संस्कृत सूची|पूजा विधीः|आदिशङ्कराचार्यपूजाविधिः| अथ नामपूजा आदिशङ्कराचार्यपूजाविधिः आचम्य आसनविधिः कलशार्चनम् शंखपूजा श्रीमहागणपति पूजा अथ नामपूजा आत्मपूजा द्वारदेवता पूजा पीठपूजा अभिषेकः श्रीगन्धम्, अक्षतम् भस्मोद्धूलनम् अथ पत्रपूजा , पुष्पपूजा धूपम्, दीपम् नैवेद्यम्, ताम्बूलम् मङ्गलनीराजनम्, रक्षाधारणम् प्रसन्नार्घ्यम्, प्रार्थना पुनः पूजा आदिशङ्कराचार्यपूजाविधिः - अथ नामपूजा श्रीशङ्करभगवत्पाद पूजाविधिः Tags : poojasanskritshankaracharyavidhiपूजाविधीशंकराचार्यसंस्कृत अथ नामपूजा Translation - भाषांतर ॐ सुमुखाय नमः । ॐ एकदन्ताय नमः । ॐ कपिलाय नमः । ॐ गजकर्णकाय नमः । ॐ लम्बोदराय नमः । ॐ विकटाय नमः । ॐ विघ्नराजाय नमः । ॐ गणाधिपाय नमः । ॐ धूम्रकेतवे नमः । ॐ गणाध्यक्षाय नमः । ॐ फालचन्द्राय नमः । ॐ गजाननाय नमः । श्रीमहागणपतये नमः नानाविध परिमलपत्रपुष्पाणि समर्पयामि ॥ श्रीमहागणपतये नमः धूपमाघ्रापयामि । श्रीमहागणपतये नमः दीपं दर्शयामि । श्रीमहागणपतये नमः धूपदीपानन्तरं आचमनीयमाचमनीयं समर्पयामि । श्रीमहागणपतये नमः अमृतनैवेद्यं समर्पयामि । श्रीमहागणपतये नमः ताम्बूलं समर्पयामि । श्रीमहागणपतये नमः दिव्यमङ्गलनीराजनं दर्शयामि । ॐ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः ॥ श्रीमहागणपतये नमः मन्त्रपुष्पं समर्पयामि ॥ श्रीमहागणपतये नमः प्रदक्षिणनमस्कारान् समर्पयामि । श्रीमहागणपतये नमः प्रसन्नार्घ्यं समर्पयामि । वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ श्रीमहागणपतये नमः प्रार्थयामि । श्रीमहागणपतये नमः समस्तोपचारपूजाः समर्पयामि । अनया पूजया श्रीमहागणपतिः प्रीयताम् ॥ N/A References : N/A Last Updated : October 23, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP