दुर्गा सप्तशती - पल्लवयोजनाविधिः

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

अथ सप्तशतीपल्लवयोजनाविधिः ॥
॥ जगदंबा प्रसन्ना ॥

त्रयोदशं १३ प्रथमं १ द्वादशं १२ द्वितीयं २ एकदशं ११ तृतीयं ३ दशमं १० चतुर्थ ४ नवमं ९ पंचमं ५ अष्टमं ८ षष्ठं ६ द्विवारं ( सप्तशत्यध्यायक्रममिति शापविमोचनम् ) अथोत्कीलनं कात्यायनीतंत्रोक्तम् ॥ मध्यमचरित्रं प्रथमं, प्रथमचरित्रं द्वितीयं, उत्तमचरित्रं तृतीयम् ॥ अथ प्रयोगविधिः ॥ तत्र प्रयोगान्तराणि कात्यायनीतंत्रोक्तानि ॥ प्रतिश्लोकमाद्यंतयोः प्रणवं जपेन्मन्त्रसिद्धिः ॥१॥
अग्रे सर्वत श्लोकपदं मंत्रोपलक्षणम् ॥ सप्रणवमनुलोमव्याहतित्रयमादौ, अन्ते तु विलोमं तदित्येवं प्रतिश्लोकं कृत्वा शतावृत्तिपाठेऽतिशीघ्रं सिद्धिः ॥२॥ प्रतिश्लोकमादौ ' जातवेदस ' इत्यृचं पठेत्सर्वकामसिद्धिः ॥३॥
अथ मृत्युनिवारणाय त्र्यंबकमन्त्रं पठेत् ॥ आदावंते च शतमित्यर्थः ॥ प्रतिश्लोकं तन्मंत्रजप इत्यन्यत्र ॥४॥
प्रतिश्लोकं ' शूलेन पाहि नो देवि ' इति पाठादपमृत्युनाशः ॥ अस्य श्लोकस्य लक्षमयुतं सहस्रं शतं वा जपे अपमृत्युवारणम् ॥५॥
प्रतिश्लोकं ' शरणागतदीनार्त ' इति श्लोकं पठेत्सर्वकार्यसिद्धिः ॥६॥
प्रतिश्लोकं ' करोतु सा नः शुभ ' इत्यर्ध पठेत्सर्वकार्यसिद्धिः ॥७॥
स्वामीष्टवरप्राप्तये ' एवं देव्या वरं लब्ध्वा ' इति श्लोकं पठेत् ॥८॥
सर्वापत्तिवारणाय प्रतिश्लोकं ' दुर्गे स्मृता ' इति पठेत् ॥ अस्य केवलस्यापि श्लोकस्य कार्यानुसारेण लक्षमयुतं सहस्रं शतं वा जपः ॥९॥
' सर्वा बाधा ' इत्यस्य लक्षजपे प्रतिश्लोकपाठे बा श्लोकोक्तं फलम् ॥१०॥
' इत्थं यदा यदा बाधा ' इति श्लोकजपे महामारीशान्तिः ॥११॥
' ततो वव्रे नृपो राज्यम् ' इति मन्त्रस्य जपे पुनः स्वराज्यलाभः ॥१२॥
' हिनस्ति दैत्यतेजांसि ' इत्यनेन सदीपबलिदानेन घण्टाबंधनेन च बालग्रहशान्तिः ॥१३॥
आद्यावृत्तिं अनुलोमेन पठित्वा ततो विपरीतक्रमेण द्वितीयामनुलोमेन तृतीयामित्येवमावृत्तित्रयेण शीघ्रं कार्यसिद्धिः ॥१४॥
सर्वापत्तिवारणाय ' दुर्गे स्मृता ' इत्यर्ध, ततो ' यदन्ति यच्च दूरके ' इत्यृचं तदन्तें ' दारिद्र्यदुःख ' इत्यर्धमेव कार्यानुसारेण लक्षमयुतं सहस्रं शतं वा जपः ॥१५॥
' कांसोस्मि ' इत्यृचं प्रतिश्लोकं पठेल्लक्ष्मीप्राप्तिः ॥१६॥
प्रतिश्लोकम् ' अनृणा अस्मिन् ' इत्यृचं पठेदृणपरिहारः ॥१७॥
मारणार्थम् ' एवमुक्त्वा समुत्पत्य ' इति श्लोकं प्रतिश्लोकं पठन्मारणोक्तावृत्तिभिः फलसिद्धिः ॥१८॥
' ज्ञानिनामपि चेतांसि ' इति श्लोकजपमात्रेण सद्यो मोहनमित्यनुभवसिद्धम् ॥ प्रतिश्लोकं तच्छ्लोकपाठे त्ववश्यम् ॥१९॥
' रोगानशेषान् ' इति श्लोकस्य प्रतिश्लोकं पाठे सकलरोगनाशः ॥ तन्मात्रं जपेऽपि सः ॥२०॥
' इत्युक्त्वा सा तदा देवी गम्भीर - इति श्लोकस्य प्रतिश्लोकं पाठे पृथग्जपे वा विद्याप्राप्तिर्वाग्विकृतिनाशश्च ॥२१॥
' भगवत्या कृतं सर्वम् ' इत्यादिद्वादशोत्तरशताक्षरो मंत्रः सर्वकामदः सर्वापत्तिवारणश्चु ॥२२॥
' देवि प्रपन्नार्तिहरे ' इति श्लोकस्य यत्राकार्य लक्षायुतसकच शतान्यतमसंख्यया जपे प्रतिश्लोकं पाठे वा सर्वापन्निवृत्तिः सर्वकामाप्तिश्च ॥ एषु प्रयोगेषु प्रतिश्लोकं दीपाग्रे केवलमेव नमस्काणरेतिशीघ्नं सिद्धिः ॥ प्रतिश्लोकं कामबीजसंपुटितस्य एकतत्त्वारिंशद्दिनं त्रिरावृत्ती सर्वकामसिद्धिः ॥२३॥
एकविंशतिदिनपर्यंतमुक्तरीत्या प्रत्यहं द्वादशावृत्तौ वशीकरणम् ॥२४॥
मायाबीजसंपुटितस्य फट्पल्लवसहितस्य सप्तदिनपर्यंतं त्रयोदशावृत्तौ उच्चाटनसिद्धिः ॥२५॥
तादृश्या एव दिनचतुष्टयमेकादशावृतौ सर्वोपद्रवनाशः ॥२६॥
एकोनपञ्चाशाद्दिनपर्यतं प्रतिश्लोकं श्रीबीजसंपुटितस्य पञ्चदशावर्तने लक्ष्मीप्राप्तिः ॥२७॥
प्रतिश्लोक वाग्बीजसंपुटितस्य शतावृत्तौ विद्याप्राप्तिः ॥२८॥ ॥
इति पल्लवयोजनाविधिः ॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP