आदिशङ्कराचार्यपूजाविधिः - भस्मोद्धूलनम्

श्रीशङ्करभगवत्पाद पूजाविधिः 

भस्मोद्धूलनम्
ॐ मा नस्तोके तनये मान आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । 
वीरान्मानो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥
वृद्धवेषप्रतिcछन्न व्याससन्दर्शनोत्सुक ।
भस्मोद्धूलितसर्वाङ्ग भस्म दिव्यं ददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः भस्मोद्धूलनं समर्पयामि ॥
कुङ्कुमचूर्णम् व्यासदत्त वरप्राप्त षोडशाब्दायुरुज्ज्वल ।
किङ्करीभूतभूपाल कुङ्कुमं ते ददाम्यहम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः कुङ्कुमचूर्णं समर्पयामि ॥
रुद्राक्षमालिका श्रीमन्मण्डनमिश्रादि वादकेळिविशारद ।
दुर्वादतूलवातूल भज रुद्राक्षमालिकाम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः रुद्राक्षमालिकां समर्पयामि ॥
ॐ नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च ॥
श्रीमन्मण्डनकर्णोक्त महावाक्यादिमन्त्रक ।
सुरेश्वराख्या सन्दायिन् बिल्वपत्रं ददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः बिल्वपत्रं समर्पयामि ॥
पुष्पमालिका ॐ तस्मादश्वा अजायन्त । ये के चोभयादतः । 
गावो ह जज्ञिरे तस्मा।"त् । तस्माज्जाता अजावयः ।
सुरेश पद्मचरण हस्तामलक तोटकैः ।
अन्यैश्च शिष्यैः सम्वीत पुष्पमालां ददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः पुष्पमालिकां समर्पयामि ॥

N/A

References : N/A
Last Updated : October 23, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP