धनुर्वेदसंहिता - अथ श्रमक्रिया

शिवधनुर्वेदः


क्रियाकलापान्वक्ष्यामि श्रमसाध्याञ्शुचिष्मताम्
येषां विज्ञानमात्रेण सिद्धिर्भवति नान्यथा ॥११४॥

प्रथमं चापमारोप्य चूलिकां बन्धयेत्ततः
स्थानकं तु ततः कृत्वा बाणोपरि करं न्यसेत् ॥११५॥

तुलनं धनुषश्चैव कर्तव्यं वामपाणिना
आदानं च ततः कृत्वा संधानं च ततः परम् ॥११६॥

सकृदाकृष्टचापेन भूमिवेधं तु कारयेत्
नमस्कुर्याच्छिवं विघ्नराजं गुरुधनुःशरान् ॥११७॥

याचितव्या गुरोराज्ञा बाणस्याकर्षणं प्रति
प्राणवायुं प्रयत्नेन बाणेन सह पूरयेत् ॥११८॥

कुम्भकेन स्थिरं कृत्वा हुंकारेण विसर्जयेत्
इत्यभ्यासक्रिया कार्या धन्विना सिद्धिमिच्छता ॥११९॥

षण्मासात्सिद्ध्यते मुष्टिः शराः संवत्सरेण तु
नाराचास्तस्य सिद्धयन्ति यस्य तुष्टो महेश्वरः ॥१२०॥

पुष्पवद्धारयेद्बाणं सर्पवत्पीडयेद्धनुः
धनवच्चिन्तयेल्लक्ष्यं यदीच्छेत्सिद्धिमात्मनः ॥१२१॥

क्रियामिच्छन्ति आचार्या दूरमिच्छन्ति भार्गवाः
राजानो दृष्टिमिच्छन्ति लक्ष्यमिच्छन्ति चेतरे ॥१२२॥

जनानां रञ्जनं येन लक्ष्यघातात्प्रजायते
हीनेनापीषुणा तस्मात्प्रशस्तं लक्ष्यवेधनम् ॥१२३॥

विशाखस्थानके स्थित्वा समसंधानमाचरेत्
गोपुच्छम्नुखबाणेन सिंहकर्ण्या च मुष्टिना ॥१२४॥

आकर्षेत्कैशिकव्याये न शिखां चालयेत्ततः
पूर्वापरौ समौ कार्यौ समांसौ निश्चलौ करौ ॥१२५॥

चक्षुषी स्पन्दयेन्नैव दृष्टिं लक्ष्ये नियोजयेत्
मुष्टिनाच्छादितं लक्ष्यं शरस्याग्रे नियोजयेत् ॥१२६॥

मनो दृष्टिगतं ज्ञात्वा ततः काण्डं विसर्जयेत्
स्खलत्येवं कदाचिन्न लक्ष्ये योधो जितश्रमः ॥१२७॥

आदानं चैव तूणीरात्संधानं कर्षणं तथा
क्षेपणं च त्वरायुक्तो बाणस्य कुरुते तु यः
नित्याभ्यासवशात्तस्य शीघ्रसंधानता भवेत् ॥१२८॥

प्रत्यालीढे कृते स्थाने अधःसंधानमाचरेत्
मुष्ट्या पताकया बाणं स्त्रीचिह्नं दूरपातनम् ॥१२९॥

दर्दुरक्रममास्थाय ऊर्ध्वसंधानमाचरेत्
स्कन्धव्यायेन वज्रस्य मुष्ट्या पुंमार्गणेन च
अत्यन्तसौष्ठवाद्वाह्वोर्जायते दृढवेधिता ॥१३०॥

सूचीमुखा मीनपुच्छा भ्रमरी च तृतीयका
शराणां गतयस्तिस्रः प्रशस्ताः कथिता बुधैः ॥१३१॥

सूचीमुखगतिस्तस्य सायकस्य प्रजायते
पत्रं विलोमितं यस्य अथवा हीनपत्रकम् ॥१३२॥

कर्कशेन तु चापेन यः कृष्टो हीनमुष्टिना
मत्स्यपुच्छा गतिस्तस्य सायकस्य प्रकीर्तिता ॥१३३॥

भ्रमरी कथिता ह्येषा विद्वद्भिः श्रमकर्मणि
ऋजुत्वेन विना याति क्षेप्यमाणस्तु सायकः ॥१३४॥

वामगा दक्षगा चैव ऊर्ध्वगाधोगमा तथा
चतस्रो गतयः प्रोक्ता बाणस्खलनहेतवः ॥१३५॥

कम्पते गुणमुष्टिस्तु मार्गणस्य हि पृष्ठतः
संमुखी स्याद्धनुर्मुष्ठिस्तदा वामे गतिर्भवेत् ॥१३६॥

ग्रहणं शिथिलं यस्य ऋजुत्वेन विसर्जितम्
पार्श्वं तु दक्षिणं याति सायकस्य न संशयः ॥१३७॥

ऊर्ध्वं याति चापमुष्टिर्गुणमुष्टिरधो भवेत्
स मुक्तो मागणो लक्ष्याद्दूरं याति न संशयः ॥१३८॥

मोक्षणे चैव बाणस्य चापमुष्टिरधो भवेत्
गुणमुष्टिर्भवेदूर्ध्वं तदाधोगामिनी गतिः ॥१३९॥

लक्ष्यबाणाग्रदृष्टीनां संगतिस्तु यदा भवेत्
तदानीमुज्झितो बाणो लक्ष्यान्न स्खलति ध्रुवम् ॥१४०॥

निर्दोषः शब्दहीनश्च सममुष्टिद्वयोज्झितः
भिनत्ति दृढवेध्यानि सायको नास्ति संशयः ॥१४१॥

स्वाकृष्टस्तेजितो यश्च सुशुद्धो गाढमुक्तितः
नरनागाश्वकायेषु न स तिष्ठति मार्गणः ॥१४२॥

यस्य तृणसमा बाणा यस्येन्धनसमं धनुः
यस्य प्राणसमा मौर्वी स धन्वी धन्विनां वरः ॥१४३॥

अयश्चर्म घतश्चैव मृत्पिण्डं च चतुष्टयम्
यो भिनत्ति हि तस्येषुर्वज्रेणापि न धारय्ते ॥१४४॥

सार्धाङ्गुलप्रमाणेन लोहपात्राणि कारयेत्
तानि भित्त्वैकबाणेन दृढघाती भवेन्नरः ॥१४५॥

चतुर्विंशतिचर्माणि भिनत्त्येकेषुणा नरः
तस्य बाणो गजेन्द्रस्य कायं निर्भिद्य गच्छति ॥१४६॥

भ्राम्यञ्जले घटो वेद्ध्यश्चक्रे मृत्पिण्डकं तथा
भ्रमन्तं वेधयेद्यस्तु दृढभेदी स उच्यते ॥१४७॥

अयस्तु काकतुण्डेन चर्म आरामुखेन हि
मृत्पिण्डं च घटं चैव विध्येत्सूचिमुखेन हि ॥१४८॥

बाणभङ्गं करावर्तं काष्ठच्छेदनमेव च
बिन्दुकं गोलकयुगं यो वेत्ति स जयी भवेत् ॥१४९॥

लक्ष्यस्थाने धृतं काण्डं ससुखं छेदयेत्ततः
किंचिन्मुष्टिं विधाय स्वां तिर्यग्विफलिकेषुणा ॥१५०॥

संमुखं वा समायान्तं तिर्यक्छायं तमम्बरे
शरं शरेण यश्छिन्द्याद्बाणच्छेदी स जायते ॥१५१॥

काष्ठेऽश्वकेशं संयम्य तत्र बद्ध्वा वराटिकाम्
हस्तेन भ्राम्यमाणां च यो हन्ति स धनुर्धरः ॥१५२॥

लक्ष्यस्थाने न्यसेत्काष्ठं सार्द्रं गोपुच्छसंनिभम्
यश्छिन्द्यात्तं क्षुरप्रेण काष्ठच्छेत्ता स जायते ॥१५३॥

लक्ष्ये बिन्दुं न्यसेच्छुभ्रं शुभ्रबन्धूकपुष्पवत्
हन्ति तं बिन्दुकं यस्तु चित्रयोधी स जायते ॥१५४॥

काष्ठगोलयुगं क्षिप्तं दूरमूर्ध्वपुरःस्थितिः
अप्राप्तधारं पृष्ठेन गच्छेत्पुच्छमुखेन हि ॥१५५॥

यो हन्ति शरयुग्मेन शीघ्रसंधानयोगतः
स स्याद्धनुर्भृतां श्रेष्ठः पूजितः सर्वपार्थिवैः ॥१५६॥

रथस्थेन गजस्थेन हयस्थेन च पत्तिना
धावता वै श्रमः कार्यो लक्ष्यं हन्तुं सुनिश्चितम् ॥१५७॥

लक्ष्यस्थाने न्यसेत्कांस्यपात्रं हस्तद्वयान्तरे
ताडयेच्छर्कराभिस्तच्छब्दः संजायते यथा ॥१५८॥

यत्रैवोत्पद्यते शब्दस्तं सम्यक्तत्र चिन्तये
कर्णेन्द्रियमनोयोगाल्लक्ष्यंनिश्चयतां नयेत् ॥१५९॥

पुनः शर्करया तच्च ताडयेच्छब्दहेतवे
पुनर्निश्चयतां नेयं शब्दस्थानानुसारतः ॥१६०॥

ततः किंचित्कृतं दूरे नित्यं नित्यं विधानतः
लक्ष्यं समभ्यसेद्ध्वान्ते शब्दव्यधनहेतवे ॥१६१॥

ततोअ बाणेन हन्यात्तदवधानेन तीक्ष्णधीः
एतच्च दुष्करं कर्म भाग्यैः कस्यापि सिद्धयति ॥१६२॥

एवं श्रमविधिं कुर्याद्यावत्सिद्धिः प्रजायते
श्रमे सिद्धे च वर्षासु नैव ग्राह्यं धनुः करे ॥१६३॥

पूर्वाभ्यासस्य शस्त्राणामविस्मरणहेतवे
मासद्वयं श्रमं कुर्यात्प्रतिवर्षं शरदृतौ ॥१६४॥

जाते वाश्वयुजे मासि नकमीदेवतादिने
पूजयेदीश्वरं चण्डीं गुरुं शस्त्राणि वाजिनः ॥१६५

विप्रेभ्यो दक्षिणां दत्त्वा कुमारी भोजयेत्ततः
देव्यै पशुवलिं दत्त्वा हृष्टो वादित्रमङ्गलैः ॥१६६॥

ततस्तु साधयेन्मन्त्रान्वेदोक्तांश्चागमोदितान्
अस्त्राणां कर्मसिद्ध्यर्थं जपहोमविधानतः ॥१६७॥

ब्राह्मं नारायणं शैवमैन्द्रं वायव्यवारुणे
आग्नेयं चापरास्त्राणि गुरुदत्तानि साधयेत् ॥१६८॥

मनोवाक्कर्मभिर्भाव्यं लब्धास्त्रेण शुचिष्मता
अपात्रमसमर्थं च घ्नत्यस्त्राणि कुपूरुषम् ॥१६९॥

प्रयोगं चोपसंहारं यो वेत्ति स धनुर्धरः
सामान्ये कर्मणि प्राज्ञो नैवास्त्राणि प्रयोजयेत् ॥१७०॥

हस्तार्के लाङ्गलीकन्दं गृहित्वा तस्य लेपतः
शूरस्यापि रणे पुंसो दर्पं हरति सत्वरः ॥१७१॥

गृहीतं योगनक्षत्रैरपामार्गस्य मूलकम्
लेपमात्रेण वीराणां सर्वशस्त्रनिवारणम् ॥१७२॥

अधःपुस्पी शङ्खपुष्पी लज्जालुर्गिरिकर्णिका
नीलिनी सहदेवा च पुत्रमार्जारिका तथा ॥१७३॥

विष्णुक्रान्ता च सर्वासां जटा ग्राह्या रवेर्दिने
बद्धा भुजे विलेपाद्वा काये शस्त्रौघवारिका ॥१७४॥

सर्पव्याघ्रादिसत्त्वानां भूतादीनां न जायते
भितिस्तस्य स्थिता यस्य मातरोऽष्टौ शरीरके ॥१७५॥

गृहीतं हस्तनक्षत्रे चूर्णं छुच्छुन्दरीभवम्
तत्प्रभावाद्गजः पुंसः संमुखो नैति निश्चितम् ॥१७६॥

छुच्छुन्दरी श्रीफलपुष्पचूर्णैरालिप्तगात्रस्य नरस्य दूरात्
आघ्राय गन्धं द्विरदोऽतिमत्तो मदं त्यजेत्केसरिणो यथोग्रम् ॥१७७॥

श्वेताद्रिकर्णिकामूलं पाणिस्थं वारयेद्गजम्
श्वेतकण्टारिकामूलं व्याघ्रादीनां भयं हरेत् ॥१७८॥

पुष्यार्कोत्पाटिते मूले पाठाया मुखसंस्थिते
देहे स्फुटति नो तीक्ष्णं मण्डलाग्रं रणे नृणाम् ॥१७९॥

गन्धार्या उत्तरं मूलं मुखस्थं संमुखागतम्
शस्त्रौघं वारयत्येव पुष्यार्के विधिना धृतम् ॥१८०॥

शुभ्रायाः शरपुङ्खाया जटानीलीजटाथवा
भुजे शिरसि वक्त्रे वा स्थिता शस्त्रनिवारिका
भूपाहिचौरभीतिघ्नी गृहीता पुष्यभास्करे ॥१८१॥

प्रथमं क्रियते स्नानं शुक्लवस्त्रावृतो भवेत्
मङ्गल्यगीतसंयुक्तो देवविप्रांश्च पूजयेत् ॥१८२॥

क्षेत्रपालस्य नाम्ना च बलिं दद्याद्दिशो दश
शस्त्राणि चापि संपूज्य रक्षामन्त्रं स्मरेत्ततः ॥१८३॥

ॐ शूलेन पाहि नो देवि पाहि खङ्गेन चाम्बिके
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥१८४॥

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥१८५॥

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ॥१८६॥

खङ्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥१८७॥

दिव्यौषधीनां लेपं च रक्षाबन्धं च कारयेत्
किंचिद्भुक्त्वा च पीत्वा च ततः संनाहमाचरेत् ॥१८८॥

सेनापतिं गजारोहानन्यांश्च सुभटांस्तथा
मुख्यानन्यानपि धनैर्वस्त्रैश्च परितोषयेत् ॥१८९॥

पूर्वं सारथिमारोप्य रथे सज्जेत्ततः स्वयम्
योजयेद्वाजिनः शुद्धान्सुसंतुष्टाञ्जितश्रमान् ॥१९०॥

रथे च धारयेद्भद्रं कार्मुकाणां चतुष्टयम्
चतुःशतानि बाणानां तूणीरे च प्रयोजयेत् ॥१९१॥

खङ्गं चर्म गदां शक्तिं परिघं मुद्गरं तथा
नाराचं परशुं कुन्तं पट्टिशादींश्च धारयेत् ॥१९२॥

न रथा न गजा यस्य सोऽश्वमेव समारुहेत्
कटिबद्धैकतूणीरः खङ्गशक्तिधनुर्युतः ॥१९३॥

ततोर्जुनस्य नामानि विष्णुस्मरणपूर्वकम्
जपेत्ततः प्रतिष्ठेत चतुरङ्गबलैर्युतः ॥१९४॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥१९५॥

अर्जुनः फाल्गुनः पार्थः किरीटी श्वेतवाहनः
बीभत्सुर्विजयी कृष्णः सव्यसाची धनंजयः ॥१९६॥  

स्वं तथा स्वरवस्विन्दुनेत्रैरक्षौहिणी मता
अक्षौहिण्यां संप्रदिष्टा रथानां वर्मधारिणाम्
संख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥१९७॥

उपर्यष्टौ शतान्याहुस्तथा भूयश्च सप्ततिः
गजानां तु परीमाणमेतदेव विनिर्दिशेत् ॥१९८॥

ज्ञेयं लक्षं पदातीनां सहस्राणि तथा नव
शतानि त्रीणि पञ्चाशच्छूराणां शस्त्रधारिणाम् ॥१९९॥

पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च
दशोत्तराणि षट् प्राहुः संख्यातत्त्वविदो जनाः ॥२००॥

स्वद्वयं निधिवेदाक्षिचन्द्राक्ष्यग्निहिमांशुभिः
महाक्षौहिणिका प्रोक्ता संख्या गणितकोविदैः ॥२०१॥

कोटयस्त्रयोदश प्रोक्ता लक्षाणामेकविंशतिः
चतुर्विंशत्सहस्राणि तथा नवशतानि च ॥२०२॥

महाक्षौहिणिकां प्राहुरिमां तत्त्वविदो जनाः
महाक्षौहिणिकायां तु रथाः कोटिमिताः स्मृताः
सप्तत्रिंशच्च लक्षाणि गीयन्ते तत्त्वव्हेदिभिः ॥२०३॥

द्वादशैव सहस्राणि चत्वार्येव शतानि च
प्रोक्तानि नवतिस्तद्वदेवमेव मतंगजाः ॥२०४॥

अश्वाश्चतुष्कोटिमिता लक्षाण्येकादशैव च
सप्तत्रिंशत्सहस्राणि तथा शतचतुष्टयम् ॥२०५॥

सप्ततिश्चैव संख्याताः प्रोच्यन्ते पत्तयस्ततः
षट्कोटयोऽशीतिलक्षाणि पञ्चाधिकमितानि च ॥२०६॥

द्विषष्टि च सहस्राणि तथा शतचतुष्टयम्
पञ्चाशदिति संख्याता महाक्षौहिणिका बुधैः ॥२०७॥

मुखे रथा गजाः पृष्ठे तत्पृष्ठे च पदातयः
पार्श्वयोश्च हयाः कार्या व्यूहस्यायं विधिः स्मृतः ॥२०८॥

अर्धचन्द्रं च चक्रं च शकटं मकरं तथा
कमलं श्रेणिकां गुल्मं व्यूहानेवं प्रकल्पयेत् ॥२०९॥

ये राजपुत्राः सामन्ता आप्ताः सेवकजातयः॥
तान्सर्वानात्मनः पार्श्वे रक्षायै स्थापयेन्नृपः ॥२१०॥

यस्मिन्कुले यः पुरुषः प्रधानः स सर्वयत्नेन हि रक्षणीयः
तस्मिन्विनष्टे किल सारभूते न नाभिभङ्गे ह्यरका वहन्ति ॥२११॥

क्षत्रसारभृतं शूरं शस्त्रज्ञमनुराजि चेत्
अपि स्वल्पं श्रिये सैन्यं वृथेयं मुण्डमण्डली ॥२१२॥

अपि पञ्चशतं शूरा मृद्नन्ति महतीं चमूम्
अथवा पञ्च षट् सप्त विजयन्तेऽनिवर्तिनः ॥२१३॥

धनुःसंगतिसंशुद्धा वाजिनो मुखदुर्बलाः
आकर्णपलिता योधाः संग्रामे जयवादिनः ॥२१४॥

परस्परानुरक्ता ये योधाः शार्ङ्गधनुर्धराः
युद्धज्ञास्तुरगारूढास्ते जयन्ति रणे रिपून् ॥२१५॥

एकः कापुरुषो दीर्णो दारयेन्महतीं चमूम्
तं दीर्णमनु दीर्यन्ते योधाः शूरतमा अपि ॥२१६॥

दुर्निवारतरा चैव प्रभग्ना महती चमूः
अपामिव महावेगत्रस्ता मृगगणा इव ॥२१७॥

यस्तु भग्नेषु सनियेषु विद्रुतेषु निवर्तते
पदे पदेऽश्वमेधस्य लभते फलमक्षयम् ॥२१८॥

द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ
परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः ॥२१९॥

यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः
अक्षयं लभते लोकं यदि क्लीबं न भाषते ॥२२०॥

मूर्छितं नैव विकलं नाशस्त्रं नान्ययोधिनम्
पलायमानं शरणं गतं चैव न हिंसयेत् ॥२२१॥

भीरुः पलायमानोऽपि नान्वेष्टव्यो बलीयसा
कदाचिच्छूरतां याति मरणे कृतनिश्चयः ॥२२२॥

संभृत्य महतीं सेनां चतुरङ्गां महीपतिः
व्यूहयित्वाग्रतः शूरान्स्थापयेज्जयलिप्सया ॥२२३॥

अल्पायां वा महत्यां वा सेनायामिति निश्चयः
हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥२२४॥

अन्वेतं वायवो यान्ति पृष्ठे भानुर्वयांसि च
अनुप्लवन्ते मेघाश्च यस्य तस्य रणे जयः ॥२२५॥

अपूर्णे नैव मर्तव्यं संपूर्णे नैव जीवति
तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी ॥२२६

जिते लक्ष्मीर्मृते स्वर्गः कीर्तिश्च धरणीतले
तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी ॥२२७॥

एतम् शिवधनुर्वेदस्य भगवतो व्यासस्य च

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP