TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामानुजभाष्य - अध्याय १७

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


अध्याय १७
देवासुरविभागोक्तिमुखेन प्राप्यतत्त्वज्ञानं तत्प्राप्त्युपायज्ञानं च वेदैकमूलं इत्युक्तं । इदानीं अशास्त्रविहितस्यासुरत्वेनाफलत्वम्, शास्त्रविहितस्य च गुणतस्त्रैविध्यम्, शास्त्रसिद्धस्य लक्षणं चोच्यते । तत्राशास्त्रविहितस्य निष्फलत्वं अजाननशास्त्रविहिते श्रद्धासंयुक्ते यागादौ सत्त्वादिनिमित्तफलभेदबुभुत्सया अर्जुनः पृच्छति

 अर्जुन उवाच
 ये शास्त्रविधिं उत्सृज्य यजन्ते श्रद्धयान्विताः  ।
 तेषां निष्ठा तु का कृष्ण सत्त्वं आहो रजस्तमः  ॥भगवद्गीता १७.१॥

शास्त्रविधिं उत्सृज्य श्रद्धयान्विता ये यजन्ते, तेषां निष्ठा का ? किं सत्त्वं ? आहोस्विद्रजः ? अथ तमः ? निष्ठा स्थितिः; स्थीयतेऽस्मिन्निति स्थितिः सत्त्वादिरेव निष्ठेत्युच्यते । तेषां किं सत्त्वे स्थितिः ? किं वा रजसि ? किं वा तमसीत्यर्थः ॥१७.१॥

एवं पृष्टो भगवानशास्त्रविहितश्रद्धायास्तत्पूर्वकस्य च यागादेर्निष्फलत्वं हृदि निधाय शास्त्रीयस्यैव यागादेर्गुणतस्त्रैविध्यं प्रतिपादयितुं शास्त्रीयश्रद्धायाः त्रैविध्यं तावदाह

 श्रीभगवानुवाच
 त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा  ।
 सात्त्विकी राजसी चैव तामसी चेति तां शृणु  ॥भगवद्गीता १७.२॥

सर्वेषां देहिनां श्रद्धा त्रिविधा भवति । सा च स्वभावजा स्वभावः स्वासाधारणो भावः, प्राचीनवासनानिमित्तः तत्तद्रुचिविशेषः । यत्र रुचिः तत्र श्रद्धा जायते । श्रद्धा हि स्वाभिमतं साधयत्येतदिति विश्वासपूर्विका साधने त्वरा । वासना रुचिश्च श्रद्धा चात्मधर्माः गुणसंसर्गजाः; तेषां आत्मधर्माणां वासनादीनां जनकाः देहेन्द्रियान्तःकरणविषयगता धर्माः कार्यैकनिरूपणीयाः सत्त्वादयो गुणाः सत्त्वादिगुणयुक्तदेहाद्यनुभवजा इत्यर्थः । ततश्चेयं श्रद्धा सात्त्विकी राजसी तामसी चेति त्रिविधा । तां इमां श्रद्धां शृणु; सा श्रद्धा यत्स्वभावा, तं स्वभावं शृण्वित्यर्थः ॥१७.२॥

 सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत  ।
 श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः  ॥भगवद्गीता १७.३॥

सत्त्वं अन्तःकरणं । सर्वस्य पुरुषस्यान्तःकरणानुरूपा श्रद्धा भवति । अन्तःकरणं यादृशगुणयुक्तम्, तद्विषया श्रद्धा जायत इत्यर्थः । सत्त्वशब्दः पूर्वोक्तानां देहेन्द्रियादीनां प्रदर्शनार्थः । श्रद्धामयोऽयं पुरुषः । श्रद्धामयः श्रद्धापरिणामः । यो यच्छ्रद्धः यः पुरुषो यादृश्या श्रद्धया युक्तः, स एव सः स तादृशश्रद्धापरिणामः । पुण्यकर्मविषये श्रद्धायुक्तश्चेत्, पुण्यकर्मफलसंयुक्तो भवतीति श्रद्धाप्रधानः फलसंयोग इत्युक्तं भवति ॥१७.३॥

तदेव विवृणोति

 यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः  ।
 प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः  ॥भगवद्गीता १७.४॥

सत्त्वगुणप्रचुराः सात्त्विक्या श्रद्धया युक्ताः देवान्यजन्ते । दुःखासंभिन्नोत्कृष्टसुखहेतुभूतदेवयागविषया श्रद्धा सात्त्विकीत्युक्तं भवति । राजसा यक्षरक्षांसि यजन्ते । अन्ये तु तामसा जनाः प्रेतान्भूतगणान्यजन्ते । दुःखसंभिन्नाल्पसुखजननी राजसी श्रद्धा; दुःखप्रायात्यल्पसुखजननी तामसीत्यर्थः ॥१७.४॥

एवं शास्त्रीयेष्वेव यागादिषु श्रद्धायुक्तेषु गुणतः फलविशेषः. अशास्त्रीयेषु तपोयागप्रभृतिषु मदनुशासनविपरीतत्वेन न कश्चिदपि सुखलवः, अपि त्वनर्थ एवेति हृदि निहितं व्यञ्जयनाह

 अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः  ।
 दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः  ॥भगवद्गीता १७.५॥
 कर्शयन्तः शरीरस्थं भूतग्रामं अचेतसः  ।
 मां चैवान्तश्शरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥भगवद्गीता १७.६॥

अशास्त्रविहितं अतिघोरं अपि तपो ये जनाः तप्यन्ते । प्रदर्शनार्थं इदं । अशास्त्रविहितं बह्वायासं यागादिकं ये कुर्वते, दम्भाहंकारसंयुक्ताः कामरागबलान्विताः शरीरस्थं पृथिव्यादिभूतसमूहं कर्शयन्तः, मदंशभूतं जीवं चान्तश्शरीरस्थं कर्शयन्तो ये तप्यन्ते, यागादिकं च कुर्वते; तानासुरनिश्चयान्विद्धि । असुराणां निश्चय आसुरो निश्चयः; असुरा हि मदाज्ञाविपरीतकारिणः; मदाज्ञाविपरीतकारित्वात्तेषां सुखलवसंबन्धो न विद्यते; अपि त्वननर्थव्राते पतन्तीति पूर्वं एवोक्तम्, "पतन्ति नरकेऽश्चौ" इति ॥१७.५॥६ ॥

अथ प्रकृतं एव शास्त्रीयेषु यज्ञादिषु गुणतो विशेषं प्रपञ्चयति । तत्राहारमूलत्वात्सत्त्वादिवृद्धेराहारत्रैविध्यं प्रथमं उच्यते । "अन्नमयं हि सोम्य मनः", "आहारशुद्धौ सत्त्वशुद्धिः" इति हि श्रूयते

 आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः  ।
 यज्ञस्तपस्तथा दानं तेषां भेदं इमं शृणु  ॥भगवद्गीता १७.७॥

आहारोऽपि सर्वस्य प्राणिजातस्य सत्त्वादिगुणत्रयान्वयेन त्रिविधः प्रियो भवति । तथैव यज्ञोऽपि त्रिविधः, तथा तपः दानं च । तेषां भेदं इमं शृणु  तेषां आहारयज्ञतपोदानानां सत्त्वादिभेदेनेमं उच्यमानं भेदं शृणु ॥१७.७॥

 आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः  ।
 रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियः  ॥भगवद्गीता १७.८॥

सत्त्वगुणोपेतस्य सत्त्वमया आहाराः प्रिया भवन्ति । सत्त्वमयाश्चाहारा आयुर्विवर्धनाः; पुनरपि सत्त्वस्य विवर्धनाः । सत्त्वं अन्तःकरणम्; अन्तःकरणकार्यं ज्ञानं इह सत्त्वशब्देनोच्यते । "सत्त्वात्संजायते ज्ञानम्" इति सत्त्वस्य ज्ञानविवृद्धिहेतुत्वात्, आहारोऽपि सत्त्वमयो ज्ञानविवृद्धिहेतुः । तथा बलारोग्ययोरपि विवर्धनाः । सुखप्रीत्योरपि विवर्धनाः  परिणामकाले स्वयं एव सुखस्य विवर्धनाः ;तथा प्रीतिहेतुभूतकर्मारम्भद्वारेण प्रीतिवर्धनाः । रस्याः मधुररसोपेताः । स्निग्धाः स्नेहयुक्ताः । स्थिराः स्थिरपरिणामाः । हृद्याः रमणीयवेषाः । एवंविधाः सत्त्वमया आहाराः सात्त्विकस्य पुरुषस्य प्रियाः ॥१७.८॥

 कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः  ।
 आहारा राजसस्येष्टा दुःखशोकामयप्रदाः  ॥भगवद्गीता १७.९॥

कटुरसाः, अम्लरसाः, लवणोत्कटाः, अत्युष्णाः, अतितीक्षणाः, रूक्षाः, विदाहिनश्चेति कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगास्तीक्ष्णाः; शोषकरा रूक्षाः; तापकरा विदाहिनः । एवंविधा आहारा राजसस्येष्टाः । ते च रजोमयत्वाद्दुःखशोकामयवर्धनाः रजोवर्धनाश्च ॥१७.९॥

 यातयामं गतरसं पूति पर्युषितं च यत् ।
 उच्छिष्टं अपि चामेध्यं भोजनं तामसप्रियम् ॥भगवद्गीता १७.१०॥

यातयामं चिरकालावस्थितम्; गतरसं त्यक्तस्वाभाविकरसम्; पूति दुर्गन्धोपेतम्, पर्युषितं कालातिपत्त्या रसान्तरापन्नम्; उच्छिष्टं गुर्वादिभ्योऽन्येषां भुक्तशिष्टम्; अमेध्यं अयज्ञार्हम्; अयज्ञशिष्टं इत्यर्थः । एवंविधं तमोमयं भोजनं तामसप्रियं भवति । भुज्यत इति आहार एव भोजनं । पुनश्च तमसो वर्धनं । अतो हितैषिभिः सत्त्वविवृद्धये सात्त्विकाहार एव सेव्यः ॥१७.१०॥

 अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते  ।
 यष्टव्यं एवेति मनस्समाधाय स सात्त्विकः  ॥भगवद्गीता १७.११॥

फलाकाङ्क्षारहितैः पुरुषैः विधिदृष्टः शास्त्रदृष्टः मन्त्रद्रव्यक्रियादिभिर्युक्तः, यष्टव्यं एवेति भगवदाराधनत्वेन स्वयंप्रयोजनतया यष्टव्यं इति मनस्समाधाय यो यज्ञ इज्यते, स सात्त्विकः ॥१७.११॥

 अभिसन्धाय तु फलं दम्भार्थं अपि चैव यः  ।
 इज्यते भरतश्रेष्थ तं यज्ञं विद्धि राजसम् ॥भगवद्गीता १७.१२॥

फलाभिसन्धियुक्तैर्दम्भगर्भो यशःफलश्च यो यज्ञ इज्यते, तं यज्ञं राजसं विद्धि ॥१७.१२॥

 विधिहीनं असृष्टान्नं मन्त्रहीनं अदक्षिणम् ।
 श्रद्धाविरहितं यज्ञं तामसं परिचक्षते  ॥भगवद्गीता १७.१३॥

विधिहीनं ब्राह्मणोक्तिहीनम्; सदाचारयुक्तैर्विद्वद्भिर्ब्राह्मणैर्यजस्वेत्युक्तिहीनं इत्यर्थः; असृष्टान्नं अचोदितद्रव्यम्, मन्त्रहीनं अदक्षिणं श्रद्धाविरहितं च यज्ञं तामसं परिचक्षते ॥१७.१३॥

अथ तपसो गुणतस्त्रैविध्यं वक्तुं तस्य शरीरवाङ्मनोनिष्पाद्यतया स्वरूपभेदं तावदाह

 देवद्विजगुरुप्राज्ञपूजनं शौचं आर्जवम् ।
 ब्रह्मचर्यं अहिंसा च शारीरं तप उच्यते  ॥भगवद्गीता १७.१४॥

देवद्विजगुरुप्राज्ञानां पूजनम्, शौचं तीर्थस्नानादिकम्, आर्जवं यथामनःशरीरवृत्तम्, ब्रह्मचर्यं योषित्सु भोग्यताबुद्धियुक्तेक्षणादिरहितत्वम्, अहिंसा अप्राणिपीडा; एतच्छरीरं तप उच्यते ॥१७.१४॥

 अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
 स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते  ॥भगवद्गीता १७.१५॥

परेषां अनुद्वेगकरं सत्यं प्रियहितं च यद्वाक्यं स्वाध्यायाभ्यसनं चेत्येतद्वाङ्मयं तप उच्यते ॥१७.१५॥

 मनःप्रसादः सौम्यत्वं मौनं आत्मविनिग्रहः  ।
 भावसंशुद्धिरित्येतत्तपो मानसं उच्यते  ॥भगवद्गीता १७.१६॥

मनःप्रसादः मनसः क्रोधादिरहितत्वम्, सौम्यत्वं मनसः परेषां अभ्युदयप्रावण्यम्, मौनम् मनसा वाक्प्रवृत्तिनियमनम्, आत्मविनिग्रहः मनोवृत्तेर्ध्येयविषयेऽवस्थापनम्, भावशुद्धिः आत्मव्यतिरिक्तविषयचिन्तारहितत्वम्; एतन्मानसं तपः ॥१७.१६॥

 श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः  ।
 अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते  ॥भगवद्गीता १७.१७॥

अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः, युक्तैः परमपुरुषाराधनरूपं इदं इति चिन्तायुक्तैः नरैः परया श्रद्धया यत्त्रिविधं तपः कायवाङ्मनोभिस्तप्तम्, तत्सात्त्विकं परिचक्षते ॥१७.१७॥

 सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
 क्रियते तदिह प्रोक्तं राजसं चलं अध्रुवम् ॥भगवद्गीता १७.१८॥

मनसा आदरः सत्कारः, वाचा प्रशंसा मानः, शरीरो नमस्कारादिः पूजा । फलाभिसन्धिपूर्वकं सत्काराद्यर्थं च दम्भेन हेतुना यत्तपः क्रियते, तदिह राजसं प्रोक्तम्; स्वर्गादिफलसाधनत्वेनास्थिरत्वाच्चलं अध्रुवं । चलत्वं पातभयेन चलनहेतुत्वम्, अध्रुवत्वं क्षयिष्णुत्वं॥

 मूढग्राहेणात्मनो यत्पीडया क्रियते तपः  ।
 परस्योत्सादनार्थं वा तत्तामसं उदाहृतम् ॥भगवद्गीता १७.१९॥

मूढाः अविवेकिनः, मूढग्राहेण मूढैः कृतेनाभिनिवेशेन आत्मनः शक्त्यादिकं अपरीक्ष्य आत्मपीडया यत्तपः क्रियते, परस्योत्सादनार्थं च यत्क्रियते, तत्तामसं उदाहृतं ॥१७.१९॥

 दातव्यं इति यद्दानं दीयतेऽनुपकारिणे  ।
 देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥भगवद्गीता १७.२०॥

फलाभिसन्धिरहितं दातव्यं इति देशे काले पात्रे चानुपकारिणे यद्दानं दीयते, तद्दानं सात्त्विकं स्मृतं ॥१७.२०॥

 यत्तु प्रत्युपकारार्थं फलं उद्दिश्य वा पुनः  ।
 दीयते च परिक्लिष्टं तद्राजसं उदाहृतम् ॥भगवद्गीता १७.२१॥

प्रत्युपकारकटाक्षगर्भं फलं उद्दिश्य च, परिक्लिष्टं अकल्याणद्रव्यकं यद्दानं दीयते, तद्राजसं उदाहृतं ॥१७.२१॥

 अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते  ।
 असत्कृतं अवज्ञातं तत्तामसं उदाहृतम् ॥भगवद्गीता १७.२२॥

अदेशकाले अपात्रेभ्यश्च यद्दानं दीयते, असत्कृतं पादप्रक्षालनादिगौरवरहितम्, अवज्ञातं सावज्ञं अनुपचारयुक्तं यद्दीयते, तत्तामसं उदाहृतं ।२२ ॥

एवं वैदिकानां यज्ञतपोदानानां सत्त्वादिगुणभेदेन भेद उक्तः; इदानीं तस्यैव वैदिकस्य यज्ञादेः प्रणवसंयोगेन तत्सच्छब्दव्यपदेश्य्तया च लक्षणं उच्यते

 ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः  ।
 ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा  ॥भगवद्गीता १७.२३॥

ओं तत्सदिति त्रिविधोऽयं निर्देशः शब्दः ब्रह्मणः स्मृतः ब्रह्मणोऽन्वयी भवति । ब्रह्म च वेदः । वेदशब्देन वैदिकं कर्मोच्यते । वैदिकं यज्ञादिकं । यज्ञादिकं कर्म ओं तत्सदिति शब्दान्वितं भवति । ओं इति शब्दस्यान्वयो वैदिककर्माङ्गत्वेन प्रयोगादौ प्रयुज्यमानतया; तत्सदिति शब्दयोरन्वयः पूज्यत्वाय वाचकतया । तेन त्रिविधेन शब्देनान्विता ब्राह्मणाः वेदान्वयिनस्त्रैवर्णिकाः वेदाश्च यज्ञाश्च पुरा विहिताः पुरा मयैव निर्मिता इत्यर्थः॥

त्रयाणां ओं तत्सदिति शब्दानां अन्वयप्रकारो वर्ण्यते; प्रथमं ओं इति शब्दस्यान्वयप्रकारं आह

 तस्मादों इत्युदाहृत्य यज्ञदानतपःक्रियाः  ।
 प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥भगवद्गीता १७.२४॥

तस्माद्ब्रह्मवादिनां वेदादिनां त्रैवर्णिकानां यज्ञदानतपःक्रियाः विधानोक्ताः वेदविधानोक्ताः आदौ ओं इत्युदाहृत्य सततं सर्वदा प्रवर्तन्ते । वेदाश्च ओं इत्युदाहृत्यारभ्यन्ते । एवं वेदानां वैदिकानां च यज्ञादीनां कर्मणां ओं इति शब्दान्वयो वर्णितः । ओं इतिशब्दान्वितवेदधारणात्तदन्वितयज्ञादिकर्मकरणाच्च ब्राह्मणशब्दनिर्दिष्टानां त्रैवर्णिकानां अपि ओं इति शब्दान्वयो वर्णितः ॥१७.२४॥

अथैतेषां तदिति शब्दान्वयप्रकारं आह

 तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः  ।
 दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः  ॥भगवद्गीता १७.२५॥

फलं अनभिसन्धाय वेदाध्ययनयज्ञतपोदानक्रियाः मोक्षकाङ्क्षिभिस्त्रैवर्णिकैर्याः क्रियन्ते, ताः ब्रह्मप्राप्तिसाधनतया ब्रह्मवाचिना तदिति शब्देन निर्देश्याः; "स वः कः किं यत्तत्पदं अनुत्तमम्" इति तच्छब्दो हि ब्रह्मवाची प्रसिद्धः । एवं वेदाध्ययनयज्ञादीनां मोक्षसाधनभूतानां तच्छब्दनिर्देश्यतया तदिति शब्दान्वय उक्तः । त्रैवर्णिकानां अपि तथाविधवेदाध्ययनाद्यनुष्ठानादेव तच्छब्दान्वय उपपन्नः ॥१७.२५॥

अथैषां सच्छब्दान्वयप्रकारं वक्तुं लोके सच्छब्दस्य व्युत्पत्तिप्रकारं आह

 सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते  ।
 प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते  ॥भगवद्गीता १७.२६॥

सद्भावे विद्यमानतायाम्, साधुभावे कल्याणभावे च सर्ववस्तुषु सदित्येतत्पदं प्रयुज्यते लोकवेदयोः । तथा केनचित्पुरुषेणानुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्कर्मेदं इति सच्छब्दो युज्यते प्रयुज्यते इत्यर्थः ॥१७.२६॥

 यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते  ।
 कर्म चैव तदर्थीयं सदित्येवाभिधीयते  ॥भगवद्गीता १७.२७॥

अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सदित्युच्यते । कर्म च तदर्थीयं त्रैवर्णिकार्थीयं यज्ञदानादिकं सदित्येवाभिधीयते । तस्माद्वेदाः वैदिकानि कर्माणि ब्राह्मणशब्दनिर्दिष्टास्त्रैवर्णिकाश्च ओं तत्सदिति शब्दान्वयरूपलक्षणेन अवेदेभ्यश्चावैदिकेभ्यश्च व्यावृत्ता वेदितव्याः ॥१७.२७॥

 अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
 असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह  ॥भगवद्गीता १७.२८॥
अश्रद्धया कृतं शास्त्रीयं अपि होमादिकं असदित्युच्यते । कुतः ? न च तत्प्रेत्य, नो इह न मोक्षाय, न सांसारिकाय च फलायेति ॥१७.२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:17.0130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

VṚṢABHA II(वृषभ)

  • An asura. Ariṣṭa was another name of this asura (See under Ariṣṭa).  
RANDOM WORD

Did you know?

Gotra. Vats & vatsayan are same ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site