संस्कृत सूची|पूजा विधीः|आदिशङ्कराचार्यपूजाविधिः| पीठपूजा आदिशङ्कराचार्यपूजाविधिः आचम्य आसनविधिः कलशार्चनम् शंखपूजा श्रीमहागणपति पूजा अथ नामपूजा आत्मपूजा द्वारदेवता पूजा पीठपूजा अभिषेकः श्रीगन्धम्, अक्षतम् भस्मोद्धूलनम् अथ पत्रपूजा , पुष्पपूजा धूपम्, दीपम् नैवेद्यम्, ताम्बूलम् मङ्गलनीराजनम्, रक्षाधारणम् प्रसन्नार्घ्यम्, प्रार्थना पुनः पूजा आदिशङ्कराचार्यपूजाविधिः - पीठपूजा श्रीशङ्करभगवत्पाद पूजाविधिः Tags : poojasanskritshankaracharyavidhiपूजाविधीशंकराचार्यसंस्कृत पीठपूजा Translation - भाषांतर ॐ आधारशक्त्यै नमः । ॐ मूलप्रकृत्यै नमः । ॐ आदिकूर्माय नमः । ॐ वराहाय नमः । ॐ अनन्ताय नमः । ॐ अष्टदिग्गजेभ्यो नमः । ॐ क्षीरार्णवाय नमः । ॐ श्वेतद्ईपाय नमः । ॐ कल्पवृक्षाय नमः । ॐ सुवर्णमण्टपाय नमः । ॐ सं सत्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः । ॐ वह्निमण्डलाय नमः । ॐ सूर्यमण्डलाय नमः । ॐ सोममण्डलाय नमः । ॐ ह्रीं ज्ञानात्मने नमः । ॐ चतुर्दशलोकेभ्यो नमः । ॐ सप्तसागरेभ्यो नमः । ॐ अङ्कुराय नमः । ॐ नाळाय नमः । ॐ पत्रेभ्यो नमः । ॐ केसरेभ्यो नमः । ॐ दलेभ्यो नमः ॥ ध्यानम् कैलासाचलमध्यस्थं कामिताभीष्टदायकम् । ब्रह्मादिप्रार्थनाप्राप्त दिव्यमानुषविग्रहम् ॥ भक्तानुग्रहणैकान्त शान्त स्वान्त समुज्ज्वलम् । सर्वज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥ किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् । ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥ चिन्मुद्रां दक्षहस्ते प्रणतजनमहाबोधदात्रीं दधानम् । वामे नम्रेष्टदान प्रकटनचतुरं चिह्नमप्यादधानम् ॥ कारुण्यापारवार्धिं यतिवरवपुषं शङ्करं शङ्करांशम् । चन्द्राहङ्कारहुङ्कृत् स्मितलसितमुखं भावयाम्यन्तरङ्गे ॥ अस्मिन् बिंबमध्ये श्रीशङ्करभगवत्पादाचार्यस्वामिनं ध्यायामि ॥ आवाहनम् ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥ सद्गुरो शङ्कराचार्य रूपान्तरितविग्रह । साक्षाcछ्रीदक्षिणामूर्ते कृपयाऽऽवाहितो भव ॥ अस्मिन् बिंबमध्ये श्रीशङ्करभगवत्पादाचार्यस्वामिनं आवाहयामि ॥ आसनम् ॐ पुरुष एवेदम सर्वं यद्भूतं यच भव्यम । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ आर्याम्बा गर्भसम्भूत मातृवात्सल्यभाजन । जगद्गुरुददाम्येतद्रत्नसिंहासनं शुभम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः रत्नसिंहासनं समर्पयामि ॥ पाद्यम् ॐ एतावानस्य महिमा अतो ज्यायांश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ विद्यधिराजसत्पौत्र विद्याव्यासङ्गतत्पर । विश्वविख्यात वैदुष्य पाद्यमेतद्ददाम्यहम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः पादारविन्दयोः पाद्यं पाद्यं समर्पयामि ॥ अर्घ्यम् ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादो।"ऽस्येहाभवात्पुनः । ततो विश्wअं व्यक्रामत् साशनानशने अभि ॥ शिवगुर्वन्वयाम्बोधि शरत्पर्वनिशाकर । शिवावतार भगवन् गृहाणार्घ्यं नमोऽस्तुते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः हस्तयोः अर्घ्यमर्घ्यं समर्पयामि ॥ आचमनम् तस्मा।"द्विराडजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ दरिद्रब्राह्मणीसद्म स्वर्णामलकवर्षक । विस्मापकस्वात्मवृत्त ददाम्याचमनीयकम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः मुखारविन्दे आचमनीयमाचमनीयं समर्पयामि ॥ ॥ मधुपर्कम् ॥ ॐ मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । मधुमक्तमुतोषसि मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः । माध्ईर्गावो भवन्तु नः ॥ जननीसमनुज्ञात सन्यासाश्रमसङ्ग्रह । गन्धर्वशापशमन मधुपर्कं ददामि ते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः मधुपर्कं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः आचमनीयमाचमनीयं समर्पयामि ॥ ॥ स्नानम् ॥ ॐ यत्पुरुषेण हविषां देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्य । ग्रीष्म इध्मश्शरद्धविः ॥ ॐ आपो हि ष्ठा मयोभुवस्तान ऊर्जे दधातन । महेरणाय चक्षसे । यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः । तस्मा अरङ्ग मामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः मलापकर्षणस्नानं समर्पयामि ॥ ॐ आप्यायस्व समेतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥ ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः भवे भवे नाति भवे भवस्व मां भवोद्भवाय नमः ॥ कामधेनोस्समुद्भूतं देवर्षिपितृतृप्तिदम् । पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः क्षीरस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभिनो मुखा करत्प्रण अयूंषि तारिषत् ॥ ॐ वामदेवाय नमो । ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमस्सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥ चन्द्रमण्डलसङ्काशं सर्वदेवप्रियं दधि । स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः दधिस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ शुक्रमसि ज्योतिरसि तेजोऽसि देवो वस्सवितोत्पुनात्वcछिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः ॥ ॐ अघोरे । भ्योऽथ घोरे । भ्यो घोरघोरतरेभ्यः । सर्वेभ्यस्सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ आज्यं सुराणामाहारः आज्यं यज्ञे प्रतिष्ठितम् । आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः आज्यस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । मधुमक्तमुतोषसि मधुमत्पार्थिवमं रजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः । माध्wईर्गावो भवन्तु नः ॥ ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥ सर्वौषधिसमुत्पन्नं पीयूषसदृशं मधु । स्नानार्थं ते प्रयछामि गृहाण परमेश्वर ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः मधुस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्रा । "य सुहवी । "तु नाम्ने । स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमां अदाभ्यः ॥ ॐ ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानां ब्रह्माऽधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ॥ इक्षुदण्दसमुद्भूत दिव्यशर्करया गुरुम् । स्नपयामि सदा भक्त्या प्रीतो भव महेश्वर ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शर्करास्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीं । बृहस्पति प्रसूतास्तानो मुंचंत्वं हसः ॥ फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् । तस्मादस्याभिषेकेण सफलास्युर्मनोरथाः ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः नारिके फलोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ गोविन्दभगवत्पाद पादसेवादुरन्धर । महावाक्योपदेशाढ्य स्नाहि पञ्चामृतद्रवैः ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः फलपञ्चामृतस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ ओषधयः सम्वदन्ते सोमेन सहराज्ञा।" । यस्मै करोति ब्राह्मणस्तं राजन् पारयामसि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः ओषधिस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः गन्धोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ आयनेते परायणे दूर्वा रोहन्तु पुष्पिणीं । ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः पुष्पोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ उपास्मै गायता नरः पवमानायेन्दवे । अभिदेवां इयक्षते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः अक्षतोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ तथ्सुवर्णं हिरण्यमभवत् । तथ्सुवर्णस्य हिरण्यस्य जन्म । य एवं सुवर्णस्य हिरण्यस्य जन्म वेद । सुवर्ण आत्मना भवति ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः सुवर्णोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृता।"त् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः रुद्राक्षोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ मा नस्तोके तनये मान आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मानो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः भस्मस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः बिल्वोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ काण्डा।"त्काण्डात्प्ररोहन्ती परुषः परुषः परि । एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः दूर्वोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ ॐ आपो हि ष्ठा मयोभुवस्तान ऊर्जे दधातन । महेरणाय चक्षसे । यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः । तस्मा अरङ्ग मामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं समर्पयामि ॥ N/A References : N/A Last Updated : October 23, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP