संस्कृत सूची|पूजा विधीः|आदिशङ्कराचार्यपूजाविधिः| शंखपूजा आदिशङ्कराचार्यपूजाविधिः आचम्य आसनविधिः कलशार्चनम् शंखपूजा श्रीमहागणपति पूजा अथ नामपूजा आत्मपूजा द्वारदेवता पूजा पीठपूजा अभिषेकः श्रीगन्धम्, अक्षतम् भस्मोद्धूलनम् अथ पत्रपूजा , पुष्पपूजा धूपम्, दीपम् नैवेद्यम्, ताम्बूलम् मङ्गलनीराजनम्, रक्षाधारणम् प्रसन्नार्घ्यम्, प्रार्थना पुनः पूजा आदिशङ्कराचार्यपूजाविधिः - शंखपूजा श्रीशङ्करभगवत्पाद पूजाविधिः Tags : poojasanskritshankaracharyavidhiपूजाविधीशंकराचार्यसंस्कृत शंखपूजा Translation - भाषांतर (कलशोदकेन भूर्भुवस्सुवरोऽमिति शंखं प्रक्षाळ्य चक्रमुद्रां प्रदर्श्य गायत्र्या दक्षिणामूर्तिमूलेन च शंखं कलशजलेनापूर्य धेनुमुद्रां प्रदर्श्य परिमलद्रव्याणि निक्षिप्य गन्धाक्षतपत्रपुष्पैः समभ्यर्चयेत्) शंखमूले ब्रह्मणे नमः । शंखमध्ये जनार्दनाय नमः । शंखाग्रे चन्द्रशेखराय नमः ॥ (शंखं स्पृष्ट्वा) शंखं चन्द्रार्कदैवत्यं मध्ये वरुणसंयुतम् । पृष्ठे प्रजापतिश्चैव अग्रे गङ्गा सरस्वती ॥ त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शंखे तिष्ठन्ति विप्रेन्द्राः तस्माcछंखं प्रपूजयेत् ॥ त्वं पुरा सागरोत्पन्नः विष्णुना विधृतः करे । पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तुते ॥ गर्भा देवारिनारीणां विशीर्यन्ते सहस्रधा । तव नादेन पाताले पाञ्चजन्य नमोऽस्तुते ॥ दर्शनादेव शंखस्य किं पुनः स्पर्शनेन तु । विलयं यान्ति पापानि हिमवद्भास्करोदये ॥ नत्वा शंखं करे स्पृष्ट्वा मन्त्रैरेतस्तु वैष्णवैः । यः स्नापयति गोविन्दं तस्य पुण्यमनन्तकम् ॥ शंखमध्यस्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नं मनुष्याणां ब्रह्महत्यायुतं दहेत् ॥ ॐ पाञ्चजन्याय विद्महे पावमानाय धीमहि तन्नः शंखः प्रचोदयात् ॥ (इति शंखगायत्रीं दशवारं जपित्वा शंखोदकेन किञ्चित् कलशे निक्षिप्य देवस्यार्घ्यं दत्वा शंखोदकेन पूजाद्रव्याणि आत्मानं च प्रोक्ष्य शेषं विसृज्य पुनः शंखमापूर्य गन्धादिभिरभ्यर्च्य देवस्य दक्षिणदिग्भागे स्थापयेत्) N/A References : N/A Last Updated : October 23, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP