संस्कृत सूची|संस्कृत साहित्य|पुराण|दुर्गा सप्तशती| अथासनविधिः दुर्गा सप्तशती सप्तशतीविधिः अथासनविधिः कुमारीपूजा बलिदानम् चण्डीकवचम् अर्गलास्तोत्रम् अथ कीलकम् अथैकादशन्यासाः मूलषडंगन्यासः सप्तशतीस्तोत्रमाला चंडीपंचाक्षरमंत्र सप्तशतीप्रथमचरितम् मध्यमचरितस्य उत्तमचरितस्य वैदिक देवीसूक्तम् तांत्रिकं देवीसूक्तम् प्राधानिकरहस्यम् वैकृतिकं रहस्यम् मूर्तिरहस्यम् उत्तरविधिः सहस्रचंडीप्रयोगः पल्लवयोजनाविधिः महालक्ष्म्या आर्तिक्यम् कुञ्जिकास्तोत्रम् देवीक्षमापनस्तोत्रम् दुर्गापदुद्धारस्तोत्रम् दुर्गा सप्तशती - अथासनविधिः दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते. Tags : durga saptashatipothiदुर्गा सप्तशतीपोथी अथासनविधिः Translation - भाषांतर ॥ अथासनविधिः ॥ स यथा - आसनाधो जलादिना त्रिकोणं विलिख्य ॥ ॐ ह्लीं आधारशक्तिकमलासनाय नमः ॥ इत्याधारशक्तिं संपूज्य ॥ तदुपर्यनुद्विग्नताकरं कुशकंबलाद्यन्यतममासनमास्तीर्य ॥ पृथ्वीतिमंत्रस्यमेरुपृष्ठऋषिः कूर्मो देवता, सुतलं छंदः , आसनेविनियोगः ॥ ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥ त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ इत्याधारशक्तिं संप्रार्थ्य ॥ ॐ भूर्भुवः स्वः इत्यासनं संप्रोक्ष्य तदुपरि प्राङ्मुख उदङ्मुखो वा उपविश्य ॥ ॐ अनंतासनाय नमः ॥ ॐ कूर्मासनाय नमः ॥ ॐ विमलासनाय नमः ॥ ॐ पद्मासनाय नमः ॥ ॐ योगासनाय नमः ॥ ॐ आधारशक्त्यै नमः ॥ ॐ दुष्टविद्रावणनृसिंहासनाय नमः ॥ ॐ मध्ये परमसुखासनाय नमः ॥ इति नत्वा ॐ ऊर्ध्वकेशि विरुपाक्षि मांसशोणितभक्षणे ॥ तिष्ठ देवि शिखाबंधे चामुडे ह्यपराजिते ॥ इति शिखां बध्र्नीयात् ॥ इत्यासनविधिः ॥ ॥ अथ बाह्यभूतशुद्धिः ॥ ॐ अपसर्पतु ते भूता ये भूता भूमिसंस्थिताः ॥ ये भूता विघ्नकर्तारस्ते नश्यंतु शिवाज्ञया ॥ ॐ अपक्रामंतु भूतानि पिशाचाः सर्वतो दिशम् ॥ सर्वेषामविरोधेन जपकर्म समारभे ॥ इति भूतान्युत्सार्य ॥ तीक्ष्णदंष्ट्र महाकाय कल्पांतदहनोपम ॥ भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ इति भैरवानुज्ञां गृहीयात् ॥ ॥ अथ स्थलशुद्धिः ॥ चतुर्द्वारं देवतामंडपं विचिन्त्य ॥ ॐ अंतरित रक्षोंतरिताऽअरातयः हुंफट् ॥ इति मंडपांतः अक्षतान् क्षिप्त्वा ॥ वामतो गुं गुरुभ्यो नमः ॥ दक्षिणतो भं भद्रकाल्यै नमः ॥ उपरिष्टाद गं गणपतये नमः ॥ इति द्वारदेवताः संपूज्य ॥॥ अथ विघ्नोत्सारणम् आत्मरक्षणं च ॥ यथा मूलं पठन्दिव्यदृष्ट्यवलोकनेन दिव्यान् विघ्नानुत्सारयामि ॥ ॐ फडिति प्रोक्षणेनांतरिक्षान्विघ्नानुत्सारयामि ॥ ॐ फडिति वामपादपार्ष्णिघातेन भौमान् विघ्नानुत्सारयामि ॥ ॐ अस्त्राय फट् इति तालत्रयेण दिग्बंधनं कृत्वा ॥ ॐ नमः सुदर्शनाय अस्त्रायफट् इति मंत्रेण छोटिकया वह्निप्राकारत्रयं विभाव्य भूशुद्धादीनि कुर्यात् ॥ ॥ अथ भूशुद्धिः ॥ गायत्र्या प्राणानायम्य हुं इति बीजेन कुंडलिनीमुत्थाप्य हदिस्थं दीपकलिकाकारं जीवं ॐ हंसः इति मंत्रेण ब्रह्मणि संयोज्य स्ववामकुक्षिस्थं पापपुरुषं ध्यायेत् ॥ यं इति १६ षोडशवारोच्चारितवायुबीजेन पिंगलया पूरकेण तं पापपुरुषं शोषयित्वा कुंभके रं इति ६४ चतुः षष्टिवारोच्चारितवह्निबीजेन तं दग्ध्वा ॥ पुनः यं इति ३२ द्वात्रिंशद्वारोच्चारितवायुबीजेन तद्भस्म इडया रेचयेत् ॥ ब्रह्मरंध्रगते चंद्रमंडलेऽमृतवर्षिणीम् ॥ भवानीं भूमिशुद्धयर्थ भावयेदमृतेश्वरीम् ॥ ततस्तन्मौलिनिष्यंदसुधाकल्लोलवृष्टिभिः ॥ चिंतयेन्मनसात्मानं भूमिशुद्धिरियं भवेत् ॥ इति संक्षेपतो भूशुद्धिः ॥ ॥ अथ भूतशुद्धिः ॥ इडया वायुमापूर्य कुंभके लंवंरंयंहं इति पंचभूतबीजानि सकृदावर्त्य पिंगलया रेचयेत् ॥ ततो वमित्यमृतबीजेन प्राणायामं कृत्वा सद्वासनात्मकं देवीशरीरमुत्पाद्य सोऽहं इति मंत्रेण कुंडलिनीं ब्रह्मणोऽवहत्य तत्रस्थं जीवं हदि निधाय कुंडलिनीं मूलाधारगतां विभावयेत् ॥ इति संक्षेपतो भूतशुद्धिः ॥ ॥ अथ प्राणप्रतिष्ठा ॥ हदि हस्तं दत्त्वा ॐ आंह्लींक्रों मम प्राणा इह प्राणाः ॐ आंह्लींक्रों मम जीव इह स्थितः ॐ आंह्लींक्रों मम सर्वोद्रियाणि ॐ आंह्लींक्रों मम वाङ्मनस्त्वक्चक्षुः श्रोत्रजिहाघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठंतु स्वाहा ॥ ॐ असुनीतेपुनरस्मांसुचक्षुः पुनः प्राणमिहनोधेहिभोगम् ॥ ज्योक्पश्येमसूर्यमुच्चरतमनुमतेमृळ्यानः स्वस्ति ॥ मम गर्भाधानादिपंचदशसंस्कारसिद्ध्यर्थ पंचदश प्रणवावृत्तीः करिष्ये ॥ ॐ १५ ॥ रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरुढा कराब्जैः पाशं कोदंडमिक्षूद्भवमथ गुणमप्यंकुशं पंचबाणान् ॥ बिभ्राणासृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥ सुप्रतिष्ठितमस्त्विति संक्षेपेण प्राणप्रतिष्ठा ॥ ॥ अथ मातृकान्यासो यथा ॥ अंजलिं बद्धा ॥ ॐ अंआंइंईउंऊंऋंऋंलंलृंएंऐंओंऔंअंअः कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं पंफंबंभंमं यंरंलंवंशंषंसंहंळंक्षं इति मातृकाबीजान्यंजलिगतानि विभाव्य मूर्धादिपादांतं त्रिर्न्यसेदिति संक्षेपः ॥॥ इति मातृकान्यासः ॥ ततो मूलेनाचम्य प्राणानायामयेत् ॥ ॥ अथ दीपस्थापनम् ॥ घृतदीपो भवेद्दक्षेतैलदीपस्तु वामतः ॥ सितवर्तियुतो दक्षे रक्तवर्तिस्तु वामतः ॥ देव्या इति शेषः ॥ तत्स्थापनप्रकारः ॥ देवीपीठ दक्षिणतो भूमौ गंधेन त्रिकोणं विलिख्य दीपाधारयंत्राम नमः ॥ इति गंधपुष्पाक्षतैः समर्च्य ॥ तत्र घृतपूर्ण शुक्लवर्तियुतं दीपपात्रं संस्थाप्य दीपं प्रज्वाल्य नाम्ना पंचोपचारैः संपूज्य ॥ भो दीप देवीरुपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ॥ यावत्कर्मसमाप्तिः स्यात्तावत्त्वं सुस्थिरो भव ॥ इति संप्रार्थ्य ॥ तेनैव प्रकारेण देवीपीठवामभागे प्राग्वत्रिकोणे तैलपूर्ण रक्तवर्तियुतं दीपपात्रं संस्थाप्य दीपं प्रज्वाल्य संपूज्य भो दीप० इति मंत्रेण प्रार्थयेत् ॥ एतौ स्थापितदीपावासमाप्ति रक्षेत् ॥ N/A References : N/A Last Updated : June 17, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP