संस्कृत सूची|संस्कृत साहित्य|पुराण|दुर्गा सप्तशती| सप्तशतीस्तोत्रमाला दुर्गा सप्तशती सप्तशतीविधिः अथासनविधिः कुमारीपूजा बलिदानम् चण्डीकवचम् अर्गलास्तोत्रम् अथ कीलकम् अथैकादशन्यासाः मूलषडंगन्यासः सप्तशतीस्तोत्रमाला चंडीपंचाक्षरमंत्र सप्तशतीप्रथमचरितम् मध्यमचरितस्य उत्तमचरितस्य वैदिक देवीसूक्तम् तांत्रिकं देवीसूक्तम् प्राधानिकरहस्यम् वैकृतिकं रहस्यम् मूर्तिरहस्यम् उत्तरविधिः सहस्रचंडीप्रयोगः पल्लवयोजनाविधिः महालक्ष्म्या आर्तिक्यम् कुञ्जिकास्तोत्रम् देवीक्षमापनस्तोत्रम् दुर्गापदुद्धारस्तोत्रम् दुर्गा सप्तशती - सप्तशतीस्तोत्रमाला दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते. Tags : durga saptashatipothiदुर्गा सप्तशतीपोथी श्रीसप्तशतीस्तोत्रमालामंत्रस्य Translation - भाषांतर ब्रह्मविष्णुरुद्रा ऋषयः ॥ गायत्र्युष्णिगनुष्टुभश्छंदांसि ॥ श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः ॥ नंदाशाकंभरीभीमाः शक्तयः ॥ रक्तदंतिकादुर्गाभ्रामर्यो बीजानि ॥ अग्निवायुसूर्यास्तत्त्वानि ॥ ऋग्यजुः सामवेदा ध्यानानि ॥ मम सकलकामनासिद्धये श्रीमहाकालीमहालक्ष्मीमहासरस्वतीप्रीत्यर्थे जपे विनियोगः ॥ तत्रादौ न्यासः ॥ ॐ खङ्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ शंखिनी चापिनी बाणभुशुंडीपरिघायुधा ॥ अंगुष्ठाभ्यां नमः ॥ ॐ शूलेन पाहि नो देवि पाहि खङ्गेन चाम्बिके ॥ घंटास्वनेन नः पाहि चापज्यानिः स्वनेन च ॥ तर्जनीभ्यां नमः ॥ ॐ प्राच्यां रक्ष प्रतीच्यां च चंडिके रक्ष दक्षिणे ॥ भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ मध्यमाभ्यां नमः ॥ ॐ सौम्यानि यानि रुपाणि त्रैलोक्ये विचरंति ते ॥ यानि चात्यंतघोराणि तै रक्षास्मांस्तथा भुवम् ॥ अनामिकाभ्यां नमः ॥ ॐ खङ्ग शूलगदादीनि यानि शस्त्राणि तेंऽबिके ॥ करपल्लवसंगीनि तैरस्मान्रक्ष सर्वतः ॥ कनिष्ठिकाभ्यां नमः ॥ ॐ सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ॥ भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ करतलकरपृष्ठाभ्यां नमः ॥ एवं हदयादि ॥ ॐ खङ्गिनी शूलिनी घोरा० हदयाय नमः ॥ ॐ शूलेन पाहि नो देवि० शिरसे स्वाहा ॥ ॐ प्राच्यां रक्ष प्रतीच्यां च० शिखायै वषट् ॥ ॐ सौम्यानि यानि रुपाणि० कवचाय हुं ॥ ॐ खङ्गशूलगदादीनि० नेत्रत्रयाय वौषट् ॥ ॐ सर्वस्वरुपे सर्वेशे० अस्त्राय फट् ॥ N/A References : N/A Last Updated : June 17, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP