संस्कृत सूची|संस्कृत साहित्य|पुराण|दुर्गा सप्तशती| उत्तरविधिः दुर्गा सप्तशती सप्तशतीविधिः अथासनविधिः कुमारीपूजा बलिदानम् चण्डीकवचम् अर्गलास्तोत्रम् अथ कीलकम् अथैकादशन्यासाः मूलषडंगन्यासः सप्तशतीस्तोत्रमाला चंडीपंचाक्षरमंत्र सप्तशतीप्रथमचरितम् मध्यमचरितस्य उत्तमचरितस्य वैदिक देवीसूक्तम् तांत्रिकं देवीसूक्तम् प्राधानिकरहस्यम् वैकृतिकं रहस्यम् मूर्तिरहस्यम् उत्तरविधिः सहस्रचंडीप्रयोगः पल्लवयोजनाविधिः महालक्ष्म्या आर्तिक्यम् कुञ्जिकास्तोत्रम् देवीक्षमापनस्तोत्रम् दुर्गापदुद्धारस्तोत्रम् दुर्गा सप्तशती - उत्तरविधिः दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते. Tags : durga saptashatipothiदुर्गा सप्तशतीपोथी उत्तरविधिः Translation - भाषांतर उत्तरविधिः ॥ पुनरुत्कीलनमंत्रजपः ॥ ॐ श्रींक्लींह्लीं सप्तशतिचंडिके उत्कीलनं कुरु कुरु स्वाहा २१ वारम् ॥ श्रीमहाकाली० २ देवताप्रीत्यर्थ यंत्रस्थदेवतानां पाठोत्तराङ्गपंचोपचारपूजनं करिष्ये ॥ अस्य श्रीनवार्णमंत्र० पाठोत्तराङ्गपूजने विनियोगः ॥ मूलमंत्रेणावाहितदेवताः संपूज्य अपराधसह० आवाहनं० मंत्रहीनं० मत्समो नास्ति० अज्ञानाद्विस्मृतेर्भ्रात्या० ॥ कामेश्वरि जगन्मतः सच्चिदानंदविग्रहे ॥ गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥२॥ अपराधशतं कृत्वा जगदंबेति चोच्चरेत् ॥ यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥४॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदंबिके ॥ इदानीमनुकंप्योऽहं यथेच्छसि तथा कुरु ॥५॥ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ॥ सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरि ॥ इति प्रार्थ्य ॥ अनेन पूर्वसंकल्पितशतचंडीसंख्यापरिपूर्तये नवचंडीसंख्यापरिपूर्तये वा कवचार्गलाकीलकनवार्णमंत्राष्टोत्तरशतजपरात्रिसूक्तपठनपूर्वकं देवीसूक्तनवार्णमंत्राष्टोत्तरशतजपरहस्यत्रयजपांतं श्रीचंडीसप्तशत्याः पाठाख्येन कर्मणा, अथवा सपल्लवे चंडीसप्तशत्याः प्रतिमंत्रांते अमुकमंत्रपल्लवितायाः पाठाख्येन कर्मणा, अथवा श्रीचंडीसप्तशत्याः प्रतिमंत्रादौ अमुकमंत्रयोजितायाः पाठाख्येन कर्मणा ॥ अथवा श्रीचंडीसप्तशत्याः प्रतिमंत्रं आद्यंतयोः अमुकमंत्रसंपुटितायाः पाठाख्येन कर्मणा ॥ भगवती श्रीमहाकाली० ३ स्वरुपिणी अमुकदेवता प्रीयताम् ॥ आचमनं ॥ ॐ ऐं आत्मतत्त्वं शोधयामि नमः स्वाहा ॥ ॐ हीं विद्यातत्त्वं शोधयामि नमः स्वाहा ॥ ॐ क्लीं शिवतत्त्वं शोधयामि नमः स्वाहा ॥ ॐ ऐंह्लीक्लीं सर्वतत्त्वं शोधयामि नमः स्वाहा इत्येवं द्विराचमनं विधाय ॥ यदक्षरपदभ्रष्टं० विसर्गबिंदुमात्राश्च० इति संप्रार्थ्य ॐ स्वः भुवः भूः ॐ इति आसनाधो जलमृदा स्वललाटे तिलकं कृत्वा यथासुखं विहरेदिति शिवम् ॥ एवं धौरेयकुलोत्पन्नश्रीकृष्णशर्मणा रचिता ॥ पद्धतिरनया भूयाच्छ्रीदुर्गा प्रीतमानसा सदया ॥ यथामति विचार्येयं सप्तशत्याः सुपद्धतिः ॥ अनुसृत्य कृता तन्त्रं डामराख्यं मया शुभम् ॥दुर्गासप्तशती संपूर्णा N/A References : N/A Last Updated : June 17, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP