आदिशङ्कराचार्यपूजाविधिः - अथ पत्रपूजा , पुष्पपूजा

श्रीशङ्करभगवत्पाद पूजाविधिः 

ॐ शिवरूपाय नमः बिल्वपत्रं समर्पयामि ।
ॐ शक्तिरूपाय नमः कदम्बपत्रं समर्पयामि ।
ॐ विष्णुरूपाय नमः तुलसीपत्रं समर्पयामि ।
ॐ लक्ष्मीरूपाय नमः तामरसपत्रं समर्पयामि ।
ॐ ब्रह्मरूपाय नमः दाडिमीपत्रं समर्पयामि ।
ॐ सरस्वतीरूपाय नमः मल्लिकापत्रं समर्पयामि ।
ॐ गणपतिरूपाय नमः दूर्वापत्रं समर्पयामि ।
ॐ षण्मुखरूपाय नमः मरुवकपत्रं समर्पयामि ।
ॐ श्रीचक्र रूपाय नमः अशोकपत्रं समर्पयामि ।
ॐ श्रीदक्षिणामूर्तिरूपाय नमः नानाविध पत्राणि समर्पयामि ॥

॥ अथ पुष्पपूजा ॥
ॐ शिवरूपाय नमः जातीपुष्पं समर्पयामि ।
ॐ शक्तिरूपाय नमः कदम्बपुष्पं समर्पयामि ।
ॐ विष्णुरूपाय नमः तुलसीपुष्पं समर्पयामि ।
ॐ लक्ष्मीरूपाय नमः पद्मपुष्पं समर्पयामि ।
ॐ ब्रह्मरूपाय नमः श्वेतकमलपुष्पं समर्पयामि ।
ॐ सरस्वतीरूपाय नमः मल्लिकापुष्पं समर्पयामि ।
ॐ गणपतिरूपाय नमः कल्हारपुष्पं समर्पयामि ।
ॐ षण्मुखरूपाय नमः जपापुष्पं समर्पयामि ।
ॐ श्रीचक्र रूपाय नमः अशोकपुष्पं समर्पयामि ।
ॐ श्रीदक्षिणामूर्तिरूपाय नमः  नानाविध पुष्पाणि समर्पयामि ॥
॥ श्रीशङ्कराचार्याष्टोत्तरशतनामावलिः ॥
ॐ श्रीमत्कैलासनिलयशङ्कराय नमो नमः ।
ॐ ब्रह्मविद्याऽम्बिकाश्लिष्टवामाङ्गाय नमो नमः ।
ॐ ब्रह्मोपेन्द्रमहेन्द्रादिप्रार्थिताय नमो नमः ।
ॐ भक्तानुग्रहणैकान्तशान्तस्वान्ताय ते नमः ।
ॐ नास्तिकाक्रान्तवसुधा पालकाय नमो नमः ।
ॐ कर्मकाण्डावनस्कन्दप्रेषकाय नमो नमः ।
ॐ लोकानुग्रहणोपात्तनृदेहाय नमो नमः ।
ॐ कालटीक्षेत्रवासादिरसिकाय नमो नमः ।
ॐ पूर्णानदीतीरवासलोलुपाय नमो नमः ।
ॐ विद्याधिराजसद्वंशपावनाय नमो नमः ॥१०॥
ॐ आर्याम्बिकागर्भवासनिर्भराय नमो नमः ।
ॐ शिवगुर्वाप्तसुकृतसत्फलाय नमो नमः ।
ॐ आर्याशिवगुरुप्रीतिभाजनाय नमो नमः ।
ॐ ईश्वराब्धीयवैशाखपञ्चमीजन्मने नमः ।
ॐ निजावतारानुगुण शङ्कराख्याभृते नमः ।
ॐ नामसंख्यासमुन्नेयजन्मकालाय ते नमः ।
ॐ शङ्कराख्यासुविख्यातमङ्गलाय नमो नमः ।
ॐ पितृदत्तान्वर्थभूतनामधेयाय ते नमः ।
ॐ बाललीलातोषितस्वमातृकाय नमो नमः ।
ॐ प्रथमाब्दाभ्यस्तनानाभाषाढ्याय नमो नमः ॥२०॥
ॐ द्वितीयाब्दकृतस्wईयसcचूडाकृतये नमः ।
ॐ निजतातवियोगार्तमात्राश्वासकृते नमः ।
ॐ मातृकारितसद्विप्रसम्स्काराय नमो नमः ।
ॐ पलाशदण्डमौञ्ज्यादिभासुराय नमो नमः ।
ॐ सन्ध्याग्निसेवानुष्ठाननिरताय नमो नमः ।
ॐ विद्यागुरुकुलैकान्तनिवासाय नमो नमः ।
ॐ विद्याग्रहणनैपुण्यविस्मापनकृते नमः ।
ॐ अभ्यस्यवेदवेदाङ्गसन्दोहाय नमो नमः ।
ॐ भिक्षाशनादिनियमपालकाय नमो नमः ।
ॐ विद्याविनयसम्पत्तिविख्याताय नमो नमः ॥३०॥
ॐ भिक्षामलकसन्दातृसतीशोकहृते नमः ।
ॐ स्वर्णामलकसद्वृष्टिकारकाय नमो नमः ।
ॐ न्यायसांख्यादिशास्त्राब्धिमथनाय नमो नमः ।
ॐ जैमिनीयनयार्णोधिकर्णधाराय ते नमः ।
ॐ पातञ्जलनयारण्यपञ्चास्याय नमो नमः ।
ॐ मातृशुश्रूषणासक्तमानसाय नमो नमः ।
ॐ पूर्णासामीप्यसन्तुष्टमातृकाय नमो नमः ।
ॐ केरलेशकृतग्रन्थप्रेक्षकाय नमो नमः ।
ॐ दत्तराजोपहारादिनिराशाय नमो नमः ।
ॐ स्वावतारफलप्राप्तिनिरीक्षणकृते नमः ॥४०॥
ॐ सन्यासग्रहणोपायचिन्तकाय नमो नमः ।
ॐ नक्रग्रहमिषावाप्तमात्राज्ञाय  नमो नमः ।
ॐ प्रैषोcचारणसंत्यक्तनक्रपीडाय ते नमः ।
ॐ अन्त्यकालस्वसानिध्यशम्सकाय नमो नमः ।
ॐ गोविन्दभगवत्पादान्वेषकाय नमो नमः ।
ॐ गोविन्दशिष्यताप्राप्तिप्रशम्सनकृते नमः ।
ॐ आर्यपादमुखावाप्तब्रह्मविद्याय ते नमः ।
ॐ नर्मदातटिनीतीरस्तम्भकाय नमो नमः ।
ॐ गुर्वनुज्ञातविश्वेशदर्शनाय नमो नमः ।
ॐ वाराणसीविश्वनाथक्षेत्रगाय  नमो नमः ॥५०॥
ॐ चण्डालाकृतिविश्वेशवादसंश्राविणे नमः ।
ॐ मनीषापञ्चकस्तोत्रश्रावकाय नमो नमः ।
ॐ साक्षात्कृतमहादेवस्वरूपाय नमो नमः ।
ॐ गुरुविश्वेश्वराज्ञप्तभाष्यग्रन्थकृते नमः ।
ॐ नानाभाष्यप्रकरणस्तोत्रजातकृते नमः ।
ॐ देवतागुरुविप्रादिभक्तिसंधुक्षिणे नमः ।
ॐ भाष्याद्यध्यापनासक्तमानसाय नमो नमः ।
ॐ आनन्दादिशिष्यौघसंवृताय नमो नमः ।
ॐ पद्मपादाभिधालाभहृष्टशिष्याय ते नमः ।
ॐ आचार्यभक्तिमाहात्म्यनिदर्शनकृते नमः ॥६०॥
ॐ वृद्धव्यासपरामृष्टभाष्यार्थाय नमो नमः ।
ॐ व्यासप्रशंसिताशेषभाष्यजाताय ते नमः ।
ॐ तत्तत्प्रश्नोत्तरश्रोतृव्यासप्रीतिकृते नमः ।
ॐ नारायणावतारत्वस्मारकाय नमो नमः ।
ॐ वेदव्यासवरप्राप्तषोडशाब्दायुषे नमः ।
ॐ कुमारिलजयाशम्साशम्सकाय नमो नमः ।
ॐ तुषाग्निस्थितभट्टोक्तिश्लाघकाय नमो नमः ।
ॐ सुब्रह्मण्यावतारश्रीभट्टनुग्राहिणे नमो नमः ।
ॐ मण्डनाख्यमहासूरिविजयाशम्सिने नमः ।
ॐ माहिष्मतीपुरोपान्तपावनाय नमो नमः ॥७०॥
ॐ शुकसूचिततद्गेहदर्शकाय नमो नमः ।
ॐ वादभिक्षापेक्षणादिस्वाशयोद्घाटिने नमः ।
ॐ व्यासजैमिनिसानिध्यवावदूकाय ते नमः ।
ॐ मण्डनीयप्रश्नजातोत्तरदात्रे  नमो नमः ।
ॐ मध्यस्थभारतीवाक्यप्रमाणाय नमो नमः ।
ॐ मालामालिन्यनिर्विण्णमण्डनार्यजिते नमः ।
ॐ प्रवृत्तिमार्गपारम्यवारकाय नमो नमः ।
ॐ कर्मकाण्डीयतात्पर्योद्धारकाय नमो नमः ।
ॐ ज्ञानकाण्डप्रमाणत्वसमर्थनकृते नमः ।
ॐ युक्तिसाहस्रतोऽद्वैतसाधकाय नमो नमः ॥८०॥
ॐ जीवब्रह्मैक्यसिद्धान्तसंस्थापनकृते नमः ।
ॐ निजापजयनिर्विण्णमण्डनेड्यपदे नमः ।
ॐ सन्यासकृन्मण्डनानुग्राहकाय  नमो नमः ।
ॐ महावाक्योपदेशादिदायकाय नमो नमः ।
ॐ सुरेश्वराभिधाजुष्टशिष्यानुग्राहिणे नमः ।
ॐ वनदुर्गामन्त्रबद्धभारतीवपुषे नमः ।
ॐ शृङ्गाद्रिक्षेत्रसानिध्यप्रार्थकाय नमो नमः ।
ॐ श्रीशारदादिव्यमूर्तिस्थापकाय नमो नमः ।
ॐ शृङ्गाद्रिशारदपीठसंस्थापनकृते नमः ।
ॐ द्वादशाब्दनिजावासपूतशृङ्गाद्रये नमः ॥९०॥
ॐ प्रत्यहं भाष्यपाठादिकालक्षेपकृते नमः ।
ॐ अन्त्यकालस्मृतिप्राप्तमातृपार्श्वाय ते नमः ।
ॐ मातृसंस्कारनिर्व्यूढप्रतिज्ञाय नमो नमः ।
ॐ पञ्चपादीसमुद्धारप्रीतपद्माङ्घ्रये नमः ।
ॐ स्ववधोद्युक्तकापालिकोपेक्षणकृते नमः ।
ॐ स्वशिष्यमारितस्ईयमारकाय नमो नमः ।
ॐ परकायप्रवेशादियोगसिद्धिमते नमः ।
ॐ लक्ष्मीनृसिंहकरुणाशान्तदेहाधये नमः ।
ॐ गोकर्णनाथमूकाम्बासन्दर्शनकृते नमः ।
ॐ मृतपुत्रोज्जीवनादिमहाश्चर्यकृते नमः ॥१००॥
ॐ मूकबालकसम्भाषाद्यमानुषकृते नमः ।
ॐ हस्तामलकनामाढ्यशिष्योपेताय ते नमः ।
ॐ चतुर्दिक्चतुराम्नायस्थापकाय नमो नमः ।
ॐ तोटकाभिधसcछिष्यसंग्रहाय नमो नमः ।
ॐ हस्ततोटकपद्मांघ्रिसुरेशाराध्य ते नमः ।
ॐ काश्मीरगतसर्वज्ञपीठगाय नमो नमः ।
ॐ केदारान्तर्धिकैलासप्राप्तिकर्त्रे नमो नमः ।
ॐ कैलासाचलसम्वासिपार्वतीशाय ते नमः ।
ॐ मङ्गलौघलसत्सर्वमङ्गलापतये नमः ॥१०८॥

N/A

References : N/A
Last Updated : October 23, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP