संस्कृत सूची|संस्कृत साहित्य|पुराण|दुर्गा सप्तशती| मूलषडंगन्यासः दुर्गा सप्तशती सप्तशतीविधिः अथासनविधिः कुमारीपूजा बलिदानम् चण्डीकवचम् अर्गलास्तोत्रम् अथ कीलकम् अथैकादशन्यासाः मूलषडंगन्यासः सप्तशतीस्तोत्रमाला चंडीपंचाक्षरमंत्र सप्तशतीप्रथमचरितम् मध्यमचरितस्य उत्तमचरितस्य वैदिक देवीसूक्तम् तांत्रिकं देवीसूक्तम् प्राधानिकरहस्यम् वैकृतिकं रहस्यम् मूर्तिरहस्यम् उत्तरविधिः सहस्रचंडीप्रयोगः पल्लवयोजनाविधिः महालक्ष्म्या आर्तिक्यम् कुञ्जिकास्तोत्रम् देवीक्षमापनस्तोत्रम् दुर्गापदुद्धारस्तोत्रम् दुर्गा सप्तशती - मूलषडंगन्यासः दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते. Tags : durga saptashatipothiदुर्गा सप्तशतीपोथी मूलषडंगन्यासः Translation - भाषांतर ॥ अथ मूलषडंगन्यासः ॥ ॐ ऐंअंगुष्ठाभ्यां नमः ॥ ॐ ह्लींतर्जनीभ्यां नमः ॥ ॐ क्लींमध्यमाभ्यां नमः ॥ ॐ चामुंडायै अनामिकाभ्यां नमः ॥ ॐ विच्चे कनिष्ठिकाभ्यां नमः ॥ ॐ ऐंह्लींक्लीं चामुंडायै विच्चे करतलकरपृष्ठाभ्यां नमः ॥ एवं हदयादि ॥ ततोऽक्षरन्यासः ॥ ॐ ऐं नमः शिखायाम् ॥ ॐ ह्लींनमो दक्षिणनेत्रे ॥ ॐ क्लींनमो वामनेत्रे ॥ ॐ चांनमो दक्षिणकर्णे ॥ ॐ मुंनमो वामकर्णे ॥ ॐ डांनमो दक्षिण नासायाम् ॥ ॐ यैनमो वामनासायाम् ॥ ॐ विनमो मुखे ॥ ॐ च्चेनमो गुह्ये ॥ एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् ॥ ॥ अथाङ्गन्यासः ॥ ॐ ऐंप्राच्यै नमः ॥ ॐ ऐंआग्नेय्यै नमः ॐ ह्लींदक्षिणायै नमः ॥ ॐ ह्लींनैऋत्यै नमः ॐ क्लींप्रतीच्यै नमः ॥ ॐ क्लींवायव्यै नमः ॥ ॐ चामुंडायै उदीच्यै नमः ॐ विच्चे ईशान्यै नमः ॥ ॐ ऐंह्लींक्लींचामुंडायै विच्चे ऊर्ध्वायै नमः ॥ ॐ ऐंह्लींक्लींचामुंडायै विच्चे भूम्यै नमः ॥ अथ ध्यानम् ॥ खङ्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुंडीं शिरः शंखं संदधतीं करैस्त्रिनयनां सर्वागभूषावृताम् ॥ नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौ कमलजो हंतुं मधुं कैटभम् ॥१॥ अक्षस्त्रक्परशूगदेषुकिलिशं पद्मं धनुः कुंडिकां दण्डं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनम् ॥ शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मी सरोजस्थिताम् ॥२॥ घंटाशूलहलानि शंखमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं घनांतविलसच्छीतांशुतुल्यप्रभाम् ॥ गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महापूर्वामत्र सरस्वतीमनुभजे शुंभादिदैत्यार्दिनीम् ॥३॥ मानसोपचारैः संपूज्य ॥ ' ॐ मां माये महामाले सर्वशक्तिस्वरुपिणि ॥ चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मां सिद्धिदा भव ' ॥१॥ ॥ इति मालां प्रार्थ्य ॥ ' ॐ सिद्ध्यै नमः ' इति मालां नत्वा जपेत् ॥ मंत्रार्थस्तु - ' महासरस्वत्यादिरुपे चित्सदास नंदमये चंडिके त्वां ब्रह्मविद्याप्राप्त्यर्थ वयं सर्वदा ध्यायामः ॥ इत्यर्थानुसंधानपूर्वकं नवार्णमंत्रं १०८ वारं जप्त्वा षडंगन्यासं कृत्वा रात्रिसूक्तं जपेत् ॥ तद्वैदिकं पौराणं वा ॥ ॥ तत्रेदं वैदिकम् ॥ रात्रीति सूक्तस्य कुशिक ऋषिः रात्रिर्देवता ॥ गायत्री च्छंदः ॥ श्रीजगदंवाप्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः ॥ ॐ रात्री व्यख्यदायती पुरुत्रा देव्य क्षमिः ॥ विश्वा अधि श्रियोऽधित ॥ ओर्वप्रा अमर्त्या निवतो देव्यु दृतः ॥ ज्योतिषा वाघते तमः ॥ निरु स्वसारमस्कृतोपसं देव्यांयती ॥ अपेदु हासते तमः ॥ सा नौ अद्य यस्या वयं नि ते यामन्नविक्ष्महि ॥ वृक्षे न वसतिं वयः ॥ निग्रामासो अविक्षत नि पद्धंतो नि पक्षिणः ॥ नि श्येनासश्चिदर्थिनः ॥ यावया वृक्यं वृक यवय स्तेनमूम्ये ॥ अथा नः सुतरा भव ॥ उप मा पेपिशत्तमः कृष्ण्म व्यक्तमस्थित ॥ उष ऋणेवं यातय ॥ उप ते गा इवाकरं वृणीष्व दुहितर्दिवः ॥ रात्रि स्तोमं न जिग्युषे ॥ वैदिकम् ॥ अथ पौराणम् ॥ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥ निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभु ॥१॥ ब्रह्मोवाच ॥ त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ॥ सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥२॥ अर्धमात्रास्थिता नित्या याऽनुच्चार्या विशेषतः ॥ त्वमेव संध्या सावित्री त्वं देवि जननी परा ॥३॥ त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ॥ त्वयैतत्पाल्यते देवि त्वमत्स्यंते च सर्वदा ॥४॥ विसृष्टौ सृष्टिरुपा त्वं स्थितिरुपा च पालने ॥ तथा संहतिरुपांते जगतोऽस्य जगन्मये ॥५॥ महाविद्या महामाया महामेधा महास्मृतिः ॥ महामोहा च भवति महादेवि महेश्वरी ॥६॥ प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥७॥ त्वं श्रीस्त्वमीश्वरी त्वं ह्लीस्त्वं बुद्धिर्बोधलक्षणा ॥ लज्जा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षांतिरेव च ॥८॥ खङ्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ शंखिनी चापिनी बाणभूशुंडीपरिघायुधा ॥९॥ सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुंदरी ॥ परापराणां परमा त्वमेव परमेश्वरी ॥१०॥ यच्च किंचिक्त्वचिद्वस्तु सदसद्वाऽखिलात्मिके ॥ तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयते मया ॥११॥ यगा त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥१२॥ विष्णुः शरीरग्रहणमहमीशान एव च ॥ करितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान्भवेत् ॥१३॥ सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥ मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥१४॥ प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥ बोधश्र क्रियतामस्य हंतुमतौ महासुरौ ॥१५॥ रात्रिसूक्तं पौराणम् ॥ अथ पल्लवयोजनासंपुटीकरणपाठज्ञापकं यथा ॥ पल्लवप्रकारः ॥ सर्वमंगल० इति मंत्रपल्लवे ॐ मार्केडेय उवाच सर्वमंगल० इति प्रणवादिप्रतिसप्तशतीमंत्रांते पल्लवमंत्रं पठेदिति ॥ अथ योजना प्रकारः ॐ सर्वमं० ॐ मार्कडेय उवाच ॥ एवं सप्तशतीप्रतिमंत्रादौ सप्रणवं योजनामंत्रं पठेत् ॥ अथ संपुटीकरणप्रकारः ॥ ॐ शरणा० ॐ मार्कण्डेय उ० ॥ शरणा० एवं सप्तशतीमंत्रादौ मंत्राते च संपुटमंत्रं पठेत् ॥ अयं तु शांतिकपौष्टिकवशीकरणादिशुभकर्मसु ॥ शत्रुविद्रावणोच्चाटनाद्युग्रकर्मसु तु यथा ॐ ह्लूं फट् मार्कडेय उवाच फट् ह्लूं ॐ इति सप्तशतीमंत्रादौ विद्रावणबीजानि पठित्वा तान्येवांते विलोमानि पठेदिति N/A References : N/A Last Updated : June 17, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP