचेतसां क्लेशस्त्वधिकतरः । अव्यक्ता हि गतिः अव्यक्तविषया मनोवृत्तिः देहवद्भिः देहात्माभिमानयुक्तैः दुःखेनावाप्यते । देहवन्तो हि देहं एव आत्मानं
मन्यन्ते ॥१२.३,४,५॥

भगवन्तं उपासीनानां युक्ततमत्वं सुव्यक्तं आह

 ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः  ।
 अनन्येनैव योगेन मां ध्यायन्त उपासते  ॥भगवद्गीता १२.६॥
 तेषां अहं समुद्धर्ता मृत्युसंसारसागरात् ।
 भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥भगवद्गीता १२.७॥

ये तु लौकिकानि देहयात्राशेषभूतानि, देहधारणार्थानि च अशनादीनि कर्माणि, वैदिकानि च यगदानहोमतपःप्रभृतीनि सर्वाणि सकारणानि सोद्देश्यानि अध्यात्मचेतसा मयि संन्यस्य, मत्पराः मदेकप्राप्याः, अनन्येनैव योगेन अनन्यप्रयोजनेन योगेन मां ध्यायन्त उपासते ध्यानार्चनप्रणामस्तुतिकीर्तनादीनि स्वयं एवात्यर्थप्रियाणि प्राप्यसमानि कुर्वन्तो मां उपासत इत्यर्थः । तेषां मत्प्राप्तिविरोधितया मृत्युभूतात्संसाराख्यात्सागरादहं अचिरेणैव कालेन समुद्धर्ता भवामि ॥१२.६,७॥

 मय्येव मन आधत्स्व मयि बुद्धिं निवेशय  ।
 निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः  ॥भगवद्गीता १२.८॥

अतोऽतिशयितपुरुषार्थत्वात्सुलभत्वादचिरलभ्यत्वाच्च मय्येव मन आधत्स्व मयि मनस्समाधानं कुरु । मयि बुद्धिं निवेशय अहं एव परमप्राप्य इत्यध्यवसायं कुरु । अत ऊर्ध्वं मय्येव निवसिष्यसि । अहं एव परमप्राप्य इत्यध्यवसायपूर्वकमनोनिवेशनानन्तरं एव मयि निवसिष्यसीत्यर्थः ॥१२.८॥

 अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
 अभ्यासयोगेन ततो मां इच्छाप्तुं धनञ्जय  ॥भगवद्गीता १२.९॥

अथ सहसैव मयि स्थिरं चित्तं समाधातुं न शक्नोषि, ततोऽभ्यासयोगेन मां आप्तुं इच्छ स्वाभाविकानवधिकातिशयसौन्दर्यसौशील्यसौहार्दवात्सल्यकारुण्यमाधुर्यगाम्भीर्याउदार्यशैर्यवीर्यपराक्रमसार्वज्ञ्यसत्यकामत्वसत्यसंकल्पत्वसर्वेश्वरत्वसकलकारणत्वाद्यसंख्येयगुणसागरे निखिलहेयप्रत्यनीके मयि निरतिशयप्रेमगर्भस्मृत्यभ्यासयोगेन स्थिरं चित्तसमाधानं लब्ध्वा मां प्राप्तुं इच्छ ॥१२.९॥

 अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव  ।
 मदर्थं अपि कर्माणि कुर्वन्सिद्धिं अवाप्स्यसि  ॥भगवद्गीता १२.१०॥

अथैवंविधस्मृत्यभ्यासेऽप्यसमर्थोऽसि, मत्कर्मपरमो भव । मदीयानि कर्माण्यालयनिर्माणोद्योनकरणप्रदीपारोपणमार्जनाभ्युक्षणोपलेपनपुष्पाहरणपूजाप्रवर्तननामसंकीर्तनप्रदक्षिणस्तुतिनमस्कारादीनि; तानि अत्यर्थप्रियत्वेनाचर । अत्यर्थप्रियत्वेन मदर्थं कर्माणि कुर्वन्नपि अचिरादभ्यासयोगपूर्विकां मयि स्थिरां चित्तस्थितिं लब्ध्वा मत्प्राप्तिरूपां सिद्धिं अवाप्स्यसि ॥१२.१०॥

 अथैतदप्यशक्तोऽसि कर्तुं मद्योगं आश्रितः  ।
 सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥भगवद्गीता १२.११॥

अथ मद्योगं आश्रित्यैतदपि कर्तुं न शक्नोषि  मद्गुणानुसन्धानकृतमदेकप्रियत्वाकारं भक्तियोगं आश्रित्य भक्तियोगाङ्कुररूपं एतन्मत्कर्मापि कर्तुं न शक्नोषि, ततोऽक्षरयोगं आत्मस्वभावानुसन्धानरूपं परभक्तिजननं पूर्वषट्कोदितं आश्रित्य तदुपायतया सर्वकर्मफलत्यागं कुरु । मत्प्रियत्वेन मदेकप्राप्यताबुद्धिर्हि प्रक्षीणाशेषपापस्यैव जायते । यतात्मवान्यतमनस्कः । ततोऽनभिसंहितफलेन मदाराधनरूपेणानुष्ठितेन कर्मणा सिद्धेनात्मध्यानेन निवृत्ताविद्यादिसर्वतिरोधाने मच्छेषतैकस्वरूपे प्रत्यगात्मनि साक्षात्कृते सति मयि परा भक्तिः स्वयं एवोत्पद्यते । तथा च वक्ष्यते, "स्वकर्मणा तं अभ्यर्च्य सिद्धिं विन्दति मानवः" इत्यारभ्य, "विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कलपते । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्" इति ॥१२.११॥

 श्रेयो हि ज्ञानं अभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते  ।
 ध्यानात्कर्मफलत्यागः त्यागाच्छान्तिरनन्तरम् ॥भगवद्गीता १२.१२॥

अत्यर्थप्रीतिविरहितात्कर्कशरूपात्स्मृत्यभ्यासादक्षरयाथात्म्यानुसन्धानपूर्वकं तदापरोक्ष्यज्ञानं एव आत्महितत्वेन विशिष्यते । आत्मापरोक्ष्यज्ञानादप्यनिष्पन्नरूपात्तदुपायभूतात्मध्यानं एवात्महितत्वे विशिष्यते । तद्ध्यानादप्यनिष्पन्नरूपात्तदुपायभूतं फलत्यागेनानुष्ठितं कर्मैव विशिष्यते । अनभिसंहितफलादनुष्ठितात्कर्मणोऽनन्तरं एव निरस्तपापतया मनसश्शान्तिर्भविष्यति; शान्ते मनसि आत्मध्यानं संपत्स्यते; ध्यानाच्च तदापरोक्ष्यम्; तदापरोक्ष्यात्परा भक्तिः  इति भक्तियोगाभ्यासाशक्तस्यात्मनिष्ठैव श्रेयसी । आत्मनिष्ठस्यापि अशान्तमनसो निष्ठाप्राप्तये अन्तर्गतात्मज्ञानानभिसंहितफलकर्मनिष्ठैव श्रेयसीत्यर्थः ॥१२.१२॥

अनभिसंहितफलकर्मनिष्ठस्योपादेयान्गुणानाह

 अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च  ।
 निर्ममो निरहङ्कारः समदुःखसुखः क्षमी  ॥भगवद्गीता १२.१३॥
 सन्तुष्टस्सततं योगी यतात्मा दृढनिश्चयः  ।
 मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः  ॥भगवद्गीता १२.१४॥

अद्वेष्टा सर्वभूतानाम् विद्विषतां अपकुर्वतां अपि सर्वेषां भूतानां अद्वेष्टा  मदपराधानुगुणं ईश्वरप्रेरितान्येतानि भूतानि द्विषन्त्यपकुर्वन्ति चेत्यनुसन्दधानः; तेषु द्विषत्सु अप्कुर्वत्सु च सर्वभूतेषु मैत्रीं मतिं कुर्वन्मैत्रः, तेष्वेव दुःखितेषु करुणां कुर्वन्करुणः, निर्ममः देहेन्द्रियेषु तत्संबन्धिषु च निर्ममः, निरहङ्कारः देहात्माभिमानरहितः, तत एव समदुःखसुखः सुखदुःखागमयोः साङ्कल्पिकयोः हर्षोद्वेगरहितः, क्षमी स्पर्शप्रभवयोरवर्जनीययोरपि तयोर्विकाररहितः, संतुष्टः यदृच्छोपनतेन येन केनापि देहधारणद्रव्येण संतुष्टः, सततं योगी सततं प्रकृतिवियुक्तात्मानुसन्धानपरः, यतात्मा नियमितमनोवृत्तिः, दृढनिश्चयः अध्यात्मशास्त्रोदितेष्वर्थेषु दृढनिश्चयः, मय्यर्पितमनोबुद्धिः भगवान्वासेदेव एवानभिसंहितफलेनानुष्ठितेन कर्मणा आराध्यते, आराधितश्च मम आत्मापरोक्ष्यं साधयिष्यतीति मय्यर्पितमनोबुद्धिः, य एवंभूतो मद्भक्तः  एवं कर्मयोगेन मां भजमानो यः, स मे प्रियः ॥१२.१३॥१४ ॥

 यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः  ।
 हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः  ॥भगवद्गीता १२.१५॥

यस्मात्कर्मनिष्ठात्पुरुषान्निमित्तभूताल्लोको नोद्विजते  यो लोकोद्वेगकरं कर्म किञ्चिदपि न करोतीत्यर्थः । लोकाच्च निमित्तभूताद्यो नोद्विजते  यं उद्दिश्य सर्वलोको नोद्वेगकरं कर्म करोति; सर्वाविरोधित्वनिश्चयात् । अत एव कञ्चन प्रति हर्षेण, कञ्चन प्रति अमर्षेण, कञ्चन प्रति भयेन, कञ्चन प्रति उद्वेगेन मुक्तह्; एवंभूतो यः, सोऽपि मम प्रियः ॥१२.१५॥

 अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः  ।
 सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः  ॥भगवद्गीता १२.१६॥

अनपेक्षः आत्मव्यतिरिक्ते कृत्स्ने वस्तुन्यनपेक्षः, शुचिः शास्त्रविहितद्रव्यवर्धितकायः, दक्षः  शास्त्रीयक्रियोपादानसमर्थः, अन्यत्रोदासीनः, गनव्यथः शास्त्रीयक्रियानिर्वृत्तौ अवर्जनीयशीतोष्णपुरुषस्पर्शादिदुःखेषु व्यथारहितः, सर्वारम्भपरित्यागी शास्त्रीयव्यतिरिक्तसर्वकर्मारम्भपरित्यागी, य एवंभूतो मद्भक्तः, स मे प्रियः ॥१२.१६॥

 यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति  ।
 शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः  ॥भगवद्गीता १२.१७॥

यो न हृष्यति  यन्मनुष्याणां हर्षनिमित्तं प्रियजातम्, तत्प्राप्य यः कर्मयोगी न हृष्यति; यच्चाप्रियम्, तत्प्राप्य न द्वेष्टि; यच्च मनुष्याणां शोकनिमित्तं भार्यापुत्रवित्तक्षयादिकम्, तत्प्राप्य न शोचति; तथाविधं अप्राप्तं च न काङ्क्षति; शुभाशुभपरित्यागी पापवत्पुण्यस्यापि बन्धहेतुत्वाविशेषादुभयपरित्यागी । य एवंभूतो भक्तिमान्, स मे प्रियः ॥१२.१७॥

 समश्शत्रौ च मित्रे च तथा मानावमानयोः  ।
 शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः  ॥भगवद्गीता १२.१८॥
 तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् ।
 अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः  ॥भगवद्गीता १२.१९॥

"अद्वेष्टा सर्वभूतानाम्" इत्यादिना शत्रुमित्रादिषु द्वेषादिरहितत्वं उक्तम्; अत्र तेषु सन्निहितेष्वपि समचित्तत्वं ततोऽप्यतिरिक्तो विशेष उच्यते । आत्मनि स्थिरमतित्वेन निकेतनादिष्वसक्त इत्यनिकेतः; तत एव मानावमानादिष्वपि समः; य एवंभूतो भक्तिमान्, स मे प्रियः ॥१२.१८॥१९ ॥

अस्मादात्मनिष्ठाद्भक्तियोगनिष्ठस्य श्रैष्ठ्यं प्रतिपादयन्यथोपक्रमं उपसंहरति

 ये तु धर्म्यामृतं इदं यथोक्तं पर्युपासते  ।
 श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः  ॥भगवद्गीता १२.२०॥

धर्म्यं चामृतं चेति धर्म्यामृतम्, ये तु प्राप्यसमं प्रापकं भक्तियोगम्, यथोक्तम् "मय्यावेश्य मनो ये माम्"इत्यादिनोक्तेन प्रकारेण उपासते; ते भक्ताः अतितरां मम प्रियाः ॥१२.२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.7170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

remote sensing

  • Zool. दूरस्थ संवेदन 
RANDOM WORD

Did you know?

Are the advertisements necessary on your pages?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site