आदिशङ्कराचार्यपूजाविधिः - पुनः पूजा

श्रीशङ्करभगवत्पाद पूजाविधिः 

पुनः पूजा
छत्रं धारयामि चामरं वीजयामि गीतं श्रावयामि
वाद्यं घोषयामि नृत्तं दर्शयामि आन्दोलिकामारोपयामि
अश्वमारोपयामि गजमारोपयामि रथमारोपयामि
ध्वजारोहणं समर्पयामि ॥
श्रीपूर्णातटिनीतरङ्गपटली पूरोदरोदित्वर
स्फीतांभःकण शीतलानिल परिस्पन्दाधिकानन्दित ।
कालट्याख्य पुरोल्लसcछिवगुरुस्थान प्रदीपाङ्कुर
श्रीमcछङ्करदेशिकोत्तम विभो ऋग्वेदमाकर्णय ॥
श्रीमत्कैलासाचलकृताधिवास श्रीपतिप्रमुखसुरवर प्रार्थित
भूलोकवास ऋग्वेदप्रिय ऋग्वेदमवधारय ।
ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।
होतारं रत्नधातमम् ॥
कल्यातङ्क निरङ्कुशस्य जगतः कल्याणसन्दायक
ब्रह्मेन्द्रादि समस्तदेव निकुरुम्भाभ्यर्थना साधक ।
श्रीमत्कालटिपुण्यभूपरिसर प्राप्तावतारोज्ज्वल
विद्याराजकुलाब्धिचन्दिर यजुर्वेदं त्वमाकर्णय ॥
समाश्रित वृषाचलेश्वर स्वयम्भूलिङ्ग समादृत स्वाश्रित
भक्तजन प्रार्थनापूरण व्यतिषङ्ग यजुर्वेदप्रिय यजुर्वेदमवधारय ।
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृता।"त् ॥
आर्याम्बा मुखपङ्कजार्क शिवगुर्वानन्दसन्दोहन
स्वाचार्याधिगताखिल श्रुतितते सcछास्त्रपारङ्गत ।
ग्राहग्रासमिषात् स्वमातृकृतसन्यासाभ्यनुज्ञानुग
श्रीमcछङ्कर सामवेदमधुना सानन्दमाकर्णय ॥
सफलीकृतार्याम्बाशिवगुरु मनोरथ विशदीकृतात्मविद्याविचार विकलीकृतमन्मथ सामवेदप्रिय सामवेदमवधारय ।
ॐ अग्न आयाहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ॥
श्रीगोविन्दमुखोद्गत श्रुतिशिरोवाक्योपदेशादृत
श्रीविश्वेश्वर दर्शनोत्सुक विभो काशीनिवासप्रिय ।
सम्सारार्तसनन्दनादिकृतिनां सन्यासदीक्षागुरो
सामोदं त्वमथर्ववेदमधुना स्वामिन् समाकर्णय ॥
ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं यो रभिस्रवन्तु नः ॥
गीतावाक्य ततेर्दशोपनिषदां श्रीव्याससूत्रावलेः
प्रस्थानत्रितयस्य निस्तुल महाभाष्यप्रणेतः प्रभो ।
वाराणस्युपसन्न शिष्यजनताभाष्योपदेशोत्सुक
स्वाधीनीकृत सर्वशास्त्रवितते शास्त्रं समाकर्णय ॥
निजपादाम्सु परिपावित कालटीक्षेत्र निजपुण्यावतार
परिष्कृतात्रेयगोत्र शास्त्रार्थप्रिय शास्त्रमवधारय ।
ॐ अथातो दर्शपूर्णमासौ व्याख्यास्यामः । 
प्रातरग्निहोत्रं हुत्वा अन्यमाहवनीयं प्रणीय अग्नीनन्वादधाति ॥
वृद्धब्राह्मण बादरायणकृतप्रश्नोत्तरात्युत्सुक
सूत्रौघ स्वरसार्थ वर्णन सुसंतुष्यन्मुनिश्लाघित ।
व्यासाज्ञावशतः स्वभाष्य विशदीकार प्रचारोद्यत
शुद्धाद्वैतमतप्रसारणपटो प्रीत्या पुराणं शृणु ॥
स्वमहिम सम्प्रापित सौवर्णवर्ष समुत्पादित
दीनतरद्विजसतीहर्ष पुराणपठनप्रिय पुराणमवधारय ।
ॐ परित्राणाय साधूनां विनाशाय च दुष्कृतां ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

क्षमाप्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पुजाविधिं न जानामि क्षमस्व गुरुसत्तम ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष जगद्गुरो ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व गुरुपुङ्गव ॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै श्रीशङ्करायेति समर्पयामि ॥
हृत्पद्मकर्णिकामध्यं स्वशिष्यैः सह शङ्कर ।
प्रविश त्वं महादेव सर्वलोकैकनायक ॥
(इति निर्माल्यमाघ्राय स्तोत्रादिकं पठेत्)
यस्य स्मृत्या च नामोक्त्या तपः पूजा कृयादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जगद्गुरो ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥
अनेन मया कृत पूजया श्रीशङ्करभगवत्पादाचार्यः प्रीयताम् ॥
मध्ये मन्त्र तन्त्र स्वर वर्ण ध्यान नियम न्यूनातिरिक्त लोपदोष
प्रायश्चित्तार्थं नामत्रयजपमहं करिष्ये ॥
ॐ अच्युताय नमः ॐ अनन्ताय नमः ॐ गोविन्दाय नमः (त्रिः)
ॐ अच्युतानन्तगोविन्देभ्यो नमो नमः ॥
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥

श्रीकृष्णकृष्णकृष्ण
ॐ हर ॐ हर ॐ हर
॥ श्रीमहात्रिपुरसुन्दरी चरणारविन्दार्पणमस्तु ॥

N/A

References : N/A
Last Updated : October 23, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP