आदिशङ्कराचार्यपूजाविधिः - आसनविधिः

श्रीशङ्करभगवत्पाद पूजाविधिः

आसनमहामन्त्रस्य पृथिव्या मेरुपृष्ठः ऋषिः कूर्मो देवता
सुतलं छंदः आसने विनियोगः ॥
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
(मनुष्यगन्ध निवारणार्थं येभ्यो मातेति मन्त्रं जपेत्)
ॐ येभ्यो माता मधुमत्पिन्वते पयः पीयूषं
द्यौरदितिरद्रि बर्हाः । उक्थ शुष्मान्
वृषभरान्त्स्वप्न सस्तां आदित्याम् अनुमदा
स्वस्तये । एवा पित्रे विश्वदेवाय वृष्णे
यज्ञैर्विधेम नमसा हविर्भिः । 
बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोऽपशान्तये ॥
(प्राणानायम्य)
(देशकालौ संकीर्त्य)ममोपात्त समस्त दुरितक्षयद्वारा
श्रीपरमेश्वर प्रीत्यर्थं अस्माकं सकुटुंबानां क्षेम स्थैर्य
विजय वीर्य अयुरारोग्यैश्वर्याभिवृद्ध्यर्थं
सर्वारिष्टशान्त्यर्थं सर्वाभीष्टसिद्ध्यर्थं
श्रीशङ्करभगवत्पाद प्रसाद सिद्ध्यर्थं श्रीशङ्कराचार्य
चरणारविन्दयोः अचञ्चल निष्काम निष्कपट भक्तिसिद्ध्यर्थं
यथाशक्ति ध्यानावाहनादि षोडशैरुपचारैः
श्रीमछङ्करभगवत्पाद पूजां करिष्ये ॥ 
तदङ्गत्वेन कलश शंख आत्म पीठ पूजां च करिष्ये ॥

॥ कलशार्चनम् ॥
श्रीकलशाय नमः । दिव्यगन्धान्धारयामि ॥
(कलशं गन्धाक्षत पत्र पुष्पैरभ्यर्च्य परिमलद्रव्याणि
निक्षिप्य कलशं हस्तेनाcछाद्य)
ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे सप्तद्wईपा वसुन्धरा ।
ऋग्वेदोऽथयजुर्वेदः सामवेदोऽप्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ।
गायत्री चात्र सावित्री शान्तिः पुष्टिकरी तथा ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
सर्वे समुद्राः सरितः तीर्थानि जलदा नदाः ।
आयान्तु गुरुपूजार्थं दुरितक्षयकारकाः ॥
ॐ आपो वा इदं सर्वं विश्वा भूतान्यापः । 
प्राणा वा आपः पशव
आपोऽन्नमापोऽमृतमापस्सम्राडापो
विराडापस्स्वराडापश्छंदांस्यापो
ज्योतीम्ष्यापो यजूम्ष्यापस्सत्यमापस्सर्वा
देवता आपो भूर्भुवस्सुवराप ॐ ॥
ॐ इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमम्
सचतापरुष्णिया असिक्निया मरुद्वृधे
वितस्तयार्जीकीये शृणुह्या सुषोमया ॥
सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्राम् ।
करधृतकलशोद्यत्सोत्पलाभीत्यभीष्टाम् ॥
विधिहरिहररूपां सेन्दुकोटीरचूडाम् ।
कलितसितदुकूलां जाह्नवीं तां नमामि ॥
(गायत्र्या दक्षिणामूर्तिमूलेन च दशवारमभिमन्त्र्य
कलशमुखे पुष्पाणि निक्षिप्य कलशोदकेन आत्मानं
सर्वोपकरणानि च प्रोक्षयेत्)

N/A

References : N/A
Last Updated : October 23, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP