आदिशङ्कराचार्यपूजाविधिः - नैवेद्यम्, ताम्बूलम्

श्रीशङ्करभगवत्पाद पूजाविधिः 

नैवेद्यम्
(नैवेद्यपदार्थान् गायत्र्या प्रोक्ष्य)
ॐ भूर्भुवस्सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥
सत्यं त्वर्तेन परिषिञ्चामि ॥
कामधेनुं स्मरामि (धेनुमुद्रां प्रदर्श्य) अमृतमस्तु । अमृतोपस्तरणमसि ॥
ॐ प्राणाय स्वाहा ।
ॐ अपानाय स्वाहा ।
ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा ।
ॐ समानाय स्वाहा ।
ॐ ब्रह्मणे स्वाहा ॥
ॐ चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ।
षण्मतस्थापनाचार्य षड्दर्शनविशारद ।
गृहाण षड्रसोपेतं भक्ष्यभोज्यादिकं प्रभो ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः नैवेद्यं समर्पयामि ॥
सर्वदिक् चतुराम्नायव्यवस्थापक शङ्कर ।
सर्वलोकैकसम्पूज्य पानीयं प्रतिगृह्यताम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः मध्ये मध्ये अमृतपानीयं समर्पयामि ॥
अमृतापिधानमसि उत्तरापोशनं समर्पयामि ।
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः हस्तप्रक्षाळनं समर्पयामि । 
गण्डूषं समर्पयामि । पादप्रक्षाळनं समर्पयामि ।
आचमनीयमाचम्नीयं समर्पयामि । करोद्वर्तनं समर्पयामि ॥

ताम्बूलम्
ॐ नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौस्समवर्तत ।
पद्भ्याम् भूमिर्दिशः श्रोत्रात् । तथा लोकां अकल्पयन् ॥
सर्वलोकसुविख्यात यशोराशिनिशाकर ।
सर्वात्मभूत सुगुरो ताम्बूलं प्रददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः पूगीफल ताम्बूलं समर्पयामि ॥

N/A

References : N/A
Last Updated : October 23, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP