TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय १०

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय १०
भक्तियोगः सपरिकर उक्तः । इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भ्गवतो निरङ्कुशाइश्वर्यादिकल्याणगुणगणानन्त्यम्, कृत्स्नस्य जगतस्तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपञ्च्यते

श्रीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वचः  ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया  ॥भगवद्गीता १.१०१॥

मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्भक्त्युत्पत्तिविवृद्धिरूपहितकामनया भूयो मन्माहात्म्यप्रपञ्चविषयं एव परमं वचो यद्वक्ष्यामि; तदवहितमनाश्शृणु ॥१.१०१॥

न मे विदुः सुरगणाः प्रभवं न महर्षयः  ।
अहं आदिर्हि देवानां महर्षीणां च सर्वशः  ॥भगवद्गीता १.१०२॥

सुरगणा महर्षयश्चातीन्द्रियार्थदर्शिनोऽधिकतरज्ञाना अपि मे प्रभवं प्रभावं न विदुः मम नामकर्मस्वरूपस्वभावादिकं न जानन्ति; यतस्तेषां देवानां महर्षीणां च सर्वशोऽहं आदिः तेषां स्वरूपस्य ज्ञानशक्त्यादेश्चाहं आदिः; तेषां देवत्वमहर्षित्वादिहेतुभूतपुण्यानुगुणं मया दत्तं ज्ञानं परिमितम्; अतस्ते परिमितज्ञाना मत्स्वरूपादिकं यथावन्न जानन्ति ॥१.१०२॥

तदेतद्देवाद्यचिन्त्यस्वयाथात्म्यविषयज्ञानं भक्त्युत्पत्तिविरोधिपापविमोचनोपायं आह

यो मां अजं अनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढस्स मर्त्येषु सर्वपापैः प्रमुच्यते  ॥भगवद्गीता १.१०३॥

न जायत इत्यजः, अनेन विकारिद्रव्यादचेतनात्तत्संसृष्टात्संसारिचेतनाच्च विसजातीयत्वं उक्तं । संसारिचेतनस्य हि कर्मकृताचित्संसर्गो जन्म । अनादिं इत्यनेन पदेन आदिमतोऽजान्मुक्तात्मनो विसजातीयत्वं उक्तं । मुक्तात्मनो ह्यजत्वं आदिमत्; तस्य हेयसंबन्धस्य पूर्ववृत्तत्वात्तदर्हतास्ति । अतोऽनादिं इत्यनेन तदनर्हतया तत्प्रत्यनीकतोच्यते; "निरवद्यम्" इत्यादिश्रुत्या च । एवं हेयसंबन्धप्रत्यनीकस्वरूपतया तदनर्हं मां लोकमहेश्वरं लोकेश्वराणां अपीश्वरं मर्त्येष्वसंमूढो यो वेत्ति; इतरसजातीयतयैकीकृत्य मोहः संमोहः, तद्रहितोऽसंमूढः स मद्भक्त्युत्पत्तिविरोधिभिस्सर्वैः पापैः प्रमुच्यते । एतदुक्तं भवति  लोके मनुष्याणां राजा इतरमनुष्यसजातीयः केनचित्कर्मणा तदाधिपत्यं प्राप्तः; तथा देवानां अधिपतिरपि; तथाण्डाधिपतिरपीतरसंसारिसजातीयः; तस्यापि भावनात्रयान्तर्गतत्वात् । "यो ब्रह्माणं विदधाति" इति श्रुतेश्च । तथान्येऽपि ये केचनाणिमाद्यैश्वर्यं प्राप्ताः । अयं तु लोकमहेश्वरः कार्यकारणावस्थादचेतनाद्बद्धान्मुक्ताच्च चेतनादिशितव्यात्सर्वस्मान्निखिलहेयप्रत्यनीकानवधिकातिशयासंख्येयकल्याणगुणैकतानतया नियमनैकस्वभावतया च विसजातीय इतीत्रसजातीयतामोहरहितो यो मां वेत्ति, स सर्वैः पापैः प्रमुच्यते इति ॥१.१०३॥

एवं स्वस्वभावानुसन्धानेन भक्त्युत्पत्तिविरोधिपापनिरसनम्, विरोधिनिरसना देवार्थतो भक्त्युत्पत्तिं च प्रतिपाद्य स्वाइश्वर्यस्वकल्याणगुणगणप्रपञ्चानुसन्धानेन भक्तिविवृद्धिप्रकारं आह

बुद्धिर्ज्ञानं असंमोहः क्षमा सत्यं दमः शमः  ।
सुखं दुःखं भवोऽभावो भयं चाभयं एव च  ॥भगवद्गीता १.१०४॥
अहिंसा समता तुष्ठिस्तपो दानं यशोऽयशः  ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः  ॥भगवद्गीता १.१०५॥

बुद्धिः मनसो निरूपणसामर्थ्यम्, ज्ञानं चिदचिद्वस्तुविशेषविषयो निश्चयः, असंमोहः पूर्वगृहीताद्रजतादेर्विसजातीये शुक्तिकादिवस्तुनि सजातीयताबुद्धिनिवृत्तिः; क्षमा मनोविकारहेतौ सत्यप्यविकृतमनस्त्वम्; सत्यं यथादृष्टविषयं भूतहितरूपं वचनं । तदनुगुणा मनोवृत्तिरिहाभिप्रेता, मनोवृत्तिप्रकरणात् । दमः बाह्यकरणानां अनर्थविषयेभ्यो नियमनम्; शमः अन्तःकरणस्य तथा नियमनम्; सुखं आत्मानुकूलानुभवः; दुःखं प्रतिकूलानुभवः; भवः भवनम्; अनुकूलानुभवहेतुकं मनसो भवनम्; अभावः प्रतिकूलानुभवहेतुको मनसोऽवसादः; भयं आगामिनो दुःखस्य हेतुदर्शनजं दुःखम्; तन्निवृत्तिः अभयम्; अहिंसा परदुःखाहेतुत्वम्; समता आत्मनि सुकृत्सु विपक्षेषु चार्थानर्थयोस्सममतित्वम्; तुष्टिः सर्वेष्वात्मसु दृष्टेषु तोषस्वभावत्वम्; तपः शास्त्रीयो भोगसङ्कोचरूपः कायक्लेशः; दानं स्वकीयभोग्यानं परस्मै प्रतिपादनम्; यशः गुणवत्ताप्रथा; अयशः नैर्गुण्यप्रथा । एतच्चोभयं तदनुगुणमनोवृत्तिद्वयं मन्तव्यम्, तत्प्रकरणात् । तपोदाने च तथा । एवं आद्याः सर्वेषां भूतानां भावाः प्रवृत्तिनिवृत्तिहेतवो मनोवृत्तयो मत्त एव मत्सङ्कल्पायत्ता भवन्ति ॥१.१०४,५॥

सर्वस्य भूतजातस्य सृष्टिस्थित्योः प्रवर्तयितारश्च मत्संकल्पायत्तप्रवृत्तय इत्याह

महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा  ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः  ॥भगवद्गीता १.१०६॥

पूर्वे सप्त महर्षयः अतीतमन्वन्तरे ये भृग्वादयस्सप्त महर्षयो नित्यसृष्टिप्रवर्तनाय ब्रह्मणो मनस्संभवाः, नित्यस्थितिप्रवर्तनाय ये च सार्वणिका नाम चत्वारो मनवः स्थिताः, येषां सन्तानमये लोके जाता इमाः सर्वाः प्रजाः प्रतिक्षणं आप्रलयादपत्यानां उत्पादकाः पालकाश्च भवन्ति ते भृग्वादयो मनवश्च मद्भावाः मम यो भावः स एव येषां भावः ते मद्भावाः, मन्मते स्थिताः, मत्सङ्कल्पा१नुवर्तिन इत्यर्थः ॥१.१०६॥

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः  ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः  ॥भगवद्गीता १.१०७॥

विभूतिः ऐश्वर्यं । एतां सर्वस्य मदायत्तोत्पत्तिस्थितिप्रवृत्तितारूपां विभूतिम्, मम हेयप्रत्यनीककल्याणगुणगणरूपं योगं च यस्तत्त्वतो वेत्ति, सोऽविकम्पेन अप्रकम्प्येन भक्तियोगेन युज्यते । नात्र संशयः । मद्विभूतिविषयं कल्याणगुणविषयं च ज्ञानं भक्तियोगवर्धनं इति स्वयं एव द्रक्ष्यसीत्यभिप्रायः ॥१.१०७॥

विभूतिज्ञानविपाकरूपां भक्तिवृद्धिं दर्शयति
अहं, सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते  ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः  ॥भगवद्गीता १.१०८॥

अहं, सर्वस्य विचित्रचिदचित्प्रपञ्चस्य प्रभवः उत्पत्तिकारणम्, सर्वं मत्त एव प्रवर्तते इतीदं मम स्वाभाविकं निरंकुशाइश्वर्यं, सौशील्यसौन्दर्यवात्सल्यादिकल्याणगुणगणयोगं च मत्वा बुधा ज्ञानिनः भावसमन्विताः मां सर्वकल्याणगुणान्वितं भजन्ते । भावः मनोवृत्तिविशेषः । मयि स्पृहयालवो मां भजन्त इत्यर्थः ॥१.१०८॥

कथम्?

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च  ॥भगवद्गीता १.१०९॥

मच्चित्ताः मयि निविष्टमनसः, मद्गतप्राणाः मद्गतजीविताः, मया विनात्मधारणं अलभमाना इत्यर्थः; स्वैः स्वैरनुभूतान्मदीयान्गुणान्परस्परं बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तः तुष्यन्ति च रमन्ति च  वक्तारस्तद्वचनेनानन्यप्रयोजनेन तुष्यन्ति; श्रोतारश्च तच्छ्रवणेनानवधिकातिशयप्रियेण रमन्ते ॥१.१०९॥

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मां उपयान्ति ते  ॥भगवद्गीता १.१०१०॥

तेषां सततयुक्तानां मयि सततयोगं आशंसमानानां मां भजमानानां अहं तं एव बुद्धियोगं विपाकदशापन्नं प्रीतिपूर्वकं ददामि; येन ते मां उपयान्ति ॥१.१०१० ॥

किञ् च,

तेषां एवानुकम्पार्थं अहं अज्ञानजं तमः  ।
नश्याम्यात्मभावस्थो ज्ञानदीपेन भास्वता  ॥भगवद्गीता १.१०११॥

तेषां एवानुग्रहार्थं अहम्, आत्मभावस्थः तेषां मनोवृत्तौ विषयतयावस्थितः मदीयान्कल्याणगुणगणांश्चाविष्कुर्वन्मद्विषयज्ञानाख्येन भास्वता दीपेन ज्ञानविरोधिप्राचीनकर्मरूपाज्ञानजं मद्व्यतिरिक्तपूर्वाभ्यस्तविषयप्रावण्यरूपं तमो नाशयामि ॥१.१०११॥

अर्जुन उवाच

एवं सकलेतरविसजातीयं भगवदसाधारणं शृण्वतां निरतिशयानन्दजनकं कल्याणगुणगणयोगं तदैश्वर्यविततिं च श्रुत्वा तद्विस्तारं श्रोतुकामोऽर्जुन उवाच

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।

परं ब्रह्म परं धाम परमं पवित्रं इति यं श्रुतयो वदन्ति, स हि भवान् । "यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्मेति", "ब्रह्मविदाप्नोति परम्", "स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति" इति । तथा परं धाम; धामशब्दो ज्योतिर्वचनः; परं ज्योतिः "अथ यदतः परो दिवो ज्योतिर्दीप्यते", "परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते", "तं देवा ज्योतिषां ज्योतिः" इति । तथा च परमं पवित्रं परमं पावनम्; स्मर्तुरशेषकल्मषाश्लेषकरम्, विनाशकरं च । "यथा पुष्करपलाश आपो न श्लिष्यन्ते एवं एवंविदि पापं कर्म न श्लिष्यते", "तद्यथेषीकातूलं अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते", "नारायण परं ब्रह्म तत्त्वं नगरायणः परः । नारायण परो ज्योतिरात्मा नारायणः परः" इति हि श्रुतयो वदन्ति  ॥भगवद्गीता १.१०१२अब् ॥

पुरुषं शाश्वतं दिव्यं आदिदेवं अजं विभुं ॥१.१०१२॥
आहुस्त्वां ऋषयः सर्वे देवर्षिर्नारदस्तथा  ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे  ॥भगवद्गीता १.१०१३॥

ऋषयश्च सर्वे परावरतत्त्वयाथात्म्यविदस्त्वां एव शाश्वतं दिव्यं पुरुषं आदिदेवं अजं विभुं आहुः; तथैव देवर्षिर्नारदः असितः देवलः व्यासश्च । "ये च देवविदो विप्रो ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनं ॥पविताणां हि गोविन्दः पवित्रं परं उच्यते । पुण्यानां अपि पुण्योऽसौ मङ्गलानां च मङ्गलं । त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः । आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥१.", "एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः  । नागपर्यङ्कं उत्सृज्य ह्यागतो मधुरां पुरीं ॥१.", "पुण्या द्वारवती तत्र यत्रास्ते मधुसूदहः  । साक्षाद्देवः पुराणोऽसौ स हि धर्मस्सनातनः" । तथा, "यत्र नारायणो देवः परमात्मा सनातनः । तत्र कृत्स्नं जगत्पार्थ  तीर्थान्यायतनानि च ॥तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनं । तत्र देवर्षयस्सिद्धाः सर्वे चैव तपोधनाः ॥आदिदेवो महायोगी यत्रास्ते मधुसूदनः । पुण्यानां अपि तत्पुण्यं मा भूत्ते संशयोऽत्र वै ॥१.", "कृष्ण एव हि लोकानां उत्पत्तिरपि चाप्ययः  । कृष्णस्य हि कृते भूतं इदं विश्वं चराचरं ॥१." इति  । तथा स्वयं एव ब्रवीषि च, "भूमिरपोऽनलो वायुः खं मनो बुधिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥१." इत्यादिना, "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इत्यन्तेन ॥१०१२,१३ ॥

सर्वं एतदृतं मन्ये यन्मां वदसि केशव  ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः  ॥भगवद्गीता १.१०१४॥

अतः सर्वं एतद्यथावस्थितवस्तुकथनं मन्ये, न प्रशंसाद्यभिप्रायम्; यन्मां प्रति अनन्यसाधारणं अनवधिकातिशयं स्वाभाविकं तवाइश्वर्यं कल्याणगुणानन्त्यं च वदसि । अतो भगवन्निरतिशयज्ञानशक्तिबलाइश्वर्यवीर्यतेजसां निधे, ते व्यक्तिं व्यञ्जनप्रकारं न हि परिमितज्ञाना देवा दानवाश्च विदुः ॥१.१०१४॥

स्वयं एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम  ।
भूतभावन भूतेश देवदेव जगत्पते  ॥भगवद्गीता १.१०१५॥

हे पुरुषोत्तम, आत्मना, आत्मानं त्वां स्वयं एव स्वेन ज्ञानेनैव वेत्थ । भूतभावन; सर्वेषां भूतानां उत्पादयितः, भूतेश सर्वेषां नियन्तः, देवदेव दैवतानां अपि परमदैवत, यथा मनुष्यमृगपक्षिसरीसृपादीन्सौन्दर्यसौशील्यादिकल्याणगुणगणैर्दैवतानि अतीत्य वर्तन्ते, तथा तानि सर्वाणि दैवतान्यपि तैस्तैर्गुणैसतीत्य वर्तमान, जगत्पते जगत्स्वामिन् ॥ १.१०१५॥

वक्तुं अर्हस्यशेषेण दिव्या ह्यात्मविभूतयः  ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि  ॥भगवद्गीता १.१०१६॥

दिव्याः त्वदसाधारण्यो विभूतयो याः, तास्त्वं एवाशेषेण वक्तुं अर्हसि । त्वं एव व्यञ्जयेत्यर्थः । याभिरनन्ताभिर्विभूतिभिः  यैर्नियमनविशेषैर्युक्तः इमान्लोकान्त्वं नियन्तृत्वेन व्याप्य तिष्ठसि ॥१.१०१६॥

कथं विद्यां अहं योगी त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया  ॥भगवद्गीता १.१०१७॥

अहं योगी  भक्तियोगनिष्ठस्सन्भक्त्या त्वां सदा परिचिन्तयन्चिन्तयितुं प्रवृत्तः चिन्तनीयं त्वां परिपूर्णाइश्वर्यादिकल्याणगुणगणं कथं विद्याम्? पूर्वोक्तबुद्धिज्ञानादिभावव्यतिरिक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्योऽसि? ॥१.१०१७॥

विस्तरेणात्मनो योगं विभूतिं च जनार्दन  ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥भगवद्गीता १.१०१८॥

"अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इति संक्षेपेणोक्तं तव स्रष्टृत्वादियोगं विभूतिं नियमनं च भूयो विस्तरेण कथय । त्वयोच्यमानं त्वन्माहात्म्यामृतं शृण्वतो मे तृप्तिर्नास्ति; हि  ममातृप्तिस्त्वयैव विदितेत्यभिप्रायः ॥१.१०१८॥

श्रीभगवानुवाच
हन्त ते कथयिष्यामि विभूतीरात्मनश्शुभाः  ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे  ॥भगवद्गीता १.१०१९॥

हे कुरुश्रेष्ठ! मदीयाः कल्याणीर्विभूतीः प्राधान्यतस्ते कथयिष्यामि । प्राधन्यशब्देन उत्कर्षो विवक्षितः; "पुरोधसां च मुख्यं माम्" इति हि वक्ष्यते । जगत्युत्कृष्टाः काश्चन विभूतीर्वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासां आनन्त्यात् । विभूतित्वं नाम नियाम्यत्वम्; सर्वेषां भूतानां बुद्ध्यादयः पृथग्विधा भावा मत्त एव भवन्तीत्युक्त्वा, "एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः" इति प्रतिपादनात् । तथा तत्र योगशब्दनिर्दिष्टं स्रष्टृत्वादिकं विभुतिशब्दनिर्दिष्टं तत्प्रवर्त्यत्वं इति ह्युक्तं पुनश्च, "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः" इति ॥१.१०१९॥

तत्र सर्वभूतानां प्रवर्तनरूपं नियमनं आत्मतयावस्थायेतीमं अर्थम्, योगशब्दनिर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं चेति सुस्पष्टं आह

अहं आत्मा गुडाकेश सर्वभूताशयस्थितः  ।
अहं आदिश्च मध्यं च भूतानां अन्त एव च  ॥भगवद्गीता १.१०२०॥

सर्वेषां भूतानां मम शरीरभूतानां आशये हृदये अहं आत्मतयावस्थितः । आत्मा हि नाम शरीरस्य सर्वात्मना आधारः, नियन्ता, शेषी च । तथा वक्ष्यते, "सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानं अपोहनं च", "ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥१." इति  । श्रूयते च, "यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुः, यस्य सर्वाणि भूतानि शरीरं यस्सर्वाणि भूतान्यन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः" इति, "य आत्मनि तिष्ठनात्मनोऽन्तरो यं आत्मा न वेद यस्यात्मा शरीरं य आत्मानं अन्तरो यमयति, स त आत्मान्तर्याम्यमृतः" इति च । एवं सर्वभूतानां आत्मतयावस्थितोऽहं तेषां आदिर्मध्यं चान्तश्च  तेषां उत्पत्तिस्थितिप्रलयहेतुरित्यर्थः ॥१.१०२०॥

एवं भगवतः स्वविभूतिभूतेषु सर्वेष्वात्मतयावस्थानं तत्तच्छब्दसामानाधिकरण्यनिर्देशहेतुं प्रतिपाद्य विभूतिविशेषान्सामानाधिकरण्येन व्यपदिशति । भगवत्यात्मतयावस्थिते हि सर्वे शब्दास्तस्मिन्नेव पर्यवस्यन्ति; यथा देवो मनुष्यः पक्षी वृक्षः इत्यादयः शब्दाः शरीराणि प्रतिपादयन्तस्तत्तदात्मनि पर्यवस्यन्ति । भगवतस्तत्तदात्मतयावस्थानं एव तत्तच्छब्दसामानाधिकरण्यनिबन्धनं इति विभूत्युपसंहारे वक्ष्यति; "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्" इति सर्वेषां स्वेनाविनाभाववचनात् । अविनाभावश्च नियाम्यतयेति; "मत्तस्सर्वं प्रवर्तते" इत्युपक्रमोदितं ।

आदित्यानां अहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतां अस्मि नक्षत्राणां अहं शशी  ॥भगवद्गीता १.१०२१॥

द्वादशसंख्यासंख्यातानां आदित्यानां द्वादशो य उत्कृष्टो विष्णुर्नामादित्यः, सोऽहं । ज्योतिषां जगति प्रकाशकानां यः अंशुमान्रविः आदित्यगणः, सोऽहं । मरुतां उत्कृष्टो मरीचिर्यः, सोऽहं अस्मि । नक्षत्राणां अहं शशी । नेयं निर्धारणे षष्ठी, "भूतानां अस्मि चेतना" इतिवत् । नक्षत्राणां पतिर्यश्चन्द्रः, सोऽहं अस्मि ॥१.१०२१॥

वेदानां सामवेदोऽस्मि देवानां अस्मि वासवः  ।
इन्द्रियाणां मनश्चास्मि भूतानां अस्मि चेतना  ॥भगवद्गीता १.१०२२॥

वेदानां ऋग्यजुस्सामाथर्वणां य उत्कृष्टः सामवेदः, सोऽहं । देवानां इन्द्रोऽहं अस्मि । एकादशानां इन्द्रियाणां यदुत्कृष्टं मन इन्द्रियम्, तदहं अस्मि । इयं अपि न निर्धारणे । भूतानां चेतनावतां या चेतना, सोऽहं अस्मि ॥१.१०२२॥

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणां अहम् ॥भगवद्गीता १.१०२३॥

रुद्राणां एकादशानां शङ्करोऽहं अस्मि । यक्षरक्षसां वैश्रवणोऽहं । वसूनां अष्टानां पावकोऽहं । शिखरिणां शिखरशोभिनां पर्वतानां मध्ये मेरुरहं ॥१.१०२३॥

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनां अहं स्कन्दः सरसां अस्मि सागरः  ॥भगवद्गीता १.१०२४॥

पुरोधसां उत्कृष्टो बृहस्पतिर्यः, सोऽहं अस्मि, सेनानीनां सेनापतीनां स्कन्दोऽहं अस्मि । सरसां सागरोऽहं अस्मि ॥१.१०२४॥

महर्षीणां भृगुरहं गिरां अस्म्येकं अक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः  ॥भगवद्गीता १.१०२५॥

महर्षीणां मरीच्यादीनां भृगुरहं । अर्थाभिधायिनः शब्दा गिरः, तासां एकं अक्षरं प्रणवोऽहं अस्मि । यज्ञानां उत्कृष्टो जपयज्ञोऽस्मि । पूर्वमात्राणां हिमवानहं ॥१.१०२५॥

अश्वत्थस्सर्ववृक्षाणां देवर्षीणां च नारदः  ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः  ॥भगवद्गीता १.१०२६॥
उच्चैश्श्रवसं अश्वानां विद्धि मां अमृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥भगवद्गीता १.१०२७॥
आयुधानां अहं वज्रं धेनूनां अस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणां अस्मि वासुकिः  ॥भगवद्गीता १.१०२८॥
अनन्तश्चास्मि नागानां वरुणो यादसां अहम् ।
पित्Qणां अर्यमा चास्मि यमः संयमतां अहम् ॥भगवद्गीता १.१०२९॥

वृक्षाणां पूज्योऽश्वत्थोऽहं । देवर्षीणं नारदोऽहं । कामधुक्दिव्या सुरभिः । जननहेतुः कन्दर्पश्चाहं अस्मि । सर्पाः एकाशिरसः; नागाः बहुशिरसः । यादांसि जलवासिनः, तेषां वरुणोऽहं । दण्डयतां वैवस्वतोऽहं ॥१.१०२६,२७,२८,२९॥

प्रह्लादश्चास्मि दैत्यानां कालः कलयतां अहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥भगवद्गीता १.१०३०॥

अनर्थप्रेप्सुतया गणयतां मध्ये कालः मृत्युरहं ॥१.१०३०॥

पवनः पवतां अस्मि रामः शस्त्रभृतां अहम् ।
झषाणां मकरश्चास्मि स्रोतसां अस्मि जाह्नवी  ॥भगवद्गीता १.१०३१॥

पवतां गमनस्वभावानां पवनोऽहं । शस्त्रभृतां रामोऽहं । शस्त्रभृत्त्वं अत्र विभूतिः, अर्थान्तराभावात् । आदित्यादयश्च क्षेत्रज्ञा आत्मत्वेनावस्थितस्य भगवतः शरीरतया धर्मभूता इति शस्त्रभृत्त्वस्थानीयाः ॥१.१०३१॥

सर्गाणां आदिरन्तश्च मध्यं चैवाहं अर्जुन  ।
अध्यात्मविद्या विद्यानां वादः प्रवदतां अहम् ॥भगवद्गीता १.१०३२॥

सृज्यन्त इति सर्गाः, तेषां आदिः कारणम्; सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारोऽहं एवेत्यर्थः । तथा अन्तः सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारोऽप्यहं एव । तथा च मध्यं पालनम्; सर्वदा पाल्यमानानां पालयितारश्चाहं एवेत्यर्थः । जल्पवितण्डादि कुर्वतां तत्त्वनिर्णयाय प्रवृत्तो वादो यः, सोऽहं ॥१.१०३२॥

अक्षराणां अकारोऽस्मि द्वन्द्वस्सामासिकस्य च  ।
अहं एव अक्षयः कालः धाताहं विश्वतोमुखः  ॥भगवद्गीता १.१०३३॥

अक्षराणां मध्ये "अकारो वै सर्वा वाक्" इति श्रुतिसिद्धिः सर्ववर्णानां प्रकृतिरकारोऽहं सामासिकः समाससमूहः; तस्य मध्ये द्वन्द्वसमासोऽहं । स ह्युभयपदार्थप्रधानत्वेनोत्कृष्टः । कलामुहूर्तादिमयोऽक्षयः कालोऽहं एव । सर्वस्य स्रष्टा हिरण्यगर्भश्चतुर्मुखोऽहं ॥१.१०३३॥

मृत्युस्सर्वहरश्चाहं उद्भवश्च भविष्यताम् ।
कीर्तिश्श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा  ॥भगवद्गीता १.१०३४॥

सर्वप्राणहरो मृत्युश्चाहं । उत्पत्स्यमानानां उद्भवाख्यं कर्म चाहं । श्रीरहम्; कीर्तिश्चाहम्; वाक्चाहम्; स्मृतिश्चाहम्; मेधा चाहम्; धृतिश्चाहम्; क्षमा चाहं ॥१.१०३४॥

बृहत्साम तथा साम्नां गायत्री छन्दसां अहम् ।
मासानां मार्गशीर्षोऽहं ऋतूनां कुसुमाकरः  ॥भगवद्गीता १.१०३५॥

साम्नां बृहत्साम अहं । छन्दसां गायत्र्यहं । कुसुमाकरः वसन्तः ॥१.१०३५॥

द्यूतं छलयतां अस्मि तेजस्तेजस्विनां अहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतां अहम् ॥भगवद्गीता १.१०३६॥

छलं कुर्वतां छलास्पदेष्वक्षादिलक्षणं द्युतं अहं । जेत्Qणां जयोऽस्मि । व्यवसायिनां व्यवसायोऽस्मि । सत्त्ववतां सत्त्वं अहं । सत्त्वं महामनस्त्वं ॥१.१०३६॥

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः  ।
मुनीनां अप्यहं व्यासः कवीनां उशना कविः  ॥भगवद्गीता १.१०३७॥

वसुदेवसूनुत्वं अत्र विभूतिः, अर्थान्तराभावादेव । पाण्डवानां धनञ्जयोऽर्जुनोऽहं । मुनयः मननेनात्मयाथात्म्यदर्शिनः; तेषां व्यासोऽहं । कवयः विपश्चितः ॥१.१०३७॥

दण्डो दमयतां अस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतां अहम् ॥भगवद्गीता १.१०३८॥

नियमातिक्रमणे दण्डं कुर्वतां दण्डोऽहं । विजिगीषूणां जयोपायभूता नीतिरस्मि । गुह्यानां संबन्धिषु गोपानेषु मौनं अस्मि । ज्ञानवतां ज्ञानं चाहं ॥१.१०३८॥

यच्चापि सर्वभूतानां बीजं तदहं अर्जुन  ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥भगवद्गीता १.१०३९॥

सर्वभूतानां सर्वावस्थावस्थितानां तत्तदवस्थाबीजभूतं प्रतीयमानं अप्रतीयमानं च यत्, तदहं एव । भूतजातं मया आत्मतयावस्थितेन विना यत्स्यात्, न तदस्ति । "अहं आत्मा गुडाकेश सर्वभूताशयस्थितः" इति प्रक्रमात्, "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्" इत्यत्राप्यात्मतयावस्थानं एव विवक्षितं । सर्वं वस्तुजातं सर्वावस्थं मया आत्मभूतेन युक्तं स्यादित्यर्थः । अनेन सर्वस्यास्य सामानाधिकरण्यनिर्देशस्यात्मतयावस्थितिरेव हेतुरिति प्रकटितं ॥१.१०३९॥

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप   ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया  ॥भगवद्गीता १.१०४०॥

मम दिव्यानां कल्याणीनां विभूतीनां अन्तो नास्ति; एष तु विभूतेर्विस्तरो मया कैश्चिदुपाधिभिः संक्षेपतः प्रोक्तः ॥१.४०॥

यद्यद्विभूतिमत्सत्त्वं श्रीमदुर्जितं एव वा  ।
तत्तदेवावगच्छ त्वं मम तेजोऽंशसंभवम् ॥भगवद्गीता १.१०४१॥

यद्यद्विभूतिमदिशितव्यसंपन्नं भूतजातं श्रीमत्कान्तिमत्, धनधान्यसमृद्धं वा, ऊर्जितं कल्याणारम्भेषु उद्युक्तम्; तत्तन्मम तेजोऽंशसंभवं इत्यवगच्छ । तेजः पराभिभवनसामर्थ्यम्, ममाचिन्त्यशक्तेर्नियमनशक्त्येकदेशसंभवतीत्यर्थः ॥१.१०४१॥

अथ वा बहुनैतेन किं ज्ञानेन तवार्जुन  ।
विष्टभ्याहं इदं कृत्स्नं एकांशेन स्थितो जगत् ॥ भगवद्गीता १.१०४२॥

बहुना एतेन उच्यमानेन ज्ञानेन किं प्रयोजनं ।इदं चिदचिदात्मकं कृत्स्नं जगत्कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूपसद्भावे, स्थितौ, प्रवृत्तिभेदे च यथा मत्सङ्कल्पं नातिवर्तेत, तथा मम महिम्नोऽयुतायुतांशेन विष्टभ्याहं अवस्थितः । यथोक्तं भगवता पराशरेण, "यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता" इति ॥१.१०४२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.6070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बांबोट

  • f  A kind of boat for shallow water. 
  • स्त्री. उथळ पाण्यात चालणारी वाफेची , बंब असणारी नांव . [ पोर्तु . बॅंबोट ] 
RANDOM WORD

Did you know?

दीप किंवा दिवा लावण्याचे कांही शास्त्र आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site