शिवधनुर्वेदः - अथ शरलक्षणानि

शिवधनुर्वेदः


अतः परं प्रवक्ष्यामि शराणां लक्षणं शुभम्
स्थूलं न चातिसूक्ष्मं च न पक्वं न कुभूमिजम्
हीनग्रन्थिविदीर्णं च वर्जयेदीदृशं शरम् ॥५४॥

पूर्णग्रन्थि सुपक्वं च पाण्डुरं समयाहृतम्
कठिनं वर्तुलं काण्डं गृह्णीयात्सुप्रदेशजम् ॥५५॥

द्वौ हस्तौ मुष्टिहीनौ तु दैर्घ्ये स्थौल्ये कनिष्ठिका
विधेया शरमानेषु यन्त्रेष्वाकर्षेयेत्ततः ॥५६॥

कङ्हंसशशादानां मत्स्यादक्रौञ्चकेकिनाम्
गृध्राणां कुक्कुटानां च पक्षा एतेषु शोभनाः ॥५७॥

एकैकस्य शरस्यैव चतुष्पक्षाणि योजयेत्
षडङ्गुलप्रमाणेन पक्षच्छेदं च कारयेत् ॥५८॥

दशाङ्गुलमिताः पक्षाः शार्ङ्गचापस्य मार्गणे
योज्या दृढाश्चतुःसंख्याः संनद्धाः स्नायुतन्तुभिः ॥५९॥

शराश्च त्रिविधा ज्ञेयाः स्त्री पुमांश्च नपुंसकः
अग्रे स्थूलो भवेन्नारी पश्चात्स्थूलो भवेत्पुमान् ॥६०॥

समं नपुंसकं ज्ञेयं तल्लक्ष्यार्थं प्रशस्यते
दूरापातं युवत्या च पुरुषो भेदयेद्दृढम् ॥६१॥

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP