आदिशङ्कराचार्यपूजाविधिः - आचम्य

॥ श्रीशङ्करभगवत्पाद पूजाविधिः ॥

॥ श्रीशङ्करभगवत्पाद पूजाविधिः ॥
॥ श्रीमदखण्डवरसिद्धश्रीशङ्करानन्दनाथसद्गुरुश्रीपादुकाभ्यो नमः ॥
( भस्म रुद्राक्षधारी उदङ्मुखः पूजोपकरणानि संमृत्य पूजामारभेत् )
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभन्तरः शुचिः ॥
(आचम्य)
ॐ ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।
ध्रुवन्त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥
नमो ब्रह्मण्यदेव्याय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुदेवो महेश्वरः ।
गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः  ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेcछृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।
सर्वविघ्नcछिदे तस्मै गणाधिपतये नमः ॥
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।
देवतापूजनार्थाय घण्टानादं करोम्यहम् ॥  (इति घण्टानादं कृत्वा)

भूतोत्सारणम्
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारः ते नश्श्यन्तु शिवाज्ञया ॥
अपक्रामन्तु भूतानि पिशाचास्सर्वतो दिशम।
सर्वेषामविरोधेन पूजाकर्म समारभे ॥

N/A

References : N/A
Last Updated : October 23, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP