TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय ११

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय ११
एवं भक्तियोगनिष्पत्तये तद्विवृद्धये च सकलेतरविलक्षणेन स्वाभाविकेन भगवदसाधारणेन कल्याणगुणगणेन सह भगवतः सर्वात्मत्वं तत एव तद्व्यतिरिक्तस्य कृत्स्नस्य चिदचिदात्मकस्य वस्तुजातस्य तच्छरीरतया तदायत्तस्वरूपस्थितिप्रवृत्तित्वं चोक्तं । तं एतं भगवदसाधारणं स्वभावं कृत्स्नस्य तदायत्तस्वरूपस्थितिप्रवृत्तितां च भगवत्सकाशादुपश्रुत्य एवं एवेति नित्यश्च तथाभूतं भगवन्तं साक्षात्कर्तुकामोऽर्जुन उवाच । तथैव भगवत्प्रसादादनन्तरं द्रक्ष्यति । "सर्वाश्चर्यमयं देवं अनन्तं विश्वतोमुखं ... तत्रैकस्थं जगत्कृत्स्नं प्रतिभक्तं अनेकधाः" इति हि वक्ष्यते ।

 अर्जुन उवाच

 मदनुग्रहाय परमं गुह्यं अध्यात्मसंज्ञितम् ।
 यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम  ॥भगवद्गीता ११.१॥

देहात्माभिमानरूपमोहेन मोहितस्य ममानुग्रहैकप्रयोजनाय परमं गुह्यं परमं रहस्यं अध्यात्मसंज्ञितं आत्मनि वक्तव्यं वचः, "न त्वेवाहं जातु नासम्" इत्यादि, "तस्माद्योगी भवार्जुन" इत्येतदन्तं यत्त्वयोक्तम्, तेनायं ममात्मविषयो मोहः सर्वो विगतः दूरतो निरस्तः ॥११.१॥

तथा च

 भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया  ।
 त्वत्तः कमलपत्राक्ष माहात्म्यं अपि चाव्ययम् ॥भगवद्गीता ११.२॥

सप्तमप्रभृति दशमपर्यन्ते त्वद्व्यतिरिक्तानां सर्वेषां भूतानां त्वत्तः परमात्मनो भवाप्ययौ उत्पत्तिप्रलयौ विस्तरशो मया श्रुतौ हि । कमलपत्राक्ष, तव अव्ययं नित्यं सर्वचेतनाचेतनवस्तुशेषित्वं ज्ञानबलादिकल्याणगुणगणैस्तवैव परतरत्वं सर्वाधारत्वं चिन्तितनिमिषितादिसर्वप्रवृत्तिषु तवैव प्रवर्तयितृत्वं इत्यादि अपरिमितं माहात्म्यं च श्रुतं । हिशब्दो वक्ष्यमाणदिदृक्षाद्योतनार्थः ॥११.२॥

 एवं एतद्यथात्थ त्वं आत्मानं परमेश्वर  ।
 द्रष्टुं इच्छामि ते रूपं ऐश्वरं पुरुषोत्तम  ॥भगवद्गीता ११.३॥

हे परमेश्वर, एवं एतदित्यवधृतम्, यथाथ त्वं आत्मानं ब्रवीषि । पुरुषोत्तम आश्रितवात्सल्यजलधे तवाइश्वरं त्वदसाधारणं सर्वस्य प्रशासितृत्वे, पालयितृत्वे, स्रष्टृत्वे, संहर्तृत्वे भर्तृत्वे, कल्याणगुणाकरत्वे, परतरत्वे, सकलेतरविसजातीयत्वेऽवस्थितं रूपं द्रष्टुं साक्षात्कर्तुं इच्छामि ॥११.३॥

 मन्यसे यदि तच्छक्यं मया द्रष्टुं इति प्रभो  ।
 योगेश्वर ततो मे त्वं दर्शयात्मानं अव्ययम् ॥भगवद्गीता ११.४॥

तत्सर्वस्य स्रष्टृ, सर्वस्य प्रशासितृ, सर्वस्याधारभूतं त्वद्रूपं मया द्रष्टुं शक्यं इति यदि मन्यसे, ततो योगेश्वर  योगो ज्ञानादिकल्याणगुणयोगः, "पश्य मे योगं ऐश्वरम्" इति हि वक्ष्यते  त्वद्व्यतिरिक्तस्य कस्याप्यसंभावितानां ज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधे! आत्मानं त्वां अव्ययं मे दर्शय । अव्ययं इति क्रियाविशेषणं । त्वां सकलं मे दर्शयेत्यर्थः ॥११.४॥

 श्रीभगवानुवाच

एवं कौतूहलान्वितेन हर्षगद्गदकण्ठेन पार्थेन प्रार्थितो भगवानुवाच

 पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः  ।
 नानाविधानि दिव्यानि नानावर्णाकृतीनि च  ॥भगवद्गीता ११.५॥

पश्य मे सर्वाश्रयाणि रूपाणि; अथ शतशः सहस्रशश्च नानाविधानि नानाप्रकाराणि, दिव्यानि अप्राकृतानि, नानावर्णाकृतीनि शुक्लकृष्णादिनानावर्णानि, नानाकाराणि च पश्य ॥११.५॥

 पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा  ।
 बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत  ॥भगवद्गीता ११.६॥

ममैकस्मिन्रूपे पश्य आदित्यान्द्वादश, वसूनष्टौ, रुद्रानेकादश, अश्विनौ द्वौ, मरुतश्चैकोनपञ्चाशतं । प्रदर्शनार्थं इदम्, इह जगति प्रत्यक्षदृष्टानि शास्त्रदृष्टानि च यानि वस्तूनि, तानि सर्वाणि, अन्यान्यपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्वदृष्टपूर्वाणि बहून्याश्चर्याणि पश्य ॥११.६॥

 इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
 मम देहे गुडाकेश यच्चान्यद्द्रष्टुं इच्छसि  ॥भगवद्गीता ११.७॥

इह ममैकस्मिन्देहे, तत्रापि एकस्थं एकदेशस्थं सचराचरं कृत्स्नं जगत्पश्य; यच्चान्यद्द्रष्टुं इच्छसि, तदप्येकदेहैकदेश एव पश्य ॥११.७॥

 न तु मां शक्ष्यसे द्रष्टुं अनेनैव स्वचक्षुषा  ।
 दिव्यं ददामि ते चक्षुः पश्य मे योगं ऐश्वरम् ॥भगवद्गीता ११.८॥

अहं मम देहैकदेशे सर्वं जगद्दर्शयिष्यामि; त्वं त्वनेन नियतपरिमितवस्तुग्राहिणा प्राकृतेन स्वचक्षुषा, मां तथाभूतं सकलेतरविसजातीयं अपरिमेयं द्रष्टुं न शक्ष्यसे । तव दिव्यं अप्राकृतं मद्दर्शनसाधनं चक्षुर्ददामि । पश्य मे योगं ऐश्वरम् मदसाधारणं योगं पश्य; ममानन्तज्ञानादियोगं अनन्तविभूतियोगं च पश्येत्यर्थः ॥११.८॥

 एवं उक्त्वा ततो राजन्महायोगेश्वरो हरिः  ।
 दर्शयां आस पार्थाय परमं रूपं ऐश्वरम् ॥भगवद्गीता ११.९॥

एवं उक्त्वा सारथ्येऽवस्थितः पार्थमातुलजो महायोगेश्वरो हरिः महाश्चर्ययोगानां ईश्वरः परब्रह्मभूतो नारायणः परमं ऐश्वरं स्वासाधारणं रूपं पार्थाय पितृष्वसुः पृथायाः पुत्राय दर्शयां आस । तद्विविधविचित्रनिखिलजगदाश्रयं विश्वस्य प्रशासितृ च रूपम्; तच्चेदृशं

 अनेकवक्त्रनयनं अनेकाद्भुतदर्शनम् ।
 अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥भगवद्गीता ११.१०॥

 दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
 सर्वाश्चर्यमयं देवं अनन्तं विश्वतोमुखम् ॥भगवद्गीता ११.११॥

देवं द्योतमानम्, अनन्तं कालत्रयवर्ति; निखिलजगदाश्रयतया देशकालपरिच्छेदानर्हम्, विश्वतोमुखं विश्वदिग्वर्तिमुखम्, स्वोचितदिव्याम्बरगन्धमाल्याभरणायुधान्वितं ॥११.१०,११॥

तां एव देवशब्दनिर्दिष्टां द्योतमानतां विशिनष्टि

 दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता  ।
 यदि भाः, सदृशी सा स्याद्भासस्तस्य महात्मनः  ॥भगवद्गीता ११.१२॥

तेजसोऽपरिमितत्वदर्शनार्थं इदम्; अक्षयतेजस्स्वरूपं इत्यर्थः ॥११.१२॥

 तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तं अनेकधा  ।
 अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा  ॥भगवद्गीता ११.१३॥

तत्र अनन्तायां अविस्तारे, अनन्तबाहूदरवक्त्रनेत्रे, अपरिमिततेजस्के, अपरिमितदिव्यायुधोपेते, स्वोचितापरिमितदिव्यभूषणे, दिव्यमाल्याम्बरधरे, दिव्यगन्धानुलेपने, अनन्ताश्चर्यमये, देवदेवस्य दिव्ये शरीरे अनेकधा प्रविभक्तं ब्रह्मादिविविधविचित्रदेवतिर्यङ्मनुष्यस्थावरादिभोक्तृवर्गपृथिव्यन्तरिक्षस्वर्गपातालातलवितलसुतलादिभोगस्थानभोग्यभोगोपकरणभेदभिन्नं प्रकृतिपुरुषात्मकं कृत्स्नं जगत्, "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते", "हन्त ते कथयिष्यामि विभूतीरात्मनश्शुभाः", "अहं आत्मा गुडाकेश सर्वभूताशयस्थितः", आदित्यानां अहं विष्णुः" इत्यादिना, "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्", "विष्टभ्याहं इदं कृत्स्नं एकांशेन स्थितो जगत्" इत्यन्तेनोदितम्, एकस्थं एकदेशस्थम्; पाण्डवो भगवत्प्रसादलब्धतद्दर्शनानुगुणदिव्यचक्षुरपश्यत् ॥ ११.१३॥

 ततस्स विस्मयाविष्टो हृष्टरोमा धनञ्जयः  ।
 प्रणम्य शिरसा देवं कृताञ्जलिरभाषत  ॥भगवद्गीता ११.१४॥

ततो धनञ्जयो महाश्चर्यस्य कृत्स्नस्य जगतः स्वदेहैकदेशेनाश्रयभूतं कृत्स्नस्य प्रवर्तयितारं च आश्चर्यतमानन्तज्ञानादिकल्याणगुणगणं देवं दृष्ट्वा विस्मयाविष्टो हृष्टरोमा शिरसा दण्डवत्प्रणम्य कृताञ्जलिरभाषत ॥११.१४॥

 अर्जुन उवाच

 पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्गान् ।
 ब्रह्माणं ईशं कमलासनस्थं ऋषींश्च सर्वानुरगांश्च दीप्तान् ॥भगवद्गीता ११.१५॥

देव; तव देहे सर्वान्देवान्पश्यामि; तथा सर्वान्प्राणिविशेषाणां संघान्, तथा ब्रह्माणं चतुर्मुखं अण्डाधिपतिम्, तथेशं कमलासनस्थम् कमलासने ब्रह्मणि स्थितं ईशं तन्मतेऽवस्थितं तथा देवर्षिप्रमुखान्सर्वानृषीन्, उरगांश्च वासुकितक्षकादीन्दीप्तान् ॥ ११.१५॥

 अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
 नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप  ॥भगवद्गीता ११.१६॥

अनेकबाहूदरवक्त्रनेत्रं अनन्तरूपं त्वां सर्वतः पश्यामि; विश्वेश्वर  विश्वस्य नियन्तः, विश्वरूप  विश्वशरीर! यतस्त्वं अनन्तः, अतस्तव नान्तं न मध्यं न पुनस्तवादिं च पश्यामि ॥११.१६॥

 किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिं अन्तम् ।
 पश्यामि त्वा दुर्निरीक्षं समन्ताद्दीप्तानलार्कद्युतिं अप्रमेयम् ॥भगवद्गीता ११.१७॥

तेजोराशिं सर्वतो दीप्तिमन्तं समन्ताद्दुर्निरीक्षं दीप्तानलार्कद्युतिं अप्रमेयं त्वां किरीटिनं गदिनं चक्रिणं च पश्यामि ॥११.१७॥

 त्वं अक्षरं परमं वेदितव्यं त्वं अस्य विश्वस्य परं निधानम् ।
 त्वं अव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे  ॥भगवद्गीता ११.१८॥

उपनिषत्सु, "द्वे विद्ये वेदितव्ये" इत्यादिषु वेदितव्यतया निर्दिष्टं परमं अक्षरं त्वं एव; अस्य विश्वस्य परं निधानं विश्वस्यास्य परमाधारभूतस्त्वं एव; त्वं अव्ययः व्ययरहितः; यत्स्वरूपो यद्गुणो यद्विभवश्च त्वम्, तेनैव रूपेण सर्वदावतिष्ठसे । शाश्वतधर्मगोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्य एवं आदिभिरवतारैस्त्वं एव गोप्ता । सनातनस्त्वं पुरुषो मतो मे  "वेदाहं एतं पुरुषं महान्तं", "परात्परं पुरुषम्" इत्यादिषूदितः सनातनपुरुषस्त्वं एवेति मे मतः ज्ञातः । यदुकुलतिलकस्त्वं एवंभूत इदानीं साक्षात्कृतो मयेत्यर्थः ॥११.१८॥

 अनादिमध्यान्तं अनन्तवीर्यं अनन्तबाहुं शशिसूर्यनेत्रम् ।
 पश्यामि त्वा दीप्तहुताशवक्त्रं स्वतेजसा विश्वं इदं तपन्तम् ॥भगवद्गीता ११.१९॥

अनादिमध्यान्तं आदिमध्यान्तरहितं । अनन्तवीर्यं अनवधिकातिशयवीर्यम्; वीर्यशब्दः प्रदर्शनार्थः; अनवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधिं इत्यर्थः । अनन्तबाहुं असंख्येयबाहुं । सोऽपि प्रदर्शनार्थः; अनन्तबाहूदरपादवक्त्रादिकं । शशिसूर्यनेत्रं शशिवत्सूर्यवच्च प्रसादप्रतापयुक्तसर्वनेत्रं । देवादीननुकूलान्नमस्कारादि कुर्वाणान्प्रति प्रसादः, तद्विपरीतानसुरराक्षसादीन्प्रति प्रतापः; "रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः" इति हि वक्ष्यते । दीप्तहुताशवक्त्रं प्रदीप्तकालानलवत्संहारानुगुणवक्त्रं । स्वतेजसा विश्वं इदं तपन्तं । तेजः पराभिभवनसामर्थ्यम्; स्वकीयेन तेजसा विश्वं इदं तपन्तं त्वां पश्यामि  एवम्भूतं सर्वस्य स्रष्टारं सर्वस्याधारभूतं सर्वस्य प्रशासितारं सर्वस्य संहर्तारं ज्ञानाद्यपरिमितगुणसागरं आदिमध्यान्तरहितं एवंभूतदिव्यदेहं त्वां यथोपदेशं साक्षात्करोमीत्यर्थः । एकस्मिन्दिव्यदेहे अनेकोदरादिकं कथम्? । इत्थं उपपद्यते । एकस्मात्कटिप्रदेशादनन्तपरिमाणादूर्ध्वं उद्गता यथोदितोदरादयः, अधश्च यथोदितदिव्यपादाः; तत्रैकस्मिन्मुखे नेत्रद्वयं इति च न विरोधः ॥११.१९॥

एवंभूतं त्वां दृष्ट्वा देवादयोऽहं च प्रव्यथिता भवाम इत्याह

 द्यावापृथिव्योरिदं अन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः  ।
 दृष्ट्वाद्भुतं रूपं उग्रं तदेवं लोकत्रयं प्रव्यथितं महात्मन् ॥भगवद्गीता ११.२०॥

द्युशब्दः पृथिवीशब्दश्चोभौ उपरितनानां अधस्तनानां च लोकानां प्रदर्शनार्थौ । द्यावापृथिव्योः अन्तरं अवकाशः । यस्मिन्नवकासे सर्वे लोकास्तिष्ठन्ति, सर्वोऽयं अवकाशो दिशश्च सर्वास्त्वयैकेन व्याप्ताः । दृष्ट्वाद्भुतं रूपं उग्रं तवेदं अनन्तायां अविस्तारं अत्यद्भुतं अत्युग्रं च रूपं दृष्ट्वा लोकत्रयं प्रव्यथितं युद्धदिदृक्षया आगतेषु ब्रह्मादिदेवासुरपितृगणसिद्धगन्धर्वयक्षराक्षसेषु प्रतिकूलानुकूलमध्यस्थरूपं लोकत्रयं सर्वं प्रव्यथितं अत्यन्तभीतं । महात्मनपरिच्छेद्यमनोवृत्ते । एतेषां अप्यर्जुनस्यैव विश्वाश्रयरूपसाक्षात्कारसाधनं दिव्यं चक्षुर्भगवता दत्तं । किं अर्थं इति चेत्, अर्जुनाय स्वाइश्वर्यं सर्वं प्रदर्शयितुं । अत इदं उच्यते, "दृष्ट्वाद्भुतं रूपं उग्रं तवेदं लोकत्रयं प्रव्यर्थितं महात्मन्" इति ॥११.२०॥

 अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति  ।
 स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः  ॥भगवद्गीता ११.२१॥

अमी सुरसंघाः उत्कृष्टास्त्वां विश्वाश्रयं अवलोक्य हृष्टमनसः त्वन्समीपं विशन्ति । तेष्वेव केचिदत्युग्रं अत्यद्भुतं च तवाकारं आलोक्य भीताः प्राञ्जलयः स्वज्ञानानुगुणं स्तुतिरूपाणि वाक्यानि गृणन्ति उच्चारयन्ति । अपरे महर्षिसंघाः सिद्धसंघाश्च परावरतत्त्वयाथात्म्यविदः स्वस्तीत्युक्त्वा पुष्कलाभिर्भवदनुरूपाभिः स्तुतिभिः स्तुवन्ति ॥११.२१॥

 रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च  ।
 गन्धर्वयक्षासुरसिद्धसङ्घा वीक्ष्यन्ते त्वां विस्मिताश्चैव सर्वे  ॥भगवद्गीता ११.२२॥

ऊष्मपाः पितरः, "ऊष्मभागा हि पितरः" इति श्रुतेः । एते सर्वे विस्मयं आपन्नास्त्वां वीक्षन्ते ॥११.२२॥

 रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।
 बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥भगवद्गीता ११.२३॥

बह्वीभिर्दंष्ट्राभिरतिभीषणाकारं लोकाः पूर्वोक्ताः प्रतिकूलानुकूलमध्यस्थास्त्रिविधाः सर्व एव अहं च तदेवं ईदृशं रूपं दृष्ट्वा अतीव व्यथिता भवामः ॥११.२३॥

 नभस्स्पृशं दीप्तं अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
 दृस्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो  ॥भगवद्गीता ११.२४॥

नमश्शब्दः "तदक्षरे परमे व्योमन्", "आदित्यवर्णं तमसः परस्तात्", "क्षयन्तं अस्य रजसः पराके", "यो अस्याध्यक्षः परमे व्योमन्" इत्यादिश्रुतिसिद्धित्रिगुणप्रकृत्यतीतपरमव्योमवाची; सविकारस्य प्रकृतितत्त्वस्य, पुरुषस्य च सर्वावस्थस्य, कृत्स्नस्याश्रयतया नभस्स्पृशं इति वचनात्; "द्यावापृथिव्योरिदं अन्तरं हि व्याप्तम्" इति पूर्वोक्तत्वाच्च । दीप्तं अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्वा प्रव्यथितान्तरात्मा अत्यन्तभीतमनाः धृतिं न विन्दामि देहस्य धारणं न लभे, मनसश्चेन्द्रियाणां च शमं न लभे । विष्णो व्यापिन्! । सर्वव्यापिनं अतिमात्रं अत्यद्भुतं अतिघोरं च त्वां दृष्ट्वा प्रशिथिकसर्वावयवो व्याकुलेन्द्रियश्च भवामीत्यर्थः ॥११.२४॥

 दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि  ।
 दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास  ॥भगवद्गीता ११.२५॥

युगान्तकालानलवत्सर्वसंहारे प्रवृत्तानि अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने; सुखं च न लभे । जगतां निवास देवेश ब्रह्मादीनां ईश्वराणां अपि परममहेश्वर! मां प्रति प्रसन्नो भव । यथाहं प्रकृतिं गतो भवामि, तथा कुर्वित्यर्थः ॥११.२५॥

एवं सर्वस्य जगतः स्वायत्तस्थितिप्रवृत्तित्वं दर्शयन्पार्थसारथी राजवेषच्छद्मनावस्थितानां धार्तराष्ट्राणां यौधिष्ठिरेष्वनुप्रविष्टानां च असुरांशानां संहारेण भूभारावतरणं स्वमनीषितं स्वेनैव करिष्यमाणं पार्थाय दर्शयां आस । स च पार्थो भगवतः स्रष्ट्र्त्वादिकं सर्वाइश्वर्यं साक्षात्कृत्य तस्मिन्नेव भगवति सर्वात्मनि धार्तराष्ट्रादीनां उपसंहारं अनागतं अपि तत्प्रसादलब्धेन दिव्येन चक्षुषा पश्यन्निदं चोवाच

 अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वैः सहैवावनिपालसङ्घैः  ।
 भीष्मो  द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः  ॥भगवद्गीता ११.२६॥

 वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि  ।
 केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः  ॥भगवद्गीता ११.२७॥

अमी धृतराष्ट्रस्य पुत्राः दुर्योधनादयस्सर्वे भीष्मो द्रोणः सूतपुत्रः कर्णश्च तत्पक्षीयैरवनिपालसमूहैः सर्वैः, अस्मदीयैरपि कैश्चिद्योधमुख्यैस्सह त्वरमाणा दंष्ट्राकरालानि भयानकानि तव वक्त्राणि विनाशाय विशन्ति; तत्र केचिच्चूर्णितैरुत्तमाङ्गैर्दशानान्तरेषु विलग्नास्संदृश्यन्ते ॥११.२६,२७॥

 यथा नदीनां बहवोऽम्बुवेगाः समुद्रं एवाभिमुखा द्रवन्ति  ।
 तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति  ॥भगवद्गीता ११.२८॥

 यथा प्रदीप्तज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः  ।
 तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः  ॥भगवद्गीता ११.२९॥

एते राजलोकाः, बहवो नदीनां अम्बुप्रवाहाः समुद्रं इव, प्रदीप्तज्वलनं इव च शलभाः, तव वक्त्राण्यभिविज्वलन्ति स्वयं एव त्वरमाणा आत्मनाशाय विशन्ति ॥११.२८,२९॥

 लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः  ।
 तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो  ॥भगवद्गीता ११.३०॥

राजलोकान्समग्रान्ज्वलद्भिर्वदनैर्ग्रसमानः कोपवेगेन तद्रुधिरावसिक्तमोष्ठपुटादिकं लेलिह्यसे पुनः पुनर्लेहनं करोषि । तवातिघोरा भासः रश्मयः तेजोभिः स्वकीयैः प्रकाशैः जगत्समग्रं आपूर्य प्रतपन्ति ॥११.३०॥

 आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद  ।
 विज्ञातुं इच्छामि भवन्तं आद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥भगवद्गीता ११.३१॥

"दर्शयात्मानं अव्ययम्" इति तवाइश्वर्यं निरङ्कुशं साक्षात्कर्तुं प्रार्थितेन भवता निरङ्कुशं ऐश्वर्यं दर्शयता अतिघोररूपं इदं आविष्कृतं । अतिघोररूपः को भवान्, किं कर्तुं प्रवृत्त इति भवन्तं ज्ञातुं इच्छामि । तवाभिप्रेतां प्रवृत्तिं न जानामि । एतदाख्याहि मे । नमोऽस्तु ते देववर! प्रसीद  नमस्तेऽस्तु सर्वेश्वर; एवं कर्तुम्, अनेनाभिप्रायेणेदं संहर्तृरूपं आविष्कृतं इत्युक्त्वा प्रसन्नरूपश्च भव ॥११.३१॥

आश्रितवात्सल्यातिरेकेण विश्वाइश्वर्यं दर्शयतो भवतो घोररूपाविष्कारे कोऽभिप्राय इति पृष्टो भगवान्पार्थसारथिः स्वाभिप्रायं आह, पार्थोद्योगेन विनापि धार्तराष्ट्रप्रमुखं अशेषं राजलोकं निहन्तुं अहं एव प्रवृत्त इति ज्ञापनाय मम घोररूपाविष्कारः, तज्ज्ञापनं च पार्थं उद्योजयितुं इति ।

 श्रीभगवानुवाच

 कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुं इह प्रवृत्तः  ।
 ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः  ॥भगवद्गीता ११.३२॥

कलयति गणयतीति कालः; सर्वेषां धार्तराष्ट्रप्रमुखानां राजलोकानां आयुरवसानं गणयन्नहं तत्क्षयकृद्घोररूपेण प्रवृद्धो राजलोकान्समाहर्तुं आभिमुख्येन संहर्तुं इह प्रवृत्तोऽस्मि । अतो मत्संकल्पादेव त्वां ऋतेऽपि  त्वदुद्योगाद्र्तेऽपि एते धार्तराष्ट्रप्रमुखास्तव प्रत्यनीकेषु येऽवस्थिता योधाः, ते सर्वे न भविष्यन्ति  विनङ्क्ष्यन्ति ॥११.३२॥

 तस्मात्त्वं उत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ।
 मयैवैते निहताः पूर्वं एव निमित्तमात्रं भव सव्यसाचिन् ॥भगवद्गीता ११.३३॥

तस्मात्त्वं तान्प्रति युद्धायोत्तिष्ठ । तान्शत्रून्जित्वा यशो लभस्व; धर्म्यं राज्यं च समृद्धं भुङ्क्ष्व । मयैवैते कृतापराधाः पूर्वं एव निहताः हनने विनियुक्ताः । त्वं तु तेषां हनने निमित्तमात्रं भव । मया हन्यमानानां शत्रादिस्थानीयो भव । सव्यसाचिन् । षच समवाये; सव्येन शरसचनशीलः सव्यसाची; सव्येनापि करेण शरसमवायकरः; करद्वयेन योद्धुं समर्थ इत्यर्थः ॥११.३३॥

 द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधमुख्यान् ।
 मया हतांस्त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥भगवद्गीता ११.३४॥

द्रोणभीष्मकर्णादीन्कृतापराधतया मयैव हनने विनियुक्तान्त्वं जहि त्वं हन्याः । एतान्गुरून्बन्धूंश्च अन्यानपि भोगसक्तान्कथं हनिष्यामीति मा व्यथिष्ठाः  तानुद्दिश्य धर्माधर्मभयेन बन्धुस्नेहेन कारुण्येन च मा व्यथां कृथाः । यतस्ते कृतापराधा मयैव हनने विनियुक्ताः, अतो निर्विशङ्को युध्यस्व । रणे सपत्नान्जेतासि जेष्यसि । नैतेषां वधे नृशंसतागन्धः; अपि तु जय एव लभ्यत इत्यर्थः ॥११.३४॥

 सञ्जय उवाच

 एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी  ।
 नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य  ॥भगवद्गीता ११.३५॥

एतदश्रितवात्सल्यजलधेः केशवस्य वचनं श्रुत्वा अर्जुनस्तस्मै नमस्कृत्य भीतभीतो भूयस्तं प्रणम्य कृताञ्जलिर्वेपमानः किरीटी सगद्गदं आह ॥११.३५॥

 स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च  ।
 रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः  ॥भगवद्गीता ११.३६॥

स्थाने युक्तं । यदेतद्युद्धदिदृक्षयागतं अशेषदेवगन्धर्वसिद्धयक्षविद्याधरकिन्नरकिंपुरुषादिकं जगत्, त्वत्प्रसादात्त्वां सर्वेश्वरं अवलोक्य तव प्रकीर्त्या सर्वं प्रहृष्यति, अनुरज्यते च, यच्च त्वां अवलोक्य रक्षांसि भीतानि सर्वा दिशः प्रद्रवन्ति, सर्वे सिद्धसंघाः सिद्धाद्यनुकूलसंघाः नमस्यन्ति च  तदेतत्सर्वं युक्तं इति पूर्वेण संबन्धः ॥११.३६॥

युक्ततां एवोपपादयति

 कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे  ।
महात्मन्, ते तुभ्यं गरीयसे ब्रह्मणः हिरण्यगर्भस्यापि आदिभूताय कर्त्रे हिरण्यगर्भादयः कस्माद्धेतोर्न नमस्कुर्युः ॥११.३७अब् ॥

 अनन्त देवेश जगन्निवास त्वं अक्षरं सदसत्तत्परं यत् ॥ भगवद्गीता ११.३७॥

अनन्त देवेश जगन्निवास त्वं एवाक्षरं । न क्षरतीत्यक्षरं जीवात्मतत्त्वं । "न जायते म्रियते वा विपश्चित्" इत्यादिश्रुतिसिद्धो जीवात्मा हि न क्षरति । सदसच्च त्वं एव सदसच्छब्दनिर्दिष्टं कार्यकारणभावेनावस्थितं प्रकृतितत्त्वं, नामरूपविभागवत्तया कार्यावस्थं सच्छब्दनिर्दिष्टं तदनर्हतया कारणावस्थं असच्छब्दनिर्दिष्टं च त्वं एव । तत्परं यत्तस्मात्प्रकृतेः प्रकृतिसंबन्धिनश्च जीवात्मनः परं अन्यन्मुक्तात्मतत्त्वं यत्, तदपि त्वं एव ॥११.३७॥

 त्वं आदिदेवः पुरुषः पुराणस्त्वं अस्य विश्वस्य परं निधानम् ।
अतस्त्वं आदिदेवः, पुरुषः पुराणः, त्वं अस्य विश्वस्य परं निधानं । निधीयते त्वयि विश्वं इति त्वं अस्य विश्वस्य परं निधानम्; विश्वस्य शरीरभूतस्यात्मतया परमाधारभूतस्त्वं एवेत्यर्थः ॥११.३७॥

 वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वं अनन्तरूप  ॥भगवद्गीता ११.३८॥

जगति सर्वो वेदिता वेद्यं च सर्वं त्वं एव । एवं सर्वात्मतयावस्थितस्त्वं एव परं च धाम स्थानम्; प्राप्यस्थानं इत्यर्थः । त्वया ततं विश्वं अनन्तरूप । त्वयात्मत्वेन विश्वं चिदचिन्मिश्रं जगत्ततं व्याप्तं ॥११.३८॥

अतस्त्वं एव वाय्वादिशब्दवाच्य इत्याह

 वायुर्यमोऽग्निर्वरुणश्शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च  ।
सर्वेषां प्रपितामहस्त्वं एव; पितामहादयश्च । सर्वसां प्रजानां पितरः प्रजापतयः, प्रजापतीनां पिता हिरण्यगर्भः प्रजानां पितामहः, हिरण्यगर्भस्यापि पिता त्वं प्रजानां प्रपितामहः । पितामहादीनां आत्मतया तत्तच्छब्दवाच्यस्त्वं एवेत्यर्थः ॥११.३९अब् ॥

अत्यद्भुताकारं भगवन्तं दृष्ट्वा हर्षोत्फुल्लनयनोऽत्यन्तसाध्वसावनतः सर्वतो नमस्करोति॥

 नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते  ॥भगवद्गीता ११.३९॥

 नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व  ।
 अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः  ॥भगवद्गीता ११.४०॥

अमितवीर्य, अपरिमितपराक्रमस्त्वं सर्वात्मतया समाप्नोषि; ततः सर्वोऽसि । यतस्त्वं सर्वं चिदचिद्वस्तुजातं आत्मतया समाप्नोषि, अतः सर्वस्य चिदचिद्वस्तुजातस्य त्वच्छरीरतया त्वत्प्रकारत्वात्सर्वप्रकारस्त्वं एव सर्वशब्दवाच्योऽसीत्यर्थः । "त्वं अक्षरं सदसत्", "वायुर्यमोऽग्निः" इत्यादिसर्वसामानाधिकरण्यनिर्देशस्यात्मतया व्याप्तिरेव हेतुरिति सुव्यक्तं उक्तम्, "त्वया ततं विश्वं अनन्तरूप", "सर्वं समाप्नोषि ततोऽसि सर्वः" इति च ॥११.४०॥

 सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति  ।
 अजानता महिमानं तवेमं मया प्रमादात्प्रणयेन वापि  ॥भगवद्गीता ११.४१॥

 यश्चापहासार्थं असत्कृतोऽसि विहारशय्यासनभोजनेषु  ।
 एकोऽथ वाप्यच्युत तत्समक्षं तत्क्षामये त्वां अहं अप्रमेयम् ॥भगवद्गीता ११.४२॥

तवानन्तवीर्यत्वामितविक्रमत्वसर्वान्तरात्मत्वस्रष्टृत्वादिको यो महिमा, तं इमं अजानता मया प्रमादान्मोहात्, प्रणयेन चिरपरिचयेन वा सखेति मम वयस्यः इति मत्वा, हे कृष्ण, हे यादव, हे सखा इति त्वयि प्रसभं विनयापेतं यदुक्तं, यच्च प्रिहासार्थं सर्वदैव सत्कारार्हस्त्वं असत्कृतोऽसि, विहारशय्यासनभोजनेषु च सहकृतेषु एकान्ते वः समक्षं वा यदसत्कृतोऽसि; तत्सर्वं त्वां अप्रमेयं अहं क्षामये ॥११.४१,४२॥

 पितासि लोकस्य चराचरस्य त्वं अस्य पूज्यश्च गुरु गरीयान् ।
 न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव  ॥भगवद्गीता ११.४३॥

अप्रतिमप्रभाव! त्वं अस्य सर्वस्य चराचरस्य लोकस्य पितासि । अस्य लोकस्य गुरुश्चासि; अतस्त्वं अस्य चराचरस्य लोकस्य गरीयान्पूज्यतमः । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः  लोकत्रयेऽपि त्वदन्यः कारुण्यादिना केनापि गुणेन न त्वत्समोऽस्ति । कुतोऽभ्यधिकः? ॥११.४३॥

 तस्मात्प्रणम्य प्रणिधाय कार्यं प्रसादये त्वां अहं ईशं ईड्यम् ।
 पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥भगवद्गीता ११.४४॥

यस्मात्त्वं सर्वस्य पिता पूज्यतमो गुरुश्च कारुण्यादिगुणैश्च सर्वाधिकोऽसि, तस्मात्त्वां ईशं ईड्यं प्रणम्य प्रणिधाय च कायं, प्रसादये; यथा कृतापराधस्यापि पुत्रस्य, यथा च सख्युः, प्रणामपूर्वं प्रार्थितः पिता वा सखा वा प्रसीदति; तथा त्वं परमकारुणिकः प्रियाय मे सर्वं सोढुं अर्हसि ॥११.४४॥

 अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे  ।
 तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास  ॥भगवद्गीता ११.४५॥

अदृष्टपूर्वम् अत्यद्भुतं अत्युग्रं च तव रूपं दृष्ट्वा हृषितोऽस्मि प्रीतोऽस्मि । भयेन प्रव्यथितं च मे मनः । अतस्तदेव तव सुप्रसन्नं रूपं मे दर्शय । प्रसीद देवेश जगन्निवास  मयि प्रसादं कुरु, देवानां ब्रह्मादीनां अपीश, निखिलजगदाश्रयभूत ॥११.४५॥

 किरीटिनं गदिनं चक्रहस्तं इच्छामि त्वां द्रष्टुं अहं तथैव  ।
 तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते  ॥भगवद्गीता ११.४६॥

तथैव पूर्ववत्, किरीटिनं गदिनं चक्रहस्तं त्वां द्रष्टुं इच्छामि । अतस्तेनैव पूर्वसिद्धेन चतुर्भुजेन रूपेण युक्तो भव । सहस्रबाहो विश्वमूर्ते इदानीं सहस्रबाहुत्वेन विश्वशरीरत्वेन दृश्यमानरूपस्त्वं तेनैव रूपेण युक्तो भवेत्यर्थः ॥११.४६॥

 श्रीभगवानुवाच

 मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितं आत्मयोगात् ।
 तेजोमयं विश्वं अनन्तं आद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥भगवद्गीता ११.४७॥

यन्मे तेजोमयं तेजसां राशिः; विश्वं विश्वात्मभूतम्, अनन्तं अन्तरहितम्; प्रदर्शनार्थं इदम्; आदिमध्यान्तरहितम्; आद्यं मद्व्यतिरिक्तस्य कृत्स्नस्यादिभूतम्, त्वदन्येन केनापि न दृष्टपूर्वं रूपम् तदिदं प्रसन्नेन मया मद्भक्ताय ते दर्शितम्; आत्मयोगादत्मनस्सत्यसंकल्पत्वयोगात् ॥ ११.४७॥

अनन्यभक्तिव्यतिरिक्तैः सर्वैरप्युपायैर्यथावदवस्थितोऽहं द्रष्टुं न शक्य इत्याह

 न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः  ।
 एवंरूपश्शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर  ॥भगवद्गीता ११.४८॥

एवंरूपो यथावदवथितोऽहं मयि भक्तिमतस्त्वत्तोऽन्येन एकान्तभक्तिरहितेन केनापि पुरुषेण वेदयज्ञादिभिः केवलैर्द्रष्टुं न शक्यः ॥११.४८॥

 मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरं ईदृङ्ममेदम् ।
 व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपं इदं प्रपश्य  ॥भगवद्गीता ११.४९॥

ईदृशघोररूपदर्शनेन ते या व्यथा, यश्च विमूढभावो वर्तते, तदुभयं मा भूत्; त्वया अभ्यस्तपूर्वं एव सौम्यं रूपं दर्शयामि, तदेवेदं मम रूपं प्रपश्य ॥११.४९॥

 सञ्जय उवाच

 इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयां आस भूयः  ।
 आश्वासयां आस च भीतं एनं भूत्वा पुनस्सौम्यवपुर्महात्मा  ॥भगवद्गीता ११.५०॥

एवं पाण्डुतनयं भगवान्वसुदेवसूनुरुक्त्वा भूयः स्वकीयं एव चतुर्भुजं रूपं दर्शयां आस; अपरिचितरुपदर्शनेन भीतं एनं पुनरपि परिचितसौम्यवपुर्भूत्वा आश्वासयां आस च, महात्मा सत्यसङ्कल्पः । अस्य सर्वेश्वरस्य परमपुरुषस्य परस्य ब्रह्मणो जगदुपकृतिमर्त्यस्य वसुदेवसूनोश्चतुर्भुजं एव स्वकीयं रूपम्; कंसाद्भीतवसुदेवप्रार्थनेन आकंसवधाद्भुजद्वयं उपसंहृतं पश्चादाविष्कृतं च । "जातोऽसि देव देवेश शङ्खचक्रगदाधर । दिव्यं रूपं इदं देव प्रसादेनोप्संहर ॥..... उपसंहर विश्वात्मन्रूपं एतच्चतुर्भुजम्" इति हि प्रार्थितं । शिशुपालस्यापि द्विषतोऽनवरतभावनाविषयश्चतुर्भुजं एव वसुदेवसूनो रूपम्, "उदारपीवरचतुर्बाहुं शङ्खचक्रगदाधरम्" इति । अतः पार्थेनात्र तेनैव रूपेण चतुर्भुजनेत्युच्यते ॥११.५०॥

 अर्जुन उवाच

 दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन  ।
 इदानीं अस्मि संवृत्तः सचेताः प्रकृतिं गतः  ॥भगवद्गीता ११.५१॥

अनवधिकातिशयसौन्दर्यसौकुमार्यलावण्यादियुक्तं तवैवासाधारणं मनुष्यत्वसंस्थानसंस्थितं अतिसौम्यं इदं तव रूपं दृष्ट्वा इदानीं सचेतास्संवृत्तोऽस्मि; प्रकृतिं गतश्च ॥११.५१॥

 श्रीभगवानुवाच

 सुदुर्दर्शं इदं रूपं दृष्टवानसि यन्मम  ।
 देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः  ॥भगवद्गीता ११.५२॥

मम इदं सर्वस्य प्रशासनेऽवस्थितं सर्वास्रयं सर्वकारणभूतं रूपं यद्दृष्टवानसि, तत्सुदुर्दर्शं न केनापि द्रष्टुं शक्यं । अस्य रूपस्य देवा अपि नित्यं दर्शनकाङ्क्षिणः, न तु दृष्टवन्तः ॥११.५२॥

कुत इत्यत्र आह

 नाहं वेदैर्न तपसा न दानेन न चेज्यया  ।
 शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा  ॥भगवद्गीता ११.५३॥

 भक्त्या त्वनन्यया शक्य अहं एवंविधोऽर्जुन  ।
 ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप  ॥भगवद्गीता ११.५४॥

वेदैरध्यापनप्रवचनाध्ययनश्रवणजपविषयैः, यागदानहोमतपोभिश्च मद्भक्तिविरहितैः केवलैः यथावदवस्थितोऽहं द्रष्टुं अशक्यः । अनन्यया तु भक्त्या तत्त्वतश्शास्त्रैर्ज्ञातुं तत्त्वतस्साक्षात्कर्तुं, तत्त्वतः प्रवेष्टुं च शक्यः । तथा च श्रुतिः, "नायं आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यं एवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्"  इति ॥११.५३,५४॥

 मत्कर्मकृन्मत्परमो मद्भक्तस्सङ्गवर्जितः  ।
 निर्वैरस्सर्वभूतेषु यः स मां एति पाण्डव  ॥भगवद्गीता ११.५५॥

वेदाध्ययनादीनि सर्वाणि कर्माणि मदाराधनरूपाणीति यः करोति, स मत्कर्मकृत् । मत्परमः  सर्वेषां आरम्भाणां अहं एव परमोद्देश्यो यस्य, स मत्परमः । मद्भक्तः  अत्यर्थमत्प्रियत्वेन मत्कीर्तनस्तुतिध्यानार्चनप्रणामादिभिर्विना आत्मधारणं अलभमानो मदेकप्रयोजनतया यः सततं तानि करोति, स मद्भक्तः । सङ्गवर्जितः मदेकप्रियत्वेनेतरसङ्गं असहमानः । निर्वैरस्सर्वभूतेषु  मत्संश्लेषवियोगैकसुखदुःखस्वभावत्वात्स्वदुःखस्य स्वापराधननिमित्तत्वानुसंधानाच्च सर्वभूतानां परमपुरुषपरतन्त्रत्वानुसंधानाच्च सर्वभूतेषु वैरनिमित्ताभावात्तेषु निर्वैरः । य एवं भूतः, स मां इति मां यथावदवस्थितं प्राप्नोति; निरस्ताविद्याद्यशेषदोषगन्धो मदेकानुभवो भवतीत्यर्थः ॥११.५५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.6700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

काळकंटक

  • m  A term for any great calamity, &c. 
RANDOM WORD

Did you know?

सूतक कोणाचे नसते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site