TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय १५

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय १५
क्षेत्राध्याये क्षेत्रक्षेत्रज्ञभूतयोः प्रकृतिपुरुषयोः स्वरूपं विशोध्य विशुद्धस्यापरिच्छिन्नज्ञानैकाकारस्यैव पुरुषस्य प्राकृतगुणसङ्गप्रवाहनिमित्तो देवाद्याकारपरिणतप्रकृतिसंबन्धोऽनादिरित्युक्तं । अनन्तरे चाध्याये पुरुषस्य कार्यकारणोभयावस्थप्रकृतिसंबन्धो गुणसङ्गमूलो भगवतैव कृत इत्युक्त्वा गुणसङ्गप्रकारं सविस्तरं प्रतिपाद्य गुणसङ्गनिवृत्तिपूर्वकात्मयाथात्म्यावाप्तिश्च भगवद्भक्तिमूलेत्युक्तं । इदानीं भजनीयस्य भगवतः क्षराक्षरात्मकबद्धमुक्तविभूतिमत्ताम्, विभूतिभूतात्क्षराक्षरपुरुषद्वयान्निखिलहेयप्रत्यनीककल्याणैक्तानतया अत्यन्तोत्कर्षेण विसजातीयस्य भगवतः पुरुषोत्तमत्वं च वक्तुं आरभते । तत्र तावदसङ्गरूपशस्त्रच्छिन्नबन्धां अक्षराख्यविभूतिं वक्तुं छेद्यरूपबन्धाकारेण विततं अचित्परिणामविशेषं अश्वत्थवृक्षाकारं कल्पयन्

श्रीभगवानुवाच
ऊर्ध्वमूलं अधश्शाखं अश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ भगवद्गीता १५.१॥

यं संसाराख्यं अश्वथं ऊर्ध्वमूलं अधश्शाखं अव्ययं प्राहुः श्रुतयः, "ऊर्ध्वमूलोऽवाक्छाख एषोऽश्वत्थस्सनातनः", "ऊर्ध्वमूलं अवाक्छाखं वृक्षं यो वेद संप्र्ति" इत्याद्याः । सप्तलोकोपरिनिविष्टचतुर्मुखादित्वेन तस्योर्ध्वमूलत्वं । पृथिवीनिवासिसकलनरपशुमृगक्रिमिकीटपतङ्गस्थावरान्ततया अधश्शाखत्वं । असङ्गहेतुभूताद सम्यग्ज्ञनोदयात्प्रवाहरूपेणाच्छेद्यत्वेनाव्ययत्वं । यस्य चाश्वत्थस्य छन्दांसि पर्णान्याहुः । छन्दांसि  श्रुतयः, "वायव्यं श्वेतं आलभेत भूतिकामः", "ऐन्द्राग्नं एकादश कपालं निर्वपेत्प्रजाकामः" इत्यादिश्रुतिप्रतिपादितैः काम्यकर्मभिर्वर्धतेऽयं संसारवृक्ष इति छन्दांस्येवास्य पर्णानि । पर्णैर्हि वृक्षो वर्धते । यस्तं एवंभूतं अश्वत्थं वेद, स वेदवित् । वेदो हि संसारवृक्षच्छेदोपायं वदति; छेद्यवृक्षस्वरूपज्ञानं छेदनोपायज्ञनोपयोगीति वेदविदित्युच्यते ॥१५.१॥

अधश्चोर्ध्वं च प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः  ।

तस्य मनुष्यादिशाखस्य वृक्षस्य तत्तत्कर्मकृता अपराश्च अधः शाखाः पुनरपि मनुष्यपश्वादिरूपेण प्रसृता भवन्ति; ऊर्ध्वं च गन्धर्वयक्षदेवादिरूपेण प्रसृता भवन्ति । ताश्च गुणप्रवृद्धाः गुणैः सत्त्वादिभिः प्रवृद्धाः, विषयप्रवालाः शब्दादिविषयपल्लवाः । कथं इत्यत्राह

अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके  ॥भगवद्गीता १५.२॥

ब्रह्मलोकमूलस्यास्य वृक्षस्य मनुष्याग्रस्य, अधो मनुष्यलोके मूलान्यनुसन्ततानि; तानि च कर्मानुबन्धीनि कर्माण्येवानुबन्धीनि मूलानि अधो मनुष्यलोके च भवन्तीत्यर्थः । मनुष्यत्वावस्थायां कृतैर्हि कर्मभिः अधो मनुष्यपश्वादयः, ऊर्ध्वं च देवादयो भवन्ति ॥१५.२॥

न रूपं अस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा  ।

अस्य वृक्षस्य चतुर्मुखादित्वेनोर्ध्वमूलत्वम्, तत्सन्तानपरम्परया मनुष्याग्रत्वेनाधश्शाखत्वम्, मनुष्यत्वे कृतैः कर्मभिर्मूलभूतैः पुनरप्यधश्चोर्ध्वं च प्रसृतशाखत्वं इति यथेदं रूपं निर्दिष्टम्, न तथा संसारिभिरुपलभ्यते । मनुष्योऽहं देवदत्तस्य पुत्रो यज्ञदत्तस्य पिता तदनुरूपप्रिग्रहश्चेत्येतावन्मात्रं उपलभ्यते । तथा अस्य वृक्षस्य अन्तः विनाशोऽपि गुणमयभोगेष्वसङ्गकृत इति नोपलभ्यते । तथा अस्य गुणसङ्ग एवादिरिति नोपलभ्यते । तस्य प्रतिष्ठा च अनात्मनि आत्माभिमानरूपं अज्ञानं इति नोपलभ्यते; प्रतितिष्ठत्यस्मिन्न्+एवेति ह्यज्ञानं एवास्य प्रतिष्ठा ॥१५.२॥

अश्वत्थं एनं सुविरूढमूलं असङ्गशस्त्रेण दृढेन छित्वा  ॥भगवद्गीता १५.३॥
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः  ।

एनं उक्तप्रकारं सुविरूढमूलं सुष्ठु विविधं रूढमूलं अश्वत्थं सम्यग्ज्ञानमूलेन दृढेन गुणमयभोगासंगाख्येन शस्त्रेण छित्वा, ततः विषयासंगाद्धेतोः तत्पदं परिमार्गितव्यं अन्वेषणीयम्, यस्मिन्गता भूयो न निवर्तन्ते ॥१५.३॥

कथं अनादिकालप्रवृत्तो गुणमयभोगसंगः तन्मूलं च विपरीतज्ञानं निवर्तत इत्यत आह

तं एव चाद्यं पुरुषं प्रपद्येद्यतः प्रवृत्तिः प्रसृता पुराणी  ॥भगवद्गीता १५.४॥

अज्ञानादिनिवृत्तये तं एव च आद्यं कृत्स्नस्यादिभूतम्, "मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्", "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते", "मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय" इत्यादिषूक्तं आद्यं पुरुषं एव शरणं प्रपद्येत्तं एव शरणं प्रपद्येत । यतः यस्मात्कृत्स्नस्य स्रष्टुरियं गुणमयभोगसङ्गप्रवृत्तिः, पुराणी पुरातनी प्रसृता । उक्तं हि मयैतत्पूर्वं एव, "दैवी ह्येषा गुणमयी मं माया दूरत्यया । मां एव ये प्रपद्यन्ते मायां एतां तरन्ति ते" इति । प्रपद्येयतः प्रवृत्तिरिति वा पाठः; तं एव चाद्यं पुरुषं प्र्पद्य शरणं उपगम्य, इयतः अज्ञाननिवृत्त्यादेः कृस्त्नस्यैतस्य साधनभूता प्रवृत्तिः पुराणी पुरातनी प्रऋता । पुरातनानां मुमुक्षूणां प्रवृत्तिः पुराणी । पुरातना हि मुमुक्षवो मां एव शरणं उपगम्य निर्मुक्तबन्धास्संजाता इत्यर्थः ॥१५.४॥

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः  ।
द्वन्द्वैर्विमुक्तास्सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदं अव्ययं तत् ॥ भगवद्गीता १५.५॥

एवं मां शरणं उपगम्य निर्मानमोहाः निर्गतानात्मात्माभिमानरूपमोहाः, जितसङ्गदोषा जितगुणमयभोगसङ्गाख्यदोषाः । अध्यात्मनित्याः आत्मनि यज्ज्ञानं तदध्यात्मम्, आत्मज्ञाननिरताः । विनिवृत्तकामाः विनिवृत्ततदितरकामाः सुखदुःखसज्ञैर्द्वन्द्वैश्च विमुक्ताः, अमूढाः आत्मानात्मस्वभवज्ञाः, तदव्ययं पदं गच्छन्ति अनवच्छिन्नज्ञानाकारं आत्मानं यथावस्थितं प्राप्नुवन्ति; मां शरणं उपगतानां मत्प्रसादादेरेवैताः सर्वाः प्रवृत्तयः सुशकाः सिद्धिपर्यन्ता भवन्तीत्यर्थः ॥१५.५॥

न तद्भासयते सूर्यो न शशाङ्को न पावकः  ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम  ॥भगवद्गीता १५.६॥

तदत्मज्योतिर्न सूर्यो भासयते, न शशाङ्कः, न पावकश्च । ज्ञानं एव हि सर्वस्य प्रकाशकम्; बाह्यानि तु ज्योतींषि विषयेन्द्रियसंबन्धविरोधितमोनिरसनद्वारेणोपकारकाणि । अस्य च प्रकाशको योगः । तद्विरोधि चानादिकर्म । तन्निवर्तनं चोक्तं भगवत्प्रपत्तिमूलं असङ्गादि । यद्गत्वा पुनर्न निवर्तन्ते, तत्परमं धाम परं ज्योतिः मम मदीयम्; मद्विभूतिभूतः ममांश इत्यर्थः । आदित्यादीनां अपि प्रकाशकत्वेन तस्य परमत्वं । आदित्यादीनि हि ज्योतींषि न ज्ञानज्योतिषः प्रकाशकानि; ज्ञानं एव सर्वस्य प्रकाशकं ॥१५.६॥

ममैवांशो जीवलोके जीवभूतः सनातनः  ।
मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थितानि कर्षति  ॥भगवद्गीता १५.७॥

इत्थं उक्तस्वरूपः सनातनो ममांश एव सन्कश्चिदनादिकर्मरूपाविद्यावेष्टितो जीवभूतो जीवलोके वर्तमानो देवमनुष्यादिप्रकृतिपरिणामविशेषशरीरस्थानि मनष्षष्ठानीन्द्रियाणि कर्षति । कश्चिच्च पूर्वोक्तेन मार्गेणास्या अविद्यायाः मुक्तः स्वेन रूपेणावतिष्ठते । जीवभूतस्त्वतिसंकुचितज्ञानाइश्वर्यः कर्मलब्धप्रकृतिपरिणामविशेषरूपशरीरस्थानां इन्द्रियाणां मनष्षष्ठानां ईश्वरः तानि कर्मानुगुणं इतस्ततः कर्षति ॥१५.७॥

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः  ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ भगवद्गीता १५.८॥

यच्शरीरं अवाप्नोति, यमाच्छरीरादुत्क्रामति, तत्रायं इन्द्रियाणां ईश्वरः एतानि इन्द्रियाणि भूतसूक्ष्मैस्सह गृहीत्वा संयाति वायुर्गन्धानिवाशयात् । यथा वायुः स्रक्चन्दनकस्तूरिकाद्याशयात्तत्स्थानात्सूक्ष्मावयवैस्सह गन्धान्गृहीत्वान्यत्र संयाति, तद्वदित्यर्थः ॥१५.८॥

कानि पुनस्तानीन्द्रियाणीत्यत्राह

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणं एव च  ।
अधिष्ठाय मनश्चायं विषयानुपसेवते  ॥भगवद्गीता १५.९॥

एतानि मनष्षष्ठानीन्द्रियाणि अधिष्ठाय स्वस्वविषयवृत्त्यनुगुणानि कृत्वा, तान्शब्दादीन्विषयानुपसेवते उपभुङ्क्ते ॥१५.९॥

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः  ॥भगवद्गीता १५.१०॥

एवं गुणान्वितं सत्त्वादिगुणमयप्रकृतिपरिणामविशेषमनुष्यत्वादिसंस्थानपिण्डसंसृष्टम्, पिण्डविशेषादुत्क्रामन्तं पिण्डविशेषेऽवथितं वा, गुणमयान्विषयान्भुञ्जानं वा कदाचिदपि प्रकृतिपरिणामविशेषमनुष्यत्वादिपिण्डाद्विलक्षणं ज्ञानैकाकारं विमूढा नानुपश्यन्ति । विमूढाः मनुष्यत्वादिपिण्डात्मत्वाभिमानिनः । ज्ञानचक्षुषस्तु पिण्डात्मविवेकविषयज्ञानवन्तः सर्वावस्थं अप्येनं विविक्ताकारं एव पश्यन्ति ॥१५.१०॥

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः  ॥भगवद्गीता १५.११॥

मत्प्रपत्तिपूर्वकं कर्मयोगादिषु यतमानास्तैर्निर्मलान्तःकरणा योगिनो योगाख्येन चक्षुषा आत्मनि शरीरेऽवस्थितं अपि शरीराद्विविक्तं स्वेन रूपेणावस्थितं एनं पश्यन्ति । यतमाना अप्यकृतात्मानः मत्प्रपत्तिविरहिणः तत एवासंस्कृतमनसः, तत एव अचेतसः आत्मावलोकनसमर्थचेतोरहिताः नैनं पश्यन्ति ॥१५.११॥

एवं रविचन्द्राग्नीनां इन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमुखेनेन्द्रियानुग्राहकतया प्रकाशकानां ज्योतिष्मतां अपि प्रकाशकज्ञानज्योतिरात्मा मुक्तावस्थो जीवावस्थश्च भगवद्विभूतिरित्युक्तम्, "तद्धाम प्रमं मम", "ममैवांशो जीवलोके जीवभूतस्सनातनः" इति । इदानीं अचित्परिणामविशेषभूतं आदित्यादीनां ज्योतिष्मतां ज्योतिरपि भगवद्विभूतिरित्याह

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥भगवद्गीता १५.१२॥

अखिलस्य जगतो भासकं एतेषां आदित्यादीनां यत्तेजः, तन्मदीयं तेजः तैस्तैराराधितेन मया तेभ्यो दत्तं इति विद्धि ॥१५.१२॥

पृथिव्याश्च भूतधारिण्या धारकत्वशक्तिर्मदीयेत्याह

गां आविश्य च भूतानि धारयाम्यहं ओजसा॥
पुष्णामि चौषधीः सर्वास्सोमो भूत्वा रसात्मकः  ॥भ्ङ्%_१५.१३॥

अहं पृथिवीं आविश्य सर्वाणि भूतानि ओजसा ममाप्रतिहतसामर्थ्येन धारयामि । तथाहं अमृतरसमयस्सोमो भूत्वा सर्वौषधीः पुष्णामि ॥१५.१३॥

अहं वैश्वानरो भूत्वा प्राणिनां देहं आश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधं ॥१५.१४॥

अहं वैश्वानरो जाठरानलो भूत्वा सर्वेषां प्राणिनां देहं आश्रितः तैर्भुक्तं खाद्यचूष्यलेह्यपेयात्मकं चतुर्विधं अन्नं प्राणापानवृत्तिभेदसमायुक्तः पचामि ॥१५.१४॥

अत्र परमपुरुषविभूतिभूतौ सोमवैश्वानरौ अहं सोमो भूत्वा, वैश्वानरो भूत्वा इति तत्सामानाधिकरण्येन निर्दिष्टौ । तयोश्च सर्वस्य भूतजातस्य च परमपुरुषसामानाधिकरण्यनिर्देशहेतुं आह

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिज्ञानं अपोहनं च ।
वेदैश्च सर्वैरहं एव वेद्यो वेदान्तकृद्वेदविदेव चाहं ॥१५.१५॥

तयोः सोमवैश्वानरयोः सर्वस्य च भूतजातस्य सकलप्रवृत्तिनिवृत्तिमूलज्ञानोदयदेशे हृदि सर्वं मत्संकल्पेन नियच्छनहं आत्मतया सन्निविष्टः । तथाहुः श्रुतयः, "अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा", "यः पृथिव्यां तिष्ठन्", "य आत्मनि तिष्ठनात्मनोऽन्तरो ..... यमयति", "पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम्", "अथ यदिदं अस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म" इत्याद्याः । स्मृतयश्च, "शास्ता विष्णुरशेषस्य जगतो यो जगन्मयः", "प्रशासितारं सर्वेषां अणीयांसं अणीयसाम्", "यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः" इत्याद्याः । अतो मत्त एव सर्वेषां स्मृतिर्जायते । स्मृतिः पूर्वानुभूतिविषयं अनुभवसंस्कारमात्रजं ज्ञानं । ज्ञानं इन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः; सोऽपि मत्तः । अपोहनं च । अपोहनम् ज्ञाननिवृत्तिः । अपोहनं ऊहनं वा; ऊहनं ऊहः; ऊहो नाम इदं प्रमाणं इत्थं प्रवर्तितुं अर्हतीति प्रमाणप्रवृत्त्यर्हताविषयं सामग्र्यादिनिरूपणजन्यं प्रमाणानुग्राहकं ज्ञानम्; स चोहो मत्त एव । वेदैश्च सर्वैरहं एव वेद्यः । अतोऽग्निसूर्यवायुसोमेन्द्रादीनां मदन्तर्यामिकत्वेन मदात्मकत्वात्तत्प्रतिपादनपरैरपि सर्वैर्वेदैरहं एव वेद्यः, देवमनुष्यादिशब्दैर्जीवात्मैव । वेदान्तकृद्वेदानाम् "इन्द्रं यजेत", "वरुणं यजेत" इत्येवं आदीनां अन्तः फलम्; फले हि ते सर्वे वेदाः पर्यवस्यन्ति; अन्तकृत्फलकृत्; वेदोदितफलस्य प्रदाता चाहं एवेत्यर्थः । तदुक्तं
पूर्वं एव, "यो यो यां यां तनुं भक्तः श्रद्धयार्चितुं इच्छति" इत्यारभ्य "लभते च ततः कामान्मयैव विहितान्हि तान्" इति, "अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च" इति च । वेदविदेव चाहम् वेदविच्चाहं एव । एवं मदभिधायिनं वेदं अहं एव वेद; इतोऽन्यथा यो वेदार्थं
ब्रूते न स वेदविदित्यभिप्रायः ॥१५.१५॥

अतो मत्त एव सर्ववेदानां सारभूतं अर्थं शृणु

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१५.१६॥

क्षरश्चाक्षरश्चेति द्वाविमौ पुरुषौ लोके प्रथितौ । तत्र क्षरशब्दनिर्दिष्टः पुरुषो जीवशब्दाभिलपनीयब्रह्मादिस्तम्बपर्यन्तक्षरणस्वभावाचित्संसृष्टसर्वभूतानि । अत्राचित्संसर्गरूपैकोपाधिना पुरुष इत्येकत्वनिर्देशः । अक्षरशब्दनिर्दिष्टः कूटस्थः अचित्संसर्गवियुक्तः स्वेन रूपेणावस्थितो मुक्तात्मा । स त्वचित्संसर्गाभवादचित्परिणामविशेषब्रह्मादिदेहासाधारणो न भवतीति कूटस्थ इत्युच्यते । अत्राप्येकत्वनिर्देशोऽचिद्वियोगरूपैकोपाधिनाभिहितः । न हि इतः पूर्वं अनादौ काले मुक्त एक एव । यथोक्तम्, "बहवो ज्ञानतपसा पूता मद्भावं आगताः", "सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च" इति ॥१५.१६॥

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयं आविश्य बिभर्त्यव्यय ईश्वरः ॥१५.१७॥

उत्तमः पुरुषस्तु ताभ्यां क्षराक्षरशब्दनिर्दिष्टाभ्यां बद्धमुक्तपुरुषाभ्यां अन्यः अर्थान्तरभूतः परमात्मेत्युदाहृतः सर्वासु श्रुतिषु । परमात्मेति निर्देशादेव ह्युत्तमः पुरुषो बद्धमुक्तपुरुषाभ्यां अर्थान्तरभूत इत्यवगम्यते । कथम्? यो लोकत्रयं आविश्य बिभर्ति । लोक्यत इति लोकः; तत्त्रयं लोकत्रयं । अचेतनं तत्संसृष्टश्चेतनो मुक्तश्चेति प्रमाणावगम्यं एतत्त्रयं य आत्मतया आविश्य बिभर्ति, स तस्माद्व्याप्याद्भर्तव्याच्चार्थान्तरभूतः । इतश्चोक्ताल्लोकत्रयादर्थान्तरभूतः; यतः सोऽव्ययः, ईश्वरश्च; अव्ययस्वभावो हि व्ययस्वभावादचेतनात्तत्संबन्धेन तदनुसारिणश्च चेतनादचित्संबन्धयोग्यतया पूर्वसंबन्धिनो मुक्ताच्चार्थान्तरभूत एव । तथैतस्य लोकत्रयस्येश्वरः, ईशितव्यात्तस्मादर्थान्तरभूतः ॥१५.१७॥

यस्मात्क्षरं अतीतोऽहं अक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५.१८॥

यस्मादेवं उक्तैः स्वभावैः क्षरं पुरुषं अतीतोऽहम्, अक्षरान्मुक्तादप्युक्तैर्हेतुभिरुत्कृष्टतमः, अतोऽहं लोके वेदे च पुरुषोत्तम इति प्रथितोऽस्मि । वेदार्थावलोकनाल्लोक इति स्मृतिरिहोच्यते । श्रुतौ स्मृतौ चेत्यर्थः । श्रुतौ तावत्, "परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः" इत्यादौ । स्मृतवपि, "अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तं अजस्य विष्णोः" इत्यादौ ॥१५.१८॥

यो मां एवं असंमूढो जानाति पुरुषोत्तमं ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥१५.१९॥

य एवं उक्तेन प्रकारेण पुरुषोत्तमं मां असंमूढो जानाति क्षराक्षरपुरुषाभ्याम्, अव्ययस्वभावतया व्यापनभरणाइश्वर्यादियोगेन च विसजातीयं जानाति, स सर्वविन्मत्प्राप्त्युपायतया यद्वेदितव्यं तत्सर्वं वेद; भजति मां सर्वभावेन  ये च मत्प्राप्त्युपायतया मद्भजनप्रकारा निर्दिष्टाः तैश्च सर्वैर्भजनप्रकारैर्मां भजते । सर्वैर्मद्विषयैर्वेदनैर्मम या प्रीतिः, या च मम सर्वैर्मद्विषयैर्भजनैः, उभयविधा सा प्रीतिरनेन वेदनेन मम जायते ॥इत्येतत्पुरुषोत्तमत्ववेदनं पूजयति

इति गुह्यतमं शास्त्रं इदं उक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥१५.२०॥

इत्थं मम पुरुषोत्तमत्वप्रतिपादनं सर्वेषां गुह्यानां गुह्यतमं इदं शास्त्रम्, "त्वं अनघतया योग्यतमः" इति कृत्वा मया तवोक्तं । एतद्बुद्ध्वा बुद्धिमांस्स्यात्कृतकृत्यश्च  मां प्रेप्सुना उपादेया या बुद्धिः सा सर्वा उपात्ता स्यातः यच्च तेन कर्तव्यम्, तत्सर्वं कृतं स्यादित्यर्थः । अनेन श्लोकेन, अनन्तरोक्तं पुरुषोत्तमविषयं ज्ञानं शास्त्रजन्यं एवैतत्सर्वं करोति, न तत्साक्षात्काररूपं इत्युच्यते ॥१५.२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.9030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

back dive

  • पाठसूर 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site