संस्कृत सूची|संस्कृत साहित्य|पुराण|दुर्गा सप्तशती| प्राधानिकरहस्यम् दुर्गा सप्तशती सप्तशतीविधिः अथासनविधिः कुमारीपूजा बलिदानम् चण्डीकवचम् अर्गलास्तोत्रम् अथ कीलकम् अथैकादशन्यासाः मूलषडंगन्यासः सप्तशतीस्तोत्रमाला चंडीपंचाक्षरमंत्र सप्तशतीप्रथमचरितम् मध्यमचरितस्य उत्तमचरितस्य वैदिक देवीसूक्तम् तांत्रिकं देवीसूक्तम् प्राधानिकरहस्यम् वैकृतिकं रहस्यम् मूर्तिरहस्यम् उत्तरविधिः सहस्रचंडीप्रयोगः पल्लवयोजनाविधिः महालक्ष्म्या आर्तिक्यम् कुञ्जिकास्तोत्रम् देवीक्षमापनस्तोत्रम् दुर्गापदुद्धारस्तोत्रम् दुर्गा सप्तशती - प्राधानिकरहस्यम् दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते. Tags : durga saptashatipothiदुर्गा सप्तशतीपोथी प्राधानिकरहस्यम् Translation - भाषांतर ॥ अथ प्राधानिकरहस्यम् ॥स्य श्रीसप्तशतीरहस्यत्रयस्य ब्रह्मविष्णुरुद्रा ऋषयः ॥ महाकालीमहालक्ष्मीमहासरस्वत्यो देवताः ॥ अनुष्टुपछंदः ॥ नवदुर्गा महालक्ष्मीर्बीजम् ॥ श्रींशक्तिः ॥ ममाभीष्टफलसिद्धये सप्तशतीपाठांते जपे विनियोगः ॥ राजोवाच ॥ भगवन्नवतारा मे चंडिकायास्त्वयोदिताः ॥ एतेषां प्रकृतिं ब्रह्मन्प्रधानं वक्तुमर्हसि ॥१॥ आराध्यं यन्मया देव्याः स्वरुपं येन वै द्विज ॥ विधिना बूहि सकलं यथावत्प्रणतस्य मे ॥२॥ ऋषिरुवाच ॥ इदं रहस्यं परममनाख्येयं प्रचक्षते ॥ भक्तोऽसीति न मे किंचित्तवावाच्यं नराधिप ॥३॥ सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी ॥ लक्ष्यालक्ष्यस्वरुपा सा व्याप्य कृत्स्नं व्यवस्थिता ॥४॥ मातुलिंगं गदां खेटं पानपात्रं च बिभ्रती ॥ नागं लिंगं च योनिं च बिभ्रती नृप मूर्धनि ॥५॥ तप्तकांचनवर्णाभा तप्तकाञ्चनभूषणा ॥ शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥६॥ शून्यं तदखिलं लोकं विलोक्य परमेश्वरी ॥ बभार रुपमपरं तमसा केवलेन हि ॥७॥ सा भिन्नांजनसंकाशा दंष्ट्रांचितवरानना ॥ विशाललोचना नारी बभूव तनुमध्यमा ॥८॥ खङ्गपात्रशिरः खेटैरलंकृतचतुर्भुजा ॥ कबंधहारं शिरसा बिभ्राणाऽहिशिरः स्रजम् ॥९॥ सा प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् ॥ ददामि तव नामानि यानि कर्माणि तानि ते ॥१०॥ महामाया महाकाली महामारी क्षुधा तृषा ॥ निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥११॥ इमानि तव नामानि प्रतिपाद्यानि कर्मभिः ॥ एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ॥१२॥ तामित्युक्त्वा महालक्ष्मीः स्वरुपमपरं नृप ॥ सत्त्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभं दधौ ॥१३॥ अक्षमालांकुशधरा वीणापुस्तकधारिणी ॥ सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥१४॥ महाविद्या महावाणी भारती वाक् सरस्वती ॥ आर्या ब्राह्मी कामधेनुर्वेदगर्भा सुरेश्वरी ॥१५॥ अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ॥ युवां जनयतां देव्यौ मिथुने स्वानुरुपतः ॥१६॥ इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् ॥ हिरण्यगर्भो रुचिरौ स्त्रीपुंसौ कमलासनौ ॥१७॥ ब्रह्मन्विधे विरंचेति धतरित्याह तं नरम् ॥ श्रीः पद्मे कमले लक्ष्मीत्याह माता स्त्रियं च ताम् ॥१८॥ महाकाली भारती च मिथुने सृजतः सह ॥ एतयोरपि रुपाणि नामानि च वदामि ते ॥१९॥ नीलकंठं रक्तबाहुं श्वेताङ्गं चंद्रशेखरम् ॥ जनयामास पुरुषं महाकालीं सितां स्त्रियम् ॥२०॥ स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः ॥ त्रयीविद्या कामधेनुः सा स्त्री भाषास्वराक्षरा ॥२१॥ सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप ॥ जनयामास नामानि तयोरपि वदामि ते ॥२२॥ विष्णुः कृष्णो हषीकेशो वासुदेवो जनार्दनः ॥ उमा गौरी सती चंडी सुंदरी सुभगा शुभा ॥२३॥ एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे ॥ चक्षुष्मंतो नु पश्यंति नेतरेऽतद्विदो जनाः ॥२४॥ ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नूप त्रयीम् ॥ रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ॥२५॥ स्वरया सह संभूय विरंचोऽण्डमजीजनत् ॥ बिभेद भगवान् रुद्रस्तद्गौर्या सह वीर्यवान् ॥२६॥ अण्डमध्ये प्रधानादि कार्यजातमभून्नृप ॥ महाभूतात्मकं सर्व जगत् स्थावरजंगमम् ॥२७॥ पुपोष पालयामास तल्लक्ष्म्या सह केशवः ॥ महालक्ष्मीरेवमजा राजन् सर्वेश्वरेश्वरी ॥२८॥ निराकारा च साकारा सैव नानाभिधानभृत् ॥ नामांतरैर्निरुप्यैषा नाम्ना नान्येन केनचित् ॥२९॥ मार्कडेयपुराणे प्राधानिकं रहस्यम् ॥ N/A References : N/A Last Updated : June 17, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP