TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय ३

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय ३
तदेवं मुमुक्षुभिः प्राप्यतया वेदान्तोदितनिरस्तनिखिलाविद्यादिदोषगन्धानवधिकातिशयासंख्येयकल्याणगुणगणपरब्रह्मपुरुषोत्तमप्राप्त्युपायभूतवेदनोपासनध्यानादिशब्दवाच्यतदैकान्तिकात्यन्तिकभक्तिं वक्तुं तदङ्गभूतं "य आत्मापहतपाप्मा" इत्यादिप्रजापतिवाक्योदितं प्राप्तुरात्मनो याथात्म्यदर्शनं तन्नित्यताज्ञानपूर्वकासङ्गकर्मनिष्पाद्यज्ञानयोगसाध्यं उक्तं ।
प्रजापतिवाक्ये हि दहरवाक्योदितपरविद्याशेषतया प्राप्तुरात्मनस्स्वरूपदर्शनम्, "यस्तं आत्मानं अनुविद्य विजानाति" इत्युक्त्वा जागरितस्वप्नसुषुप्त्यतीतं प्रत्यगात्मस्वरूपं अशरीरं प्रतिपाद्य, "एवं एवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते" इति दहरविद्याफलेनोपसंहृतं । अन्यत्रापि, "अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति" इत्येवं आदिषु, देवं मत्वेति विधीयमानपरविद्याङ्गतया अध्यात्मयोगाधिगमेनेति प्रत्यगात्मज्ञानं अपि विधाय, "न जायते म्रियते वा विपश्चित्" इत्यादिना प्रत्यगात्मस्वरूपं

विशोध्य, "अणोरणीयान्", इत्यारभ्य, "महान्तं विभुं आत्मानं मत्वा धीरो न शोचति", "नायं आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यं एवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वां ॥३." इत्यादिभिः परस्वरूपं तदुपासनं उपासनस्य च भक्तिरूपतां प्रतिपाद्य, "विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः  । सोऽध्वनः पारं आप्नोति तद्विष्णोः परमं पदं ॥३." इति परविद्याफलेनोपसंहृतम् ।
अतः परं अध्यायचतुष्टयेन इदं एव प्राप्तुः प्रत्यगात्मनो दर्शनं ससाधनं प्रपञ्चयति

 अर्जुन उवाच
 ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन  ।
 तत्किं कर्मणि घोरे मां नियोजयसि केशव  ॥भगवद्गीता ३.१॥
 व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे  ।
 तदेकं वद, निश्चित्य येन श्रेयोऽहं आप्नुयाम् ॥भगवद्गीता ३.२॥

यदि कर्मणो बुद्धिरेव ज्यायसीति ते मता, किं अर्थं तर्हि घोरे कर्मणि मां नियोजयसि । एतदुक्तं भवति  ज्ञाननिष्ठैवात्मावलोकनसाधनम्; कर्मनिष्ठा तु तस्याः निष्पादिका; आत्मावलोकनसाधनभूता च ज्ञाननिष्ठा सकलेन्द्रियमनसां शब्दादिविषयव्यापारोपरतिनिष्पाद्येत्यभिहिता । इन्द्रियव्यापारोपरतिनिष्पाद्यं आत्मावलोकनं चेत्सिषाधयिषितम्, सकलकर्मनिवृत्तिपूर्वकज्ञाननिष्ठायां एवाहं नियोजयितव्यः । किं अर्थं घोरे कर्मणि सर्वेन्द्रियव्यापाररूपे आत्मावलोकनविरोधिनि कर्मणि मां नियोजयसीति ॥अतो मिश्रवाक्येन मां मोहयसीव  प्रतिभाति । तथा ह्यात्मावलोकनसाधनभूतायाः सर्वेन्द्रियव्यापारोपरतिरूपायाः ज्ञाननिष्ठायाः तद्विपर्ययरूपं कर्म साधनम्, तदेव कुर्विति वाक्यं विरुद्धं व्यामिश्रं एव । तस्मादेकं अमिश्ररूपं वाक्यं वद, येन वाक्येनाहं अनुष्ठेयरूपं निश्चित्य श्रेयः प्राप्नुयां ॥३.१२॥

 श्रीभगवानुवाच
 लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ  ।
 ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥भगवद्गीता ३.३॥

पूर्वोक्तं न सम्यगवधृतं त्वया । पुरा ह्यस्मिन्लोके विचित्राधिकारिपूर्णे, द्विविधा निष्ठा ज्ञानकर्मविषया यथाधिकारं असङ्कीर्णैव मयोक्ता । न हि सर्वो लौकिकः पुरुषः संजातमोक्षाभिलाषस्तदानीं एव ज्ञानयोगाधिकारे प्रभवति, अपि त्वनभिसंहितफलेन केवलपरमपुरुषाराधनवेषेणानुष्ठितेन कर्मणा विध्वस्तस्वान्तमलः, अव्याकुलेन्द्रियो ज्ञाननिष्ठायां अधिकरोति । "यतः प्रवृत्तिर्भूतानां येन सर्वं इदं ततं । स्वकर्मणा तं अभ्यर्च्य सिद्धिं विन्दति मानवः" इति परमपुरुषाराधनैकवेषता कर्मणां वक्ष्यते । इहापि, "कर्मण्येवाधिकारस्ते" इत्यादिना अनभिसंहितफलं कर्म अनुष्ठेयं विधाय, तेन विषयव्याकुलतारूपमोहादुत्तीर्णबुद्धेः "प्रजहाति यदा कामान्" इत्यादिना ज्ञानयोग उदितः । अतः साङ्ख्यानां एव ज्ञानयोगेन स्थितिरुक्ता । योगिनां तु कर्मयोगेन । सङ्ख्या बुद्धिः तद्युक्ताः साङ्ख्याः  आत्मैकविषयया बुद्ध्या संबन्धिनः साङ्ख्याः; अतदर्हाः कर्मयोगाधिकारिणो योगिनः । विषयव्याकुलबुद्धियुक्तानां कर्मयोगेऽधिकारः; अव्याकुलबुद्धीनां तु ज्ञानयोगेऽधिकार उक्त इति न किंचिदिह विरुद्धं व्यामिश्रं अभिहितं ॥३.३॥

सर्वस्य लौकिकस्य पुरुषस्य मोक्षेच्छायां जातायां सहसैव ज्ञानयोगो दुष्कर इत्याह  

 न कर्मणां अनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते  ।
 न च संन्यसनादेव सिद्धिं समधिगच्छति  ॥भगवद्गीता ३.४॥

न शास्त्रीयाणां कर्मणां अनारम्भादेव, पुरुषो नैष्कर्म्यम् ज्ञाननिष्ठां प्राप्नोति । न चारब्धस्य शास्त्रीयस्य त्यागात्; यतोऽनभिसंहितफलस्य परमपुरुषाराधनवेषस्य कर्मणः सिद्धिः सा । अतस्तेन विना तां न प्राप्नोति । अनभिसंहितफलैः कर्मभिरनाराधितगोविन्दैरविनष्टानादिकालप्रवृत्तानन्तपापसञ्चयैरव्याकुलेन्द्रियतापूर्विका आत्मनिष्ठा दुस्संपादा ॥३.४॥

एतदेवोपपादयति

 न हि कश्चित्क्षणं अपि जातु तिष्ठत्यकर्मकृत् ।
 कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः  ॥भगवद्गीता ३.५॥

न ह्यस्मिन्लोके वर्तमानः पुरुषः कश्चित्कदाचिदपि कर्माकुर्वाणस्तिष्ठति; न किंचित्करोमीति व्यवसितोऽपि सर्वः पुरुषः प्रकृतिसंभवैः सत्त्वरजस्तमोभिः प्राचीनकर्मानुगुणं प्रवृद्धैर्गुणैः स्वोचितं कर्म प्रति अवशः कार्यते  प्रवर्त्यते । अत उक्तलक्षणेन कर्मयोगेन प्राचीनं पापसंचयं नाशयित्वा गुणांश्च सत्त्वादीन्वशे कृत्वा निर्मलान्तःकरणेन संपाद्यो ज्ञानयोगः ॥३.५॥

अन्यथा ज्ञानयोगाय प्रवृत्तो मिथ्याचारो भवतीत्याह

 कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
 इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते  ॥भगवद्गीता ३.६॥

अविनष्टपापतया अजितान्तःकरणः आत्मज्ञानाय प्रवृत्तो विषयप्रवणतया आत्मनि विमुखीकृतमनाः विषयानेव स्मरन्य आस्ते, अन्यथा संकल्प्य अन्यथा चरतीति स मिथ्याचार उच्यते । आत्मज्ञानायोद्युक्तो विपरीतो विनष्टो भवतीत्यर्थः ॥३.६॥

 यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन  ।
 कर्मेन्द्रियैः कर्मयोगं असक्तः स विशिष्यते  ॥भगवद्गीता ३.७॥

अतः पूर्वाभ्यस्तविषयसजातीये शास्त्रीये कर्मणि इन्द्रियाण्यात्मावलोकनप्रवृत्तेन मनसा नियम्य तैः स्वत एव कर्मप्रवणैरिन्द्रियैरसङ्गपूर्वकं यः कर्मयोगं आरभते, सोऽसंभाव्यमानप्रमादत्वेन ज्ञाननिष्ठादपि पुरुषाद्विशिष्यते ॥३.७॥

 नियतं कुरु कर्म त्वं कर्मं ज्यासयो ह्यकर्मणः  ।
 शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः  ॥भगवद्गीता ३.८॥

नियतं व्याप्तम्; प्रकृतिसंसृष्टेन हि व्याप्तं कर्म, अनादिवासनया प्रकृतिसंसृष्टस्त्वं नियतत्वेन सुशकत्वादसंभावितप्रमादत्वाच्च कर्मणः, कर्मैव कुरु; अकर्मणः ज्ञाननिष्ठाया अपि कर्मैव ज्यायः । "नैष्कर्म्यं पुरुषोऽशुनुते" इति प्रक्रमादकर्मशब्देन ज्ञाननिष्ठैवोच्यते । ज्ञाननिष्ठाधिकारिणोऽप्यनभ्यस्तपूर्वतया ह्यनियतत्वेन दुःशकत्वात्सप्रमादत्वाच्च ज्ञाननिष्ठायाः, कर्मनिष्ठैव ज्यायसी; कर्मणि क्रियमाणे च आत्मयाथात्म्यज्ञानेनात्मनोऽकर्तृत्वानुसन्धानं अनन्तरं एव वक्ष्यते । अत आत्मज्ञानस्यापि कर्मयोगान्तर्गतत्वात्स एव ज्यायानित्यर्थः । कर्मणो ज्ञाननिष्ठाया ज्यायस्त्ववचनं ज्ञाननिष्ठायां अधिकारे सत्येवोपपद्यते ।
यदि सर्वं कर्म परित्यज्य केवलं ज्ञाननिष्ठायां अधिकारोऽपि, तर्हि अकर्मणः ज्ञाननिष्ठस्य ज्ञाननिष्ठोपकारिणी शरीरयात्रापि न सेत्स्यति । यावत्साधनसमाप्ति शरीरधारणं चावश्यं कार्यं । न्यायार्जितधनेन महायज्ञादिकं कृत्वा तच्छिष्टाशनेनैव शरीरधारणं कार्यम्, "आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुत्वा स्मृतिः" इत्यादिश्रुतेः । "ते त्वघं भुञ्जते पापा ये पचन्त्यात्मकारणात्" इति वक्ष्यते । अतो ज्ञाननिष्ठस्यापि कर्माकुर्वतो देहयात्रापि न सेत्स्यति । यतो ज्ञाननिष्ठस्यापि ध्रियमाणशरीरस्य यावत्साधनसमाप्ति महायज्ञादि नित्यनैमित्तिकं कर्म अवश्यं कर्तव्यम्, यतश्च कर्मयोगेऽप्यात्मनोऽकर्तृत्वभावनयात्मयाथात्म्यानुसन्धानं अन्तर्भूतम्, यतश्च प्रकृतिसंसृष्टस्य कर्मयोगः सुशकोऽप्रमादश्च, अतो ज्ञाननिष्ठायोग्यस्यापि ज्ञानयोगात्कर्मयोगो ज्यायान् । तस्मात्त्वं कर्मयोगं एव कुर्वित्यभिप्रायः ॥३.८॥

एवं तर्हि द्रव्यार्जनादेः कर्मणोऽहङ्कारममकारादिसर्वेन्द्रियव्यकुलतागर्भत्वेनास्य पुरुषस्य कर्मवासनया बन्धनं भविष्यतीत्यत्राह

 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः  ।
 तदर्थं कर्म कौन्तेय मुक्तसङ्गस्समाचर  ॥भगवद्गीता ३.९॥

यज्ञादिशास्त्रीयकर्मशेषभूताद्द्रव्यार्जनादेः कर्मणोऽन्यत्र आत्मीयप्रयोजनशेषभूते कर्मणि क्रियमाणे अयं लोकः कर्मबन्धनो भवति । अतस्त्वं यज्ञार्थं द्रव्यार्जनादिकं कर्म समाचर । तत्रात्मप्रयोजनसाधनतया यः सङ्गः तस्मात्सङ्गान्मुक्तस्तं समाचर । एवं मुक्तसङ्गेन यज्ञाद्यर्थतया कर्मणि क्रियमाणे यज्ञादिभिः कर्मभिराराधितः परमपुरुषोऽस्यानादिकालप्रवृत्तकर्मवासनां उच्छिद्य अव्याकुलात्मावलोकनं ददातीत्यर्थः ॥३.९॥

यज्ञशिष्टेनैव सर्वपुरुषार्थसाधननिष्ठानां शरीरधारणकर्तव्यताम्, अयज्ञशिष्टेन शरीरधारणं कुर्वतां दोषं चाह

 सह यज्ञैः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः  ।
 अनेन प्रसविष्यध्वं एष वोऽस्त्विष्टकामधुक् ॥भगवद्गीता ३.१०॥

"पतिं विश्वस्य" इत्यादिश्रुतेर्निरुपाधिकः प्रजापतिशब्दः सर्वेश्वरं विश्वस्य स्रष्टारं विश्वात्मानं परायणं नारायणं आह । पुरा  सर्गकाले स भगवान्प्रजापतिरनादिकालप्रवृत्ताचित्संसर्गविवशाः उपसंहृतनामरूपविभागाः स्वस्मिन्प्रलीनाः सकलपुरुषार्थानर्हाः चेतनेतरकल्पाः प्रजाः समीक्ष्य परमकारुणिकस्तदुज्जीवयिषया स्वाराधनभूतयज्ञनिर्वृत्तये यज्ञैः सह ताः सृष्ट्वैवं उवाच  अनेन यज्ञेन प्रसविष्यध्वम्, आत्मनो वृद्धिं कुरुध्वम्; एष वो यज्ञः परमपुरुषार्थलक्षणमोक्षाख्यस्य कामस्य तदनुगुणानाअं च कामानां प्रपूरयिता भवतु ॥३.१०॥

कथम्?

 देवान्भावयतानेन ते देवा भावयन्तु वः  ।
 परस्परं भावयन्तः श्रेयः परं अवाप्स्यथ  ॥भगवद्गीता ३.११॥

अनेन देवताराधनभूतेन देवान्मच्छरीरभूतान्मदात्मकानाराधयत । "अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च" इति हि वक्ष्यते । यज्ञेनाराधितास्ते देवा मदात्मकाः स्वाराधनापेक्षितान्नपानादिकैर्युष्मान्पुष्णन्तु । एवं परस्परं भावयन्तः परं श्रेयो मोक्षाख्यं अवाप्स्यथ ॥३.११॥

 इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः  ।
 तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः  ॥भगवद्गीता ३.१२॥

यज्ञभाविताः  यज्ञेनाराधिताः मदात्मका देवाः इष्टान्वो दास्यन्ते उत्तमपुरुषार्थलक्षणं मोक्षं साधयतां ये इष्टा भोगास्तान्पूर्वपूर्वयज्ञभाविता देवा दास्यन्ते उत्तरोत्तराराधनोपेक्षितान्सर्वान्भोगान्वो दास्यन्ते इत्यर्थः । स्वाराधनार्थतया तैर्दत्तान्भोगान्तेभ्योऽप्रदाय यो भुङ्क्ते चोर एव सः । चोउर्यं हि नाम अन्यदीये तत्प्रयोजनायैव परिक्ल्प्ते वस्तुनि स्वकीयताबुद्धिं कृत्वा तेन स्वात्मपोषणं । अतोऽस्य न परमपुरुषार्थानर्हतामात्रम्; अपि तु निरयगामित्वं च भविष्यतीत्यभिप्रायः ॥३.१२॥

तदेव विवृणोति

 यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्विषैः  ।
 ते त्वघं भुञ्जते पापा ये पचन्त्यात्मकारणात् ॥ भगवद्गीता ३.१३॥

इन्द्राद्यात्मनावस्थितपरमपुरुषाराधनार्थतयैव द्रव्याण्युपादाय विपच्य तैर्यथावस्थितं परमपुरुषं आराध्य तच्छिष्टाशनेन ये शरीरयात्रां कुर्वते, ते त्वनादिकालोपार्जितैः किल्बिषैः आत्मयाथात्म्यावलोकनविरोधिभिः सर्वैर्मुच्यन्ते । ये तु परमपुरुषेणेन्द्राद्यात्मना स्वाराधनाय दत्तानि आत्मार्थत्योपादाय विपच्याश्नन्ति, ते पापात्मनोऽघं एव भुञ्जते । अघपरिणामित्वादघं इत्युच्यते । आत्मावलोकनविमुखाः नरकायैव पचन्ते ॥३.१३॥

पुनरपि लोकदृष्ट्या शास्त्रदृष्ट्या च सर्वस्य यज्ञमूलत्वं दर्शयित्वा यज्ञानुवर्तनस्यावश्यकार्यतां अननुवर्तने दोषं चाह

 अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः  ।
 यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः  ॥भगवद्गीता ३.१४॥
 कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
 तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥भगवद्गीता ३.१५॥
 एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः  ।
 अघायुरिन्द्रियारामो मोघं पार्थ स जीवति  ॥भगवद्गीता ३.१६॥

"अन्नात्सर्वाणि भूतानि भवन्ति पर्जन्याच्चान्नसंभवः" इति सर्वलोकसाक्षिकं । यज्ञात्पर्जन्यो भवतीति च शास्त्रेणावगम्यते, "अग्नौ प्रास्ताहुतिः सम्यगादित्यं उपतिष्ठते । आदित्याज्जायते वृष्टिः" इत्यादिना । यज्ञश्च द्रव्यार्जनादिकर्तृव्यापाररूपकर्मसमुद्भवः, कर्म च ब्रह्मोद्भवं । अत्र च ब्रह्मशब्दनिर्दिष्टं प्रकृतिपरिणामरूपं शरीरं । "तस्मादेतद्ब्रह्म नाम रूपं अन्नं च जायते" इति हि ब्रह्मशब्देन प्रकृतिनिर्दिष्टा । इहापि "मम योनिर्महद्ब्रह्म" इति वक्ष्यते । अतः कर्म ब्रह्मोद्भवं इति प्रकृतिपरिणामरूपशरीरोद्भवं कर्मेत्युक्तं भवति । ब्रह्माक्षरसमुद्भवं इत्यत्राक्षरशब्दनिर्दिष्टो जीवात्मा, अन्नपानादिना तृप्ताक्षराधिष्ठितं शरीरं कर्मणे प्रभवतीति कर्मसाधनभूतं शरीरं अक्षरसमुद्भवम्; तस्मात्सर्वगतं ब्रह्म सर्वाधिकारिगतं शरीरं नित्यं यज्ञे प्रतिष्ठितम् यज्ञमूलं इत्यर्थः । एवं परमपुरुषेण प्रवर्तितं इदं चक्रं अन्नाद्भूतशब्दनिर्दिष्टानि सजीवानि शरीराणि, पर्य्जन्यादन्नम्, यज्ञात्पर्जन्यः, यज्ञश्च कर्तृव्यापाररूपात्कर्मणः, कर्म च सजीवाच्छरीरात्, सजीवं शरीरं पुनरप्यन्नादित्यन्योन्यकार्यकारणभावेन चक्रवत्परिवर्तमानं इह साधने वर्तमानो यः कर्मयोगाधिकारी ज्ञानयोगाधिकारी वा नानुवर्तयति न प्रवर्तयति, यज्ञशिष्टेन देहधारणं अकुर्वन्सोऽघायुर्भवति । अघारम्भायैव यस्यायुः, अघपरिणतं वा, उभयरूपं वा सोऽघायुः । अत एवेन्द्रियारामो भवति, नात्मारामः; इन्द्रियाण्येवास्योद्यानानि भवन्ति; अयज्ञशिष्टवर्धितदेहमनस्त्वेनोद्रिक्तरजस्तमस्कः
आत्मावलोकनविमुखतया विषयभोगैकरतिर्भवति । अतो ज्ञानयोगादौ यतमानोऽपि निष्फलप्रयत्नतया मोघं पार्थ स जीवति ॥३.१४॥१५ ॥१६ ॥

असाधनायत्तात्मदर्शनस्य मुक्तस्येव महायज्ञादिवर्णाश्रमोचितकर्मानारम्भ इत्याह

 यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः  ।
 आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते  ॥भगवद्गीता ३.१७॥
 नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन  ।
 न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः  ॥भगवद्गीता ३.१८॥

यस्तु ज्ञानयोगकर्मयोगसाधननिरपेक्षः स्वत एवात्मरतिः आत्माभिमुखः, आत्मनैव तृप्तः नान्नपानादिभिरात्मव्यतिरिक्तैः, आत्मन्येव च सन्तुष्टः, नोद्यानस्रक्चन्दनगीतवादित्रनृत्तादौ, धारणपोषणभोग्यादिकं सर्वं अत्मैव यस्य, तस्यात्मदर्शनाय कर्तव्यं न विद्यते, स्वत एव सर्वदा दृष्टात्मस्वरूपत्वात् । अत एव तस्यात्मदर्शनाय कृतेन तत्साधनेन नार्थः न किंचित्प्रयोजनम्; अकृतेनात्मदर्शनसाधनेन न कश्चिदनर्थः; असाधनायत्तात्मदर्शनत्वात् । स्वत एवात्मव्यतिरिक्तसकलाचिद्वस्तुविमुखस्यास्य सर्वेषु प्रकृतिपरिणामविशेषेष्वाकाशादिषु सकार्येषु न कश्चित्प्रयोजनतया साधनतया वा व्यपाश्रयः; यतस्तद्विमुखीकरणाय साधनारम्भः; स हि मुक्त एव ॥३.१७॥१८ ॥

 तस्मादसक्तस्सततं कार्यं कर्म समाचर  ।
 असक्तो ह्याचरन्कर्म परं आप्नोति पुरुषः  ॥भगवद्गीता ३.१९॥

यस्मादसाधनायत्तात्मदर्शनस्यैव साधनाप्रवृत्तिः, यस्माच्च साधने प्रवृत्तस्यापि सुशकत्वाच्च अप्रमादत्वादन्तर्गतात्मयाथात्म्यानुसन्धानत्वाच्च ज्ञानयोगिनोऽपि मात्रया कर्मानुवृत्त्यपेक्षत्वाच्च कर्मयोग एवात्मदर्शननिर्वृत्तौ श्रेयान्, तस्मादसङ्गपूर्वकं कार्यं इत्येव सततं यावदात्मप्राप्ति कर्मैव समाचर । असक्तः, कार्यं इति वक्ष्यमाणाकर्तृत्वानुसन्धानपूर्वकं च कर्माचरन्पुरुषः कर्मयोगेनैव परं आप्नोति आत्मानं प्राप्नोतीत्यर्थः ॥३.१९॥

 कर्मणैव हि संसिद्धिं आस्थिता जनकादयः  ।

यतो ज्ञानयोगाधिकारिणोऽपि कर्मयोग एवात्मदर्शने श्रेयान्; अत एव हि जनकादयो राजर्षयो ज्ञानिनां अग्रेसराः कर्मयोगेनैव संसिद्धिं आस्थिताः आत्मानं प्राप्तवन्तः ॥एवं प्रथमं मुमुक्षोर्ज्ञानयोगानर्हतया कर्मयोगाधिकारिणः कर्मयोग एव कार्य इत्युक्त्वा ज्ञानयोगाधिकारिणोऽपि ज्ञानयोगात्कर्मयोग एव श्रेयानिति सहेतुकं उक्तं । इदानीं शिष्टतया व्यपदेश्यस्य सर्वथा कर्मयोग एव कार्य इत्युच्यते

 लोकसंग्रहं एवापि संपश्यन्कर्तुं अर्हसि  ॥भगवद्गीता ३.२०॥
 यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः  ।
 स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते  ॥भगवद्गीता ३.२१॥

लोकसंग्रहं पश्यन्नपि कर्मैव कर्तुं अर्हसि । श्रेष्ठः कृत्स्नशास्त्रज्ञातयानुष्ठातृतया च प्रथितो यद्यदाचरति, तत्तदेवाकृत्स्नविज्जनोऽप्याचरति; अनुष्ठीयमानं अपि कर्म श्रेष्ठो यत्प्रमाणं यदङ्गयुक्तं अनुतिष्ठति तदङ्गयुक्तं एवाकृत्स्नविल्लोकोऽप्यनुतिष्ठति ।
अतो लोकरक्षार्थं शिष्टतया प्रथितेन श्रेष्ठेन स्ववर्णाश्रमोचितं कर्म सकलं सर्वदा अनुष्ठेयम्; अन्यथा लोकनाशजनितं पापं ज्ञानयोगादप्येनं प्रच्यावयेत् ॥ ३.२१॥

 न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन  ।
 नानवाप्तं अवाप्तव्यं वर्त एव च कर्मणि  ॥भगवद्गीता ३.२२॥

न मे सर्वेश्वरस्याप्तकामस्य सर्वज्ञस्य सत्यसङ्कल्पस्य त्रिषु लोकेषु देवमनुष्यादिरूपेण स्वच्छन्दतो वर्तमानस्य किंचिदपि कर्तव्यं अस्ति, यतोऽनवाप्तं कर्मणावाप्तव्यं न किंचिदप्यस्ति । अथापि लोकरक्षायै कर्मण्येव वर्ते ॥३.२२॥

 यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः  ।
 मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः  ॥भगवद्गीता ३.२३॥
 उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
 संकरस्य च कर्ता स्यां उपहन्यां इमाः प्रजाः  ॥भगवद्गीता ३.२४॥

अहं सर्वेश्वरः सत्यसङ्कल्पः स्वसङ्कल्पकृतजगदुदयविभवलयलीलः छन्दतो जगदुपकृतिमर्त्यो जातोऽपि मनुष्येषु शिष्टजनाग्रेसरवसुदेवगृहेऽवतीर्णस्तत्कुलोचिते कर्मण्यतन्द्रितस्सर्वदा यदि न वर्तेय, मम शिष्टजनाग्रेसरवसुदेवसूनोर्वर्त्म अकृत्स्नविदः शिष्टाः सर्वप्रकारेणायं एव धर्म इत्यनुवर्तन्ते; ते च स्वकर्तव्याननुष्ठानेन अकरणे प्रत्यवायेन च आत्मानं अलब्ध्वा निरयगामिनो भवेयुः । अहं कुलोचितं कर्म न चेत्कुर्याम्, एवं एव सर्वे शिष्टलोका मदाचरायत्तधर्मनिश्चयाः अकरणादेवोत्सीदेयुः नष्टा भवेयुः । शास्त्रीयाचाराननुपालनात्सर्वेषां शिष्टकुलानां संकरस्य च कर्ता स्यां । अत एवेमाः प्रजाः उपहन्यां । एवं एव त्वं अपि शिष्टजनाग्रेसरपाण्डुतनयो युधिष्ठिरानुजोऽर्जुनस्सन्यदि ज्ञाननिष्ठायां अधिकरोषि; ततस्त्वदाचारानुवर्तिनोऽकृत्स्नविदः शिष्टा मुमुक्षवः स्वाधिकारं अजानन्तः कर्मनिष्ठायां नाधिकुर्वन्तो विनश्येयुः । अतो व्यपदेश्येन विदुषा कर्मैव कर्तव्यं ॥३.२३॥२४ ॥

 सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत  ।
 कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥भगवद्गीता ३.२५॥
 न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
 जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥भगवद्गीता ३.२६॥

अविद्वांसः आत्मन्यकृत्स्नविदः, कर्मणि सक्ताः कर्मण्यवर्जनीयसंबन्धाः आत्मन्यकृत्स्नवित्तया तदभ्यासरूपज्ञानयोगेऽनधिकृताः कर्मयोगाधिकारिणः कर्मयोगं एव यथा आत्मदर्शनाय कुर्वते, तथा आत्मनि कृत्स्नवित्तया कर्मण्यसक्तः ज्ञानयोगाधिकारयोग्योऽपि व्यपदेश्यः शिष्टो लोकरक्षार्थं स्वाचारेण शिष्टलोकानां धर्मनिश्चयं चिकीर्षुः कर्मयोगं एव कुर्यात् । अज्ञानां आत्मन्यकृत्स्नवित्तया ज्ञानयोगोपादानाशक्तानां मुमुक्षूणां कर्मसङ्गिनां अनादिकर्मवासनया कर्मण्येव नियतत्वेन कर्मयोगाधिकारिणां कर्मयोगादन्यदात्मावलोकनसाधनं अस्तीति न बुद्धिभेदं जनयेत् । किं तर्हि? आत्मनि कृत्स्नवित्तया ज्ञानयोगशक्तोऽपि पूर्वोक्तरीत्या, "कर्मयोग एव ज्ञानयोगनिरपेक्षः आत्मावलोकनसाधनम्" इति बुद्ध्या युक्तः कर्मैवाचरन्

सकलकर्मसु अकृत्स्नविदां प्रीतिं जनयेत् ॥ ३.२५॥२६ ॥

कर्मयोगं अनुतिष्ठतो विदुषोऽविदुषश्च विशेषं प्रदर्शयन्कर्मयोगापेक्षितं आत्मनोऽकर्तृत्वानुसन्धानप्रकारं उपदिशति

 प्रकृतेः क्रियमाणाणि गुणैः कर्माणि सर्वशः  ।
 अहङ्कारविमूढात्मा कर्ताहं इति मन्यते  ॥भगवद्गीता ३.२७॥
 तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः  ।
 गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते  ॥भगवद्गीता ३.२८॥

प्रकृतेर्गुणैः सत्त्वादिभिः स्वानुरूपं क्रियमाणानि कर्माणि प्रति अहङ्कारविमूढात्मा, अहं कर्तेति मन्यते; अहङ्कारेण विमूढ आत्मा यस्यासावहङ्कारविमूढात्मा; अहङ्कारो नाम अनहमर्थे प्रकृतावहमभिमानः; तेन अज्ञातस्वरूपो गुणकर्मसु अहं कर्तेति मन्यत इत्यर्थः । गुणकर्मविभागयोः सत्त्वादिगुणविभागे तत्तत्कर्मविभागे च तत्त्ववित्, गुणास्सत्त्वादयः गुणेषु स्वेषु कार्येषु वर्तन्त इति मत्वा गुणकर्मसु अहं कर्तेति न सज्जते ॥३.२७॥२८ ॥

 प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु  ।
 तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ भगवद्गीता ३.२९॥

अकृत्स्नविदः स्वात्मदर्शनाय प्रवृत्ताः प्रकृतिसंसृष्टतया प्रकृतेर्गुणैर्यथावस्थितात्मनि संमूढाः गुणकर्मसु क्रियास्वेव सज्जन्ते, न तद्विविक्तात्मस्वरूपे । अतस्ते ज्ञानयोगाय न प्रभवन्तीति कर्मयोग एव तेषां अधिकारः । एवंभूतांस्तान्मन्दानकृत्स्नविदः कृत्स्नवित्स्वयं ज्ञानयोगावस्थानेन न विचालयेत् । ते किल मन्दाः श्रेष्ठजनाचारानुवर्तिनः कर्मयोगादुत्थितं एनं दृष्ट्वा कर्मयोगात्प्रचलितमनसो भवेयुः । अतः श्रेष्ठः स्वयं अपि कर्मयोगे तिष्ठनात्मयाथात्म्यज्ञानेनात्मनोऽकर्तृत्वं अनुसन्धानः, कर्मयोग एवात्मावलोकने निरपेक्षसाधनं इति दर्शयित्वा तानकृत्स्नविदो जोषयेदित्यर्थः । ज्ञानयोगाधिकारिणोऽपि ज्ञानयोगादस्यैव ज्यायस्त्वं पूर्वं एवोक्तं । अतो व्यपदेश्यो लोकसंग्रहायैतं एव कुर्यात् ॥ ३.२९॥

प्रकृतिविविक्तात्मस्वभावनिरूपणेन गुणेषु कर्तृत्वं आरोप्य कर्मानुष्ठानप्रकार उक्तः  गुणेषु कर्तृत्वानुसन्धानं चेदं एव  आत्मनो न स्वरूपप्रयुक्तं इदं कर्तृत्वम्, अपि तु गुणसम्पर्ककृतं इति प्राप्ताप्राप्तविवेकेन गुणकृतं इत्यनुसन्धानम् इदानीं आत्मनां परमपुरुषशरीरतया तन्नियाम्यत्वस्वरूपनिरूपणेन भगवति पुरुषोत्तमे सर्वात्मभूते गुणकृतं च कर्तृत्वं आरोप्य कर्मकर्तव्यतोच्यते

 मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा  ।
 निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः  ॥भगवद्गीता ३.३०॥

मयि सर्वेश्वरे सर्वभूतान्तरात्मभूते सर्वाणि कर्माण्यध्यात्मचेतसा संन्यस्य, निराशीर्निर्ममश्च विगतज्वरो युद्धादिकं सर्वं चोदितं कर्म कुरुष्व । आत्मनि यच्चेतः तदध्यात्मचेतः । आत्मस्वरूपविषयेण श्रुतिशतसिद्धेन ज्ञानेनेत्यर्थः । "अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा ..... अन्तः प्रविष्टं कर्तारं एतम्" "आत्मनि तिष्ठनात्मनोऽन्तरो यं आत्मा न वेद यस्यात्मा शरीरं य आत्मानं अन्तरो यमयति, स त आत्मान्तर्याम्यमृतः" इत्येवं आद्याः श्रुतयः परमपुरुषप्रवर्त्यं तच्छरीरभूतं एनं आत्मानम्, परमपुरुषं च प्रवर्तयितारं आचक्षते । स्मृतयश्च "प्रशासितारं सर्वेषाम्" इत्याद्याः । "सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानं अपोहनं च", "ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥३." इति वक्ष्यते  । अतो मच्छरीरतया मत्प्रवर्त्यात्मस्वरूपानुसन्धानेन सर्वाणि कर्माणि मयैव क्रियमाणानीति मयि परमपुरुषे संन्यस्य, तानि च केवलं मदाराधनानीति कृत्वा तत्फले निराशीः, तत एव तत्र कर्मणि ममतारहितो भूत्वा विगतज्वरो युद्धादिकं कुरुष्व   स्वकीयेनात्मना कर्त्रा स्वकीयैश्चोपकरणैः स्वाराधनैकप्रयोजनाय परमपुरुषः सर्वशेषी सर्वेश्वरः स्वयं एव स्वकर्माणि कारयतीत्यनुसन्धाय, कर्मस्ममतारहितः, प्राचीनेनानादिकालप्रवृत्तानन्तपापसञ्चयेन कथं अहं भविष्यामीत्येवंभूतान्तर्ज्वरविनिर्मुक्तः, परमपुरुष एव कर्मभिराराधितो
बन्धान्मोचयिष्यतीति सुखेन कर्मयोगं एव कुरुष्वित्यर्थः । "तं ईश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम्", "पतिं विश्वस्य" , "पतिं पतीनाम्" इत्यादिश्रुतिसिद्धिं हि सर्वेश्वरत्वं सर्वशेषित्वं च । ईश्वरत्वं नियन्तृत्वम्, शेषित्वं पतित्वं ॥३.३०॥

अयं एव साक्षादुपनिषत्सारभूतोऽर्थ इत्याह

 ये मे मतं इदं नित्यं अनुतिष्ठन्ति मानवाः  ।
 श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः  ॥भगवद्गीता ३.३१॥

ये मानवाः शास्त्राधिकारिणः अयं एव शास्त्रार्थ इति एतन्मे मतं निश्चित्य तथानुतिष्ठन्ति, ये चाननुतिष्ठन्तोऽप्यस्मिन्शास्त्रार्थे श्रद्दधाना भवन्ति, ये चाश्रद्दधाना अपि एवं शास्त्रार्थो न संभवतीति नाभ्यसूयन्ति  अस्मिन्महागुणे शास्त्रार्थे दोषं अनाविष्कुर्वन्तो भवन्तीत्यर्थः  ते सर्वे बन्धहेतुभिरनादिकालारब्धैस्सर्वैः कर्मभिर्मुच्यन्ते; तेऽपि  इत्यपिशब्दादेषां पृथक्करणं । इदानीं अननुतिष्ठन्तोऽप्यस्मिन्शास्त्रार्थे श्रद्दधाना अनभ्यसूयवश्च श्रद्धया चानसूयया च क्षीणपापाः अचिरेणेमं एव शास्त्रार्थं अनुष्ठाय मुच्यन्त इत्यर्थः ॥३.३१॥

भगवदभिमतं औपनिषदं अर्थं अननुतिष्ठतां अश्रद्दधानानां अभ्यसूयतां च दोषं आह

 ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
 सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः  ॥भगवद्गीता ३.३२॥

ये त्वेतत्सर्वं आत्मवस्तु मच्छरीरतया मदाधारं मच्छेषभूतं मदेकप्रवर्त्यं इति मे मतं नानुतिष्ठन्ति नैवं अनुसन्धाय सर्वाणि कर्माणि कुर्वते, ये च न श्रद्दधते, ये चाभ्यसूयन्तो वर्तन्ते  तान्सर्वेषु ज्ञानेषु विशेषेण मूढान्तत एव नष्टान्, अचेतसो विद्धि; चेतःकार्यं हि वस्तुयाथात्म्यनिश्चयः; तदभावादचेतसः; विपरीतज्ञानाः सर्वत्र विमूढाश्च ॥३.३२॥

एवं प्रकृतिसंसर्गिणस्तद्गुणोद्रेककृतं कर्तृत्वम्, तच्च परमपुरुषायत्तं इत्यनुसन्धाय कर्मयोगयोग्येन ज्ञानयोगयोग्येन च कर्मयोगस्य सुशकत्वादप्रमादत्वादन्तर्गतात्मज्ञानतया निरपेक्षत्वात्, इतरस्य दुश्शकत्वात्सप्रमादत्वाच्शरीरधारणाद्यर्थतया कर्मापेक्षत्वात्कर्मयोग एव कर्तव्यः; व्यपदेश्यस्य तु विशेषतः स एव कर्तव्यः इति चोक्तं । अतः परं अध्यायशेषेण ज्ञानयोगस्य दुश्शकतया सप्रमादतोच्यते

 सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि  ।
 प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति  ॥भगवद्गीता ३.३३॥

प्रकृतिविविक्तं ईदृशं आत्मस्वरूपम्, तदेव सर्वदानुसन्धेयं इति च शास्त्राणि प्रतिपादयन्तीति ज्ञानवानपि स्वस्याः प्रकृतेः प्राचीनवासनायास्सदृशं प्राकृतविषयेष्वेव चेष्टते; कुतः? प्रकृतिं यान्ति भूतानि  अचित्संसृष्टा जन्तवोऽनादिकालप्रवृत्तवासनां एवानुयान्ति; तानि वासनानुयायीनि भूतानि  शास्त्रकृतो निग्रहः किं करिष्यति ॥३.३३॥

प्रकृत्यनुयायित्वप्रकारं आह

 इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ  ।
 तयोर्न वशं आगच्छेत्तौ ह्यस्य परिपन्थिनौ  ॥भगवद्गीता ३.३४॥

श्रोत्रादिज्ञानेन्द्रियस्यार्थे शब्दादौ वागादिकर्मेन्द्रियस्य चार्थे वचनादौ प्राचीनवासनाजनिततदनुबुभूषारूपो यो रागोऽवर्जनीयो व्यवस्थितः; तदनुभवे प्रतिहते चावर्जनीयो यो द्वेषो व्यवस्थितः, तावेवं ज्ञानयोगाय यतमानं नियमितसर्वेन्द्रियं स्ववशे कृत्वा प्रसह्य स्वकार्येषु संयोजयतः । ततश्चायं आत्मस्वरूपानुभवविमुखो विनष्टो भवति । ज्ञानयोगारम्भेण रागद्वेषवशं आगम्य न विनश्येत् । तौ हि रागद्वेषौ अस्य दुर्जयौ शत्रू  ज्ञानाभ्यासं वारयतः ॥३.३४॥

 श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
 स्वधर्मे निधनं श्रेयः परधर्मो भयावहः  ॥भगवद्गीता ३.३५॥

अतः सुशकतया स्वधर्मभूतः कर्मयोगो विगुणोऽप्यप्रमादगर्भः प्रकृतिसंसृष्टस्य दुश्शकतया परधर्मभूताज्ज्ञानयोगात्सगुणादपि किंचित्कालं अनुष्ठितात्सप्रमादाच्छ्रेयान्; स्वेनैवोपादातुं योग्यतया स्वधर्मभूते कर्मयोगे वर्तमानस्यैकस्मिन्जन्मन्यप्राप्तफलतया निधनं अपि श्रेयः, अनन्तरायहततयानन्तरजन्मन्यपि अव्याकुलकर्मयोगारम्भसंभवात् । प्रकृतिसंसृष्टस्य स्वेनैवोपादातुं अशक्यतया परधर्मभूतो ज्ञानयोगः प्रमादगर्भतया भयावहः ॥३.३५॥

 अर्जुन उवाच
 अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः  ।
 अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः  ॥भगवद्गीता ३.३६॥

अथायं ज्ञानयोगाय प्रवृत्तः पुरुषः स्वयं विषयाननुभवितुं अनिच्छन्नपि केन प्रयुक्तो विषयानुभवरूपं पापं बलान्नियोजित इव चरति ॥३.३६॥

 श्रीभगवानुवाच
 काम एष क्रोध एष रजोगुणसमुद्भवः  ।
 महाशनो महापाप्मा विद्ध्येनं इह वैरिणम् ॥भगवद्गीता ३.३७॥

अस्योद्भवाभिभवरूपेण वर्तमानगुणमयप्रकृतिसंसृष्टस्य ज्ञानायारब्धस्य रजोगुणसमुद्भवः प्राचीनवासनाजनितः शब्दादिविषयः कामो महाशनः शत्रुः विषयेष्वेनं आकर्षति । एष एव प्रतिहतगतिः प्रतिहतिहेतुभूतचेतनान्प्रति क्रोधरूपेण परिणतो महापाप्मा परहिंसादिषु प्रवर्तयति । एनं रजोगुणसमुद्भवं सहजं ज्ञानयोगविरोधिनं वैरिणं विद्धि ॥३.३७॥

 धूमेनाव्रियते वह्निर्यथादर्शो मलेन च  ।
 यथोल्बेनावृतो गर्भस्तथा तेनेदं आवृतम् ॥भगवद्गीता ३.३८॥

यथा धूमेन वह्निराव्रियते, यथा आदर्शो मलेन, यथा च उल्बेनावृतो गर्भः, तथा तेन कामेन इदं जन्तुजातं आवृतं ॥३.३८॥

आवरणप्रकारं आह

 आवृतं ज्ञानं एतेन ज्ञानिनो नित्यवैरिणा  ।
 कामरूपेण कौन्तेय दुष्पूरेणानलेन च  ॥भगवद्गीता ३.३९॥

अस्य जन्तोः ज्ञानिनः ज्ञानस्वभावस्यात्मविषयं ज्ञानं एतेन  कामकारेण विषयव्यामोहजननेन नित्यवैरिणा आवृतम्; दुष्पूरेण  प्राप्त्यनर्हविषयेण, अनलेन च  पर्याप्तिरहितेन ॥३.३९॥

कैरुपकरणैरयं काम आत्मानं अधिष्ठितीत्यत्राह

 इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानं उच्यते  ।
 एतैर्विमोहयत्येष ज्ञानं आवृत्य देहिनम् ॥भगवद्गीता ३.४०॥

अधितिष्ठत्येभिरयं काम आत्मानं इतीन्द्रियाणि मनो बुद्धिरस्याधिष्ठानम्; एतैरिन्द्रियमनोबुद्धिभिः कामोऽधिष्ठानभूतैर्विषयप्रवणैर्देहिनं प्रकृतिसंसृष्टं ज्ञानं आवृत्य विमोहयति  विविधं मोहयति, आत्मज्ञानविमुखं विषयानुभवपरं करोतीत्यर्थः ॥३.४०॥

 तस्मात्त्वं इन्द्रियाण्यादौ नियम्य भरतर्षभ  ।
 पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥भगवद्गीता ३.४१॥

यस्मात्सर्वेन्द्रियव्यापारोपरतिरूपे ज्ञानयोगे प्रवृत्तस्यायं कामरूपः शत्रुः विषयाभिमुख्यकरणेन आत्मनि वैमुख्यं करोति, तस्मात्प्रकृतिसंसृष्टतयेन्द्रियव्यापारप्रवणस्त्वं आदौ  मोक्षोपायारम्भसमय एव, इन्द्रियव्यापाररूपे कर्मयोगे इन्द्रियाणि नियम्य, एनं ज्ञानविज्ञाननाशनम् आत्मस्वरूपविषयस्य ज्ञानस्य तद्विवेकविषयस्य च नाशनं पाप्मानं कामरूपं वैरिणं प्रजहि  नाशय ॥३.४१॥

ज्ञानविरोधिषु प्रधानं आह

 इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः  ।
 मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः  ॥भगवद्गीता ३.४२॥

ज्ञानविरोधे प्रधानानीन्द्रियाण्याहुः, यत इन्द्रियेषु विषयव्यापृतेषु आत्मनि ज्ञानं न प्रवर्तते । इन्द्रियेभ्यः परं मनः  इन्द्रियेषु उपरतेष्वपि मनसि विषयप्रवणे आत्मज्ञानं न संभवति । मनसस्तु परा बुद्धिः  मनसि वृत्त्यन्तरविमुखेऽपि विपरीताध्यवसायप्रवृत्तौ सत्यां ज्ञानं न प्रवर्तते । सर्वेषु बुद्धिपर्यन्तेषु उपरतेष्वपीच्छापर्यायः कामो रजस्समुद्भवो वर्तते चेत्, स एवैतानीन्द्रियादीन्यपि स्वविषये वर्तयित्वा आत्मज्ञानं निरुणद्धि । तदिदं उच्यते, यो बुद्धेः परस्तु सः इति । बुद्धेरपि यः परस्स काम इत्यर्थः ॥३.४२॥

 एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानं आत्मना  ।
 जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥भगवद्गीता ३.४३॥

एवं बुद्धेरपि परं कामं ज्ञानयोगविरोधिनं वैरिणं बुद्ध्वा आत्मानम् मनः आत्मना  बुद्ध्या कर्मयोगेऽवस्थाप्य एनं कामरूपं दुरासदं शत्रुं जहि  नाशयेति ॥३.४३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:16.2330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Senior Personnel Officer

  • वरिष्ठ कार्मिक अधिकारी 
RANDOM WORD

Did you know?

How do I contact you?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.