आदिशङ्कराचार्यपूजाविधिः - अभिषेकः

श्रीशङ्करभगवत्पाद पूजाविधिः 

वाराणसीपुरी रम्यगङ्गातीरनिषेवक ।
गङ्गादितीर्थैः श्रीरुद्रमन्त्रैस्त्वां स्नपयाम्यहम् ॥
ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय। गातुं
यज्ञपतये । दैवी।"स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे।"। 
शम् चतुष्पदे । ॐ शान्तिश्शान्तिश्शान्तिः ॥
ॐ सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । 
स भूमि।म् विश्वतो वृत्वा ।
अत्यतिष्टद्दशाङ्गुलम् । पुरुष एवेदं सर्वम्‍ ।
यद्भूतं यच्च भव्यम्‍ । उतामृतत्वस्येषानः ।
यदन्नेनातिरोहति । एतावानस्य महिमा । 
अतो ज्यायांश्च पूरुषः । 
पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि । 
त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽऽभवात्पुनः । 
ततो विश्वङ्व्यक्रामत् । साशनानशने अभि ।
तस्मा।"द्विराडजायत । विराजो अधि पूरुषः । 
स जातो अत्यरिcयत । पश्चाद्भूमिमथो पुरः । 
यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यम । 
ग्रीष्म इध्मश्शरद्धविः ।
सप्तास्यासन् परिधयः । त्रिस्सप्त समिधः कृताः ।
देवा यद्यज्ञ।म् तन्वानाः । अबध्नन् पुरुषं पशुम् ।
तं यज्ञं बर्हिषि प्रौक्ष्हन। पुरुषं जातमग्रतः । 
तेन देवा अयजन्त । साध्या ऋषयश्च ये । 
तस्मांद्यज्ञाथ्सर्व हुतः ।
स।म्भृत।म् पृषदाज्यम् । पशूंस्तांश्चक्रे वायव्यान् । आरण्यान् ग्राम्याश्च ये ।
तस्मांद्यज्ञाथ्सर्वहुतः । ऋचस्सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत ।
तस्मादश्वा अजायन्त । ये के चोभयादतः । 
गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः ।
यत्पुरुष।म् व्यदधुः । कतिधा व्यकल्पयन् । 
मुखं किमस्य कौ बाहू । कावूरू पादावुcयेते ।
ब्राह्मणो।"ऽस्य मुखमासीत् । बाहू राजन्यः कृतः । 
ऊरू तदस्य यद्वैश्यः । पद्भ्यां शूद्रो अजायत । 
चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ।
नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौस्समवर्तत ।
पद्भ्या।म् भूमिर्दिशः श्रोत्रात् । तथा लोकां अकल्पयन् । 
वेदाहमेतं पुरुषं महान्तम ।
आदित्यवर्णं तमसस्तु पारे। 
सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्त ।
धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान् प्रदिशश्चतस्रः । 
तमेव।म् विद्वानमृत इह भवति । 
नान्यः पन्था अयनाय विद्यते । यज्ञेन यज्ञमयजन्त देवाः । 
तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकम् महिमानस्सचन्ते । यत्र पूर्वे साध्यास्सन्ति देवाः ।
अद्भ्यः स।म्भूतः पृथिव्यै रसाच्च ।
विश्वकर्मणस्समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । 
तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतं पुरुषं महान्तम्‍  । 
आदित्यवर्णं तमसः परस्तात्‍ । 
तमेवम् विद्वानमृत इह भवति ।
नान्यः पन्था विद्यतेयऽनाय । प्रजापतिश्चरति गर्भे अन्तः । 
अजायमनो बहुधा विजायते। तस्य धीराः परिजानन्ति योनिम्‍। 
मरीचीनां पदमिच्छन्ति वेधसः ॥ यो देवेभ्य आतपति । 
यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातः । 
नमो रुचाय ब्राह्मये । रुचं ब्राह्मम् जनयन्तः । 
देवा अग्रे तदब्रुवन । यस्त्वैवं ब्राह्मणो विद्यात् । 
तस्य देवा असन् वशे । ह्रीश्च ते लक्ष्मीश्च पत्न्यौ ।
अहोरात्रे पार्श्वे । नक्षत्राणि रूपम् । अश्विनौ व्यात्तम्‍। इष्टम् मनिषाण । 
अमु।म् मनिषाण । सर्वम् मनिषण ॥
तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । 
दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे"। शम् चतुष्पदे । 
ॐ शान्तिश्शान्तिश्शान्तिः ॥
ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय
चारुणाय च नमः शङ्गाय च पशुपतये च
नम उग्राय च भीमाय च नमो अग्रेवधाय च
दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो
वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय
नमश्शंभवे च मयोभवे च नमः शंकराय च
मयस्कराय च नमः शिवाय च शिवतराय च
नमस्तीर्थ्याय च कूल्याय च नमः पार्याय
चावार्याय च नमः प्रतरणाय चोत्तरणाय च
नम आतार्याय चालाद्याय च नमः शष्प्याय
च फेन्याय च नमः सिकत्याय च प्रवाह्याय च ॥
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृता"त् ॥
ॐ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा
भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु ॥
ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे । 
तान् यज्ञस्य मायया सर्वानव यजामहे । 
मृत्यवे स्वाहा मृत्यवे स्वाहा ॥ ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि । 
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः । 
तेनान्नेना"प्यायस्व ॥६॥ 
नमो रुद्राय विष्णवे मृत्युर्मे पाहि । सदाशिवोम् ॥
ॐ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे
कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च
मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च
मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च
मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च
मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म
ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च
मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च
मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥
ॐ इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि
शंसिषद्विश्वेदेवाः सूक्तवाचः
पृथिवीमातर्मा मा हिंसीर्मधु मनिष्ये मधु
जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं
देवेभ्यो वाचमुद्यासं शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॥ 
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥
अश्वपूर्वां रथमध्यां हस्तिना।"दप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा।" देवी जुषताम् ॥३॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । 
पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । 
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । 
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् ॥८॥
गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥
कर्दमेन प्रजाभूतामयि सम्भव कर्दम । 
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥
आपः सृजन्तु स्निग्धानि चिक्लीत वसमे गृहे । 
निच देवीं मातरं श्रियं वासय मे कुले ॥१२॥
आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥
आर्द्रां यः करिणीं यष्टिं पिङ्गलां पद्ममालिनीम् । 
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान् विन्देयं पुरुषानहम् ॥१५॥
महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॥
ॐ जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥१॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गां देवीं शरणमहं प्रपद्ये सुतरसितरसे नमः ॥२॥
अग्ने त्वं पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा ।
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥३॥
विश्वानि नो दुर्गहा जातवेदस्सिन्धुन्ननावा दुरिताऽतिपर्षि ।
अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोद्ध्यविता तनूनाम् ॥४॥
पृतनाजितं सहमानमुग्रमग्निं हुवेम परमाथ्सधस्थात् ।
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निः ॥५॥
प्रत्नोषिकमीड्यो अध्वरेषु सनाच होता नव्यश्च सथ्सि ।
स्वाञ्चा।"ग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥६॥
गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसञ्चरेम ।
नाकस्य पृष्ठमभिसंवसानो वैष्णवीं लोक इहमादयन्ताम् ॥७॥
कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् ॥
ॐ भूर्भुवस्स्अः । अमृताभिषेकोऽस्तु ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः
स्नानाङ्गमाचमनीयमाचमनीयं समर्पयामि ॥
वस्त्रयुग्मम् ॐ सप्तास्यासन् परिधयः । त्रिस्सप्त समिधः कृताः । 
देवा यद्यज्ञ।म् तन्वानाः । अबध्नन् पुरुष।म् पशुम् ।
भाष्यभागीरथीपाथः पवित्रीकृतभूतल ।
भाष्यप्रवचनासक्त वस्त्रयुग्मं ददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः वस्त्रयुग्मं समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः आचमनीयमाचमनीयं समर्पयामि ॥

N/A

References : N/A
Last Updated : October 23, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP