शिवधनुर्वेदः - अथ अथानध्यायः

शिवधनुर्वेदः


अष्टमी च अमावास्या वर्जनीया चतुर्दशी
पूर्णिमार्धदिनं यावन्निषिद्धा सर्वकर्मसु ॥११०॥

अकाले गर्जिने देवे दुर्दिनं वाथवा भवेत्
पूर्वकाण्डहतं लक्ष्यमनध्यायं प्रचक्षते ॥१११॥

श्रमं च कुर्वतस्तत्र भुजंगो यदि दृश्यते
अथवा भज्यते चापं यदैव श्रमकर्मणि ॥११२॥

त्रुट्यते वा गुणो यत्र प्रथमे बाणमोक्षणे
श्रमं तत्र न कुर्वीत शस्त्रे मतिमतां वरः ॥११३॥

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP