संस्कृत सूची|पूजा विधीः|आदिशङ्कराचार्यपूजाविधिः| मङ्गलनीराजनम्, रक्षाधारणम् आदिशङ्कराचार्यपूजाविधिः आचम्य आसनविधिः कलशार्चनम् शंखपूजा श्रीमहागणपति पूजा अथ नामपूजा आत्मपूजा द्वारदेवता पूजा पीठपूजा अभिषेकः श्रीगन्धम्, अक्षतम् भस्मोद्धूलनम् अथ पत्रपूजा , पुष्पपूजा धूपम्, दीपम् नैवेद्यम्, ताम्बूलम् मङ्गलनीराजनम्, रक्षाधारणम् प्रसन्नार्घ्यम्, प्रार्थना पुनः पूजा आदिशङ्कराचार्यपूजाविधिः - मङ्गलनीराजनम्, रक्षाधारणम् श्रीशङ्करभगवत्पाद पूजाविधिः Tags : poojasanskritshankaracharyavidhiपूजाविधीशंकराचार्यसंस्कृत मङ्गलनीराजनम्, रक्षाधारणम् Translation - भाषांतर ॐ वेदाहमेतम् पुरुषम् महान्तम । आदित्यवर्णम् तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते ॥ सोमो वा एतस्य राज्यमादत्ते । यो राजा सन्राज्यो वा सोमेन यजते । देवसुवामेतानि हवीषि भवन्ति । एतावन्तो वै देवानां सवाः । तएवास्मै सवान् प्रयcछन्ति । त एनं पुनस्सुवन्ते राज्याय । देवसू राजा भवति ॥ साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठिकं राज्यं महाराज्यमाधिपत्यम् ॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ प्रस्थानत्रयीभाष्यनिर्माणैक विशारद । अज्ञानतिमिरोत्सारिन् पश्य नीराजनप्रभाम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः दिव्यमङ्गलनीराजनं दर्शयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः नीराजनानन्तरं आचमनीयमाचमनीयं समर्पयामि । आचमनानन्तरं परिमलपत्रपुष्पाणि समर्पयामि ॥ रक्षाधारणम् ॐ बृहत् साम क्षत्त्रभृद्वृद्धवृष्णियं त्रिष्टुभौजश्शुभितमुग्रवीरम् । इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः रक्षां धारयामि ॥ N/A References : N/A Last Updated : October 23, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP