संस्कृत सूची|संस्कृत साहित्य|पुराण|दुर्गा सप्तशती| मध्यमचरितस्य दुर्गा सप्तशती सप्तशतीविधिः अथासनविधिः कुमारीपूजा बलिदानम् चण्डीकवचम् अर्गलास्तोत्रम् अथ कीलकम् अथैकादशन्यासाः मूलषडंगन्यासः सप्तशतीस्तोत्रमाला चंडीपंचाक्षरमंत्र सप्तशतीप्रथमचरितम् मध्यमचरितस्य उत्तमचरितस्य वैदिक देवीसूक्तम् तांत्रिकं देवीसूक्तम् प्राधानिकरहस्यम् वैकृतिकं रहस्यम् मूर्तिरहस्यम् उत्तरविधिः सहस्रचंडीप्रयोगः पल्लवयोजनाविधिः महालक्ष्म्या आर्तिक्यम् कुञ्जिकास्तोत्रम् देवीक्षमापनस्तोत्रम् दुर्गापदुद्धारस्तोत्रम् दुर्गा सप्तशती - मध्यमचरितस्य दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते. Tags : durga saptashatipothiदुर्गा सप्तशतीपोथी ॐ अस्य मध्यमचरितस्य ॥ Translation - भाषांतर विष्णुऋपिः ॥ महालक्ष्मीर्देवता ॥ उष्णिक्छंदः ॥ शाकंभरी शक्तिः ॥ दुर्गा बीजम् ॥ वायुस्तत्त्वम् ॥ यजुर्वेदः स्वरुपम् ॥ महालक्ष्मीप्रीत्यर्थे अर्थार्थे जपे विनियोगः ॥ ध्यानम् ॥ अक्षस्रक्परशूगदेषुकुलिशं पद्मं धनुः कुंडिकां दण्डं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनम् । शूलं पाशसुदर्शने च दधर्ती हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ ॐ ह्लीं ऋषिरुवाच ॥१॥ देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा ॥ महिषेऽसुराणामधिपे देवानां च पुरंदरे ॥२॥ तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ॥ जित्वा च सकलान्देवनिद्रोऽभून्महिपासुरः ॥३॥ ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ॥ पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥४॥ यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ॥ त्रिदशाः कथयामासुर्देवाभिभविस्तरम् ॥५॥ सूर्येद्राग्न्यनिलेंदूनां यमस्य वरुणस्य च ॥ अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति ॥६॥ स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ॥ विचरंति यथा मर्त्या महिषेण दुरात्मना ॥७॥ एतद्वः कथितं सर्वममरारिविचेष्टितम् ॥ शरणं च प्रपन्नाः स्मो वधस्तस्य विचिंत्यताम् ॥८॥ इत्थं निशम्य देवानां वचांसि मधुसूदनः ॥ चकार कोपं शंभुश्च भ्रुकुटीकुटिलाननौ ॥९॥ ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः ॥ निश्चक्राम महत्तेजो ब्रह्मणः शंकरस्य च ॥१०॥ अन्येषां चैव देवानां शक्रादीनां शरीरतः ॥ निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥११॥ अतीव तेजसः कूटं ज्वलंतमिव पर्वतम् ॥ ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगंतरम् ॥ ॥१२॥ अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् ॥ एकस्थं तदभून्नारी व्याप्तलोकत्रर्य त्विषा ॥१३॥ यदभूच्छांभवं तेजस्तेनाजायत तन्मुखम् ॥ याम्येन चाभवन्केशा बाहवो विष्णुतेजसा ॥१४॥ सौम्येन स्तनयोर्युग्मं मध्यं चैंद्रेण चाभवत् ॥ वारुणेन च जंघोरु नितंबस्तेजसा भुवः ॥१५॥ ब्रह्मणस्तेजसा पादौ तदंगुल्योऽर्कतेजसा ॥ वसूनां च करांगुल्यः कौबेरेण च नासिका ॥१६॥ तस्यास्तु दंताः संभूताः प्राजापत्येन तेजसा ॥ नयनत्रितयं जज्ञे तथा पावकतेजसा ॥१७॥ भ्रुवौ च संध्ययोस्तेजः श्रवणावनिलस्यच ॥ अन्येषां चैव देवानां संभवस्तेजसां शिवा ॥१८॥ ततः समस्तदेवानां तेजोराशिसमुद्भवाम् ॥ तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ॥१९॥ ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च ॥ शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ॥२०॥ चक्रं च दत्तवान्कृष्णः समुत्पाट्य स्वचक्रतः ॥ शंखं च वरुणः शक्तिं ददौ तस्यै हुताशनः ॥२१॥ मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥ वज्रमिंद्रः समुत्पाट्य कुलिशादमराधिपः ॥२२॥ ददौ तस्यै सहस्राक्षो घंटामैरावताद्गजात् ॥ कालदंडाद्यमो दंडं पाशं चाम्बुपतिर्ददौ ॥२३॥ प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमंडलुम् ॥ समस्तरोमकूपेषु निजरश्मीन्दिवाकरः ॥२४॥कालश्च दत्तवान्खङ्गं तस्यै चर्म च निर्मलम् ॥ क्षीरोदश्चामलं हारमजरे च तथांबरे ॥२५॥ चूडामणिं तथा दिव्यं कुंडले कटकानि च ॥ अर्धचंद्रं तथा शुभ्रं केयूरान्सर्वबाहुषु ॥२६॥ नूपुरौ विमलौ तद्वद्धैवेयकमनुत्तमम् ॥ अंगुलीयकरत्नानि समस्तास्वंगुलीषु च ॥२७॥ विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥ अस्राण्यनेकरुपाणि तथाऽभेद्यं च दंशनम् ॥२८॥ अम्लानपंकजां मालां शिरस्युरसि चापराम् ॥ अददज्जलधिस्तस्यै पंकजं चातिशोभनम् ॥२९॥ हिमवान्वाहनं सिंहं रत्नानि विविधानि च ॥ ददावशून्यं सुरया पानपात्रं धनाधिपः ॥३०॥ शेषश्च सर्वनागेशो महामणिविभूषितम् ॥ नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् ॥३१॥ अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥ संमानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः ॥३२॥ तस्या नादेन घोरेण कृत्स्रमापूरितं नमः ॥ अमायतातिमहता प्रतिशब्दो महानभूत् ॥३३॥ चुक्षुभुः सकला लोकाः समुद्राश्च चकंपिरे ॥ चचाल वसुधा चेलुः सकलाश्च महीधराः ॥३४॥ जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥ तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः ॥३५॥ दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः ॥ सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ॥३६॥ आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥ अभ्यधावत तं शब्दमशेपैरसुरैर्वृतः ॥३७॥ स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ॥ पादाक्रांत्या नतभुवं किरीटोल्लिखितांबराम् ॥३८॥ क्षोभिताशेषपातालां धनुर्ज्यानिः स्वनेन ताम् ॥ दिशो भुजसहस्रेण समंताद्व्याप्य संस्थिताम् ॥३९॥ ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥ शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगंतरम् ॥४०॥ महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥ युयुधे चामरैश्चान्यैश्चतुरंगबलान्वितः ॥४१॥ रथानामयुतैः षडभिरुदग्राख्यो महासुरः ॥ अयुध्यतायुतानां च सहस्रेण महाहनुः ॥४२॥ पंचाशद्भिश्च नियुतैरसिलोमा महासुरः ॥ अयुतानां शतैः षडभिर्वाष्कलो युयुधे रणे ॥४३॥ गजवाजिसहस्रौघैरनेकैः परिवारितः ॥ वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ॥४४॥ चिडालाख्योऽयुतानां च पंचाशद्भिरथायुतैः ॥ युयुधे संयुगे तत्र रथानां परिवारितः ॥४५॥ अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥ युयुधुः संयुगे देव्या सह तत्र महासुराः ॥४६॥ कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ॥ हयानां च वृतो युद्धे तत्राभून्महिषासुरः ॥४७॥ तोमरैर्भिदिपालैश्च शक्तिभिर्मुसलैस्तथा ॥ युयुधुः संयुगे देव्या खङ्गैः परशुपट्टिशैः ॥४८॥ केचिच्च चिक्षिपुः शक्तीः केचित्पाशांस्तथापरे ॥ देवीं खङ्गप्रहारैस्तु ते तां हंतुं प्रचक्रमुः ॥४९॥ सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥ लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ॥५०॥ अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥ मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी ॥५१॥ सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥ चचारासुरसैन्येषु वनेष्विव हुताशनः ॥५२॥ निःश्वासान्मुसुचे यांश्च युध्यमाना रणेऽम्बिका ॥ त एव सद्यः संभूता गणाः शतसहस्रशः ॥५३॥ युयुधुस्ते परशुभिर्भिदिपालासिपट्टिशैः ॥ नाशयंतोऽसुरगणान्देवी शक्त्युपबृंहिताः ॥५४॥ अवादयंत पटहान् गणाः शंखांस्तथापरे ॥ मृदंगांश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे ॥५५॥ ततो देवी त्रिशूलेन गदया शक्तिऋष्टिभिः ॥ खङ्गादिभिश्च शतशो निजघान महासुरान् ॥५६॥ पातयामास चैवान्यान्घंटास्वनविमोहितान् ॥ असुरान् भुवि पाशेन बद्धा चान्यानकर्षयत् ॥५७॥ केचिद्विध कृतास्तीक्ष्णैः खङ्गपातैस्तथापरे ॥ विपोथिता निपातेन गदया भुवि शेरते ॥५८॥ वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥ केचिन्निपतिता भूमौ भिन्नाः शूलेन बक्षसिः ॥५९॥ निरंतराः शरौघेण कृताः केचिद्रणाजिरे ॥ सेनानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः ॥६०॥ केषांचिद्वाहवश्छिन्नाश्छिन्नग्रीवास्तथाऽपरे ॥ शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ॥६१॥ विच्छिन्नजंघास्त्वपरे पेतुरुर्व्या महासुराः ॥ एकबाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः ॥६२॥ छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥ ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ॥६३॥ कबंधाश्छिन्नशिरसः खङ्गशक्त्यृष्टिपाणयः ॥ तिष्ठ तिष्ठेति भापंतो देवीमन्ये महासुराः ॥६४॥ पतितै रथनागाश्वैरसुरैश्च वसुंधरा ॥ अगम्या साऽभवत्तत्र यत्राभूत्स महारणः ॥६५॥ शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः ॥ मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥६६॥क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ॥ निन्ये क्षयं यथा बह्निस्तृणदारुमहाचयम् ॥६७॥स च सिंहो महानादमुत्सृजन्धुतकेसरः ॥ शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥६८॥ देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः ॥ यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॥६९॥ मार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयः ॥२॥ उवाचमंत्रः ॥१॥ श्लोकमंत्राः ॥६८॥ एवं ॥६९॥ एवमादितः ॥१७३॥ ॥ ऋषिरुवाच ॥१॥ निहन्यमानं तत्सैन्यमवलौक्य महासुरः ॥ सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथांबिकाम् ॥२॥ स देवीं शरवर्षेण ववर्ष समरेऽसुरः ॥ यथा मेरुगिरेः शृंगं तोयवर्षेण तोयदः ॥३॥ तस्य छित्त्वा ततो देवी लीलयैव शरोत्करान् ॥ जघान तुरगान्बाणैर्यतारं चैव वाजिनाम् ॥४॥ चिच्छेद च धनुः सद्यो ध्वजं चा तिसमुच्छ्रितम् ॥ विव्याध चैव गात्रेषु च्छिन्नधन्वानमाशुगैः ॥५॥ स च्छिन्नधन्वा विरथो हताश्चो हतसारथिः ॥ अभ्यधावत तां देवीं खङ्गचर्मधरोऽसुरः ॥६॥ सिंहमाहत्य खङ्गेन तीक्ष्णधारेण मूर्धनि ॥ आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥७॥ तस्याः खङ्गो भुजं प्राप्य पफाल नृपनन्दन ॥ ततो जग्राह शूलं स कोपादरुणलोचनः ॥८॥ चिक्षेप च ततस्तुत्तु भद्रकाल्यां महासुरः ॥ जाज्वल्यमानं तेजोभी रविबिंबमिवांबरात् ॥९॥ दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत ॥ तेन तच्छतधा नीतं शूलं स च महासुरः ॥१०॥ हते तस्मिन्महावीर्ये महिषस्य चमूपतौ ॥ आजगाम गजारुढश्चामरस्रिदशार्दनः ॥११॥सोऽपि शक्तिं मुमोचाथ देव्यास्तामंबिका द्रुतम् ॥ हुंकाराभिहतां भुमौ पातयामास निष्प्रभाम् ॥१२॥भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः ॥ चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥१३॥ ततः सिंहः समुत्पत्य गजकुंभान्तरे स्थितः ॥ बाहुयुद्धेन युयुधे तेनोच्चैस्रिदशारिणा ॥१४॥ युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ॥ युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ॥१५॥ ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ॥ करप्रहारेण शिरश्चामरस्य पृथक्कृतम् ॥१६॥ उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः ॥ दंतमुष्टितलैश्चैव करालश्च निपातितः ॥१७॥ देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ॥ बाष्कलं भिंदिपालेन बाणैस्ताम्नं तथांधकम् ॥१८॥ उग्रास्यमुग्रवीर्य च तथैव च महाहनुम् ॥ त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥१९॥ विडालस्यासिना कायात्पातयामास वै शिरः ॥ दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥२०॥ एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः ॥ माहिषेण स्वरुपेण त्रासयामास तान् गणान् ॥२१॥ कांश्चित्तुंडप्रहारेण खुरक्षेपैस्तथापरान् ॥ लांगूलताडितांश्चान्यान् शृंगाभ्यां च विदारितान् ॥२२॥ वेगेन कांश्चिदपरान्नादेन भ्रमणेन च ॥ निः श्वासपवनेनान्यान् पातयामास भूतले ॥२३॥ निपात्य प्रमथानीकमभ्यधावत सोऽसुरः ॥ सिंहं हंतुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥२४॥ सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः ॥ शृंगाभ्यां पर्वतानुच्चांश्चिक्षेप च ननात् च ॥२५॥ वेगभ्रमणाविक्षुण्णा मही तस्य व्यशीर्यत ॥ लांगूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥२६॥ धुतशृंगविभिन्नाश्च खंडं खंडं ययुर्धनाः ॥ श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥२७॥ इति क्रोधसमाध्मातमापतन्तं महासुरम् ॥ दृष्ट्वा सा चंडिका कोपं तद्वधाय तदाकरोत् ॥२८॥ सा क्षिप्त्वा तस्य वै पाशं तं बबंध महासुरम् ॥ तत्याज माहिषं रुपं सोऽपि बद्धो महामृधे ॥२९॥ ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः ॥ छिनत्ति तावत्पुरुषः खङ्गपाणिरदृश्यत ॥३०॥ तत एवाशु पुरुषं देवी चिच्छेद सायकैः ॥ तं खङ्गचर्मणा सार्धे ततः सोऽभून्महागजः ॥३१॥ करेण च महासिंहं तं चकर्ष जगर्ज च ॥ कर्षतस्तु करं देवी खङ्गेन निरकृंतत ॥३२॥ ततो महासुरो भूयो माहिषं वपुरास्थितः ॥ तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥३३॥ ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ॥ पपौ पुनः पुनश्चैव जहासारुणलोचना ॥३४॥ ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः ॥ विषाणाभ्यां च चिक्षेप चंडिकां प्रति भूधरान् ॥३५॥ सा च तान्प्रहितांस्तेन चूर्णयंती शरोत्करैः ॥ उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥३६॥ देव्युवाच ॥३७॥ गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ॥ मया त्वयि हतेऽत्रैव गर्जिष्यंत्याशु देवताः ॥३८॥ ऋषिरुवाच ॥३९॥ एवमुक्त्वा समुत्पत्य साऽऽरुढा तं महासुरम् ॥ पादेनाक्रम्यं कंठे च शूलेनैनमताडयत् ॥४०॥ ततः सोऽपि पदाक्रांतस्तया निजमुखात्तदा ॥ अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥४१॥ अर्धनिष्क्रांत एवासौ युध्यमानो महासुरः ॥ तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥४२॥ ततो हाहाकृतं सर्व दैत्यसैन्यं ननाश तत् ॥ प्रहर्ष च परं जग्मुः सकला देवतागणाः ॥४३॥ तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभिः ॥ जगुर्गधर्वपतयो ननृतुश्चाप्सरोगणाः ॥४४॥ मार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये तृतीयः ॥३॥ उवाच ॥३॥ श्लोकाः ॥४१॥ एवं ॥४४॥ एवमादितः ॥२१७॥ ॥ ॥ ॥ ऋषिरुवाच ॥१॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या ॥ तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥२॥ देव्या यया ततमिदं जगदात्मशक्त्या निः शेशदेवगणशक्तिसमूहमूर्त्या ॥ तामंविकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥३॥ यस्याः प्रभावमतुलं भगवाननंतो ब्रह्मा हरश्च नहि वक्तुमलं बलं च ॥ सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥४॥ या श्रीः स्वयं सुकृतिना भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हदयेषु बुद्धिः ॥ श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥५॥ किं वर्णयाम तव रुपमचिंत्यमेतत्किं चातिवीर्यमसुरक्षयकारि भूरि ॥ किं चाहवेषु चरित्तानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु ॥६॥ हेतुः समस्तजगतां त्रिगुणापि दोषैर्न ज्ञायसे हरिहरादिभिरप्यपारा ॥ सर्वाश्रयाखिलमिदं जगदंशभूतमव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥७॥ यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि ॥ स्वाहासि वै पितृगणस्य च तृप्तिहेतुरुच्चार्यसे त्वमत एव जनैः स्वधा च ॥८॥या मुक्तिहेतुरविचिंत्यमहाव्रता त्वमभ्यस्यसे सुनियतेंद्रियतत्त्वसारैः ॥ मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैर्विद्याऽसि सा भगवती परमा हि देवी ॥९॥ शब्दात्मिका सुविमलर्ग्यजुषां निधानमुद्गीथरम्यपदपाठवतां च साम्नाम् ॥ देवि त्रयी भगवती भव भावनाय वार्तासि सर्वजगतां परमार्तिहंत्री ॥१०॥ मेधासि देवि विदिताखिलशास्रशारा दुर्गासि दुर्गभवसागरनौरसंगा ॥ श्रीः कैटभारिहदयैककृताधिवासा गौरि त्वमेव शशिमौलिकृतप्रतिष्ठा ॥११॥ ईषत्सहासममलं परिपूर्णचंद्रबिम्बानुकारि कनकोत्तमकांतिकांतम् ॥ अत्यद्भुतं प्रहतमात्तरुषा तथापि वक्रं विलोक्य सहसा महिषासुरेण ॥१२॥ दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालमुद्यच्छशांकसदृशच्छवि यन्न सद्यः ॥ प्राणान्मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितांतकदर्शनेन ॥१३॥ देवि प्रसीद परमाभवती भवाय सद्यो विनाशयसि कोपवती कुलानि ॥ विज्ञातमेतदधुनैव यदस्तमेतन्नीतं बलं सुविपुलं महिषासुरस्य ॥१४॥ ते संमता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति बंधुवर्गः ॥ धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाऽभ्युदयदा भवती प्रसन्ना ॥१५॥ धर्म्याणि देवि सकलानि सदैव कर्माण्यत्यादृतः प्रतिदिनं सुकृती करोति ॥ स्वर्ग प्रयाति च ततो भवतीप्रसादाल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥१६॥ दुर्गे स्मृता हरसि भीतिमशेषजंतोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ॥ दारिद्र्यदुः खभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥१७॥ एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वतु नाम नरकाय चिराय पापम् ॥ संग्राममृत्युमधिगम्य दिवं प्रयांतु मत्वेति नूनमहितान्विनिहंसि देवि ॥१८॥ दृष्टैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ॥ लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वहितेषु साध्वी ॥१९॥ खङ्गप्रभा निकरविस्फुरणैस्तथोग्रैः शूलाग्रकांतिनिवहेन दृशो सुराणाम् ॥ यन्नागता विलयमंशुमदिंदुखंडयोग्याननं तव विलोकयता तदेतत् ॥२०॥ दुर्वृत्तवृत्तशमनं तव देवि शीलं रुपं तथैतदविचिंत्यमतुल्यमन्यैः ॥ वीर्य च हंतृ हतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥२१॥ केनोपमा भवतु तेऽस्य पराक्रमस्य रुपं च शत्रुभयकार्यतिहारि कुत्र ॥ चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥२२॥ त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ॥ नीता दिवं रिपुगणा भयमप्यपास्तमस्माकमुन्मदसुरारिभवं नमस्ते ॥२३॥ शूलेन पाहि नो देवि पाहि खङ्गेन चाम्बिके ॥ घण्टास्वनेन नः पाहि चापज्यानिः स्वनेन च ॥२४॥ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ॥ भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥२५॥ सौम्यानि यानि रुपाणि त्रैलोक्ये विचरंति ते ॥ यानि चात्यंतघोराणि तै रक्षास्मांस्तथा भुवम् ॥२६॥ खङ्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ॥ कर पल्लवसंगीनि तैरस्मान् रक्ष सर्वतः ॥२७॥ ऋषिरुवाच ॥२८॥ एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नदनोद्भवैः ॥ अर्चिता जगतां धात्री तथा गंधानुलेपनैः ॥२९॥ भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता ॥ प्राह प्रसादसुमुखी समस्तान्प्रणतान्सुरान् ॥३०॥ देव्युवाच ॥३१॥ व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवांछितम् ॥३२॥ देवा ऊचुः ॥३३॥ भगवत्या कृतं सर्व न किंचिदवशिष्यते ॥ यदयं निहतः शत्रुरस्माकं महिषासुरः ॥३४॥ यदि चापि वरो देयस्त्वयास्माकं महेश्वरि ॥ संस्मृताऽसंस्मृता त्वं नो हिसेथाः परमापदः ॥३५॥ यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ॥ तस्य वित्तर्द्धिविभवैर्धनदारादिसंपदाम् ॥३६॥ वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥३७॥ ऋषिरुवाच ॥३८॥ इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ॥ तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥३९॥ इत्येतत्कथितं भूप संभूता सा यथा पुरा ॥ देवी देवशरीरेभ्यो जग त्रयहितैषिणी ॥४०॥ पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् ॥ वधाय दुष्टदैत्यानां तथा शुंभनिशुंभयोः ॥४१॥ रक्षणाय च लोकानां देवानामुपकारिणी ॥ तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते ह्लीं ॐ ॥४२॥ श्रीमार्कडेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थः ॥४॥ उवाचमंत्राः ॥५॥ अर्धमंत्रौ ॥२॥ श्लोकमंत्राः ॥३५॥ एवं ॥४२॥ एवमादितः ॥२५९॥ N/A References : N/A Last Updated : June 17, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP