संस्कृत सूची|पूजा विधीः|आदिशङ्कराचार्यपूजाविधिः| कलशार्चनम् आदिशङ्कराचार्यपूजाविधिः आचम्य आसनविधिः कलशार्चनम् शंखपूजा श्रीमहागणपति पूजा अथ नामपूजा आत्मपूजा द्वारदेवता पूजा पीठपूजा अभिषेकः श्रीगन्धम्, अक्षतम् भस्मोद्धूलनम् अथ पत्रपूजा , पुष्पपूजा धूपम्, दीपम् नैवेद्यम्, ताम्बूलम् मङ्गलनीराजनम्, रक्षाधारणम् प्रसन्नार्घ्यम्, प्रार्थना पुनः पूजा आदिशङ्कराचार्यपूजाविधिः - कलशार्चनम् श्रीशङ्करभगवत्पाद पूजाविधिः Tags : poojasanskritshankaracharyavidhiपूजाविधीशंकराचार्यसंस्कृत कलशार्चनम् Translation - भाषांतर श्रीकलशाय नमः । दिव्यगन्धान्धारयामि ॥ (कलशं गन्धाक्षत पत्र पुष्पैरभ्यर्च्य परिमलद्रव्याणि निक्षिप्य कलशं हस्तेनाcछाद्य) ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्wईपा वसुन्धरा । ऋग्वेदोऽथयजुर्वेदः सामवेदोऽप्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः । गायत्री चात्र सावित्री शान्तिः पुष्टिकरी तथा ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ सर्वे समुद्राः सरितः तीर्थानि जलदा नदाः । आयान्तु गुरुपूजार्थं दुरितक्षयकारकाः ॥ ॐ आपो वा इदं सर्वं विश्वा भूतान्यापः । प्राणा वा आपः पशव आपोऽन्नमापोऽमृतमापस्सम्राडापो विराडापस्स्वराडापश्छंदांस्यापो ज्योतीम्ष्यापो यजूम्ष्यापस्सत्यमापस्सर्वा देवता आपो भूर्भुवस्सुवराप ॐ ॥ ॐ इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमम् सचतापरुष्णिया असिक्निया मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥ सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्राम् । करधृतकलशोद्यत्सोत्पलाभीत्यभीष्टाम् ॥ विधिहरिहररूपां सेन्दुकोटीरचूडाम् । कलितसितदुकूलां जाह्नवीं तां नमामि ॥ (गायत्र्या दक्षिणामूर्तिमूलेन च दशवारमभिमन्त्र्य कलशमुखे पुष्पाणि निक्षिप्य कलशोदकेन आत्मानं सर्वोपकरणानि च प्रोक्षयेत्) N/A References : N/A Last Updated : October 23, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP