संस्कृत सूची|संस्कृत साहित्य|पुराण|दुर्गा सप्तशती| बलिदानम् दुर्गा सप्तशती सप्तशतीविधिः अथासनविधिः कुमारीपूजा बलिदानम् चण्डीकवचम् अर्गलास्तोत्रम् अथ कीलकम् अथैकादशन्यासाः मूलषडंगन्यासः सप्तशतीस्तोत्रमाला चंडीपंचाक्षरमंत्र सप्तशतीप्रथमचरितम् मध्यमचरितस्य उत्तमचरितस्य वैदिक देवीसूक्तम् तांत्रिकं देवीसूक्तम् प्राधानिकरहस्यम् वैकृतिकं रहस्यम् मूर्तिरहस्यम् उत्तरविधिः सहस्रचंडीप्रयोगः पल्लवयोजनाविधिः महालक्ष्म्या आर्तिक्यम् कुञ्जिकास्तोत्रम् देवीक्षमापनस्तोत्रम् दुर्गापदुद्धारस्तोत्रम् दुर्गा सप्तशती - बलिदानम् दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते. Tags : durga saptashatipothiदुर्गा सप्तशतीपोथी बलिदानम् Translation - भाषांतर ॥ अथ बलिदानम् ॥ मूलांते श्रीमहालक्ष्म्यै नमः पायसबलिं समर्पयामि इति महाकाल्यादियोगिन्यंतयंत्रस्थावरणदेवताभ्यः प्रत्येकं सर्वाभ्यो बलिं दद्यात् ॥ अथ कूष्मांडबलिविधानम् ॥ आचम्य प्राणानायम्य देशाद्युच्चार्य मम सकुटुंबस्य सर्वारिष्टप्रशांतिसर्वाभीष्टसिद्धिकल्पोक्तफलावाप्तिद्वारा श्रीमहाकाली० ३ देवताप्रीत्यर्थ कूष्मांडबलिदानं करिष्ये ॥ तदंगत्वेन पंचोपचारैः पूजनं बलिपूजनं च करिष्ये ॥ मूलेन मुख्यदेवतां पंचोपचारैः संपूज्य तत्पुरतः स्वयमुदङ्मुखो बलिं प्राङ्मुखं पीठे वस्त्रावगुंठितं कूष्मांडं निधाय ॐ कूष्मांडबलये नमः इति आवाहनवस्त्रगंधपुष्पादिभिः संपूज्याभिमंत्रयेत् ॥ पशुस्त्वं बलिरुपेण मम भाग्यादवस्थितः ॥ प्रणमामि ततः सर्वरुपिणं बलिरुपिणम् ॥१॥ चंडिकाप्रीतिदानेन दातुरापद्विनाशनम् ॥ चामुंडाबलिरुपाय बले तुभ्यं नमोऽस्तु ते ॥२॥ यज्ञार्थ बलयः सृष्टाः स्वयमेव स्वयंभुवा ॥ अतस्त्वां घातयाम्यद्य यस्माद्यज्ञे मतो वधः ॥ इति ॥ ततः शस्त्रं गंधादिना संपूज्य अभिमंत्रयेत् ॥ ऐंह्लींश्रीं रसना त्वं चंडिकायाः सुरलोकप्रसाधकः ॥ इति ह्लांह्लीं खङ्ग आंहुं फट् इति हस्ते शस्त्रं गृहीत्वा ॥ ॐ कालिकालि वज्रेश्वरि लोहदंडायै नमः ॥ इति पठन् छित्त्वा छेदनावसरे न विलोकयेत् ॥ कौशिकी रुधिरेणाप्यायतामिति देव्यै अर्ध निवेद्य अवशिष्टार्धस्य पंचभागान्कृत्वा पूतनायै बलिभागं निवेदयामि ॥ चरक्यै बलिभागं० विदार्यै बलिभागं० पापराक्षस्यै बलिभागं० ॥ ततो माषपिष्टपशुं शत्रुं शस्त्रेण छित्त्वा स्कंदाय पश्चर्ध समर्पयामि ॥ विशिखाय पश्वर्ध स० इति समर्प्य शेषं रक्षोभ्यो हरेत् ॥२॥ मंत्रास्तु - ॐ ह्लींस्फुर स्फुर ॐ फ्रीं ॐ हुंफट् मर्द मर्द हुं इति तच्छॆषं बहिर्दद्यात् ॥ बलिं गृह्णंत्विमं देवा आदित्या वसवस्तथा ॥ मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥ असुरा यातुधानाश्च पिशाचोरगराक्षसाः ॥ डाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥ जृंभकाः सिद्धगंधर्वाः साध्या विद्याधरा नगाः ॥ दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः ॥ जगतां शांतिकर्तारो ब्रह्माद्याश्च महर्षयः ॥ मा विघ्नं मा च मे पापं मा संतु परिपंथिनः ॥ सौम्या भवंतु तृप्तास्ते भूतप्रेताः सुखावहाः ॥ भूतानि यानीह वसंति तानि बलिं गृहीत्वा विधिवत्प्रयुक्तम् ॥ अन्यत्र वासं परिकल्पयंतु रक्षंतु मां तानि सदैव चात्र ॥ इति ॥ ततः स्नात्वा कृततिलको देवीं प्रार्थयेत् ॥ खङ्गिनी शू० ५ शूलेन पा० ४ सर्वस्वरुपे० ५ रुपं देहि जयं देहि भगं भगवति देहि मे ॥ पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ॥ महिषघ्नि महामाये चामुण्डे मुण्डमालिनि ॥ आयुरारोग्यमैश्वर्य देहि देवि नमोऽस्तु ते ॥ इति प्रार्थयेत् ॥ एतद्वलिदानं होमांगं तच्च होमोत्तरमेव ॥ पूजांगं वैकल्पिकम् ॥ तत्र च पायसबलिदानमवश्यमेव ॥ इति बलिदानविधिः ॥ ] ॥ अथ सरस्वतीपूजनम् ॥ ॐ नमः पिशाचनिकरंकिनि त्रिशूलखङ्गहस्ते सिंहारुढे एह्येहि आगच्छ आगच्छ इमां पूजां गृह्ण गृह्ण स्वाहा ॥ श्रीसप्तशतिसरस्वत्यै नम आवाह्यामि ॥ तत ॐ ही चंडिकायै नमः ॥ इति मंत्रेण षोडशोपचारैः पूजयेत् ॥ ॥ अथ शापोद्धारमंत्रः ॥ ॐ ह्लींक्लींश्रींक्रांक्रीं चण्डिके देवि शापानुग्रहं कुरु कुरु स्वाहा ७ वारं जपेत् ॥ ॥ अथ उत्कीलनमंत्रः ॥ ॐ श्रींक्लींह्लीं सप्तशतिचण्डिके उत्कीलनं कुरु कुरु स्वाहा २१ वारं जपेत ॥ N/A References : N/A Last Updated : June 17, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP