शिवधनुर्वेदः - अथ फलपायनम्

शिवधनुर्वेदः


फलस्य पायनं वक्ष्ये दिव्यौषधिविलेपनैः
येन दुर्भेद्यवर्माणि भेदयेत्तरुपर्णवत् ॥६८॥

पिप्पली सैन्धवं कुष्ठं गोमूत्रेण तु पेषयेत्
अनेन लेपयेच्छस्त्रं लिप्तं चाग्नौ प्रतापयेत् ॥६९॥

अविशीतमनाविद्धं पीतनष्टं तथौषधम्
ततो निर्वापितं तैले लोहं तत्र विशिष्यते ॥७०॥

पञ्चभिर्लवणैः पिष्टैर्मधुसिक्तैः ससर्षपैः
एभिः प्रलेपयेच्छस्त्रं लिप्तं चाग्नौ प्रतापयेत् ॥७१॥

शिखिग्रीवानुवर्णाभं तप्तपीतं तथौषधम्
ततस्तु विमलं तोयं पाययेच्छस्त्रमुत्तमम् ॥७२॥

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP